Tuesday, May 6, 2025

दुर्गा स्तुतिः - ! माता दुर्गापरमेश्र्वरीसन्निधि: !

 

! भारतीरमणमुख्यप्राणान्तर्गत श्री कृष्णॊ विजयते !


! माता दुर्गापरमेश्र्वरीसन्निधि: !

दुर्गा स्तुतिः

हे दुर्गे दुष्टसंहारे सौभाग्यम् कुरु सर्वदा

कृष्णाग्रजे महामाये मम शत्रु क्षयं कुरु 1



शतसहस्रस्वर्णाश्वरत्नांकितरथस्थिते

कृष्णाग्रजे महादुर्गे सौभाग्यम् कुरु सर्वदा 2



शाटिकावज्रसंयुक्तं तव वस्त्रं पवित्रकम्

सुवर्णतन्तुसमायातं स्व्वर्णपुश्पभिलग्ङ्कृतम् 3



ग्रस्तसुवर्णरज्जुभिरश्वसिंहासनस्थिता

उग्रसिंहेनग्रस्तास्ते सुवर्णाश्वा: रथे स्थिता: 4



वेणीतन्तुसरूपेण केशॊद्घाटितसुंदरी

तवकेशाग्रस्प्रर्शाद्धि सुगतिप्राप्तमारुत: 5



शाटिका तव सा भारा मारुतेन प्रणमिता

रथावरॊहणॊद्युक्ता पाददर्शकृपाकृता 6



तवपादयुगलं देवी त्रिलोकाभासकारकम्

पवित्रचिन्हरेखायैर्भूषितं सुमंङ्गलम् 7



शिरसि स्थापय तत्पादं ममजन्मवरं कुरु

दुर्गे दुर्गुणसंहारे सौभाग्यम् कुरु सर्वदा 8



षड्वर्गजलसंवृत्तं द्वीपप्रायतु जीवितम्

दुर्गुणाख्यास्तरङ्गास्तु कुर्वन्त्याक्रमणं सदा 9



विषवर्तुलसंसारे ग्रस्ताहं परितापिता

रक्ष रक्ष महामाये सुंदरी कृष्णसॊदरी 10



परिहारं जानामि अहमज्ञा जपक्रमे

रक्ष रक्ष महामाये मम धीं शोधितम् कुरु 11



शारदाया: वाणी त्वं वाग्रूपा उग्ररूपिणी

पातिव्रत्यं तु सत्या त्वं प्रेमाख्या व्रजमण्डलॆ 12





श्रियांशवरसम्भूते गायत्र्याश्शक्तिरूपिणी

मम हृदि समावेत्य पावनं कुरु जीवितं 13



दुर्गापवर्गे कारुण्ये कुबुद्धेर्मार्जनं कुरु

मम ह्रुदि समावेत्य त्राहि मां भवसागरात् 14



तवाप्रतिमसौन्दर्यं अल्पा किं वर्णयाम्यहम् ?

कुरूपां मां रक्षदेवी मार्ताण्डशतभास्वरा 15





वज्रकाये वज्रकान्ते वज्राभा वज्रपादुके

हे दुर्गे दुष्टसंहारे मम शत्रु क्षयं कुरु 16



ममाघश्रुग्ङ्गश्रीणीं त्वं वज्रशूलेन खंडय

पापकूपे पुनर्वृत्तिं जन्मजन्मनि वारय 17



सत्त्वाख्यज्ञानवर्णेन प्रक्षालय रजॊगुणम्

शैलरूपं तमॊवृत्तिं शूलात्खण्डय शूलिनी 18



मम संस्कारशौचत्वं वररूपेण देहिमे

सर्वमायां भेदय त्वं कृपाकुर्वभयङ्करी 19



कृष्णभक्तिं जन्मेस्मिन् संपूर्णं शाश्वतं कुरु

दुर्गापवर्गे हे देवी रक्ष रक्ष मनॊहरी 20



इदं शृणुयान्नित्यं कीर्तनं वा करॊति तव

कृष्णभक्तिं देहि तस्मै हे देवी भक्तवत्सले 21



प्रीता भव जगन्माता अल्पया कृतप्रार्थनात्

श्री कृष्णप्रापकं स्तॊत्रं कृत्वेत्यनुग्रहं कुरु 22



ज्यॊतिष्मती कृतं स्तॊत्रं : पठेत्तव सन्निधौ

तं त्राहि महामाये देहि : कृष्णसन्निधिम् 23 ॥ 

 




No comments:

Post a Comment

Note: Only a member of this blog may post a comment.