kalyana mitra – kali bhaya nashaka
शौनक
उवाच।।
द्विजः
स भार्य्यां संत्यज्य किञ्चकार
विशेषतः।।
अश्विनोर्वा
महाभाग किं नाम कस्य वंशजौ।।१।।
सोतिरुवाच।।
द्विजश्च
सुतपा नाम भारद्वाजो महामुनिः।।
तपश्चकार
कृष्णस्य लक्षवर्षं हिमालिये।।२।।
महातपस्वी
तेजस्वी प्रज्वलन्ब्रह्मतेजसा।।
ज्योतिर्ददर्श
कृष्णस्य गगने सहसा क्षणम्।।३।।
वरं
स वव्रे निर्लिप्तमात्मानं
प्रकृतेः परम्।।
न
च मोक्षं ययाचे तं दास्यं
भक्तिं च निश्चलाम् ।।४।।
बभूवाकाशवाणीति
कुरु दारपरिग्रहम्।।
पश्चाद्दास्यं
प्रदास्यामि भक्तिं भोगक्षये
द्विज।।५।।
पितॄणां
मानसीं कन्यां ददौ तस्मै विधिः
स्वयम्।।
तस्यां
कल्याणमित्रश्च बभूव
मुनिपुङ्गव।।६।।
यस्य
स्मरणमात्रेण न भवेत्कुलिशाद्भयम्।।
न
द्रष्टव्यं बन्धुमात्रं नूनं
तत्स्मरणाल्लभेत्।।७।।
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.