The greatness of Krishna Devotees - Vraja Loka Astro Spiritual Center

The greatness of Krishna Devotees  As described in Srimad Bhagavatham  Vraja Loka Astro SPiitual Center     .. Shri Ganeshaya Namah.. .. ॐ S...

Tuesday, January 21, 2025

Greatness and holiness of the Brahmanas

37 Krishna images ideas | krishna images, lord krishna hd wallpaper, cute  krishna 

Brahmana Sampradaya 

 

 

 

Greatness and holiness of the Brahmanas


ब्राह्मणेभ्यो नम इति प्रातरुत्थाय यः पठेत्।।
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः।।२५।।
पृथिव्यां यानि तीर्थानि तानि तीर्थानि सागरे ।।
सागरे यानि तीर्थानि विप्रपादेषु तानि च।।२६।।
विप्रपादोदकं पीत्वा यावत्तिष्ठति मेदिनी ।।
तावत्पुष्करपात्रेषु पिबंति पितरो जलम् ।।२७।।
विप्रपादोदकं पुण्यं भक्तियुक्तश्च यः पिबेत् ।।
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः।।२८।।
महारोगी यदि पिबेद्विप्रपादोदकं द्विज।।
मुच्यते सर्वरोगाच्च मासमेकं तु भक्तितः।।२९।।
अविद्यो वा सविद्यो वा संध्यापूतो हि यो द्विजः।।
स एव विष्णुसदृशो न हरौ विमुखो यदि ।। 1.11.३०।।
घ्नन्तं विप्रं शपन्तं वा न हन्यान्न च तं शपेत्।
गोभ्यः शतगुणं पूज्यो हरिभक्तश्च स स्मृतः।।३१।।
पादोदकं च नैवेद्यं भुङ्क्ते विप्रस्य यो द्विज।।
नित्यं नैवेद्यभोजी यो राजसूयफलं लभेत्।।३२।।
एकादश्यां न भुङ्क्ते यो नित्यं कृष्णं समर्चयेत्।।
तस्य पादोदकं प्राप्य स्थलं तीर्थं भवेद् ध्रुवम्।। ३३।।
यो भुङ्क्ते भोजनोच्छिष्टं नित्यं नैवेद्यभोजनम्।।
कृष्णदेवस्य पूतोऽसौ जीवन्मुक्तो महीतले।।३४।।


No comments:

Post a Comment

Note: Only a member of this blog may post a comment.