प्रकृतिरुवाच।।
अहं
प्रकृतिरीशाना सर्वेशा
सर्वरूपिणी ।।
सर्वशक्तिस्वरूपा
च मया च शक्तिमज्जगत् ।। ७७
।।
त्वया
सृष्टा न स्वतन्त्रा त्वमेव
जगतां पतिः ।।
गतिश्च
पाता स्रष्टा च संहर्त्ता च
पुनर्विधिः ।। ७८ ।।
स्रष्टुं
स्रष्टा च संहर्तुं संहर्ता
वेधसा विधिः ।।
परमानन्दरूपं
त्वां वन्दे चानन्दपूर्वकम्
।।
चक्षुर्निमेषकाले
च ब्रह्मणः पतनं भवेत् ।। ७९
।।
तस्य
प्रभावमतुलं वर्णितुं कः
क्षमो विभो ।।
भ्रूभङ्गलीलामात्रेण
विष्णुकोटिं सृजेत्तु यः ।।
1.3.८०
।।
चराचरांश्च
विश्वेषु देवान्ब्रह्मपुरोगमान्
।।
मद्विधाः
कति वा देवीः स्रष्टुं शक्तश्च
लीलया ।। ८१ ।।
परिपूर्णतमं
स्वीड्यं वन्दे चानन्दपूर्वकम्
।।
महान्विराड्
यत्कलांशो विश्वसंख्याश्रयो
विभो ।।
वन्दे
चानन्दपूर्वं तं परमात्मानमीश्वरम्
।। ८२ ।।
यं
च स्तोतुमशक्ताश्च ब्रह्मविष्णुशिवादयः
।।
वेदा
अहं च वाणी च वन्दे तं प्रकृतेः
परम् ।। ८३ ।।
वेदाश्च
विदुषां श्रेष्ठाः स्तोतुं
शक्ताश्च न क्षमाः ।।
निर्लक्ष्यं
कः क्षमः स्तोतुं तं निरीहं
नमाम्यहम् ।। ८४ ।।
इत्येवमुक्त्वा
सा दुर्गा रत्नसिंहासने वरे
।।
उवास
नत्वा श्रीकृष्णं तुष्टुवुस्तां
सुरेश्वराः ।।८५।।
इति
दुर्गाकृतं स्तोत्रं कृष्णस्य
परमात्मनः ।।
यः
पठेदर्च्चनाकाले स जयी सर्वतः
सुखी।। ८६ ।।
दुर्गा
तस्य गृहं त्यक्त्वा नैव याति
कदाचन ।।
भवाब्धौ
यशसा भाति यात्यन्ते श्रीहरेः
पुरम् ।। ८७ ।।
इति
श्रीब्रह्मवैवर्त्ते महापुराणे
ब्रह्मखण्डे सौतिशौनकसंवादे
सृष्टिनिरूपणे दुर्गास्तोत्रं नाम तृतीयोऽध्यायः ।। ३ ।।