विद्यासागरमाधवाख्यसुयतिं सन्मार्गसन्दर्षिनम्
भक्त्या माधवसुप्रसन्नगुरुणा सन्यासप्राप्तं गुरुम्
द्यानासक्तरमापतिप्रियतमे सर्वस्वसंस्थापितम्
वन्देमाधवतीर्थसागरगुरुं विद्याधिपाख्यायिनम् ॥ 1 ॥
ध्यायन्तम्हरिनामपूरजनपरं सौम्यं क्षमाभूषितं
अल्पज्ञानविरोधमोहशमनं आदित्यतेजोगुरुम् ।
सूक्ष्मानुग्रहकारकं स्मितमुखं हृष्टाल्पतृप्तं गुरुम्
किञ्चित्सेवितभूरिसङ्कटहरं भक्तार्तदीनोद्धरम् ॥
दैवानुग्रहप्राप्ततीर्थवरदं श्रीरामसंपूजकम्
भक्ताग्रेसरवीरदाशरथये सर्वस्वप्रव्राजकम् ।
शिष्यानां हृदि सर्वदा निवसितं श्रीरामदूताश्रितम्
अर्ताज्ञानविमोचकं कविवरं त्राहीति संप्रार्थये ॥
सन्देहास्पदन्यूनशुभ्रचरितं मध्वादिगुर्वर्चकम्
विद्यावल्लभशिष्यसेवितपदं उद्धर्तकायाचितान् ।
कंबालागरपूर्ववाससुगुणं तंब्याख्यग्रामस्थितम्
शिष्यवृन्दसमूहभक्तिशिलया वृन्दावनालङ्कृतम् ॥
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.