Tuesday, May 6, 2025

ग्रहान्तर्गतश्रीकृष्णस्तुति - Nava Graha Shanti Mantras

 


 

श्री भारतीरमणमुख्यप्राणान्तर्गत श्री कृष्णो विजयते

श्रीव्रजलोक:

यत्र यॊगेष्वर: कृष्णॊ महामाया तथैव  

धर्मश्च ऋषयस्तत्र मोक्षस्तत्र संशय: 1 ||

ग्रहान्तर्गतश्रीकृष्णस्तुति

रविशान्तिमन्त्रम्

दूरादेव हि सर्वदोषदहनं हङ्कार पार्श्वं गतम्

जीवाज्जीवितसारसंग्रहकरं पर्जन्यवत् विसृजन्

कर्मण्येव हि मोक्षसाधनमतं कर्माद्धि बोधे रतम्

आदित्यं भज ब्रह्मण: प्रियवरं ब्रह्मांडद्यौमंडले 2 ||

चन्द्रशान्तिमन्त्रम्

धूमावर्त्मनि साधके रिपु भवन् राजॊगुणाकर्षणम्

देवानामपि जीवतोयवितरन् आदित्यभावं चरन्

भूमिभ्रामनिमित्तमात्र करणे सत्त्वोपदेशात्मकम्

वंदॆ सुंदरसोम शान्तवदनं पितृदैवतोपासितम् 3 ||



मंगलशान्तिमन्त्रम्

माङ्गल्यदृढसर्वमङलकरं सौभाग्यदेवो वरम्

शस्त्रास्त्रप्रहरादि कौशल विभुं घासिं संघातकम्

संगीतस्वरनृत्यगानवपुषं धैर्याधिपं क्रोधिनम्

क्लिष्टं दुष्करकर्मकार्यसफलं वन्दे नृसिंहप्रियम् 4 ||







बुधशान्तिमन्त्रम्



वागधिपोऽतिधीमन्तं कौतुकं बहुचञ्चलम्

कार्यदक्षातिवेगेशं सौभाग्यदीधितिवरं

ज्यौतिष्यज्ञानसंपन्नं संशोधनमतिप्रदं

भद्रं सुंदरकायं तं वंदे सोमसुतं बुधं 5 ||





बृहस्पतिशान्तिमन्त्रम्

देवानां सुविवेकबोधनकरं अदॄष्टसंपत्पितम्

दुष्टानामपि पापशेशकलिलं निर्मूलनेत्युत्सुकम्

कुण्डल्याम्यद्यष्टमे स्थितगुरु: मोक्षं भवेन्निश्चयम्

मॊक्षादृष्टकरोबृहस्पतिरमुम् वन्देसुवर्णप्रियम् 6





शुक्रशान्तिमन्त्रम्

भक्तिं राजसितामसीं बहुलां आदर्तुमादेशितम्

भक्तं तं हरिनामकीर्तनपरं आसुर्यभावं गतम्

त्रैलोक्ये सुखभोगसंपदकरं देवासुराणां प्रियम्

ऐश्वर्यप्रियवज्रस्निग्धवपुषं वन्दे शुक्रं ग्रहम् 7 ||





शनिशान्तिमन्त्रम्

वाहितो वायसश्यामं प्राचार्यं क्लिष्टपाठकम्

कपीशमित्रमनघं सर्वग्रहसुपूजितम्

विलंबेन फलप्रदं युववृद्धकलत्रदम्

पापाङ्गलुप्यहर्तारं सूर्यसूनुं नमाम्यहम् 8 ||





राहुशान्तिमन्त्रम्

असत्यसत्यकर्तारं अनित्यं नित्यमेव

अवेद्यं वेद्यकर्तारं गम्यागम्यभ्रान्तिदम्

संभवस्यापहर्तारं दिशद्धरिरिपुभ्रमम्

पाषण्डज्ञानिन: कालो राहुं वन्दे ग्रहोत्तमम् 9 ||





केतुशान्तिमन्त्रम्

अस्तव्यस्तास्थिरूपं तीक्ष्णमत्यभिदायकम्

अनासक्तिं लौकिके आध्यात्मे विपरीतधीम्

वैराग्यभक्तिदातारं स्फटिकाक्षप्रभं वरम्

कैवल्यकारकं केतुं वन्दे प्रव्रजकारिणम् 10 ||





फलश्रुति:

ग्रहाणां कीर्तनस्तोत्रं आर्तो यदि पुनश्चरेत्

शुष्यन्तु पापवार्धय: नश्यन्तु विघ्नवार्धय: 11 ||



ग्रहादेवास्सन्तु सौम्या: भक्तिं यच्छन्तु केशवे

ग्रहान्तर्यामिश्रीकृष्णो प्रसन्नोस्तु कृपाकरो 12 ||

ज्यॊतिष्मती कृतं स्तॊत्रं : पठेत्तव सन्निधौ

तं त्राहि महामायात्द्देहि : तव सन्निधिम् 13 ||



हे कृष्ण पापसंहर्त: पापक्षयं करॊत्त्विति

क्षमस्व परमात्मेति प्रार्थयामस्सदाहृदि 14 ||



यत्र यॊगेष्वर: कृष्णॊ महामाया तथैव

धर्मश्च ऋषयस्तत्र मोक्षस्तत्र संशय: 15 ||





No comments:

Post a Comment

Note: Only a member of this blog may post a comment.