महादेव कृत दुर्गा स्तोत्रम् - श्री दुर्गा कवचम्
Mahadeva Kruta Durga Stotram - Shree Durga Kavacham
महादेव
उवाच
रक्ष
रक्ष
महादेवि
दुर्गे
दुर्गतिनाशिनि
।
मां
भक्तमनुरक्तं
च
शत्रुग्रस्ते
कृपामयि
।।
१५
।।
विष्णुमाये
महाभागे
नारायणि
सनातनि
।
ब्रह्मस्वरूपे
परमे
नित्यानन्दस्वरूपिणि
।।
१६
।।
त्वं
च
ब्रह्मादिदेवानामम्बिके
जगदम्बिके
।
त्वं
संहारे
च
गुणतो
निराकारे
च
निर्गुणात्
।।
१७
।।
मायया
पुरुषस्त्वं
च
मायया
प्रकृतिः
स्वयम्
।
तयोः
परं
ब्रह्म
परं
त्वं
बिभर्षि
सनातनि
।।
१८
।।
वेदानां
जननी
त्वं
च
सावित्री
च
परात्परा
।
वैकुण्ठे
च
महालक्ष्मीः
सर्वमंपत्स्वरूपिणी
।।
१९
।।
मर्त्यलक्ष्मीश्च
क्षीरोदे
कामिनी
शेषशायिनः
।
स्वर्गेषु
स्वर्गलक्ष्मीस्त्वं
राजलक्ष्मीश्च
भूतले
।।
२०
।।
नागादिलक्ष्मीः
पाताले
गृहेषु
गृहदेवता
।
सर्वसस्यस्वरूपा
त्वं
सर्वैश्वर्यविधायिनी
।।
२१
।।
रागाधिष्ठातृदेवी
त्वं
ब्रह्मणश्च
सरस्वती
।
प्राणानामधिदेपी
त्वं
कृष्णस्य
परमात्मनः
।।
२२
।।
गोलोके
च
स्वयं
राधा
श्रीकृष्णस्यैव
वक्षसि
।
गोलोकाधिष्ठिता
देवी
दृन्दा
दृन्दावने
वने
।।
२३
।।
श्रीरासमण्डले
रम्या
वृन्दावनविनोदिनी
।
शतशृङ्गाधिदेवी
त्वं
नाम्ना
चित्रावलीति
च
।।
२४
।।
दक्षकन्या
कुत्रकल्पे
कुत्रकल्पे
च
शैलजा
।
देवमाताऽदितिस्त्वं
च
सर्वाधारा
वसुंधरा
।।
२५
।।
त्वमेव
गङ्गा
तुलसी
त्वं
च
स्वाहा
सती
।
त्वदंशांशांशकलया
सर्वदेवादियोषितः
।।
२६
।।
स्त्रीरूपं
चातिपुंरूपं
देवि
त्वं
च
नपुंसकम्
।
वृक्षाणां
वृङरूपा
त्वं
सृष्टा
चाङ्कुररूपिणी
।।
२७
।।
वह्नौ
च
दाहिका
शक्तिर्जले
शैत्यस्वरूपिणी
।
सूर्ये
तेजः
स्वरूपा
च
प्रभारूपा
च
संततम्
।।
२८
।।
गन्धरूपा
च
भूमौ
च
आकाशे
शब्दरूपिणी
।
शोभास्वरूपा
चन्द्रे
च
पद्मसंघे
च
निश्चितम्
।।
२९
।।
सृष्टौ
सृष्टिस्वरूपा
च
पालने
परिपालिका
।
महामारी
च
संहारे
जले
च
जलरूपिणी
।।
३०
।।
क्षुत्तवं
दया
त्वं
निद्रा
त्वं
तृष्णा
त्वं
बुद्धिरूपिणी
।
तुष्टिस्त्वं
चापि
पुष्टिस्त्वं
श्रद्धास्त्वं
च
क्षमा
स्वयम्
।।
३१
।।
शान्तिस्त्वं
च
स्वयं
भ्रान्तिः
कान्तिस्तवं
कीर्तिरेव
च
।
लज्जा
त्वं
च
तथा
माया
भुक्ति-सुक्तिस्वरूपिणी
।।
३२
।।
सर्वशक्तिस्वरूपा
त्वं
सर्वसंबत्प्रदायिनी
।
वेदेऽनिर्वचनीया
त्वं
त्वां
न
जानाति
कश्चन
।।
३३
।।
सहस्र
वक्त्रस्त्वां
स्तोतुं
न
च
शक्तः
सुरेश्वरि
।
वेदा
न
शक्ताः
को
विद्वान्न
च
शक्ता
सरस्वती
।।
३४
।।
स्वयं
विधाता
शक्तो
न
न
च
विष्णुः
मनातनः
।
किं
स्तौमि
पञ्चवक्त्रैस्तु
रणत्रस्तो
महेश्वरि
।।
३५
।।
कृपां
कुरु
महामाये
मम
शत्रुक्षयं
कुरु
।
इत्युक्त्वा
च
सकरुणं
रथस्थे
पतिते
रणे
।।
३६
।।
आविर्बभूव
सा
दुर्गा
सूर्यकोटिसमप्रभा
।
नारायणेन
कृपया
प्रेरिता
परमात्मना
।।
३७
।।
शिवस्य
पुरतः
शीघ्रं
शिवाय
च
जयाय
च
।
इत्युवाच
महादेवी
मायाशक्त्याऽसुरं
जहि
।।
३८
।।
दुर्गोवाच
वरं
वृणीष्व
भद्रं
ते
यत्ते
मनसि
वाञ्छितम्
।
भवान्वरः
सुराणां
च
जयं
तुभ्यं
ददाम्यहम्
।।
३९
।।
महादेव
उवाच
क्षयो
भवतु
दैत्यस्य
इति
मे
वरमीश्वरी
।
देहीति
वाञ्छितं
दुर्गे
परमाद्ये
मलातनि
।।
४०
।।
भगवत्युवाच
हरिं
स्मर
महाभागा
जय
दैत्यं
जगद्गुरुः
।
स्वयं
विधाता
भगवांस्त्वमेव
ज्योतिरीश्वरः
।।
४१
।।
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.