सूर्यकृता ब्राह्मणस्तुति:
सूर्य्य
उवाच।।
क्षमस्व
भगवन्विप्र विष्णुरूप युगे
युगे ।।
मम
पुत्रापराधं च भारद्वाज
मुनीश्वर ।।१२।।
ब्रह्मविष्णुमहेशाद्याः
सुराः सर्वे च सन्ततम्।।
भुञ्जते
विप्रदत्तं तु फलपुष्पजलादिकम्।।१३।।
ब्राह्मणावाहिता
देवाः शश्वद्विश्वेषु पूजिताः।।
न
च विप्रात्परो देवो विप्ररूपी
स्वयं हरिः।।१४।।
ब्राह्मणे
परितुष्टे च तुष्टो नारायणः
स्वयम्।।
नारायणे
च सन्तुष्टे सन्तुष्टाः
सर्वदेवताः।।१५।।
नास्ति
गङ्गासमं तीर्थं न च कृष्णात्परः
सुरः।।
न
शङ्कराद्वैष्णवश्च न सहिष्णुर्धरा
परा।।१६।।
न
च सत्यात्परो धर्मो न साध्वी
पार्वतीपरा।।
न
दैवाद्बलवान्कश्चिन्न च
पुत्रात्परः प्रियः ।।१७।।
न
च व्याधिसमः शत्रुर्न च पूज्यो
गुरोः परः।।
नास्ति
मातृसमो बन्धुर्न च मित्रं
पितुः परम्।। १८।।
एकादशीव्रतान्नान्यत्तपो
नानशनात्परम् ।।
परं
सर्वधनं रत्नं विद्या रत्नं
परं ततः ।।१९।।
सर्वाश्रमैः
परो विप्रो नास्ति विप्रसमो
गुरुः।।
वेदवेदाङ्गतत्त्वज्ञ
इत्याह कमलोद्भवः।। 1.11.२०।।
सूर्य्यस्य
वचनं श्रुत्वा भारद्वाजो
ननाम तम्।।
नीरुजौ
चापि तत्पुत्रौ चकार तपसः
फलात्।। २१।।
पश्चाच्च
तव पुत्रौ च यज्ञभाजौ भविष्यतः।।
इत्युक्त्वा
तं च सुतपाः प्रणम्याहस्करं
मुनिः।। २२।।
जगाम
गङ्गां संत्रस्तो हरिसेवनतत्परः।।
पुत्राभ्यां
सहितः सूर्य्यो जगाम निज
मन्दिरम्।। २३।।
बभूवतुस्तौ
पूज्यौ च यज्ञभाजौ द्विजाशिषा।।
एतत्सूर्यकृतं
विप्रस्तोत्रं यो मानवः
पठेत्।।
विप्रपादप्रसादेन
सर्वत्र विजयी भवेत् ।।२४।।
Surya kruta brahmana stuti-
Lord Surya prays to a pious Brahman. This stuti is done by Lord Surya for rescuing his 2 sons from the curse of Brahman.
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.