ब्रह्मकृतं श्रीकृष्णस्तोत्रम्
।।
ब्रह्मोवाच ।। ।।
कृष्णं
वन्दे गुणातीतं गोविन्दमेकमक्षरम्
।।
अव्यक्तमव्ययं
व्यक्तं गोपवेषविधायिनम्
।। ३५ ।।
किशोरवयसं
शान्तं गोपीकान्तं मनोहरम्
।।
नवीननीरदश्यामं
कोटिकन्दर्पसुन्दरम्।।३६।।
वृन्दावनवनाभ्यर्णे
रासमण्डलसंस्थितम् ।।
रासेश्वरं
रासवासं रासोल्लाससमुत्सुकम्।।३७।।
इत्येवमुक्त्वा
तं नत्वा रत्नसिंहासने वरम्
।।
नारायणेशौ
संभाष्य स उवास तदाज्ञया ।।
३८ ।।
इति
ब्रह्मकृतं स्तोत्रं प्रातरुत्थाय
यः पठेत्।।
पापानि
तस्य नश्यन्ति दुःस्वप्नः
सुस्वप्नो भवेत् ।। ३९ ।।
भक्तिर्भवति
गोविन्दे श्रीपुत्रपौत्रवर्द्धिनी
।।
अकीर्तिः
क्षयमाप्नोति सत्कीर्त्तिर्वर्द्धते
चिरम् ।। 1.3.४०
।।
इति
ब्रह्मवैवर्त्ते ब्रह्मकृतं
श्रीकृष्णस्तोत्रम् ।।
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.