विद्यासागरमाधवाख्यसुयतिं सन्मार्गसन्दर्षिनम्
भक्त्या माधवसुप्रसन्नगुरुणा सन्यासप्राप्तं गुरुम्
द्यानासक्तरमापतिप्रियतमे सर्वस्वसंस्थापितम्
वन्देमाधवतीर्थसागरगुरुं विद्याधिपाख्यायिनम् ॥ 1 ॥
Vraja Loka Astro Spiritual Center Sri Bhavi Samira Vadiraja Munyantargata Sri BharatiRamana MukhyaPraanaantargata Shree Krishno Vijayate Vraja Loka does not conduct online coaching or consultation. Beware of fraud and imitations. - Mata Di
विद्यासागरमाधवाख्यसुयतिं सन्मार्गसन्दर्षिनम्
भक्त्या माधवसुप्रसन्नगुरुणा सन्यासप्राप्तं गुरुम्
द्यानासक्तरमापतिप्रियतमे सर्वस्वसंस्थापितम्
वन्देमाधवतीर्थसागरगुरुं विद्याधिपाख्यायिनम् ॥ 1 ॥
हे कृष्ण पापसंहर्त: पापक्षयकरॊत्त्विति ।
क्षमस्व परमात्मेति प्रार्थयामि सदाहृदि ॥
यत्र यॊगेष्वर: कृष्णॊ महामाया तथैव च ।
धर्मश्च ऋषयस्तत्र मोक्षस्तत्र न संशय: ॥
श्री गुरवे नम: परमगुरवे नम: श्री राघवेन्द्राय नम: श्री गुरुसार्वभौमाय नम:
श्री यतिसार्वभौमाय नम: योगाधिपाय नम: योगीन्द्राय नम: योगेन्द्राय नम:
योगेश्वराय नम: भक्ताय नम: भक्तशिरोमणिने नम: भक्तवत्सलाय नम:
यतिब्रह्मणे नम: निगर्विणे नम: मातृवात्सल्याय नम: पितृवात्सल्याय नम:
गुरुभक्ताय नम: परमहरिभक्ताय नम: तुङ्गासूनवे नम: तुङ्गोद्धारकाय नम:
मञ्चालसूनवे नम: मञ्चालपुरवासिने नम: परमदयालवे नम: कृपासागराय नम:
कृपासिन्धवे नम: करुणाभरणाय नम: म्लेच्चोद्धाराय नम: सर्वभूतदयालवॆ नम:
परमदयसिन्धवे नम: त्रिकालज्ञानिने नम: त्रिलोकाग्रभक्ताय नम: नृसिंहप्रियाय नम:
श्री भारतीरमणाय नम:
मम प्राणो कुत्रास्तीति चिञ्तितं मयि यत्तदा
तव प्राण: कथं भवेदित्युक्त्वा हसितं त्वया ।
तवैव दत्तं वरमात्रमेतत्
दतापहारं किमत: किमर्थम् ।
स्वीकर्तुमिच्छा मम दॆह मूर्तिना
तवागतं चेत् किं वा करॊमि ॥
श्री भारतीरमणमुख्यप्राणान्तर्गत श्री कृष्णो विजयते ॥
॥ श्रीव्रजलोक: ॥
यत्र यॊगेष्वर: कृष्णॊ महामाया तथैव च ।
धर्मश्च ऋषयस्तत्र मोक्षस्तत्र न संशय: ॥ 1 ||
ग्रहान्तर्गतश्रीकृष्णस्तुति
रविशान्तिमन्त्रम्
दूरादेव हि सर्वदोषदहनं हङ्कार पार्श्वं गतम् ।
जीवाज्जीवितसारसंग्रहकरं पर्जन्यवत् विसृजन् ॥
कर्मण्येव हि मोक्षसाधनमतं कर्माद्धि बोधे रतम् ।
आदित्यं भज ब्रह्मण: प्रियवरं ब्रह्मांडद्यौमंडले ॥ 2 ||
चन्द्रशान्तिमन्त्रम्
धूमावर्त्मनि साधके रिपु भवन् राजॊगुणाकर्षणम् ।
देवानामपि जीवतोयवितरन् आदित्यभावं चरन् ॥
भूमिभ्रामनिमित्तमात्र करणे सत्त्वोपदेशात्मकम् ।
वंदॆ सुंदरसोम शान्तवदनं पितृदैवतोपासितम् ॥ 3 ||
! भारतीरमणमुख्यप्राणान्तर्गत श्री कृष्णॊ विजयते !
! माता दुर्गापरमेश्र्वरीसन्निधि: !
दुर्गा स्तुतिः
हे दुर्गे दुष्टसंहारे सौभाग्यम् कुरु सर्वदा ।
कृष्णाग्रजे महामाये मम शत्रु क्षयं कुरु ॥ 1 ॥
शतसहस्रस्वर्णाश्वरत्नांकितरथस्थिते ।
कृष्णाग्रजे महादुर्गे सौभाग्यम् कुरु सर्वदा ॥ 2 ॥
श्री कृष्णस्तुति:
श्वासस्तु लब्धं तव कारणेन
त्वमेव मनोजिह्वधीनाम् प्रदाता।
कायस्तु सृष्टं तव स्मारणार्थं
ममेति नास्त्येव कदापि किञ्चित् ॥ 1
आविर्बभूव सा देवी अद्य मायाख्यभाषस्वरा
भेदयित्वा तद्देहं मर्दयत्तस्य स्वामिनम् ।
पादस्पर्शनकामास्ते पैशाचनखहस्तका:
प्रसार्यबाहून् चिरात्स्थिता: तत्स्पर्शनभाग्यक्षुधातुरा: ॥
परं न मिलित्ं तत्पादयुगलम् ।
अहमासम् तत्र भीतोत्सुका ।
यदि कर्षन्ति तत्पादयुगलम् ।
खलास्ते स्वभावाजन्मनिजन्मनि ॥
मध्ये स्वरवर्णमन्त्रतन्त्रलोपदोष प्रायश्चितार्थम् नाम त्रय जपमहं करिष्ये
श्री अच्युताय नमः अनन्ताय नमः गोविन्दाय नमः
कृष्णाग्रपूजा
Why is Krishna always to be worshiped as the Supreme ?
नक्रोम्यहमद्य तवाग्रपूजाम्
कर्तुं न पारयामीति लेशेण बहुला ॥
तवैव अवतारपुरुषोऽयमिति मत्वा
स्तानान्तरं मूर्ते: करणीयमभवत् ॥
दु:खातिरेकेण बहुभारहृदयात्
पूजा कृताद्य मयान्यमनसा ।
परन्तु कृष्णोऽस्ति निजभक्तवत्सल:
पूजाविधिमार्गान्तरमदर्शयामास ॥