The greatness of Krishna Devotees - Vraja Loka Astro Spiritual Center

The greatness of Krishna Devotees  As described in Srimad Bhagavatham  Vraja Loka Astro SPiitual Center     .. Shri Ganeshaya Namah.. .. ॐ S...

Tuesday, January 21, 2025

ब्राह्मणप्रशंसा - Sudarshana Chakra and devotees

 110 Krishna images ideas | krishna images, krishna, lord krishna images


गुरुवक्त्राद्विष्णुमंत्रो यस्य कर्णे प्रविश्यति।।
तं वैष्णवं महापूतं जीवन्मुक्तं वदेद्विधिः।।४१।।
पुंसां मातामहादीनां शतैः सार्द्धं हरेः पदम्।।
प्रयाति वैष्णवः पुंसामात्मनः कुलकोटिभिः।।४२।।
ब्रह्मक्षत्त्रियविट्शूद्राश्चतस्रो जातयो यथा ।।
स्वतन्त्रा जातिरेका च विश्वस्मिन्वैष्णवाभिधा ।। ४३।।
ध्यायन्ति वैष्णवाः शश्वद्गोविन्दपदपङ्कजम्।।
ध्यायते तांश्च गोविन्दः शश्वत्तेषां च सन्निधौ।।४४।।
सुदर्शनं संनियोज्य भक्तानां रक्षणाय च।।
तथापि न हि निश्चिन्तोऽवतिष्ठेद्भक्तसन्निधौ।।४५।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे विष्णुवैष्णवब्राह्मणप्रशंसा नामैकादशोऽध्यायः।।११।।

How Sudharshana is designated to protect the devotees who observe Ekadashi fast and chant the holy names of Lord Krishna.

Why Sudarshana ? Lord Krishna is not happy leaving his devotees under Sudarshana Chakra alone, so He Himself is always with such devotees. 

 

ಸುದರ್ಶನ ಚಕ್ರವು ಶ್ರೀಕೃಷ್ಣನ ಭಕ್ತರನ್ನು ಅಥವಾ ವೈಷ್ಣವರನ್ನು ಯಾವಾಗಲೂ ನಿರಂತರವಾಗಿ ರಕ್ಷಿಸಲು ಗೊತ್ತುಪಡಿಸಲಾಗಿದೆ.

ಅಷ್ಟೇ ಏಕೆ? ಪರಮಾತ್ಮ ಕೃಷ್ಣನು ಇದರಿಂದ ಮಾತ್ರ ತೃಪ್ತನಾಗುವುದಿಲ್ಲ. ಭಕ್ತರು ಸುರಕ್ಷಿತವಾಗಿರುವುದನ್ನು ಮತ್ತು ಅವರ ಭಕ್ತಿ ಎಂದಿಗೂ ಅಲುಗಾಡದಂತೆ ನೋಡಿಕೊಳ್ಳಲು ಅವನು ಯಾವಾಗಲೂ ಅವರೊಂದಿಗಿರುತ್ತಾನೆ.



Greatness and holiness of the Brahmanas

37 Krishna images ideas | krishna images, lord krishna hd wallpaper, cute  krishna 

Brahmana Sampradaya 

 

 

 

Greatness and holiness of the Brahmanas


ब्राह्मणेभ्यो नम इति प्रातरुत्थाय यः पठेत्।।
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः।।२५।।
पृथिव्यां यानि तीर्थानि तानि तीर्थानि सागरे ।।
सागरे यानि तीर्थानि विप्रपादेषु तानि च।।२६।।
विप्रपादोदकं पीत्वा यावत्तिष्ठति मेदिनी ।।
तावत्पुष्करपात्रेषु पिबंति पितरो जलम् ।।२७।।
विप्रपादोदकं पुण्यं भक्तियुक्तश्च यः पिबेत् ।।
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः।।२८।।
महारोगी यदि पिबेद्विप्रपादोदकं द्विज।।
मुच्यते सर्वरोगाच्च मासमेकं तु भक्तितः।।२९।।
अविद्यो वा सविद्यो वा संध्यापूतो हि यो द्विजः।।
स एव विष्णुसदृशो न हरौ विमुखो यदि ।। 1.11.३०।।
घ्नन्तं विप्रं शपन्तं वा न हन्यान्न च तं शपेत्।
गोभ्यः शतगुणं पूज्यो हरिभक्तश्च स स्मृतः।।३१।।
पादोदकं च नैवेद्यं भुङ्क्ते विप्रस्य यो द्विज।।
नित्यं नैवेद्यभोजी यो राजसूयफलं लभेत्।।३२।।
एकादश्यां न भुङ्क्ते यो नित्यं कृष्णं समर्चयेत्।।
तस्य पादोदकं प्राप्य स्थलं तीर्थं भवेद् ध्रुवम्।। ३३।।
यो भुङ्क्ते भोजनोच्छिष्टं नित्यं नैवेद्यभोजनम्।।
कृष्णदेवस्य पूतोऽसौ जीवन्मुक्तो महीतले।।३४।।


kalyana mitra – kali bhaya nashaka





 Kalki Avatar slaying demons by FridolinFroehlich on DeviantArt

kalyana mitra – kali bhaya nashaka

शौनक उवाच।।
द्विजः स भार्य्यां संत्यज्य किञ्चकार विशेषतः।।
अश्विनोर्वा महाभाग किं नाम कस्य वंशजौ।।१।।
सोतिरुवाच।।
द्विजश्च सुतपा नाम भारद्वाजो महामुनिः।।
तपश्चकार कृष्णस्य लक्षवर्षं हिमालिये।।२।।

महातपस्वी तेजस्वी प्रज्वलन्ब्रह्मतेजसा।।
ज्योतिर्ददर्श कृष्णस्य गगने सहसा क्षणम्।।३।।
वरं स वव्रे निर्लिप्तमात्मानं प्रकृतेः परम्।।
न च मोक्षं ययाचे तं दास्यं भक्तिं च निश्चलाम् ।।४।।
बभूवाकाशवाणीति कुरु दारपरिग्रहम्।।
पश्चाद्दास्यं प्रदास्यामि भक्तिं भोगक्षये द्विज।।५।।
पितॄणां मानसीं कन्यां ददौ तस्मै विधिः स्वयम्।।
तस्यां कल्याणमित्रश्च बभूव मुनिपुङ्गव।।६।।
यस्य स्मरणमात्रेण न भवेत्कुलिशाद्भयम्।।
न द्रष्टव्यं बन्धुमात्रं नूनं तत्स्मरणाल्लभेत्।।७।। 

 

 


नागभयनिवारणस्तोत्रम् - Naga Bhaya Nivarana Stotram

23 Kaaliya Narthana ideas | lord krishna images, krishna art, krishna  painting

 

 

 

 

 नागभयनिवारणस्तोत्रम्

अनन्तं वासुकिं चैव कालीयं च धनञ्जयम् ।।
कर्कोटकं तक्षकं च पद्ममैरावतं तथा ।। ३९ ।।
महापद्मं च शंकुं च शंखं संवरणं तथा ।।
धृतराष्ट्रं च दुर्द्धर्षं दुर्जयं दुर्मुखं बलम् ।। 1.9.४० ।।
गोक्षं गोकार्मुकं चैव विरूपादींश्च शौनक ।।
न तेषां प्रवराश्चैव यावत्यः सर्पजातयः ।। ४१ ।।
कन्यका मनसा देवी कमलांशसमुद्भवा ।।
तपस्विनीनां प्रवरा महातेजस्विनी शुभा ।। ४२ ।।
यत्पतिश्च जरत्कारुर्नारायणकुलोद्भवः ।।
आस्तीकस्तनयो यस्या विष्णुतुल्यश्च तेजसा ।। ४३ ।।
एतेषां नाममात्रेण नास्ति नागभयं नृणाम् ।।



 

By the mere changing of the names of these Nagas, all the venomous snakes become pleased and never bother us.


सूर्यकृता ब्राह्मणस्तुति: - Surya kruta brahmana stuti

Are Shri Krishna and Lord MahaVishnu Different?

 

 सूर्यकृता ब्राह्मणस्तुति:

सूर्य्य उवाच।।
क्षमस्व भगवन्विप्र विष्णुरूप युगे युगे ।।
मम पुत्रापराधं च भारद्वाज मुनीश्वर ।।१२।।
ब्रह्मविष्णुमहेशाद्याः सुराः सर्वे च सन्ततम्।।
भुञ्जते विप्रदत्तं तु फलपुष्पजलादिकम्।।१३।।
ब्राह्मणावाहिता देवाः शश्वद्विश्वेषु पूजिताः।।
न च विप्रात्परो देवो विप्ररूपी स्वयं हरिः।।१४।।
ब्राह्मणे परितुष्टे च तुष्टो नारायणः स्वयम्।।
नारायणे च सन्तुष्टे सन्तुष्टाः सर्वदेवताः।।१५।।
नास्ति गङ्गासमं तीर्थं न च कृष्णात्परः सुरः।।
न शङ्कराद्वैष्णवश्च न सहिष्णुर्धरा परा।।१६।।
न च सत्यात्परो धर्मो न साध्वी पार्वतीपरा।।
न दैवाद्बलवान्कश्चिन्न च पुत्रात्परः प्रियः ।।१७।।
न च व्याधिसमः शत्रुर्न च पूज्यो गुरोः परः।।
नास्ति मातृसमो बन्धुर्न च मित्रं पितुः परम्।। १८।।
एकादशीव्रतान्नान्यत्तपो नानशनात्परम् ।।
परं सर्वधनं रत्नं विद्या रत्नं परं ततः ।।१९।।
सर्वाश्रमैः परो विप्रो नास्ति विप्रसमो गुरुः।।
वेदवेदाङ्गतत्त्वज्ञ इत्याह कमलोद्भवः।। 1.11.२०।।
सूर्य्यस्य वचनं श्रुत्वा भारद्वाजो ननाम तम्।।
नीरुजौ चापि तत्पुत्रौ चकार तपसः फलात्।। २१।।

पश्चाच्च तव पुत्रौ च यज्ञभाजौ भविष्यतः।।
इत्युक्त्वा तं च सुतपाः प्रणम्याहस्करं मुनिः।। २२।।
जगाम गङ्गां संत्रस्तो हरिसेवनतत्परः।।
पुत्राभ्यां सहितः सूर्य्यो जगाम निज मन्दिरम्।। २३।।
बभूवतुस्तौ पूज्यौ च यज्ञभाजौ द्विजाशिषा।।
एतत्सूर्यकृतं विप्रस्तोत्रं यो मानवः पठेत्।।
विप्रपादप्रसादेन सर्वत्र विजयी भवेत् ।।२४।।


Surya kruta brahmana stuti- 

Lord Surya prays to a pious Brahman. This stuti is done by Lord Surya for rescuing his 2 sons from the curse of Brahman.