महादेवकृतं श्रीकृष्णस्तोत्रम्
महादेव
उवाच ।।
जयस्वरूपं
जयदं जयेशं जयकारणम् ।।
प्रवरं
जयदानां च वन्दे तमपराजितम्
।। २४ ।।
विश्वं
विश्वेश्वरेशं च विश्वेशं
विश्वकारणम् ।।
विश्वाधारं
च विश्वस्तं विश्वकारणकारणम्
।। २५ ।।
विश्वरक्षाकारणं
च विश्वघ्नं विश्वजं परम् ।।
फलबीजं
फलाधारं फलं च तत्फलप्रदम्
।। २६ ।।
तेजःस्वरूपं
तेजोदं सर्वतेजस्विनां वरम्
।।
इत्येवमुक्त्वा
तं नत्वा रत्नसिंहासने वरे
।।
नारायणं
च संभाष्य स उवास तदाज्ञया
।। २७ ।।
इति
शम्भुकृतं स्तोत्रं यो जनः
संयतः पठेत् ।।
सर्वसिद्धिर्भवेत्तस्य
विजयं च पदे पदे ।। २८ ।।
सन्ततं
वर्द्धते मित्रं धनमैश्वर्य्यमेव
च ।।
शत्रुसैन्यं
क्षयं याति दुःखानि दुरितानि
च ।। २९ ।।
इति
ब्रह्मवैवर्ते शम्भुकृतं
श्रीकृष्णस्तोत्रम् ।।
Lord Shiva Prays to Lord Krishna soon after he was created by Lord Krishna
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.