The greatness of Krishna Devotees - Vraja Loka Astro Spiritual Center

The greatness of Krishna Devotees  As described in Srimad Bhagavatham  Vraja Loka Astro SPiitual Center     .. Shri Ganeshaya Namah.. .. ॐ S...

Tuesday, November 19, 2024

shrImadbhAgavataM - dashamaskandhaH uttarArdhaM श्रीमद्भागवतं - दशमस्कन्धः उत्तरार्धम् - Tenth Conto Part 2

 

 

 

 

shrImadbhAgavataM - dashamaskandhaH uttarArdhaM

 श्रीमद्भागवतं - दशमस्कन्धः उत्तरार्धम्

 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ दशमस्कन्धः उत्तरार्धं ॥

 

॥ पञ्चाशत्तमोऽध्यायः - ५० ॥

 

श्रीशुक उवाच

अस्तिः प्राप्तिश्च कंसस्य महिष्यौ भरतर्षभ ।

मृते भर्तरि दुःखार्ते ईयतुः स्म पितुर्गृहान् ॥ १॥

 

पित्रे मगधराजाय जरासन्धाय दुःखिते ।

वेदयाञ्चक्रतुः सर्वमात्मवैधव्यकारणम् ॥ २॥

 

स तदप्रियमाकर्ण्य शोकामर्षयुतो नृप ।

अयादवीं महीं कर्तुं चक्रे परममुद्यमम् ॥ ३॥

 

अक्षौहिणीभिर्विंशत्या तिसृभिश्चापि संवृतः ।

यदुराजधानीं मथुरां न्यरुणत्सर्वतोदिशम् ॥ ४॥

 

निरीक्ष्य तद्बलं कृष्ण उद्वेलमिव सागरम् ।

स्वपुरं तेन संरुद्धं स्वजनं च भयाकुलम् ॥ ५॥

 

चिन्तयामास भगवान् हरिः कारणमानुषः ।

तद्देशकालानुगुणं स्वावतारप्रयोजनम् ॥ ६॥

 

हनिष्यामि बलं ह्येतद्भुवि भारं समाहितम् ।

मागधेन समानीतं वश्यानां सर्वभूभुजाम् ॥ ७॥

 

अक्षौहिणीभिः सङ्ख्यातं भटाश्वरथकुञ्जरैः ।

मागधस्तु न हन्तव्यो भूयः कर्ता बलोद्यमम् ॥ ८॥

 

एतदर्थोऽवतारोऽयं भूभारहरणाय मे ।

संरक्षणाय साधूनां कृतोऽन्येषां वधाय च ॥ ९॥

 

अन्योऽपि धर्मरक्षायै देहः सम्भ्रियते मया ।

विरामायाप्यधर्मस्य काले प्रभवतः क्वचित् ॥ १०॥

 

एवं ध्यायति गोविन्द आकाशात्सूर्यवर्चसौ ।

रथावुपस्थितौ सद्यः ससूतौ सपरिच्छदौ ॥ ११॥

 

आयुधानि च दिव्यानि पुराणानि यदृच्छया ।

दृष्ट्वा तानि हृषीकेशः सङ्कर्षणमथाब्रवीत् ॥ १२॥

 

पश्यार्य व्यसनं प्राप्तं यदूनां त्वावतां प्रभो ।

एष ते रथ आयातो दयितान्यायुधानि च ॥ १३॥

 

यानमास्थाय जह्येतद्व्यसनात्स्वान् समुद्धर ।

एतदर्थं हि नौ जन्म साधूनामीश शर्मकृत् ॥ १४॥

 

त्रयोविंशत्यनीकाख्यं भूमेर्भारमपाकुरु ।

एवं सम्मन्त्र्य दाशार्हौ दंशितौ रथिनौ पुरात् ॥ १५॥

 

निर्जग्मतुः स्वायुधाढ्यौ बलेनाल्पीयसाऽऽवृतौ ।

शङ्खं दध्मौ विनिर्गत्य हरिर्दारुकसारथिः ॥ १६॥

 

ततोऽभूत्परसैन्यानां हृदि वित्रासवेपथुः ।

तावाह मागधो वीक्ष्य हे कृष्ण पुरुषाधम ॥ १७॥

 

न त्वया योद्धुमिच्छामि बालेनैकेन लज्जया ।

गुप्तेन हि त्वया मन्द न योत्स्ये याहि बन्धुहन् ॥ १८॥

 

तव राम यदि श्रद्धा युध्यस्व धैर्यमुद्वह ।

हित्वा वा मच्छरैश्छिन्नं देहं स्वर्याहि मां जहि ॥ १९॥

 

श्रीभगवानुवाच

न वै शूरा विकत्थन्ते दर्शयन्त्येव पौरुषम् ।

न गृह्णीमो वचो राजन्नातुरस्य मुमूर्षतः ॥ २०॥

 

श्रीशुक उवाच

जरासुतस्तावभिसृत्य माधवौ

महाबलौघेन बलीयसाऽऽवृणोत् ।

ससैन्ययानध्वजवाजिसारथी

सूर्यानलौ वायुरिवाभ्ररेणुभिः ॥ २१॥

 

सुपर्णतालध्वजचिह्नितौ रथा-

वलक्षयन्त्यो हरिरामयोर्मृधे ।

स्त्रियः पुराट्टालकहर्म्यगोपुरं

समाश्रिताः सम्मुमुहुः शुचार्दिताः ॥ २२॥

 

हरिः परानीकपयोमुचां मुहुः

शिलीमुखात्युल्बणवर्षपीडितम् ।

स्वसैन्यमालोक्य सुरासुरार्चितं

व्यस्फूर्जयच्छार्ङ्गशरासनोत्तमम् ॥ २३॥

 

गृह्णन् निषङ्गादथ सन्दधच्छरान्

विकृष्य मुञ्चन् शितबाणपूगान् ।

निघ्नन् रथान् कुञ्जरवाजिपत्तीन्

निरन्तरं यद्वदलातचक्रम् ॥ २४॥

 

निर्भिन्नकुम्भाः करिणो निपेतु-

रनेकशोऽश्वाः शरवृक्णकन्धराः ।

रथा हताश्वध्वजसूतनायकाः

पदातयश्छिन्नभुजोरुकन्धराः ॥ २५॥

 

सञ्छिद्यमानद्विपदेभवाजिना-

मङ्ग प्रसूताः शतशोऽसृगापगाः ।

भुजाहयः पूरुषशीर्षकच्छपा

हतद्विपद्वीपहयग्रहाकुलाः ॥ २६॥

 

करोरुमीना नरकेशशैवला

धनुस्तरङ्गायुधगुल्मसङ्कुलाः ।

अच्छूरिकावर्तभयानका महा-

मणिप्रवेकाभरणाश्मशर्कराः ॥ २७॥

 

प्रवर्तिता भीरुभयावहा मृधे

मनस्विनां हर्षकरीः परस्परम् ।

विनिघ्नतारीन् मुसलेन दुर्मदान्

सङ्कर्षणेनापरिमेयतेजसा ॥ २८॥

 

बलं तदङ्गार्णवदुर्गभैरवं

दुरन्तपारं मगधेन्द्रपालितम् ।

क्षयं प्रणीतं वसुदेवपुत्रयो-

र्विक्रीडितं तज्जगदीशयोः परम् ॥ २९॥

 

स्थित्युद्भवान्तं भुवनत्रयस्य यः

समीहतेऽनन्तगुणः स्वलीलया ।

न तस्य चित्रं परपक्षनिग्रह-

स्तथापि मर्त्यानुविधस्य वर्ण्यते ॥ ३०॥

 

जग्राह विरथं रामो जरासन्धं महाबलम् ।

हतानीकावशिष्टासुं सिंहः सिंहमिवौजसा ॥ ३१॥

 

बध्यमानं हतारातिं पाशैर्वारुणमानुषैः ।

वारयामास गोविन्दस्तेन कार्यचिकीर्षया ॥ ३२॥

 

स मुक्तो लोकनाथाभ्यां व्रीडितो वीरसम्मतः ।

तपसे कृतसङ्कल्पो वारितः पथि राजभिः ॥ ३३॥

 

वाक्यैः पवित्रार्थपदैर्नयनैः प्राकृतैरपि ।

स्वकर्मबन्धप्राप्तोऽयं यदुभिस्ते पराभवः ॥ ३४॥

 

हतेषु सर्वानीकेषु नृपो बार्हद्रथस्तदा ।

उपेक्षितो भगवता मगधान् दुर्मना ययौ ॥ ३५॥

 

मुकुन्दोऽप्यक्षतबलो निस्तीर्णारिबलार्णवः ।

विकीर्यमाणः कुसुमैस्त्रिदशैरनुमोदितः ॥ ३६॥

 

माथुरैरुपसङ्गम्य विज्वरैर्मुदितात्मभिः ।

उपगीयमानविजयः सूतमागधवन्दिभिः ॥ ३७॥

 

शङ्खदुन्दुभयो नेदुर्भेरीतूर्याण्यनेकशः ।

वीणावेणुमृदङ्गानि पुरं प्रविशति प्रभौ ॥ ३८॥

 

सिक्तमार्गां हृष्टजनां पताकाभिरलङ्कृताम् ।

निर्घुष्टां ब्रह्मघोषेण कौतुकाबद्धतोरणाम् ॥ ३९॥

 

निचीयमानो नारीभिर्माल्यदध्यक्षताङ्कुरैः ।

निरीक्ष्यमाणः सस्नेहं प्रीत्युत्कलितलोचनैः ॥ ४०॥

 

आयोधनगतं वित्तमनन्तं वीरभूषणम् ।

यदुराजाय तत्सर्वमाहृतं प्रादिशत्प्रभुः ॥ ४१॥

 

एवं सप्तदशकृत्वस्तावत्यक्षौहिणीबलः ।

युयुधे मागधो राजा यदुभिः कृष्णपालितैः ॥ ४२॥

 

अक्षिण्वंस्तद्बलं सर्वं वृष्णयः कृष्णतेजसा ।

हतेषु स्वेष्वनीकेषु त्यक्तोऽयादरिभिर्नृपः ॥ ४३॥

 

अष्टादशमसङ्ग्रामे आगामिनि तदन्तरा ।

नारदप्रेषितो वीरो यवनः प्रत्यदृश्यत ॥ ४४॥

 

रुरोध मथुरामेत्य तिसृभिर्म्लेच्छकोटिभिः ।

नृलोके चाप्रतिद्वन्द्वो वृष्णीन् श्रुत्वाऽऽत्मसम्मितान् ॥ ४५॥

 

तं दृष्ट्वाचिन्तयत्कृष्णः सङ्कर्षणसहायवान् ।

अहो यदूनां वृजिनं प्राप्तं ह्युभयतो महत् ॥ ४६॥

 

यवनोऽयं निरुन्धेऽस्मानद्य तावन्महाबलः ।

मागधोऽप्यद्य वा श्वो वा परश्वो वाऽऽगमिष्यति ॥ ४७॥

 

आवयोर्युध्यतोरस्य यद्यागन्ता जरासुतः ।

बन्धून् वधिष्यत्यथ वा नेष्यते स्वपुरं बली ॥ ४८॥

 

तस्मादद्य विधास्यामो दुर्गं द्विपददुर्गमम् ।

तत्र ज्ञातीन् समाधाय यवनं घातयामहे ॥ ४९॥

 

इति सम्मन्त्र्य भगवान् दुर्गं द्वादशयोजनम् ।

अन्तःसमुद्रे नगरं कृत्स्नाद्भुतमचीकरत् ॥ ५०॥

 

दृश्यते यत्र हि त्वाष्ट्रं विज्ञानं शिल्पनैपुणम् ।

रथ्याचत्वरवीथीभिर्यथावास्तु विनिर्मितम् ॥ ५१॥

 

सुरद्रुमलतोद्यानविचित्रोपवनान्वितम् ।

हेमश‍ृङ्गैर्दिविस्पृग्भिः स्फटिकाट्टालगोपुरैः ॥ ५२॥

 

राजतारकुटैः कोष्ठैर्हेमकुम्भैरलङ्कृतैः ।

रत्नकूटैर्गृहैर्हैमैर्महामारकतस्थलैः ॥ ५३॥

 

वास्तोष्पतीनां च गृहैर्वलभीभिश्च निर्मितम् ।

चातुर्वर्ण्यजनाकीर्णं यदुदेवगृहोल्लसत् ॥ ५४॥

 

सुधर्मां पारिजातं च महेन्द्रः प्राहिणोद्धरेः ।

यत्र चावस्थितो मर्त्यो मर्त्यधर्मैर्न युज्यते ॥ ५५॥

 

श्यामैककर्णान् वरुणो हयान् शुक्लान् मनोजवान् ।

अष्टौ निधिपतिः कोशान् लोकपालो निजोदयान् ॥ ५६॥

 

यद्यद्भगवता दत्तमाधिपत्यं स्वसिद्धये ।

सर्वं प्रत्यर्पयामासुर्हरौ भूमिगते नृप ॥ ५७॥

 

तत्र योगप्रभावेण नीत्वा सर्वजनं हरिः ।

प्रजापालेन रामेण कृष्णः समनुमन्त्रितः ।

निर्जगाम पुरद्वारात्पद्ममाली निरायुधः ॥ ५८॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे उत्तरार्धे दुर्गनिवेशनं नाम पञ्चाशत्तमोऽध्यायः ॥ ५०॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकपञ्चाशत्तमोऽध्यायः - ५१ ॥

 

श्रीशुकौवाच

तं विलोक्य विनिष्क्रान्तमुज्जिहानमिवोडुपम् ।

दर्शनीयतमं श्यामं पीतकौशेयवाससम् ॥ १॥

 

श्रीवत्सवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम् ।

पृथुदीर्घचतुर्बाहुं नवकञ्जारुणेक्षणम् ॥ २॥

 

नित्यप्रमुदितं श्रीमत्सुकपोलं शुचिस्मितम् ।

मुखारविन्दं बिभ्राणं स्फुरन्मकरकुण्डलम् ॥ ३॥

 

वासुदेवो ह्ययमिति पुमान् श्रीवत्सलाञ्छनः ।

चतुर्भुजोऽरविन्दाक्षो वनमाल्यतिसुन्दरः ॥ ४॥

 

लक्षणैर्नारदप्रोक्तैर्नान्यो भवितुमर्हति ।

निरायुधश्चलन् पद्भ्यां योत्स्येऽनेन निरायुधः ॥ ५॥

 

इति निश्चित्य यवनःप्राद्रवन्तं पराङ्मुखम् ।

अन्वधावज्जिघृक्षुस्तं दुरापमपि योगिनाम् ॥ ६॥

 

हस्तप्राप्तमिवात्मानं हरिणा स पदे पदे ।

नीतो दर्शयता दूरं यवनेशोऽद्रिकन्दरम् ॥ ७॥

 

पलायनं यदुकुले जातस्य तव नोचितम् ।

इति क्षिपन्ननुगतो नैनं प्रापाहताशुभः ॥ ८॥

 

एवं क्षिप्तोऽपि भगवान् प्राविशद्गिरिकन्दरम् ।

सोऽपि प्रविष्टस्तत्रान्यं शयानं ददृशे नरम् ॥ ९॥

 

नन्वसौ दूरमानीय शेते मामिह साधुवत् ।

इति मत्वाच्युतं मूढस्तं पदा समताडयत् ॥ १०॥

 

स उत्थाय चिरं सुप्तः शनैरुन्मील्य लोचने ।

दिशो विलोकयन् पार्श्वे तमद्राक्षीदवस्थितम् ॥ ११॥

 

स तावत्तस्य रुष्टस्य दृष्टिपातेन भारत ।

देहजेनाग्निना दग्धो भस्मसादभवत्क्षणात् ॥ १२॥

 

राजोवाच

को नाम स पुमान् ब्रह्मन् कस्य किंवीर्य एव च ।

कस्माद्गुहां गतः शिश्ये किन्तेजो यवनार्दनः ॥ १३॥

 

श्रीशुकौवाच

स इक्ष्वाकुकुले जातो मान्धातृतनयो महान् ।

मुचुकुन्द इति ख्यातो ब्रह्मण्यः सत्यसङ्गरः ॥ १४॥

 

स याचितः सुरगणैरिन्द्राद्यैरात्मरक्षणे ।

असुरेभ्यः परित्रस्तैस्तद्रक्षां सोऽकरोच्चिरम् ॥ १५॥

 

लब्ध्वा गुहं ते स्वःपालं मुचुकुन्दमथाब्रुवन् ।

राजन् विरमतां कृच्छ्राद्भवान्नः परिपालनात् ॥ १६॥

 

नरलोके परित्यज्य राज्यं निहतकण्टकम् ।

अस्मान् पालयतो वीर कामास्ते सर्व उज्झिताः ॥ १७॥

 

सुता महिष्यो भवतो ज्ञातयोऽमात्यमन्त्रिणः ।

प्रजाश्च तुल्यकालीया नाधुना सन्ति कालिताः ॥ १८॥

 

कालो बलीयान् बलिनां भगवानीश्वरोऽव्ययः ।

प्रजाः कालयते क्रीडन् पशुपालो यथा पशून् ॥ १९॥

 

वरं वृणीष्व भद्रं ते ऋते कैवल्यमद्य नः ।

एक एवेश्वरस्तस्य भगवान् विष्णुरव्ययः ॥ २०॥

 

एवमुक्तः स वै देवानभिवन्द्य महायशाः ।

अशयिष्ट गुहाविष्टो निद्रया देवदत्तया ॥ २१॥

 

स्वापं यातं यस्तु मध्ये बोधयेत्त्वात्मचेतनः ।

स त्वया दृष्टमात्रस्तु भस्मीभवतु तत्क्ष्णात् ॥ २२॥

 

यवने भस्मसान्नीते भगवान् सात्वतर्षभः ।

आत्मानं दर्शयामास मुचुकुन्दाय धीमते ॥ २३॥

 

तमालोक्य घनश्यामं पीतकौशेयवाससम् ।

श्रीवत्सवक्षसं भ्राजत्कौस्तुभेन विराजितम् ॥ २४॥

 

चतुर्भुजं रोचमानं वैजयन्त्या च मालया ।

चारुप्रसन्नवदनं स्फुरन्मकरकुण्डलम् ॥ २५॥

 

प्रेक्षणीयं नृलोकस्य सानुरागस्मितेक्षणम् ।

अपीच्यवयसं मत्तमृगेन्द्रोदारविक्रमम् ॥ २६॥

 

पर्यपृच्छन्महाबुद्धिस्तेजसा तस्य धर्षितः ।

शङ्कितः शनकै राजा दुर्धर्षमिव तेजसा ॥ २७॥

 

मुचुकुन्दौवाच

को भवानिह सम्प्राप्तो विपिने गिरिगह्वरे ।

पद्भ्यां पद्मपलाशाभ्यां विचरस्युरुकण्टके ॥ २८॥

 

किंस्वित्तेजस्विनां तेजो भगवान् वा विभावसुः ।

सूर्यः सोमो महेन्द्रो वा लोकपालोऽपरोऽपि वा ॥ २९॥

 

मन्ये त्वां देवदेवानां त्रयाणां पुरुषर्षभम् ।

यद्बाधसे गुहाध्वान्तं प्रदीपः प्रभया यथा ॥ ३०॥

 

शुश्रूषतामव्यलीकमस्माकं नरपुङ्गव ।

स्वजन्म कर्म गोत्रं वा कथ्यतां यदि रोचते ॥ ३१॥

 

वयं तु पुरुषव्याघ्र ऐक्ष्वाकाः क्षत्रबन्धवः ।

मुचुकुन्द इति प्रोक्तो यौवनाश्वात्मजः प्रभो ॥ ३२॥

 

चिरप्रजागरश्रान्तो निद्रयोपहतेन्द्रियः ।

शयेऽस्मिन् विजने कामं केनाप्युत्थापितोऽधुना ॥ ३३॥

 

सोऽपि भस्मीकृतो नूनमात्मीयेनैव पाप्मना ।

अनन्तरं भवान् श्रीमांल्लक्षितोऽमित्रशातनः ॥ ३४॥

 

तेजसा तेऽविषह्येण भूरि द्रष्टुं न शक्नुमः ।

हतौजसो महाभाग माननीयोऽसि देहिनाम् ॥ ३५॥

 

एवं सम्भाषितो राज्ञा भगवान् भूतभावनः ।

प्रत्याह प्रहसन् वाण्या मेघनादगभीरया ॥ ३६॥

 

श्रीभगवानुवाच

जन्मकर्माभिधानानि सन्ति मेऽङ्ग सहस्रशः ।

न शक्यन्तेऽनुसङ्ख्यातुमनन्तत्वान्मयापि हि ॥ ३७॥

 

क्वचिद्रजांसि विममे पार्थिवान्युरुजन्मभिः ।

गुणकर्माभिधानानि न मे जन्मानि कर्हिचित् ॥ ३८॥

 

कालत्रयोपपन्नानि जन्मकर्माणि मे नृप ।

अनुक्रमन्तो नैवान्तं गच्छन्ति परमर्षयः ॥ ३९॥

 

तथाप्यद्यतनान्यङ्ग श‍ृणुष्व गदतो मम ।

विज्ञापितो विरिञ्चेन पुराहं धर्मगुप्तये ।

भूमेर्भारायमाणानामसुराणां क्षयायच ॥ ४०॥

 

अवतीर्णो यदुकुले गृह आनकदुन्दुभेः ।

वदन्ति वासुदेवेति वसुदेवसुतं हि माम् ॥ ४१॥

 

कालनेमिर्हतः कंसः प्रलम्बाद्याश्च सद्द्विषः ।

अयं च यवनो दग्धो राजंस्ते तिग्मचक्षुषा ॥ ४२॥

 

सोऽहं तवानुग्रहार्थं गुहामेतामुपागतः ।

प्रार्थितः प्रचुरं पूर्वं त्वयाहं भक्तवत्सलः ॥ ४३॥

 

वरान् वृणीष्व राजर्षे सर्वान् कामान् ददामि ते ।

मां प्रसन्नो जनः कश्चिन्न भूयोऽर्हति शोचितुम् ॥ ४४॥

 

श्रीशुकौवाच

इत्युक्तस्तं प्रणम्याह मुचुकुन्दो मुदान्वितः ।

ज्ञात्वा नारायणं देवं गर्गवाक्यमनुस्मरन् ॥ ४५॥

 

मुचुकुन्द उवाच

विमोहितोऽयं जन ईशमायया

त्वदीयया त्वां न भजत्यनर्थदृक् ।

सुखाय दुःखप्रभवेषु सज्जते

गृहेषु योषित्पुरुषश्च वञ्चितः ॥ ४६॥

 

लब्ध्वा जनो दुर्लभमत्र मानुषं

कथञ्चिदव्यङ्गमयत्नतोऽनघ ।

पादारविन्दं न भजत्यसन्मति-

र्गृहान्धकूपे पतितो यथा पशुः ॥ ४७॥

 

ममैष कालोऽजित निष्फलो गतो

राज्यश्रियोन्नद्धमदस्य भूपतेः ।

मर्त्यात्मबुद्धेः सुतदारकोशभू-

ष्वासज्जमानस्य दुरन्तचिन्तया ॥ ४८॥

 

कलेवरेऽस्मिन् घटकुड्यसन्निभे

निरूढमानो नरदेव इत्यहम् ।

वृतो रथेभाश्वपदात्यनीकपै-

र्गां पर्यटंस्त्वागणयन् सुदुर्मदः ॥ ४९॥

 

प्रमत्तमुच्चैरितिकृत्यचिन्तया

प्रवृद्धलोभं विषयेषु लालसम् ।

त्वमप्रमत्तः सहसाभिपद्यसे

क्षुल्लेलिहानोऽहिरिवाखुमन्तकः ॥ ५०॥

 

पुरा रथैर्हेमपरिष्कृतैश्चरन्

मतङ्गजैर्वा नरदेवसंज्ञितः ।

स एव कालेन दुरत्ययेन ते

कलेवरो विट्कृमिभस्मसंज्ञितः ॥ ५१॥

 

निर्जित्य दिक्चक्रमभूतविग्रहो

वरासनस्थः समराजवन्दितः ।

गृहेषु मैथुन्यसुखेषु योषितां

क्रीडामृगः पूरुष ईश नीयते ॥ ५२॥

 

करोति कर्माणि तपःसुनिष्ठितो

निवृत्तभोगस्तदपेक्षया ददत् ।

पुनश्च भूयेयमहं स्वराडिति

प्रवृद्धतर्षो न सुखाय कल्पते ॥ ५३॥

 

भवापवर्गो भ्रमतो यदा भवे-

ज्जनस्य तर्ह्यच्युत सत्समागमः ।

सत्सङ्गमो यर्हि तदैव सद्गतौ

परावरेशे त्वयि जायतेमतिः ॥ ५४॥

 

मन्ये ममानुग्रह ईश ते कृतो

राज्यानुबन्धापगमो यदृच्छया ।

यः प्रार्थ्यते साधुभिरेकचर्यया

वनं विविक्षद्भिरखण्डभूमिपैः ॥ ५५॥

 

न कामयेऽन्यं तव पादसेवना-

दकिञ्चनप्रार्थ्यतमाद्वरं विभो ।

आराध्य कस्त्वां ह्यपवर्गदं हरे

वृणीत आर्यो वरमात्मबन्धनम् ॥ ५६॥

 

तस्माद्विसृज्याशिष ईश सर्वतो

रजस्तमःसत्त्वगुणानुबन्धनाः ।

निरञ्जनं निर्गुणमद्वयं परं

त्वां ज्ञप्तिमात्रं पुरुषं व्रजाम्यहम् ॥ ५७॥

 

चिरमिह वृजिनार्तस्तप्यमानोऽनुतापै-

रवितृषषडमित्रोऽलब्धशान्तिः कथञ्चित् ।

शरणद समुपेतस्त्वत्पदाब्जं परात्मन्

अभयमृतमशोकं पाहि माऽऽपन्नमीश ॥ ५८॥

 

श्रीभगवानुवाच

सार्वभौम महाराज मतिस्ते विमलोर्जिता ।

वरैः प्रलोभितस्यापि न कामैर्विहता यतः ॥ ५९॥

 

प्रलोभितो वरैर्यत्त्वमप्रमादाय विद्धि तत् ।

न धीरेकान्तभक्तानामाशीर्भिर्भिद्यते क्वचित् ॥ ६०॥

 

युञ्जानानामभक्तानां प्राणायामादिभिर्मनः ।

अक्षीणवासनं राजन् दृश्यते पुनरुत्थितम् ॥ ६१॥

 

विचरस्व महीं कामं मय्यावेशितमानसः ।

अस्त्वेव नित्यदा तुभ्यं भक्तिर्मय्यनपायिनी ॥ ६२॥

 

क्षात्रधर्मस्थितो जन्तून् न्यवधीर्मृगयादिभिः ।

समाहितस्तत्तपसा जह्यघं मदुपाश्रितः ॥ ६३॥

 

जन्मन्यनन्तरे राजन् सर्वभूतसुहृत्तमः ।

भूत्वा द्विजवरस्त्वं वै मामुपैष्यसि केवलम् ॥ ६४॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे मुचुकुन्द-

स्तुतिर्नामैकपञ्चाशत्तमोऽध्यायः ॥ ५१॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ द्विपञ्चाशत्तमोऽध्यायः - ५२ ॥

 

श्रीशुकौवाच

इत्थं सोऽनुगृहीतोऽङ्ग कृष्णेनेक्ष्वाकुनन्दनः ।

तं परिक्रम्य सन्नम्य निश्चक्राम गुहामुखात् ॥ १॥

 

स वीक्ष्य क्षुल्लकान्मर्त्यान् पशून् वीरुद्वनस्पतीन् ।

मत्वा कलियुगं प्राप्तं जगाम दिशमुत्तराम् ॥ २॥

 

तपःश्रद्धायुतो धीरो निःसङ्गो मुक्तसंशयः ।

समाधाय मनःकृष्णे प्राविशद्गन्धमादनम् ॥ ३॥

 

बदर्याश्रममासाद्य नरनारायणालयम् ।

सर्वद्वन्द्वसहः शान्तस्तपसाऽऽराधयद्धरिम् ॥ ४॥

 

भगवान् पुनराव्रज्य पुरीं यवनवेष्टिताम् ।

हत्वा म्लेच्छबलं निन्ये तदीयं द्वारकां धनम् ॥ ५॥

 

नीयमाने धने गोभिर्नृभिश्चाच्युतचोदितैः ।

आजगाम जरासन्धस्त्रयोविंशत्यनीकपः ॥ ६॥

 

विलोक्य वेगरभसं रिपुसैन्यस्य माधवौ ।

मनुष्यचेष्टामापन्नौ राजन् दुद्रुवतुर्द्रुतम् ॥ ७॥

 

विहाय वित्तं प्रचुरमभीतौ भीरुभीतवत् ।

पद्भ्यां पद्मपलाशाभ्यां चेरतुर्बहुयोजनम् ॥ ८॥

 

पलायमानौ तौ दृष्ट्वा मागधः प्रहसन् बली ।

अन्वधावद्रथानीकैरीशयोरप्रमाणवित् ॥ ९॥

 

प्रद्रुत्य दूरं संश्रान्तौ तुङ्गमारुहतां गिरिम् ।

प्रवर्षणाख्यं भगवान्नित्यदा यत्र वर्षति ॥ १०॥

 

गिरौ निलीनावाज्ञाय नाधिगम्य पदं नृप ।

ददाह गिरिमेधोभिः समन्तादग्निमुत्सृजन् ॥ ११॥

 

तत उत्पत्य तरसा दह्यमानतटादुभौ ।

दशैकयोजनोत्तुङ्गान्निपेततुरधो भुवि ॥ १२॥

 

अलक्ष्यमाणौ रिपुणा सानुगेन यदूत्तमौ ।

स्वपुरं पुनरायातौ समुद्रपरिखां नृप ॥ १३॥

 

सोऽपि दग्धाविति मृषा मन्वानो बलकेशवौ ।

बलमाकृष्य सुमहन्मगधान् मागधो ययौ ॥ १४॥

 

आनर्ताधिपतिः श्रीमान् रैवतो रेवतीं सुताम् ।

ब्रह्मणा चोदितः प्रादाद्बलायेति पुरोदितम् ॥ १५॥

 

भगवानपि गोविन्द उपयेमे कुरूद्वह ।

वैदर्भीं भीष्मकसुतां श्रियो मात्रां स्वयंवरे ॥ १६॥

 

प्रमथ्य तरसा राज्ञः शाल्वादींश्चैद्यपक्षगान् ।

पश्यतां सर्वलोकानां तार्क्ष्यपुत्रः सुधामिव ॥ १७॥

 

राजोवाच

भगवान् भीष्मकसुतां रुक्मिणीं रुचिराननाम् ।

राक्षसेन विधानेन उपयेम इति श्रुतम् ॥ १८॥

 

भगवन् श्रोतुमिच्छामि कृष्णस्यामिततेजसः ।

यथा मागधशाल्वादीन् जित्वा कन्यामुपाहरत् ॥ १९॥

 

ब्रह्मन् कृष्णकथाःपुण्या माध्वीर्लोकमलापहाः ।

को नु तृप्येत श‍ृण्वानः श्रुतज्ञो नित्यनूतनाः ॥ २०॥

 

श्रीशुक उवाच

राजाऽऽसीद्भीष्मको नाम विदर्भाधिपतिर्महान् ।

तस्य पञ्चाभवन् पुत्राः कन्यैका च वरानना ॥ २१॥

 

रुक्म्यग्रजो रुक्मरथो रुक्मबाहुरनन्तरः ।

रुक्मकेशो रुक्ममाली रुक्मिण्येषां स्वसा सती ॥ २२॥

 

सोपश्रुत्य मुकुन्दस्य रूपवीर्यगुणश्रियः ।

गृहागतैर्गीयमानास्तं मेने सदृशं पतिम् ॥ २३॥

 

तां बुद्धिलक्षणौदार्यरूपशीलगुणाश्रयाम् ।

कृष्णश्च सदृशीं भार्यां समुद्वोढुं मनो दधे ॥ २४॥

 

बन्धूनामिच्छतां दातुं कृष्णाय भगिनीं नृप ।

ततो निवार्य कृष्णद्विड् रुक्मी चैद्यममन्यत ॥ २५॥

 

तदवेत्यासितापाङ्गी वैदर्भी दुर्मना भृशम् ।

विचिन्त्याप्तं द्विजं कञ्चित्कृष्णाय प्राहिणोद्द्रुतम् ॥ २६॥

 

द्वारकां स समभ्येत्य प्रतीहारैः प्रवेशितः ।

अपश्यदाद्यं पुरुषमासीनं काञ्चनासने ॥ २७॥

 

दृष्ट्वा ब्रह्मण्यदेवस्तमवरुह्य निजासनात् ।

उपवेश्यार्हयाञ्चक्रे यथाऽऽत्मानं दिवौकसः ॥ २८॥

 

तं भुक्तवन्तं विश्रान्तमुपगम्य सतां गतिः ।

पाणिनाभिमृशन् पादावव्यग्रस्तमपृच्छत ॥ २९॥

 

कच्चिद्द्विजवरश्रेष्ठ धर्मस्ते वृद्धसम्मतः ।

वर्तते नातिकृच्छ्रेण सन्तुष्टमनसः सदा ॥ ३०॥

 

सन्तुष्टो यर्हि वर्तेत ब्राह्मणो येन केनचित् ।

अहीयमानः स्वाद्धर्मात्स ह्यस्याखिलकामधुक् ॥ ३१॥

 

असन्तुष्टोऽसकृल्लोकानाप्नोत्यपि सुरेश्वरः ।

अकिञ्चनोऽपि सन्तुष्टः शेते सर्वाङ्गविज्वरः ॥ ३२॥

 

विप्रान् स्वलाभसन्तुष्टान् साधून् भूतसुहृत्तमान् ।

निरहङ्कारिणः शान्तान्नमस्ये शिरसासकृत् ॥ ३३॥

 

कच्चिद्वः कुशलं ब्रह्मन् राजतो यस्य हि प्रजाः ।

सुखं वसन्ति विषये पाल्यमानाः स मे प्रियः ॥ ३४॥

 

यतस्त्वमागतो दुर्गं निस्तीर्येह यदिच्छया ।

सर्वं नो ब्रूह्यगुह्यं चेत्किं कार्यं करवाम ते ॥ ३५॥

 

एवं सम्पृष्टसम्प्रश्नो ब्राह्मणः परमेष्ठिना ।

लीलागृहीतदेहेन तस्मै सर्वमवर्णयत् ॥ ३६॥

 

रुक्मिण्युवाच

श्रुत्वा गुणान् भुवनसुन्दर श‍ृण्वतां ते

निर्विश्य कर्णविवरैर्हरतोऽङ्गतापम् ।

रूपं दृशां दृशिमतामखिलार्थलाभं

त्वय्यच्युताविशति चित्तमपत्रपं मे ॥ ३७॥

 

का त्वा मुकुन्द महती कुलशीलरूप-

विद्यावयोद्रविणधामभिरात्मतुल्यम् ।

धीरा पतिं कुलवती न वृणीत कन्या

काले नृसिंह नरलोकमनोऽभिरामम् ॥ ३८॥

 

तन्मे भवान् खलु वृतः पतिरङ्ग जाया-

मात्मार्पितश्च भवतोऽत्र विभो विधेहि ।

मा वीरभागमभिमर्शतु चैद्य आराद्-

गोमायुवन्मृगपतेर्बलिमम्बुजाक्ष ॥ ३९॥

 

पूर्तेष्टदत्तनियमव्रतदेवविप्र-

गुर्वर्चनादिभिरलं भगवान् परेशः ।

आराधितो यदि गदाग्रज एत्य पाणिं

गृह्णातु मे न दमघोषसुतादयोऽन्ये ॥ ४०॥

 

श्वोभाविनि त्वमजितोद्वहने विदर्भान्

गुप्तः समेत्य पृतनापतिभिः परीतः ।

निर्मथ्य चैद्यमगधेन्द्रबलं प्रसह्य

मां राक्षसेनविधिनोद्वह वीर्यशुल्काम् ॥ ४१॥

 

अन्तःपुरान्तरचरीमनिहत्य बन्धून्

त्वामुद्वहे कथमिति प्रवदाम्युपायम् ।

पूर्वेद्युरस्ति महती कुलदेवियात्रा

यस्यां बहिर्नववधूर्गिरिजामुपेयात् ॥ ४२॥

 

यस्याङ्घ्रिपङ्कजरजःस्नपनं महान्तो

वाञ्छन्त्युमापतिरिवात्मतमोऽपहत्यै ।

यर्ह्यम्बुजाक्ष न लभेय भवत्प्रसादं

जह्यामसून् व्रतकृशान् शतजन्मभिः स्यात् ॥ ४३॥

 

ब्राह्मण उवाच

इत्येते गुह्यसन्देशा यदुदेव मयाहृताः ।

विमृश्य कर्तुं यच्चात्र क्रियतां तदनन्तरम् ॥ ४४॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे रुक्मिण्युद्वाह-

प्रस्तावे द्विपञ्चाशत्तमोऽध्यायः ॥ ५२॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ त्रिपञ्चाशत्तमोऽध्यायः - ५३ ॥

 

श्रीशुक उवाच

वैदर्भ्याः स तु सन्देशं निशम्य यदुनन्दनः ।

प्रगृह्य पाणिना पाणिं प्रहसन्निदमब्रवीत् ॥ १॥

 

श्रीभगवानुवाच

तथाहमपि तच्चित्तो निद्रां च न लभे निशि ।

वेदाहं रुक्मिणा द्वेषान्ममोद्वाहो निवारितः ॥ २॥

 

तामानयिष्य उन्मथ्य राजन्यापसदान् मृधे ।

मत्परामनवद्याङ्गीमेधसोऽग्निशिखामिव ॥ ३॥

 

श्रीशुक उवाच

उद्वाहर्क्षं च विज्ञाय रुक्मिण्या मधुसूदनः ।

रथः संयुज्यतामाशु दारुकेत्याह सारथिम् ॥ ४॥

 

स चाश्वैः शैब्यसुग्रीवमेघपुष्पबलाहकैः ।

युक्तं रथमुपानीय तस्थौ प्राञ्जलिरग्रतः ॥ ५॥

 

आरुह्य स्यन्दनं शौरिर्द्विजमारोप्य तूर्णगैः ।

आनर्तादेकरात्रेण विदर्भानगमद्धयैः ॥ ६॥

 

राजा स कुण्डिनपतिः पुत्रस्नेहवशं गतः ।

शिशुपालाय स्वां कन्यां दास्यन् कर्माण्यकारयत् ॥ ७॥

 

पुरं सम्मृष्टसंसिक्तमार्गरथ्याचतुष्पथम् ।

चित्रध्वजपताकाभिस्तोरणैः समलङ्कृतम् ॥ ८॥

 

स्रग्गन्धमाल्याभरणैर्विरजोऽम्बरभूषितैः ।

जुष्टं स्त्रीपुरुषैः श्रीमद्गृहैरगुरुधूपितैः ॥ ९॥

 

पितॄन् देवान् समभ्यर्च्य विप्रांश्च विधिवन्नृप ।

भोजयित्वा यथान्यायं वाचयामास मङ्गलम् ॥ १०॥

 

सुस्नातां सुदतीं कन्यां कृतकौतुकमङ्गलाम् ।

अहतांशुकयुग्मेन भूषितां भूषणोत्तमैः ॥ ११॥

 

चक्रुः सामर्ग्यजुर्मन्त्रैर्वध्वा रक्षां द्विजोत्तमाः ।

पुरोहितोऽथर्वविद्वै जुहाव ग्रहशान्तये ॥ १२॥

 

हिरण्यरूप्यवासांसि तिलांश्च गुडमिश्रितान् ।

प्रादाद्धेनूश्च विप्रेभ्यो राजा विधिविदां वरः ॥ १३॥

 

एवं चेदिपती राजा दमघोषः सुताय वै ।

कारयामास मन्त्रज्ञैः सर्वमभ्युदयोचितम् ॥ १४॥

 

मदच्युद्भिर्गजानीकैः स्यन्दनैर्हेममालिभिः ।

पत्त्यश्वसङ्कुलैः सैन्यैः परीतः कुण्डिनं ययौ ॥ १५॥

 

तं वै विदर्भाधिपतिः समभ्येत्याभिपूज्य च ।

निवेशयामास मुदा कल्पितान्यनिवेशने ॥ १६॥

 

तत्र शाल्वो जरासन्धो दन्तवक्त्रो विदूरथः ।

आजग्मुश्चैद्यपक्षीयाः पौण्ड्रकाद्याः सहस्रशः ॥ १७॥

 

कृष्णरामद्विषो यत्ताः कन्यां चैद्याय साधितुम् ।

यद्यागत्य हरेत्कृष्णो रामाद्यैर्यदुभिर्वृतः ॥ १८॥

 

योत्स्यामः संहतास्तेन इति निश्चितमानसाः ।

आजग्मुर्भूभुजः सर्वे समग्रबलवाहनाः ॥ १९॥

 

श्रुत्वैतद्भगवान् रामो विपक्षीयनृपोद्यमम् ।

कृष्णं चैकं गतं हर्तुं कन्यां कलहशङ्कितः ॥ २०॥

 

बलेन महता सार्धं भ्रातृस्नेहपरिप्लुतः ।

त्वरितः कुण्डिनं प्रागाद्गजाश्वरथपत्तिभिः ॥ २१॥

 

भीष्मकन्या वरारोहा काङ्क्षन्त्यागमनं हरेः ।

प्रत्यापत्तिमपश्यन्ती द्विजस्याचिन्तयत्तदा ॥ २२॥

 

अहो त्रियामान्तरित उद्वाहो मेऽल्पराधसः ।

नागच्छत्यरविन्दाक्षो नाहं वेद्म्यत्र कारणम् ।

सोऽपि नावर्ततेऽद्यापि मत्सन्देशहरो द्विजः ॥ २३॥

 

अपि मय्यनवद्यात्मा दृष्ट्वा किञ्चिज्जुगुप्सितम् ।

मत्पाणिग्रहणे नूनं नायाति हि कृतोद्यमः ॥ २४॥

 

दुर्भगाया न मे धाता नानुकूलो महेश्वरः ।

देवी वा विमुखा गौरी रुद्राणी गिरिजा सती ॥ २५॥

 

एवं चिन्तयती बाला गोविन्दहृतमानसा ।

न्यमीलयत कालज्ञा नेत्रे चाश्रुकलाकुले ॥ २६॥

 

एवं वध्वाः प्रतीक्षन्त्या गोविन्दागमनं नृप ।

वाम ऊरुर्भुजो नेत्रमस्फुरन् प्रियभाषिणः ॥ २७॥

 

अथ कृष्णविनिर्दिष्टः स एव द्विजसत्तमः ।

अन्तःपुरचरीं देवीं राजपुत्रीं ददर्श ह ॥ २८॥

 

सा तं प्रहृष्टवदनमव्यग्रात्मगतिं सती ।

आलक्ष्य लक्षणाभिज्ञा समपृच्छच्छुचिस्मिता ॥ २९॥

 

तस्या आवेदयत्प्राप्तं शशंस यदुनन्दनम् ।

उक्तं च सत्यवचनमात्मोपनयनं प्रति ॥ ३०॥

 

तमागतं समाज्ञाय वैदर्भी हृष्टमानसा ।

न पश्यन्ती ब्राह्मणाय प्रियमन्यन्ननाम सा ॥ ३१॥

 

प्राप्तौ श्रुत्वा स्वदुहितुरुद्वाहप्रेक्षणोत्सुकौ ।

अभ्ययात्तूर्यघोषेण रामकृष्णौ समर्हणैः ॥ ३२॥

 

मधुपर्कमुपानीय वासांसि विरजांसि सः ।

उपायनान्यभीष्टानि विधिवत्समपूजयत् ॥ ३३॥

 

तयोर्निवेशनं श्रीमदुपाकल्प्य महामतिः ।

ससैन्ययोः सानुगयोरातिथ्यं विदधे यथा ॥ ३४॥

 

एवं राज्ञां समेतानां यथावीर्यं यथावयः ।

यथाबलं यथावित्तं सर्वैः कामैः समर्हयत् ॥ ३५॥

 

कृष्णमागतमाकर्ण्य विदर्भपुरवासिनः ।

आगत्य नेत्राञ्जलिभिः पपुस्तन्मुखपङ्कजम् ॥ ३६॥

 

अस्यैव भार्या भवितुं रुक्मिण्यर्हति नापरा ।

असावप्यनवद्यात्मा भैष्म्याः समुचितः पतिः ॥ ३७॥

 

किञ्चित्सुचरितं यन्नस्तेन तुष्टस्त्रिलोककृत् ।

अनुगृह्णातु गृह्णातु वैदर्भ्याः पाणिमच्युतः ॥ ३८॥

 

एवं प्रेमकलाबद्धा वदन्ति स्म पुरौकसः ।

कन्या चान्तःपुरात्प्रागाद्भटैर्गुप्ताम्बिकालयम् ॥ ३९॥

 

पद्भ्यां विनिर्ययौ द्रष्टुं भवान्याः पादपल्लवम् ।

सा चानुध्यायती सम्यङ्मुकुन्दचरणाम्बुजम् ॥ ४०॥

 

यतवाङ्मातृभिः सार्धं सखीभिः परिवारिता ।

गुप्ता राजभटैः शूरैः सन्नद्धैरुद्यतायुधैः ।

मृदङ्गशङ्खपणवास्तूर्यभेर्यश्च जघ्निरे ॥ ४१॥

 

नानोपहारबलिभिर्वारमुख्याः सहस्रशः ।

स्रग्गन्धवस्त्राभरणैर्द्विजपत्न्यः स्वलङ्कृताः ॥ ४२॥

 

गायन्तश्च स्तुवन्तश्च गायका वाद्यवादकाः ।

परिवार्य वधूं जग्मुः सूतमागधवन्दिनः ॥ ४३॥

 

आसाद्य देवीसदनं धौतपादकराम्बुजा ।

उपस्पृश्य शुचिः शान्ता प्रविवेशाम्बिकान्तिकम् ॥ ४४॥

 

तां वै प्रवयसो बालां विधिज्ञा विप्रयोषितः ।

भवानीं वन्दयाञ्चक्रुर्भवपत्नीं भवान्विताम् ॥ ४५॥

 

नमस्ये त्वाम्बिकेऽभीक्ष्णं स्वसन्तानयुतां शिवाम् ।

भूयात्पतिर्मे भगवान् कृष्णस्तदनुमोदताम् ॥ ४६॥

 

अद्भिर्गन्धाक्षतैर्धूपैर्वासःस्रङ्माल्यभूषणैः ।

नानोपहारबलिभिः प्रदीपावलिभिः पृथक् ॥ ४७॥

 

विप्रस्त्रियः पतिमतीस्तथा तैः समपूजयत् ।

लवणापूपताम्बूलकण्ठसूत्रफलेक्षुभिः ॥ ४८॥

 

तस्यै स्त्रियस्ताः प्रददुः शेषां युयुजुराशिषः ।

ताभ्यो देव्यै नमश्चक्रे शेषां च जगृहे वधूः ॥ ४९॥

 

मुनिव्रतमथ त्यक्त्वा निश्चक्रामाम्बिकागृहात् ।

प्रगृह्य पाणिना भृत्यां रत्नमुद्रोपशोभिना ॥ ५०॥

 

तां देवमायामिव वीरमोहिनीं

सुमध्यमां कुण्डलमण्डिताननाम् ।

श्यामां नितम्बार्पितरत्नमेखलां

व्यञ्जत्स्तनीं कुन्तलशङ्कितेक्षणाम् ॥ ५१॥

 

शुचिस्मितां बिम्बफलाधरद्युति

शोणायमानद्विजकुन्दकुड्मलाम् ।

पदा चलन्तीं कलहंसगामिनीं

शिञ्जत्कलानूपुरधामशोभिना ।

विलोक्य वीरा मुमुहुः समागता

यशस्विनस्तत्कृतहृच्छयार्दिताः ॥ ५२॥

 

यां वीक्ष्य ते नृपतयस्तदुदारहास-

व्रीडावलोकहृतचेतस उज्झितास्त्राः ।

पेतुः क्षितौ गजरथाश्वगता विमूढा

यात्राच्छलेन हरयेऽर्पयतीं स्वशोभाम् ॥ ५३॥

 

सैवं शनैश्चलयती चलपद्मकोशौ

प्राप्तिं तदा भगवतः प्रसमीक्षमाणा ।

उत्सार्य वामकरजैरलकानपाङ्गैः

प्राप्तान् ह्रियैक्षत नृपान् ददृशेऽच्युतं सा ॥ ५४॥

 

तां राजकन्यां रथमारुरुक्षतीं

जहार कृष्णो द्विषतां समीक्षताम् ।

रथं समारोप्य सुपर्णलक्षणं

राजन्यचक्रं परिभूय माधवः ॥ ५५॥

 

ततो ययौ रामपुरोगमैः शनैः

श‍ृगालमध्यादिव भागहृद्धरिः ॥ ५६॥

 

तं मानिनः स्वाभिभवं यशःक्षयं

परे जरासन्धमुखा न सेहिरे ।

अहो धिगस्मान्यश आत्तधन्वनां

गोपैर्हृतं केसरिणां मृगैरिव ॥ ५७॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे रुक्मिणीहरणं

नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ चतुःपञ्चाशत्तमोऽध्यायः - ५४ ॥

 

श्रीशुक उवाच

इति सर्वे सुसंरब्धा वाहानारुह्य दंशिताः ।

स्वैः स्वैर्बलैः परिक्रान्ता अन्वीयुर्धृतकार्मुकाः ॥ १॥

 

तानापतत आलोक्य यादवानीकयूथपाः ।

तस्थुस्तत्सम्मुखा राजन् विस्फूर्ज्य स्वधनूंषि ते ॥ २॥

 

अश्वपृष्ठे गजस्कन्धे रथोपस्थे च कोविदाः ।

मुमुचुः शरवर्षाणि मेघा अद्रिष्वपो यथा ॥ ३॥

 

पत्युर्बलं शरासारैश्छन्नं वीक्ष्य सुमध्यमा ।

सव्रीडमैक्षत्तद्वक्त्रं भयविह्वललोचना ॥ ४॥

 

प्रहस्य भगवानाह मा स्म भैर्वामलोचने ।

विनङ्क्ष्यत्यधुनैवैतत्तावकैः शात्रवं बलम् ॥ ५॥

 

तेषां तद्विक्रमं वीरा गदसङ्कर्षणादयः ।

अमृष्यमाणा नाराचैर्जघ्नुर्हयगजान् रथान् ॥ ६॥

 

पेतुः शिरांसि रथिनामश्विनां गजिनां भुवि ।

सकुण्डलकिरीटानि सोष्णीषाणि च कोटिशः ॥ ७॥

 

हस्ताः सासिगदेष्वासाः करभा ऊरवोऽङ्घ्रयः ।

अश्वाश्वतरनागोष्ट्रखरमर्त्यशिरांसि च ॥ ८॥

 

हन्यमानबलानीका वृष्णिभिर्जयकाङ्क्षिभिः ।

राजानो विमुखा जग्मुर्जरासन्धपुरःसराः ॥ ९॥

 

शिशुपालं समभ्येत्य हृतदारमिवातुरम् ।

नष्टत्विषं गतोत्साहं शुष्यद्वदनमब्रुवन् ॥ १०॥

 

भो भोः पुरुषशार्दूल दौर्मनस्यमिदं त्यज ।

न प्रियाप्रिययो राजन् निष्ठा देहिषु दृश्यते ॥ ११॥

 

यथा दारुमयी योषिन्नृत्यते कुहकेच्छया ।

एवमीश्वरतन्त्रोऽयमीहते सुखदुःखयोः ॥ १२॥

 

शौरेः सप्तदशाहं वै संयुगानि पराजितः ।

त्रयोविंशतिभिः सैन्यैर्जिग्ये एकमहं परम् ॥ १३॥

 

तथाप्यहं न शोचामि न प्रहृष्यामि कर्हिचित् ।

कालेन दैवयुक्तेन जानन् विद्रावितं जगत् ॥ १४॥

 

अधुनापि वयं सर्वे वीरयूथपयूथपाः ।

पराजिताः फल्गुतन्त्रैर्यदुभिः कृष्णपालितैः ॥ १५॥

 

रिपवो जिग्युरधुना काल आत्मानुसारिणि ।

तदा वयं विजेष्यामो यदा कालः प्रदक्षिणः ॥ १६॥

 

एवं प्रबोधितो मित्रैश्चैद्योऽगात्सानुगः पुरम् ।

हतशेषाः पुनस्तेऽपि ययुः स्वं स्वं पुरं नृपाः ॥ १७॥

 

रुक्मी तु राक्षसोद्वाहं कृष्णद्विडसहन् स्वसुः ।

पृष्ठतोऽन्वगमत्कृष्णमक्षौहिण्या वृतो बली ॥ १८॥

 

रुक्म्यमर्षी सुसंरब्धः श‍ृण्वतां सर्वभूभुजाम् ।

प्रतिजज्ञे महाबाहुर्दंशितः सशरासनः ॥ १९॥

 

अहत्वा समरे कृष्णमप्रत्यूह्य च रुक्मिणीम् ।

कुण्डिनं न प्रवेक्ष्यामि सत्यमेतद्ब्रवीमि वः ॥ २०॥

 

इत्युक्त्वा रथमारुह्य सारथिं प्राह सत्वरः ।

चोदयाश्वान् यतः कृष्णस्तस्य मे संयुगं भवेत् ॥ २१॥

 

अद्याहं निशितैर्बाणैर्गोपालस्य सुदुर्मतेः ।

नेष्ये वीर्यमदं येन स्वसा मे प्रसभं हृता ॥ २२॥

 

विकत्थमानः कुमतिरीश्वरस्याप्रमाणवित् ।

रथेनैकेन गोविन्दं तिष्ठ तिष्ठेत्यथाह्वयत् ॥ २३॥

 

धनुर्विकृष्य सुदृढं जघ्ने कृष्णं त्रिभिः शरैः ।

आह चात्र क्षणं तिष्ठ यदूनां कुलपांसन ॥ २४॥

 

कुत्र यासि स्वसारं मे मुषित्वा ध्वाङ्क्षवद्धविः ।

हरिष्येऽद्य मदं मन्द मायिनः कूटयोधिनः ॥ २५॥

 

यावन्न मे हतो बाणैः शयीथा मुञ्च दारीकाम् ।

स्मयन् कृष्णो धनुश्छित्त्वा षड्भिर्विव्याध रुक्मिणम् ॥ २६॥

 

अष्टभिश्चतुरो वाहान् द्वाभ्यां सूतं ध्वजं त्रिभिः ।

स चान्यद्धनुराधाय कृष्णं विव्याध पञ्चभिः ॥ २७॥

 

तैस्ताडितः शरौघैस्तु चिच्छेद धनुरच्युतः ।

पुनरन्यदुपादत्त तदप्यच्छिनदव्ययः ॥ २८॥

 

परिघं पट्टिशं शूलं चर्मासी शक्तितोमरौ ।

यद्यदायुधमादत्त तत्सर्वं सोऽच्छिनद्धरिः ॥ २९॥

 

ततो रथादवप्लुत्य खड्गपाणिर्जिघांसया ।

कृष्णमभ्यद्रवत्क्रुद्धः पतङ्ग इव पावकम् ॥ ३०॥

 

तस्य चापततः खड्गं तिलशश्चर्म चेषुभिः ।

छित्त्वासिमाददे तिग्मं रुक्मिणं हन्तुमुद्यतः ॥ ३१॥

 

दृष्ट्वा भ्रातृवधोद्योगं रुक्मिणी भयविह्वला ।

पतित्वा पादयोर्भर्तुरुवाच करुणं सती ॥ ३२॥

 

योगेश्वराप्रमेयात्मन् देव देव जगत्पते ।

हन्तुं नार्हसि कल्याण भ्रातरं मे महाभुज ॥ ३३॥

 

श्रीशुक उवाच

तया परित्रासविकम्पिताङ्गया

शुचावशुष्यन्मुखरुद्धकण्ठया ।

कातर्यविस्रंसितहेममालया

गृहीतपादः करुणो न्यवर्तत ॥ ३४॥

 

चैलेन बद्ध्वा तमसाधुकारिणं

सश्मश्रुकेशं प्रवपन् व्यरूपयत् ।

तावन्ममर्दुः परसैन्यमद्भुतं

यदुप्रवीरा नलिनीं यथा गजाः ॥ ३५॥

 

कृष्णान्तिकमुपव्रज्य ददृशुस्तत्र रुक्मिणम् ।

तथा भूतं हतप्रायं दृष्ट्वा सङ्कर्षणो विभुः ।

विमुच्य बद्धं करुणो भगवान् कृष्णमब्रवीत् ॥ ३६॥

 

असाध्विदं त्वया कृष्ण कृतमस्मज्जुगुप्सितम् ।

वपनं श्मश्रुकेशानां वैरूप्यं सुहृदो वधः ॥ ३७॥

 

मैवास्मान् साध्व्यसूयेथा भ्रातुर्वैरूप्यचिन्तया ।

सुखदुःखदो न चान्योऽस्ति यतः स्वकृतभुक् पुमान् ॥ ३८॥

 

बन्धुर्वधार्हदोषोऽपि न बन्धोर्वधमर्हति ।

त्याज्यः स्वेनैव दोषेण हतः किं हन्यते पुनः ॥ ३९॥

 

क्षत्रियाणामयं धर्मः प्रजापतिविनिर्मितः ।

भ्रातापि भ्रातरं हन्याद्येन घोरतरस्ततः ॥ ४०॥

 

राज्यस्य भूमेर्वित्तस्य स्त्रियो मानस्य तेजसः ।

मानिनोऽन्यस्य वा हेतोः श्रीमदान्धाः क्षिपन्ति हि ॥ ४१॥

 

तवेयं विषमा बुद्धिः सर्वभूतेषु दुर्हृदाम् ।

यन्मन्यसे सदाभद्रं सुहृदां भद्रमज्ञवत् ॥ ४२॥

 

आत्ममोहो नृणामेष कल्पते देवमायया ।

सुहृद्दुर्हृदुदासीन इति देहात्ममानिनाम् ॥ ४३॥

 

एक एव परो ह्यात्मा सर्वेषामपि देहिनाम् ।

नानेव गृह्यते मूढैर्यथा ज्योतिर्यथा नभः ॥ ४४॥

 

देह आद्यन्तवानेष द्रव्यप्राणगुणात्मकः ।

आत्मन्यविद्यया कॢप्तः संसारयति देहिनम् ॥ ४५॥

 

नात्मनोऽन्येन संयोगो वियोगश्चासतः सति ।

तद्धेतुत्वात्तत्प्रसिद्धेर्दृग्रूपाभ्यां यथा रवेः ॥ ४६॥

 

जन्मादयस्तु देहस्य विक्रिया नात्मनः क्वचित् ।

कलानामिव नैवेन्दोर्मृतिर्ह्यस्य कुहूरिव ॥ ४७॥

 

यथा शयान आत्मानं विषयान् फलमेव च ।

अनुभुङ्क्तेऽप्यसत्यर्थे तथाऽऽप्नोत्यबुधो भवम् ॥ ४८॥

 

तस्मादज्ञानजं शोकमात्मशोषविमोहनम् ।

तत्त्वज्ञानेन निर्हृत्य स्वस्था भव शुचिस्मिते ॥ ४९॥

 

श्रीशुक उवाच

एवं भगवता तन्वी रामेण प्रतिबोधिता ।

वैमनस्यं परित्यज्य मनो बुद्ध्या समादधे ॥ ५०॥

 

प्राणावशेष उत्सृष्टो द्विड्भिर्हतबलप्रभः ।

स्मरन् विरूपकरणं वितथात्ममनोरथः ॥ ५१॥

 

चक्रे भोजकटं नाम निवासाय महत्पुरम् ।

अहत्वा दुर्मतिं कृष्णमप्रत्यूह्य यवीयसीम् ।

कुण्डिनं न प्रवेक्ष्यामीत्युक्त्वा तत्रावसद्रुषा ॥ ५२॥

 

भगवान् भीष्मकसुतामेवं निर्जित्य भूमिपान् ।

पुरमानीय विधिवदुपयेमे कुरूद्वह ॥ ५३॥

 

तदा महोत्सवो नॄणां यदुपुर्यां गृहे गृहे ।

अभूदनन्यभावानां कृष्णे यदुपतौ नृप ॥ ५४॥

 

नरा नार्यश्च मुदिताः प्रमृष्टमणिकुण्डलाः ।

पारिबर्हमुपाजह्रुर्वरयोश्चित्रवाससोः ॥ ५५॥

 

सा वृष्णिपुर्युत्तभितेन्द्रकेतुभि-

र्विचित्रमाल्याम्बररत्नतोरणैः ।

बभौ प्रतिद्वार्युपकॢप्तमङ्गलै-

रापूर्णकुम्भागुरुधूपदीपकैः ॥ ५६॥

 

सिक्तमार्गा मदच्युद्भिराहूतप्रेष्ठभूभुजाम् ।

गजैर्द्वाःसु परामृष्टरम्भापूगोपशोभिता ॥ ५७॥

 

कुरुसृञ्जयकैकेयविदर्भयदुकुन्तयः ।

मिथो मुमुदिरे तस्मिन् सम्भ्रमात्परिधावताम् ॥ ५८॥

 

रुक्मिण्या हरणं श्रुत्वा गीयमानं ततस्ततः ।

राजानो राजकन्याश्च बभूवुर्भृशविस्मिताः ॥ ५९॥

 

द्वारकायामभूद्राजन् महामोदः पुरौकसाम् ।

रुक्मिण्या रमयोपेतं दृष्ट्वा कृष्णं श्रियःपतिम् ॥ ६०॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे रुक्मिण्युद्वाहे

चतुःपञ्चाशत्तमोऽध्यायः ॥ ५४॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ पञ्चपञ्चाशत्तमोऽध्यायः - ५५ ॥

 

श्रीशुक उवाच

कामस्तु वासुदेवांशो दग्धः प्राग्रुद्रमन्युना ।

देहोपपत्तये भूयस्तमेव प्रत्यपद्यत ॥ १॥

 

स एव जातो वैदर्भ्यां कृष्णवीर्यसमुद्भवः ।

प्रद्युम्न इति विख्यातः सर्वतोऽनवमः पितुः ॥ २॥

 

तं शम्बरः कामरूपी हृत्वा तोकमनिर्दशम् ।

स विदित्वाऽऽत्मनः शत्रुं प्रास्योदन्वत्यगाद्गृहम् ॥ ३॥

 

तं निर्जगार बलवान् मीनः सोऽप्यपरैः सह ।

वृतो जालेन महता गृहीतो मत्स्यजीविभिः ॥ ४॥

 

तं शम्बराय कैवर्ता उपाजह्रुरुपायनम् ।

सूदा महानसं नीत्वावद्यन् सुधितिनाद्भुतम् ॥ ५॥

 

दृष्ट्वा तदुदरे बालं मायावत्यै न्यवेदयन् ।

नारदोऽकथयत्सर्वं तस्याः शङ्कितचेतसः ।

बालस्य तत्त्वमुत्पत्तिं मत्स्योदरनिवेशनम् ॥ ६॥

 

सा च कामस्य वै पत्नी रतिर्नाम यशस्विनी ।

पत्युर्निर्दग्धदेहस्य देहोत्पत्तिं प्रतीक्षती ॥ ७॥

 

निरूपिता शम्बरेण सा सूदौदनसाधने ।

कामदेवं शिशुं बुद्ध्वा चक्रे स्नेहं तदार्भके ॥ ८॥

 

नातिदीर्घेण कालेन स कार्ष्णी रूढयौवनः ।

जनयामास नारीणां वीक्षन्तीनां च विभ्रमम् ॥ ९॥

 

सा तं पतिं पद्मदलायतेक्षणं

प्रलम्बबाहुं नरलोकसुन्दरम् ।

सव्रीडहासोत्तभितभ्रुवेक्षती

प्रीत्योपतस्थे रतिरङ्ग सौरतैः ॥ १०॥

 

तामाह भगवान् कार्ष्णिर्मातस्ते मतिरन्यथा ।

मातृभावमतिक्रम्य वर्तसे कामिनी यथा ॥ ११॥

 

रतिरुवाच

भवान् नारायणसुतः शम्बरेण हृतो गृहात् ।

अहं तेऽधिकृता पत्नी रतिः कामो भवान् प्रभो ॥ १२॥

 

एष त्वानिर्दशं सिन्धावक्षिपच्छम्बरोऽसुरः ।

मत्स्योऽग्रसीत्तदुदरादिह प्राप्तो भवान् प्रभो ॥ १३॥

 

तमिमं जहि दुर्धर्षं दुर्जयं शत्रुमात्मनः ।

मायाशतविदं त्वं च मायाभिर्मोहनादिभिः ॥ १४॥

 

परिशोचति ते माता कुररीव गतप्रजा ।

पुत्रस्नेहाकुला दीना विवत्सा गौरिवातुरा ॥ १५॥

 

प्रभाष्यैवं ददौ विद्यां प्रद्युम्नाय महात्मने ।

मायावती महामायां सर्वमायाविनाशिनीम् ॥ १६॥

 

स च शम्बरमभ्येत्य संयुगाय समाह्वयत् ।

अविषह्यैस्तमाक्षेपैः क्षिपन् सञ्जनयन् कलिम् ॥ १७॥

 

सोऽधिक्षिप्तो दुर्वचोभिः पादाहत इवोरगः ।

निश्चक्राम गदापाणिरमर्षात्ताम्रलोचनः ॥ १८॥

 

गदामाविध्य तरसा प्रद्युम्नाय महात्मने ।

प्रक्षिप्य व्यनदन्नादं वज्रनिष्पेषनिष्ठुरम् ॥ १९॥

 

तामापतन्तीं भगवान् प्रद्युम्नो गदया गदाम् ।

अपास्य शत्रवे क्रुद्धः प्राहिणोत्स्वगदां नृप ॥ २०॥

 

स च मायां समाश्रित्य दैतेयीं मयदर्शिताम् ।

मुमुचेऽस्त्रमयं वर्षं कार्ष्णौ वैहायसोऽसुरः ॥ २१॥

 

बाध्यमानोऽस्त्रवर्षेण रौक्मिणेयो महारथः ।

सत्त्वात्मिकां महाविद्यां सर्वमायोपमर्दिनीम् ॥ २२॥

 

ततो गौह्यकगान्धर्वपैशाचोरगराक्षसीः ।

प्रायुङ्क्त शतशो दैत्यः कार्ष्णिर्व्यधमयत्स ताः ॥ २३॥

 

निशातमसिमुद्यम्य सकिरीटं सकुण्डलम् ।

शम्बरस्य शिरः कायात्ताम्रश्मश्र्वोजसाहरत् ॥ २४॥

 

आकीर्यमाणो दिविजैः स्तुवद्भिः कुसुमोत्करैः ।

भार्ययाम्बरचारिण्या पुरं नीतो विहायसा ॥ २५॥

 

अन्तःपुरवरं राजन् ललनाशतसङ्कुलम् ।

विवेश पत्न्या गगनाद्विद्युतेव बलाहकः ॥ २६॥

 

तं दृष्ट्वा जलदश्यामं पीतकौशेयवाससम् ।

प्रलम्बबाहुं ताम्राक्षं सुस्मितं रुचिराननम् ॥ २७॥

 

स्वलङ्कृतमुखाम्भोजं नीलवक्रालकालिभिः ।

कृष्णं मत्वा स्त्रियो ह्रीता निलिल्युस्तत्र तत्र ह ॥ २८॥

 

अवधार्य शनैरीषद्वैलक्षण्येन योषितः ।

उपजग्मुः प्रमुदिताः सस्त्रीरत्नं सुविस्मिताः ॥ २९॥

 

अथ तत्रासितापाङ्गी वैदर्भी वल्गुभाषिणी ।

अस्मरत्स्वसुतं नष्टं स्नेहस्नुतपयोधरा ॥ ३०॥

 

को न्वयं नरवैदूर्यः कस्य वा कमलेक्षणः ।

धृतः कया वा जठरे केयं लब्धा त्वनेन वा ॥ ३१॥

 

मम चाप्यात्मजो नष्टो नीतो यः सूतिकागृहात् ।

एतत्तुल्यवयोरूपो यदि जीवति कुत्रचित् ॥ ३२॥

 

कथं त्वनेन सम्प्राप्तं सारूप्यं शार्ङ्गधन्वनः ।

आकृत्यावयवैर्गत्या स्वरहासावलोकनैः ॥ ३३॥

 

स एव वा भवेन्नूनं यो मे गर्भे धृतोऽर्भकः ।

अमुष्मिन् प्रीतिरधिका वामः स्फुरति मे भुजः ॥ ३४॥

 

एवं मीमांसमानायां वैदर्भ्यां देवकीसुतः ।

देवक्यानकदुन्दुभ्यामुत्तमश्लोक आगमत् ॥ ३५॥

 

विज्ञातार्थोऽपि भगवांस्तूष्णीमास जनार्दनः ।

नारदोऽकथयत्सर्वं शम्बराहरणादिकम् ॥ ३६॥

 

तच्छ्रुत्वा महदाश्चर्यं कृष्णान्तःपुरयोषितः ।

अभ्यनन्दन् बहूनब्दान् नष्टं मृतमिवागतम् ॥ ३७॥

 

देवकी वसुदेवश्च कृष्णरामौ तथा स्त्रियः ।

दम्पती तौ परिष्वज्य रुक्मिणी च ययुर्मुदम् ॥ ३८॥

 

नष्टं प्रद्युम्नमायातमाकर्ण्य द्वारकौकसः ।

अहो मृत इवायातो बालो दिष्ट्येति हाब्रुवन् ॥ ३९॥

 

यं वै मुहुः पितृसरूपनिजेशभावा-

स्तन्मातरो यदभजन् रहरूढभावाः ।

चित्रं न तत्खलु रमास्पदबिम्बबिम्बे

कामे स्मरेऽक्षविषये किमुतान्यनार्यः ॥ ४०॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे प्रद्युम्नोत्पत्ति-

निरूपणं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ षट्पञ्चाशत्तमोऽध्यायः - ५६ ॥

 

श्रीशुक उवाच

सत्राजितः स्वतनयां कृष्णाय कृतकिल्बिषः ।

स्यमन्तकेन मणिना स्वयमुद्यम्य दत्तवान् ॥ १॥

 

राजोवाच

सत्राजितः किमकरोद्ब्रह्मन् कृष्णस्य किल्बिषम् ।

स्यमन्तकः कुतस्तस्य कस्माद्दत्ता सुता हरेः ॥ २॥

 

श्रीशुक उवाच

आसीत्सत्राजितः सूर्यो भक्तस्य परमः सखा ।

प्रीतस्तस्मै मणिं प्रादात्सूर्यस्तुष्टः स्यमन्तकम् ॥ ३॥

 

स तं बिभ्रन् मणिं कण्ठे भ्राजमानो यथा रविः ।

प्रविष्टो द्वारकां राजंस्तेजसा नोपलक्षितः ॥ ४॥

 

तं विलोक्य जना दूरात्तेजसा मुष्टदृष्टयः ।

दीव्यतेऽक्षैर्भगवते शशंसुः सूर्यशङ्किताः ॥ ५॥

 

नारायण नमस्तेऽस्तु शङ्खचक्रगदाधर ।

दामोदरारविन्दाक्ष गोविन्द यदुनन्दन ॥ ६॥

 

एष आयाति सविता त्वां दिदृक्षुर्जगत्पते ।

मुष्णन् गभस्तिचक्रेण नृणां चक्षूंषि तिग्मगुः ॥ ७॥

 

नन्वन्विच्छन्ति ते मार्गं त्रिलोक्यां विबुधर्षभाः ।

ज्ञात्वाद्य गूढं यदुषु द्रष्टुं त्वां यात्यजः प्रभो ॥ ८॥

 

श्रीशुक उवाच

निशम्य बालवचनं प्रहस्याम्बुजलोचनः ।

प्राह नासौ रविर्देवः सत्राजिन्मणिना ज्वलन् ॥ ९॥

 

सत्राजित्स्वगृहं श्रीमत्कृतकौतुकमङ्गलम् ।

प्रविश्य देवसदने मणिं विप्रैर्न्यवेशयत् ॥ १०॥

 

दिने दिने स्वर्णभारानष्टौ स सृजति प्रभो ।

दुर्भिक्षमार्यरिष्टानि सर्पाधिव्याधयोऽशुभाः ।

न सन्ति मायिनस्तत्र यत्रास्तेऽभ्यर्चितो मणिः ॥ ११॥

 

स याचितो मणिं क्वापि यदुराजाय शौरिणा ।

नैवार्थकामुकः प्रादाद्याच्ञाभङ्गमतर्कयन् ॥ १२॥

 

तमेकदा मणिं कण्ठे प्रतिमुच्य महाप्रभम् ।

प्रसेनो हयमारुह्य मृगयां व्यचरद्वने ॥ १३॥

 

प्रसेनं सहयं हत्वा मणिमाच्छिद्य केसरी ।

गिरिं विशन् जाम्बवता निहतो मणिमिच्छता ॥ १४॥

 

सोऽपि चक्रे कुमारस्य मणिं क्रीडनकं बिले ।

अपश्यन् भ्रातरं भ्राता सत्राजित्पर्यतप्यत ॥ १५॥

 

प्रायः कृष्णेन निहतो मणिग्रीवो वनं गतः ।

भ्राता ममेति तच्छ्रुत्वा कर्णे कर्णेऽजपन् जनाः ॥ १६॥

 

भगवांस्तदुपश्रुत्य दुर्यशो लिप्तमात्मनि ।

मार्ष्टुं प्रसेनपदवीमन्वपद्यत नागरैः ॥ १७॥

 

हतं प्रसेनमश्वं च वीक्ष्य केसरिणा वने ।

तं चाद्रिपृष्ठे निहतं ऋक्षेण ददृशुर्जनाः ॥ १८॥

 

ऋक्षराजबिलं भीममन्धेन तमसाऽऽवृतम् ।

एको विवेश भगवानवस्थाप्य बहिः प्रजाः ॥ १९॥

 

तत्र दृष्ट्वा मणिप्रेष्ठं बालक्रीडनकं कृतम् ।

हर्तुं कृतमतिस्तस्मिन्नवतस्थेऽर्भकान्तिके ॥ २०॥

 

तमपूर्वं नरं दृष्ट्वा धात्री चुक्रोश भीतवत् ।

तच्छ्रुत्वाभ्यद्रवत्क्रुद्धो जाम्बवान् बलिनां वरः ॥ २१॥

 

स वै भगवता तेन युयुधे स्वामिनाऽऽत्मनः ।

पुरुषं प्राकृतं मत्वा कुपितो नानुभाववित् ॥ २२॥

 

द्वन्द्वयुद्धं सुतुमुलमुभयोर्विजिगीषतोः ।

आयुधाश्मद्रुमैर्दोर्भिः क्रव्यार्थे श्येनयोरिव ॥ २३॥

 

आसीत्तदष्टाविंशाहमितरेतरमुष्टिभिः ।

वज्रनिष्पेषपरुषैरविश्रममहर्निशम् ॥ २४॥

 

कृष्णमुष्टिविनिष्पातनिष्पिष्टाङ्गोरुबन्धनः ।

क्षीणसत्त्वः स्विन्नगात्रस्तमाहातीव विस्मितः ॥ २५॥

 

जाने त्वां सर्वभूतानां प्राण ओजः सहो बलम् ।

विष्णुं पुराणपुरुषं प्रभविष्णुमधीश्वरम् ॥ २६॥

 

त्वं हि विश्वसृजां स्रष्टा सृज्यानामपि यच्च सत् ।

कालः कलयतामीशः पर आत्मा तथाऽऽत्मनाम् ॥ २७॥

 

यस्येषदुत्कलितरोषकटाक्षमोक्षै-

र्वर्त्मादिशत्क्षुभितनक्रतिमिङ्गिलोऽब्धिः ।

सेतुः कृतः स्वयश उज्ज्वलिता च लङ्का

रक्षः शिरांसि भुवि पेतुरिषुक्षतानि ॥ २८॥

 

इति विज्ञातविज्ञानं ऋक्षराजानमच्युतः ।

व्याजहार महाराज भगवान् देवकीसुतः ॥ २९॥

 

अभिमृश्यारविन्दाक्षः पाणिना शङ्करेण तम् ।

कृपया परया भक्तं प्रेमगम्भीरया गिरा ॥ ३०॥

 

मणिहेतोरिह प्राप्ता वयमृक्षपते बिलम् ।

मिथ्याभिशापं प्रमृजन्नात्मनो मणिनामुना ॥ ३१॥

 

इत्युक्तः स्वां दुहितरं कन्यां जाम्बवतीं मुदा ।

अर्हणार्थं स मणिना कृष्णायोपजहार ह ॥ ३२॥

 

अदृष्ट्वा निर्गमं शौरेः प्रविष्टस्य बिलं जनाः ।

प्रतीक्ष्य द्वादशाहानि दुःखिताः स्वपुरं ययुः ॥ ३३॥

 

निशम्य देवकी देवी रुक्मिण्यानकदुन्दुभिः ।

सुहृदो ज्ञातयोऽशोचन् बिलात्कृष्णमनिर्गतम् ॥ ३४॥

 

सत्राजितं शपन्तस्ते दुःखिता द्वारकौकसः ।

उपतस्थुर्महामायां दुर्गां कृष्णोपलब्धये ॥ ३५॥

 

तेषां तु देव्युपस्थानात्प्रत्यादिष्टाशिषा स च ।

प्रादुर्बभूव सिद्धार्थः सदारो हर्षयन् हरिः ॥ ३६॥

 

उपलभ्य हृषीकेशं मृतं पुनरिवागतम् ।

सह पत्न्या मणिग्रीवं सर्वे जातमहोत्सवाः ॥ ३७॥

 

सत्राजितं समाहूय सभायां राजसन्निधौ ।

प्राप्तिं चाख्याय भगवान् मणिं तस्मै न्यवेदयत् ॥ ३८॥

 

स चातिव्रीडितो रत्नं गृहीत्वावाङ्मुखस्ततः ।

अनुतप्यमानो भवनमगमत्स्वेन पाप्मना ॥ ३९॥

 

सोऽनुध्यायंस्तदेवाघं बलवद्विग्रहाकुलः ।

कथं मृजाम्यात्मरजः प्रसीदेद्वाच्युतः कथम् ॥ ४०॥

 

किं कृत्वा साधु मह्यं स्यान्न शपेद्वा जनो यथा ।

अदीर्घदर्शनं क्षुद्रं मूढं द्रविणलोलुपम् ॥ ४१॥

 

दास्ये दुहितरं तस्मै स्त्रीरत्नं रत्नमेव च ।

उपायोऽयं समीचीनस्तस्य शान्तिर्न चान्यथा ॥ ४२॥

 

एवं व्यवसितो बुद्ध्या सत्राजित्स्वसुतां शुभाम् ।

मणिं च स्वयमुद्यम्य कृष्णायोपजहार ह ॥ ४३॥

 

तां सत्यभामां भगवानुपयेमे यथाविधि ।

बहुभिर्याचितां शीलरूपौदार्यगुणान्विताम् ॥ ४४॥

 

भगवानाह न मणिं प्रतीच्छामो वयं नृप ।

तवास्तां देवभक्तस्य वयं च फलभागिनः ॥ ४५॥

 

इति श्रीमद्भागवाते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे स्यमन्तको-

पाख्याने षट्पञ्चाशत्तमोऽध्यायः ॥ ५६॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ सप्तपञ्चाशत्तमोऽध्यायः - ५७ ॥

 

श्रीशुक उवाच

विज्ञातार्थोऽपि गोविन्दो दग्धानाकर्ण्य पाण्डवान् ।

कुन्तीं च कुल्यकरणे सह रामो ययौ कुरून् ॥ १॥

 

भीष्मं कृपं सविदुरं गान्धारीं द्रोणमेव च ।

तुल्यदुःखौ च सङ्गम्य हा कष्टमिति होचतुः ॥ २॥

 

लब्ध्वैतदन्तरं राजन् शतधन्वानमूचतुः ।

अक्रूरकृतवर्माणौ मणिः कस्मान्न गृह्यते ॥ ३॥

 

योऽस्मभ्यं सम्प्रतिश्रुत्य कन्यारत्नं विगर्ह्य नः ।

कृष्णायादान्न सत्राजित्कस्माद्भ्रातरमन्वियात् ॥ ४॥

 

एवं भिन्नमतिस्ताभ्यां सत्राजितमसत्तमः ।

शयानमवधील्लोभात्स पापः क्षीणजीवितः ॥ ५॥

 

स्त्रीणां विक्रोशमानानां क्रन्दन्तीनामनाथवत् ।

हत्वा पशून् सौनिकवन्मणिमादाय जग्मिवान् ॥ ६॥

 

सत्यभामा च पितरं हतं वीक्ष्य शुचार्पिता ।

व्यलपत्तात तातेति हा हतास्मीति मुह्यती ॥ ७॥

 

तैलद्रोण्यां मृतं प्रास्य जगाम गजसाह्वयम् ।

कृष्णाय विदितार्थाय तप्ताऽऽचख्यौ पितुर्वधम् ॥ ८॥

 

तदाकर्ण्येश्वरौ राजन्ननुसृत्य नृलोकताम् ।

अहो नः परमं कष्टमित्यस्राक्षौ विलेपतुः ॥ ९॥

 

आगत्य भगवांस्तस्मात्सभार्यः साग्रजः पुरम् ।

शतधन्वानमारेभे हन्तुं हर्तुं मणिं ततः ॥ १०॥

 

सोऽपि कृष्णोद्यमं ज्ञात्वा भीतः प्राणपरीप्सया ।

साहाय्ये कृतवर्माणमयाचत स चाब्रवीत् ॥ ११॥

 

नाहमीश्वरयोः कुर्यां हेलनं रामकृष्णयोः ।

को नु क्षेमाय कल्पेत तयोर्वृजिनमाचरन् ॥ १२॥

 

कंसः सहानुगोऽपीतो यद्द्वेषात्त्याजितः श्रिया ।

जरासन्धः सप्तदश संयुगान् विरथो गतः ॥ १३॥

 

प्रत्याख्यातः स चाक्रूरं पार्ष्णिग्राहमयाचत ।

सोऽप्याह को विरुध्येत विद्वानीश्वरयोर्बलम् ॥ १४॥

 

य इदं लीलया विश्वं सृजत्यवति हन्ति च ।

चेष्टां विश्वसृजो यस्य न विदुर्मोहिताजया ॥ १५॥

 

यः सप्तहायनः शैलमुत्पाट्यैकेन पाणिना ।

दधार लीलया बाल उच्छिलीन्ध्रमिवार्भकः ॥ १६॥

 

नमस्तस्मै भगवते कृष्णायाद्भुतकर्मणे ।

अनन्तायादिभूताय कूटस्थायात्मने नमः ॥ १७॥

 

प्रत्याख्यातः स तेनापि शतधन्वा महामणिम् ।

तस्मिन् न्यस्याश्वमारुह्य शतयोजनगं ययौ ॥ १८॥

 

गरुडध्वजमारुह्य रथं रामजनार्दनौ ।

अन्वयातां महावेगैरश्वै राजन् गुरुद्रुहम् ॥ १९॥

 

मिथिलायामुपवने विसृज्य पतितं हयम् ।

पद्भ्यामधावत्सन्त्रस्तः कृष्णोऽप्यन्वद्रवद्रुषा ॥ २०॥

 

पदातेर्भगवांस्तस्य पदातिस्तिग्मनेमिना ।

चक्रेण शिर उत्कृत्य वाससोर्व्यचिनोन्मणिम् ॥ २१॥

 

अलब्धमणिरागत्य कृष्ण आहाग्रजान्तिकम् ।

वृथा हतः शतधनुर्मणिस्तत्र न विद्यते ॥ २२॥

 

तत आह बलो नूनं स मणिः शतधन्वना ।

कस्मिंश्चित्पुरुषे न्यस्तस्तमन्वेष पुरं व्रज ॥ २३॥

 

अहं विदेहमिच्छामि द्रष्टुं प्रियतमं मम ।

इत्युक्त्वा मिथिलां राजन् विवेश यदुनन्दनः ॥ २४॥

 

तं दृष्ट्वा सहसोत्थाय मैथिलः प्रीतमानसः ।

अर्हयामास विधिवदर्हणीयं समर्हणैः ॥ २५॥

 

उवास तस्यां कतिचिन्मिथिलायां समा विभुः ।

मानितः प्रीतियुक्तेन जनकेन महात्मना ।

ततोऽशिक्षद्गदां काले धार्तराष्ट्रः सुयोधनः ॥ २६॥

 

केशवो द्वारकामेत्य निधनं शतधन्वनः ।

अप्राप्तिं च मणेः प्राह प्रियायाः प्रियकृद्विभुः ॥ २७॥

 

ततः स कारयामास क्रिया बन्धोर्हतस्य वै ।

साकं सुहृद्भिर्भगवान् या याः स्युः साम्परायिकाः ॥ २८॥

 

अक्रूरः कृतवर्मा च श्रुत्वा शतधनोर्वधम् ।

व्यूषतुर्भयवित्रस्तौ द्वारकायाः प्रयोजकौ ॥ २९॥

 

अक्रूरे प्रोषितेऽरिष्टान्यासन् वै द्वारकौकसाम् ।

शारीरा मानसास्तापा मुहुर्दैविकभौतिकाः ॥ ३०॥

 

इत्यङ्गोपदिशन्त्येके विस्मृत्य प्रागुदाहृतम् ।

मुनिवासनिवासे किं घटेतारिष्टदर्शनम् ॥ ३१॥

 

देवेऽवर्षति काशीशः श्वफल्कायागताय वै ।

स्वसुतां गान्दिनीं प्रादात्ततोऽवर्षत्स्म काशिषु ॥ ३२॥

 

तत्सुतस्तत्प्रभावोऽसावक्रूरो यत्र यत्र ह ।

देवोऽभिवर्षते तत्र नोपतापा न मारिकाः ॥ ३३॥

 

इति वृद्धवचः श्रुत्वा नैतावदिह कारणम् ।

इति मत्वा समानाय्य प्राहाक्रूरं जनार्दनः ॥ ३४॥

 

पूजयित्वाभिभाष्यैनं कथयित्वा प्रियाः कथाः ।

विज्ञाताखिलचित्तज्ञः स्मयमान उवाच ह ॥ ३५॥

 

ननु दानपते न्यस्तस्त्वय्यास्ते शतधन्वना ।

स्यमन्तको मणिः श्रीमान् विदितः पूर्वमेव नः ॥ ३६॥

 

सत्राजितोऽनपत्यत्वाद्गृह्णीयुर्दुहितुः सुताः ।

दायं निनीयापः पिण्डान् विमुच्यर्णं च शेषितम् ॥ ३७॥

 

तथापि दुर्धरस्त्वन्यैस्त्वय्यास्तां सुव्रते मणिः ।

किन्तु मामग्रजः सम्यङ्न प्रत्येति मणिं प्रति ॥ ३८॥

 

दर्शयस्व महाभाग बन्धूनां शान्तिमावह ।

अव्युच्छिन्ना मखास्तेऽद्य वर्तन्ते रुक्मवेदयः ॥ ३९॥

 

एवं सामभिरालब्धः श्वफल्कतनयो मणिम् ।

आदाय वाससाच्छन्नं ददौ सूर्यसमप्रभम् ॥ ४०॥

 

स्यमन्तकं दर्शयित्वा ज्ञातिभ्यो रज आत्मनः ।

विमृज्य मणिना भूयस्तस्मै प्रत्यर्पयत्प्रभुः ॥ ४१॥

 

यस्त्वेतद्भगवत ईश्वरस्य विष्णो-

र्वीर्याढ्यं वृजिनहरं सुमङ्गलं च ।

आख्यानं पठति श‍ृणोत्यनुस्मरेद्वा

दुष्कीर्तिं दुरितमपोह्य याति शान्तिम् ॥ ४२॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे स्यमन्तको-

पाख्याने सप्तपञ्चाशत्तमोऽध्यायः ॥ ५७॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ अष्टपञ्चाशत्तमोऽध्यायः - ५८ ॥

 

श्रीशुक उवाच

एकदा पाण्डवान् द्रष्टुं प्रतीतान् पुरुषोत्तमः ।

इन्द्रप्रस्थं गतः श्रीमान् युयुधानादिभिर्वृतः ॥ १॥

 

दृष्ट्वा तमागतं पार्था मुकुन्दमखिलेश्वरम् ।

उत्तस्थुर्युगपद्वीराः प्राणा मुख्यमिवागतम् ॥ २॥

 

परिष्वज्याच्युतं वीरा अङ्गसङ्गहतैनसः ।

सानुरागस्मितं वक्त्रं वीक्ष्य तस्य मुदं ययुः ॥ ३॥

 

युधिष्ठिरस्य भीमस्य कृत्वा पादाभिवन्दनम् ।

फाल्गुनं परिरभ्याथ यमाभ्यां चाभिवन्दितः ॥ ४॥

 

परमासन आसीनं कृष्णा कृष्णमनिन्दिता ।

नवोढा व्रीडिता किञ्चिच्छनैरेत्याभ्यवन्दत ॥ ५॥

 

तथैव सात्यकिः पार्थैः पूजितश्चाभिवन्दितः ।

निषसादासनेऽन्ये च पूजिताः पर्युपासत ॥ ६॥

 

पृथां समागत्य कृताभिवादन-

स्तयातिहार्दार्द्रदृशाभिरम्भितः ।

आपृष्टवांस्तां कुशलं सहस्नुषां

पितृष्वसारं परिपृष्टबान्धवः ॥ ७॥

 

तमाह प्रेमवैक्लव्यरुद्धकण्ठाश्रुलोचना ।

स्मरन्ती तान् बहून् क्लेशान् क्लेशापायात्मदर्शनम् ॥ ८॥

 

तदैव कुशलं नोऽभूत्सनाथास्ते कृता वयम् ।

ज्ञातीन् नः स्मरता कृष्ण भ्राता मे प्रेषितस्त्वया ॥ ९॥

 

न तेऽस्ति स्वपरभ्रान्तिर्विश्वस्य सुहृदात्मनः ।

तथापि स्मरतां शश्वत्क्लेशान् हंसि हृदि स्थितः ॥ १०॥

 

युधिष्ठिर उवाच

किं न आचरितं श्रेयो न वेदाहमधीश्वर ।

योगेश्वराणां दुर्दर्शो यन्नो दृष्टः कुमेधसाम् ॥ ११॥

 

इति वै वार्षिकान् मासान् राज्ञा सोऽभ्यर्थितः सुखम् ।

जनयन् नयनानन्दमिन्द्रप्रस्थौकसां विभुः ॥ १२॥

 

एकदा रथमारुह्य विजयो वानरध्वजम् ।

गाण्डीवं धनुरादाय तूणौ चाक्षयसायकौ ॥ १३॥

 

साकं कृष्णेन सन्नद्धो विहर्तुं विपिनं वनम् ।

बहुव्यालमृगाकीर्णं प्राविशत्परवीरहा ॥ १४॥

 

तत्राविध्यच्छरैर्व्याघ्रान् सूकरान् महिषान् रुरून् ।

शरभान् गवयान् खड्गान् हरिणान् शशशल्लकान् ॥ १५॥

 

तान् निन्युः किङ्करा राज्ञे मेध्यान् पर्वण्युपागते ।

तृट् परीतः परिश्रान्तो बीभत्सुर्यमुनामगात् ॥ १६॥

 

तत्रोपस्पृश्य विशदं पीत्वा वारि महारथौ ।

कृष्णौ ददृशतुः कन्यां चरन्तीं चारुदर्शनाम् ॥ १७॥

 

तामासाद्य वरारोहां सुद्विजां रुचिराननाम् ।

पप्रच्छ प्रेषितः सख्या फाल्गुनः प्रमदोत्तमाम् ॥ १८॥

 

का त्वं कस्यासि सुश्रोणि कुतोऽसि किं चिकीर्षसि ।

मन्ये त्वां पतिमिच्छन्तीं सर्वं कथय शोभने ॥ १९॥

 

कालिन्द्युवाच

अहं देवस्य सवितुर्दुहिता पतिमिच्छती ।

विष्णुं वरेण्यं वरदं तपः परममास्थिता ॥ २०॥

 

नान्यं पतिं वृणे वीर तमृते श्रीनिकेतनम् ।

तुष्यतां मे स भगवान् मुकुन्दोऽनाथसंश्रयः ॥ २१॥

 

कालिन्दीति समाख्याता वसामि यमुनाजले ।

निर्मिते भवने पित्रा यावदच्युतदर्शनम् ॥ २२॥

 

तथावदद्गुडाकेशो वासुदेवाय सोऽपि ताम् ।

रथमारोप्य तद्विद्वान् धर्मराजमुपागमत् ॥ २३॥

 

यदैव कृष्णः सन्दिष्टः पार्थानां परमाद्भुतम् ।

कारयामास नगरं विचित्रं विश्वकर्मणा ॥ २४॥

 

भगवांस्तत्र निवसन् स्वानां प्रियचिकीर्षया ।

अग्नये खाण्डवं दातुमर्जुनस्यास सारथिः ॥ २५॥

 

सोऽग्निस्तुष्टो धनुरदाद्धयान् श्वेतान् रथं नृप ।

अर्जुनायाक्षयौ तूणौ वर्म चाभेद्यमस्त्रिभिः ॥ २६॥

 

मयश्च मोचितो वह्नेः सभां सख्य उपाहरत् ।

यस्मिन् दुर्योधनस्यासीज्जलस्थलदृशिभ्रमः ॥ २७॥

 

स तेन समनुज्ञातः सुहृद्भिश्चानुमोदितः ।

आययौ द्वारकां भूयः सात्यकिप्रमुखैर्वृतः ॥ २८॥

 

अथोपयेमे कालिन्दीं सुपुण्यर्त्वर्क्ष ऊर्जिते ।

वितन्वन् परमानन्दं स्वानां परममङ्गलम् ॥ २९॥

 

विन्दानुविन्दावावन्त्यौ दुर्योधनवशानुगौ ।

स्वयंवरे स्वभगिनीं कृष्णे सक्तां न्यषेधताम् ॥ ३०॥

 

राजाधिदेव्यास्तनयां मित्रविन्दां पितृष्वसुः ।

प्रसह्य हृतवान् कृष्णो राजन् राज्ञां प्रपश्यताम् ॥ ३१॥

 

नग्नजिन्नाम कौसल्य आसीद्राजातिधार्मिकः ।

तस्य सत्याभवत्कन्या देवी नाग्नजिती नृप ॥ ३२॥

 

न तां शेकुर्नृपा वोढुमजित्वा सप्त गोवृषान् ।

तीक्ष्णश‍ृङ्गान् सुदुर्धर्षान् वीरगन्धासहान् खलान् ॥ ३३॥

 

तां श्रुत्वा वृषजिल्लभ्यां भगवान् सात्वतां पतिः ।

जगाम कौसल्यपुरं सैन्येन महता वृतः ॥ ३४॥

 

स कोसलपतिः प्रीतः प्रत्युत्थानासनादिभिः ।

अर्हणेनापि गुरुणा पूजयन् प्रतिनन्दितः ॥ ३५॥

 

वरं विलोक्याभिमतं समागतं

नरेन्द्रकन्या चकमे रमापतिम् ।

भूयादयं मे पतिराशिषोऽमलाः

करोतु सत्या यदि मे धृतो व्रतैः ॥ ३६॥

 

यत्पादपङ्कजरजः शिरसा बिभर्ति

श्रीरब्जजः सगिरिशः सह लोकपालैः ।

लीलातनूः स्वकृतसेतुपरीप्सयेशः

काले दधत्स भगवान् मम केन तुष्येत् ॥ ३७॥

 

अर्चितं पुनरित्याह नारायण जगत्पते ।

आत्मानन्देन पूर्णस्य करवाणि किमल्पकः ॥ ३८॥

 

श्रीशुक उवाच

तमाह भगवान् हृष्टः कृतासनपरिग्रहः ।

मेघगम्भीरया वाचा सस्मितं कुरुनन्दन ॥ ३९॥

 

श्रीभगवानुवाच

नरेन्द्र याच्ञा कविभिर्विगर्हिता

राजन्यबन्धोर्निजधर्मवर्तिनः ।

तथापि याचे तव सौहृदेच्छया

कन्यां त्वदीयां न हि शुल्कदा वयम् ॥ ४०॥

 

राजोवाच

कोऽन्यस्तेऽभ्यधिको नाथ कन्यावर इहेप्सितः ।

गुणैकधाम्नो यस्याङ्गे श्रीर्वसत्यनपायिनी ॥ ४१॥

 

किन्त्वस्माभिः कृतः पूर्वं समयः सात्वतर्षभ ।

पुंसां वीर्यपरीक्षार्थं कन्यावरपरीप्सया ॥ ४२॥

 

सप्तैते गोवृषा वीर दुर्दान्ता दुरवग्रहाः ।

एतैर्भग्नाः सुबहवो भिन्नगात्रा नृपात्मजाः ॥ ४३॥

 

यदिमे निगृहीताः स्युस्त्वयैव यदुनन्दन ।

वरो भवानभिमतो दुहितुर्मे श्रियःपते ॥ ४४॥

 

एवं समयमाकर्ण्य बद्ध्वा परिकरं प्रभुः ।

आत्मानं सप्तधा कृत्वा न्यगृह्णाल्लीलयैव तान् ॥ ४५॥

 

बद्ध्वा तान् दामभिः शौरिर्भग्नदर्पान् हतौजसः ।

व्यकर्षल्लीलया बद्धान् बालो दारुमयान् यथा ॥ ४६॥

 

ततः प्रीतः सुतां राजा ददौ कृष्णाय विस्मितः ।

तां प्रत्यगृह्णाद्भगवान् विधिवत्सदृशीं प्रभुः ॥ ४७॥

 

राजपत्न्यश्च दुहितुः कृष्णं लब्ध्वा प्रियं पतिम् ।

लेभिरे परमानन्दं जातश्च परमोत्सवः ॥ ४८॥

 

शङ्खभेर्यानका नेदुर्गीतवाद्यद्विजाशिषः ।

नरा नार्यः प्रमुदिताः सुवासःस्रगलङ्कृताः ॥ ४९॥

 

दशधेनुसहस्राणि पारिबर्हमदाद्विभुः ।

युवतीनां त्रिसाहस्रं निष्कग्रीवसुवासाम् ॥ ५०॥

 

नवनागसहस्राणि नागाच्छतगुणान् रथान् ।

रथाच्छतगुणानश्वानश्वाच्छतगुणान् नरान् ॥ ५१॥

 

दम्पती रथमारोप्य महत्या सेनया वृतौ ।

स्नेहप्रक्लिन्नहृदयो यापयामास कोसलः ॥ ५२॥

 

श्रुत्वैतद्रुरुधुर्भूपा नयन्तं पथि कन्यकाम् ।

भग्नवीर्याः सुदुर्मर्षा यदुभिर्गोवृषैः पुरा ॥ ५३॥

 

तानस्यतः शरव्रातान् बन्धुप्रियकृदर्जुनः ।

गाण्डीवी कालयामास सिंहः क्षुद्रमृगानिव ॥ ५४॥

 

पारिबर्हमुपागृह्य द्वारकामेत्य सत्यया ।

रेमे यदूनामृषभो भगवान् देवकीसुतः ॥ ५५॥

 

श्रुतकीर्तेः सुतां भद्रामुपयेमे पितृष्वसुः ।

कैकेयीं भ्रातृभिर्दत्तां कृष्णः सन्तर्दनादिभिः ॥ ५६॥

 

सुतां च मद्राधिपतेर्लक्ष्मणां लक्षणैर्युताम् ।

स्वयंवरे जहारैकः स सुपर्णः सुधामिव ॥ ५७॥

 

अन्याश्चैवंविधा भार्याः कृष्णस्यासन् सहस्रशः ।

भौमं हत्वा तन्निरोधादाहृताश्चारुदर्शनाः ॥ ५८॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे अष्टमहिष्युद्वाहो

नामाष्टपञ्चाशत्तमोऽध्यायः ॥ ५८॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकोनषष्टितमोऽध्यायः - ५९ ॥

 

राजोवाच

यथा हतो भगवता भौमो येने च ताः स्त्रियः ।

निरुद्धा एतदाचक्ष्व विक्रमं शार्ङ्गधन्वनः ॥ १॥

 

श्रीशुक उवाच

इन्द्रेण हृतछत्रेण हृतकुण्डलबन्धुना ।

हृतामराद्रिस्थानेन ज्ञापितो भौमचेष्टितम् ।

सभार्यो गरुडारूढः प्राग्ज्योतिषपुरं ययौ ॥ २॥

 

गिरिदुर्गैः शस्त्रदुर्गैर्जलाग्न्यनिलदुर्गमम् ।

मुरपाशायुतैर्घोरैर्दृढैः सर्वत आवृतम् ॥ ३॥

 

गदया निर्बिभेदाद्रीन् शस्त्रदुर्गाणि सायकैः ।

चक्रेणाग्निं जलं वायुं मुरपाशांस्तथासिना ॥ ४॥

 

शङ्खनादेन यन्त्राणि हृदयानि मनस्विनाम् ।

प्राकारं गदया गुर्व्या निर्बिभेद गदाधरः ॥ ५॥

 

पाञ्चजन्यध्वनिं श्रुत्वा युगान्ताशनिभीषणम् ।

मुरः शयान उत्तस्थौ दैत्यः पञ्चशिरा जलात् ॥ ६॥

 

त्रिशूलमुद्यम्य सुदुर्निरीक्षणो

युगान्तसूर्यानलरोचिरुल्बणः ।

ग्रसंस्त्रिलोकीमिव पञ्चभिर्मुखै-

रभ्यद्रवत्तार्क्ष्यसुतं यथोरगः ॥ ७॥

 

आविध्य शूलं तरसा गरुत्मते

निरस्य वक्त्रैर्व्यनदत्स पञ्चभिः ।

स रोदसी सर्वदिशोऽम्बरं महा-

नापूरयन्नण्डकटाहमावृणोत् ॥ ८॥

 

तदापतद्वै त्रिशिखं गरुत्मते

हरिः शराभ्यामभिनत्त्रिधौजसा ।

मुखेषु तं चापि शरैरताडय-

त्तस्मै गदां सोऽपि रुषा व्यमुञ्चत ॥ ९॥

 

तामापतन्तीं गदया गदां मृधे

गदाग्रजो निर्बिभिदे सहस्रधा ।

उद्यम्य बाहूनभिधावतोऽजितः

शिरांसि चक्रेण जहार लीलया ॥ १०॥

 

व्यसुः पपाताम्भसि कृत्तशीर्षो

निकृत्तश‍ृङ्गोऽद्रिरिवेन्द्रतेजसा ।

तस्यात्मजाः सप्त पितुर्वधातुराः

प्रतिक्रियामर्षजुषः समुद्यताः ॥ ११॥

 

ताम्रोऽन्तरिक्षः श्रवणो विभावसु-

र्वसुर्नभस्वानरुणश्च सप्तमः ।

पीठं पुरस्कृत्य चमूपतिं मृधे

भौमप्रयुक्ता निरगन् धृतायुधाः ॥ १२॥

 

प्रायुञ्जतासाद्य शरानसीन् गदाः

शक्त्यृष्टिशूलान्यजिते रुषोल्बणाः ।

तच्छस्त्रकूटं भगवान् स्वमार्गणै-

रमोघवीर्यस्तिलशश्चकर्त ह ॥ १३॥

 

तान् पीठमुख्याननयद्यमक्षयं

निकृत्तशीर्षोरुभुजाङ्घ्रिवर्मणः ।

स्वानीकपानच्युतचक्रसायकै-

स्तथा निरस्तान् नरको धरासुतः ॥ १४॥

 

निरीक्ष्य दुर्मर्षण आस्रवन्मदै-

र्गजैः पयोधिप्रभवैर्निराक्रमत् ।

दृष्ट्वा सभार्यं गरुडोपरि स्थितं

सूर्योपरिष्टात्सतडिद्घनं यथा ।

कृष्णं स तस्मै व्यसृजच्छतघ्नीं

योधाश्च सर्वे युगपत्स्म विव्यधुः ॥ १५॥

 

तद्भौमसैन्यं भगवान् गदाग्रजो

विचित्रवाजैर्निशितैः शिलीमुखैः ।

निकृत्तबाहूरुशिरोध्रविग्रहं

चकार तर्ह्येव हताश्वकुञ्जरम् ॥ १६॥

 

यानि योधैः प्रयुक्तानि शस्त्रास्त्राणि कुरूद्वह ।

हरिस्तान्यच्छिनत्तीक्ष्णैः शरैरेकैकशस्त्रिभिः ॥ १७॥

 

उह्यमानः सुपर्णेन पक्षाभ्यां निघ्नता गजान् ।

गरुत्मता हन्यमानास्तुण्डपक्षनखैर्गजाः ॥ १८॥

 

पुरमेवाविशन्नार्ता नरको युध्ययुध्यत ।

दृष्ट्वा विद्रावितं सैन्यं गरुडेनार्दितं स्वकम् ॥ १९॥

 

तं भौमः प्राहरच्छक्त्या वज्रः प्रतिहतो यतः ।

नाकम्पत तया विद्धो मालाहत इव द्विपः ॥ २०॥

 

शूलं भौमोऽच्युतं हन्तुमाददे वितथोद्यमः ।

तद्विसर्गात्पूर्वमेव नरकस्य शिरो हरिः ।

अपाहरद्गजस्थस्य चक्रेण क्षुरनेमिना ॥ २१॥

 

सकुण्डलं चारुकिरीटभूषणं

बभौ पृथिव्यां पतितं समुज्ज्वलत् ।

हा हेति साध्वित्यृषयः सुरेश्वरा

माल्यैर्मुकुन्दं विकिरन्त ईडिरे ॥ २२॥

 

ततश्च भूः कृष्णमुपेत्य कुण्डले

प्रतप्तजाम्बूनदरत्नभास्वरे ।

सवैजयन्त्या वनमालयार्पय-

त्प्राचेतसं छत्रमथो महामणिम् ॥ २३॥

 

अस्तौषीदथ विश्वेशं देवी देववरार्चितम् ।

प्राञ्जलिः प्रणता राजन् भक्तिप्रवणया धिया ॥ २४॥

 

भूमिरुवाच

नमस्ते देवदेवेश शङ्खचक्रगदाधर ।

भक्तेच्छोपात्तरूपाय परमात्मन् नमोऽस्तु ते ॥ २५॥

 

नमः पङ्कजनाभाय नमः पङ्कजमालिने ।

नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥ २६॥

 

नमो भगवते तुभ्यं वासुदेवाय विष्णवे ।

पुरुषायादिबीजाय पूर्णबोधाय ते नमः ॥ २७॥

 

अजाय जनयित्रेऽस्य ब्रह्मणेऽनन्तशक्तये ।

परावरात्मन् भूतात्मन् परमात्मन् नमोऽस्तु ते ॥ २८॥

 

त्वं वै सिसृक्षू रज उत्कटं प्रभो

तमो निरोधाय बिभर्ष्यसंवृतः ।

स्थानाय सत्त्वं जगतो जगत्पते

कालः प्रधानं पुरुषो भवान् परः ॥ २९॥

 

अहं पयो ज्योतिरथानिलो नभो

मात्राणि देवा मन इन्द्रियाणि ।

कर्ता महानित्यखिलं चराचरं

त्वय्यद्वितीये भगवन्नयं भ्रमः ॥ ३०॥

 

तस्यात्मजोऽयं तव पादपङ्कजं

भीतः प्रपन्नार्तिहरोपसादितः ।

तत्पालयैनं कुरु हस्तपङ्कजं

शिरस्यमुष्याखिलकल्मषापहम् ॥ ३१॥

 

श्रीशुक उवाच

इति भूम्यार्थितो वाग्भिर्भगवान् भक्तिनम्रया ।

दत्त्वाभयं भौमगृहं प्राविशत्सकलर्द्धिमत् ॥ ३२॥

 

तत्र राजन्यकन्यानां षट्सहस्राधिकायुतम् ।

भौमाहृतानां विक्रम्य राजभ्यो ददृशे हरिः ॥ ३३॥

 

तं प्रविष्टं स्त्रियो वीक्ष्य नरवीरं विमोहिताः ।

मनसा वव्रिरेऽभीष्टं पतिं दैवोपसादितम् ॥ ३४॥

 

भूयात्पतिरयं मह्यं धाता तदनुमोदताम् ।

इति सर्वाः पृथक्कृष्णे भावेन हृदयं दधुः ॥ ३५॥

 

ताः प्राहिणोद्द्वारवतीं सुमृष्टविरजोऽम्बराः ।

नरयानैर्महाकोशान् रथाश्वान् द्रविणं महत् ॥ ३६॥

 

ऐरावतकुलेभांश्च चतुर्दन्तांस्तरस्विनः ।

पाण्डुरांश्च चतुःषष्टिं प्रेषयामास केशवः ॥ ३७॥

 

गत्वा सुरेन्द्रभवनं दत्त्वादित्यै च कुण्डले ।

पूजितस्त्रिदशेन्द्रेण सहेन्द्राण्या च सप्रियः ॥ ३८॥

 

चोदितो भार्ययोत्पाट्य पारीजातं गरुत्मति ।

आरोप्य सेन्द्रान् विबुधान् निर्जित्योपानयत्पुरम् ॥ ३९॥

 

स्थापितः सत्यभामाया गृहोद्यानोपशोभनः ।

अन्वगुर्भ्रमराः स्वर्गात्तद्गन्धासवलम्पटाः ॥ ४०॥

 

ययाच आनम्य किरीटकोटिभिः

पादौ स्पृशन्नच्युतमर्थसाधनम् ।

सिद्धार्थ एतेन विगृह्यते महा-

नहो सुराणां च तमो धिगाढ्यताम् ॥ ४१॥

 

अथो मुहूर्त एकस्मिन् नानागारेषु ताः स्त्रियः ।

यथोपयेमे भगवान् तावद्रूपधरोऽव्ययः ॥ ४२॥

 

गृहेषु तासामनपाय्यतर्क्यकृ-

न्निरस्तसाम्यातिशयेष्ववस्थितः ।

रेमे रमाभिर्निजकामसम्प्लुतो

यथेतरो गार्हकमेधिकांश्चरन् ॥ ४३॥

 

इत्थं रमापतिमवाप्य पतिं स्त्रियस्ता

ब्रह्मादयोऽपि न विदुः पदवीं यदीयाम् ।

भेजुर्मुदाविरतमेधितयानुराग-

हासावलोकनवसङ्गमजल्पलज्जाः ॥ ४४॥

 

प्रत्युद्गमासनवरार्हणपादशौच-

ताम्बूलविश्रमणवीजनगन्धमाल्यैः ।

केशप्रसारशयनस्नपनोपहार्यैः

दासीशता अपि विभोर्विदधुः स्म दास्यम् ॥ ४५॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे उत्तरार्धे पारिजातहरणनरकवधो

नामैकोनषष्टितमोऽध्यायः ॥ ५९॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ षष्टितमोऽध्यायः - ६० ॥

 

श्रीशुक उवाच

कर्हिचित्सुखमासीनं स्वतल्पस्थं जगद्गुरुम् ।

पतिं पर्यचरद्भैष्मी व्यजनेन सखीजनैः ॥ १॥

 

यस्त्वेतल्लीलया विश्वं सृजत्यत्त्यवतीश्वरः ।

स हि जातः स्वसेतूनां गोपीथाय यदुष्वजः ॥ २॥

 

तस्मिन्नन्तर्गृहे भ्राजन्मुक्तादामविलम्बिना ।

विराजिते वितानेन दीपैर्मणिमयैरपि ॥ ३॥

 

मल्लिकादामभिः पुष्पैर्द्विरेफकुलनादितैः ।

जालरन्ध्रप्रविष्टैश्च गोभिश्चन्द्रमसोऽमलैः ॥ ४॥

 

पारिजातवनामोदवायुनोद्यानशालिना ।

धूपैरगुरुजै राजन् जालरन्ध्रविनिर्गतैः ॥ ५॥

 

पयःफेननिभे शुभ्रे पर्यङ्के कशिपूत्तमे ।

उपतस्थे सुखासीनं जगतामीश्वरं पतिम् ॥ ६॥

 

वालव्यजनमादाय रत्नदण्डं सखीकरात् ।

तेन वीजयती देवी उपासाञ्चक्र ईश्वरम् ॥ ७॥

 

सोपाच्युतं क्वणयती मणिनूपुराभ्यां

रेजेऽङ्गुलीयवलयव्यजनाग्रहस्ता ।

वस्त्रान्तगूढकुचकुङ्कुमशोणहार-

भासानितम्बधृतया च परार्ध्यकाञ्च्या ॥ ८॥

 

तां रूपिणीं श्रियमनन्यगतिं निरीक्ष्य

या लीलया धृततनोरनुरूपरूपा ।

प्रीतः स्मयन्नलककुण्डलनिष्ककण्ठ-

वक्त्रोल्लसत्स्मितसुधां हरिराबभाषे ॥ ९॥

 

श्रीभगवानुवाच

राजपुत्रीप्सिता भूपैर्लोकपालविभूतिभिः ।

महानुभावैः श्रीमद्भी रूपौदार्यबलोर्जितैः ॥ १०॥

 

तान् प्राप्तानर्थिनो हित्वा चैद्यादीन् स्मरदुर्मदान् ।

दत्ता भ्रात्रा स्वपित्रा च कस्मान्नो ववृषेऽसमान् ॥ ११॥

 

राजभ्यो बिभ्यतः सुभ्रूः समुद्रं शरणं गतान् ।

बलवद्भिः कृतद्वेषान् प्रायस्त्यक्तनृपासनान् ॥ १२॥

 

अस्पष्टवर्त्मनां पुंसामलोकपथमीयुषाम् ।

आस्थिताः पदवीं सुभ्रूः प्रायः सीदन्ति योषितः ॥ १३॥

 

निष्किञ्चना वयं शश्वन्निष्किञ्चनजनप्रियाः ।

तस्मात्प्रायेण न ह्याढ्या मां भजन्ति सुमध्यमे ॥ १४॥

 

ययोरात्मसमं वित्तं जन्मैश्वर्याकृतिर्भवः ।

तयोर्विवाहो मैत्री च नोत्तमाधमयोः क्वचित् ॥ १५॥

 

वैदर्भ्येतदविज्ञाय त्वयादीर्घसमीक्षया ।

वृता वयं गुणैर्हीना भिक्षुभिः श्लाघिता मुधा ॥ १६॥

 

अथात्मनोऽनुरूपं वै भजस्व क्षत्रियर्षभम् ।

येन त्वमाशिषः सत्या इहामुत्र च लप्स्यसे ॥ १७॥

 

चैद्यशाल्वजरासन्धदन्तवक्त्रादयो नृपाः ।

मम द्विषन्ति वामोरु रुक्मी चापि तवाग्रजः ॥ १८॥

 

तेषां वीर्यमदान्धानां दृप्तानां स्मयनुत्तये ।

आनीतासि मया भद्रे तेजोऽपहरतासताम् ॥ १९॥

 

उदासीना वयं नूनं न स्त्र्यपत्यार्थकामुकाः ।

आत्मलब्ध्याऽऽस्महे पूर्णा गेहयोर्ज्योतिरक्रियाः ॥ २०॥

 

श्रीशुक उवाच

एतावदुक्त्वा भगवानात्मानं वल्लभामिव ।

मन्यमानामविश्लेषात्तद्दर्पघ्न उपारमत् ॥ २१॥

 

इति त्रिलोकेशपतेस्तदात्मनः

प्रियस्य देव्यश्रुतपूर्वमप्रियम् ।

आश्रुत्य भीता हृदि जातवेपथु-

श्चिन्तां दुरन्तां रुदती जगाम ह ॥ २२॥

 

पदा सुजातेन नखारुणश्रीया

भुवं लिखन्त्यश्रुभिरञ्जनासितैः ।

आसिञ्चती कुङ्कुमरूषितौ स्तनौ

तस्थावधोमुख्यतिदुःखरुद्धवाक् ॥ २३॥

 

तस्याः सुदुःखभयशोकविनष्टबुद्धेः

हस्ताच्छ्लथद्वलयतो व्यजनं पपात ।

देहश्च विक्लवधियः सहसैव मुह्यन्

रम्भेव वायुविहता प्रविकीर्य केशान् ॥ २४॥

 

तद्दृष्ट्वा भगवान् कृष्णः प्रियायाः प्रेमबन्धनम् ।

हास्यप्रौढिमजानन्त्याः करुणः सोऽन्वकम्पत ॥ २५॥

 

पर्यङ्कादवरुह्याशु तामुत्थाप्य चतुर्भुजः ।

केशान् समुह्य तद्वक्त्रं प्रामृजत्पद्मपाणिना ॥ २६॥

 

प्रमृज्याश्रुकले नेत्रे स्तनौ चोपहतौ शुचा ।

आश्लिष्य बाहुना राजन्ननन्यविषयां सतीम् ॥ २७॥

 

सान्त्वयामास सान्त्वज्ञः कृपया कृपणां प्रभुः ।

हास्यप्रौढिभ्रमच्चित्तामतदर्हां सतां गतिः ॥ २८॥

 

श्रीभगवानुवाच

मा मा वैदर्भ्यसूयेथा जाने त्वां मत्परायणाम् ।

त्वद्वचः श्रोतुकामेन क्ष्वेल्याचरितमङ्गने ॥ २९॥

 

मुखं च प्रेमसंरम्भस्फुरिताधरमीक्षितुम् ।

कटाक्षेपारुणापाङ्गं सुन्दरभ्रुकुटीतटम् ॥ ३०॥

 

अयं हि परमो लाभो गृहेषु गृहमेधिनाम् ।

यन्नर्मैरीयते यामः प्रियया भीरु भामिनि ॥ ३१॥

 

श्रीशुक उवाच

सैवं भगवता राजन् वैदर्भी परिसान्त्विता ।

ज्ञात्वा तत्परिहासोक्तिं प्रियत्यागभयं जहौ ॥ ३२॥

 

बभाष ऋषभं पुंसां वीक्षन्ती भगवन्मुखम् ।

सव्रीडहासरुचिरस्निग्धापाङ्गेन भारत ॥ ३३॥

 

रुक्मिण्युवाच

नन्वेवमेतदरविन्दविलोचनाह

यद्वै भवान् भगवतोऽसदृशी विभूम्नः ।

क्व स्वे महिम्न्यभिरतो भगवांस्त्र्यधीशः

क्वाहं गुणप्रकृतिरज्ञगृहीतपादा ॥ ३४॥

 

सत्यं भयादिव गुणेभ्य उरुक्रमान्तः

शेते समुद्र उपलम्भनमात्र आत्मा ।

नित्यं कदिन्द्रियगणैः कृतविग्रहस्त्वं

त्वत्सेवकैर्नृपपदं विधुतं तमोऽन्धम् ॥ ३५॥

 

त्वत्पादपद्ममकरन्दजुषां मुनीनां

वर्त्मास्फुटं नृपशुभिर्ननु दुर्विभाव्यम् ।

यस्मादलौकिकमिवेहितमीश्वरस्य

भूमंस्तवेहितमथो अनु ये भवन्तम् ॥ ३६॥

 

निष्किञ्चनो ननु भवान् न यतोऽस्ति किञ्चि-

द्यस्मै बलिं बलिभुजोऽपि हरन्त्यजाद्याः ।

न त्वा विदन्त्यसुतृपोऽन्तकमाढ्यतान्धाः

प्रेष्ठो भवान् बलिभुजामपि तेऽपि तुभ्यम् ॥ ३७॥

 

त्वं वै समस्तपुरुषार्थमयः फलात्मा

यद्वाञ्छया सुमतयो विसृजन्ति कृत्स्नम् ।

तेषां विभो समुचितो भवतः समाजः

पुंसः स्त्रियाश्च रतयोः सुखदुःखिनोर्न ॥ ३८॥

 

त्वं न्यस्तदण्डमुनिभिर्गदितानुभाव

आत्माऽऽत्मदश्च जगतामिति मे वृतोऽसि ।

हित्वा भवद्भ्रुव उदीरितकालवेग-

ध्वस्ताशिषोऽब्जभवनाकपतीन् कुतोऽन्ये ॥ ३९॥

 

जाड्यं वचस्तव गदाग्रज यस्तु भूपान्

विद्राव्य शार्ङ्गनिनदेन जहर्थ मां त्वम् ।

सिंहो यथा स्वबलिमीश पशून् स्वभागं

तेभ्यो भयाद्यदुदधिं शरणं प्रपन्नः ॥ ४०॥

 

यद्वाञ्छया नृपशिखामणयोऽङ्ग वैन्य-

जायन्तनाहुषगयादय ऐकपत्यम् ।

राज्यं विसृज्य विविशुर्वनमम्बुजाक्ष

सीदन्ति तेऽनुपदवीं त इहास्थिताः किम् ॥ ४१॥

 

कान्यं श्रयेत तव पादसरोजगन्ध-

माघ्राय सन्मुखरितं जनतापवर्गम् ।

लक्ष्म्यालयं त्वविगणय्य गुणालयस्य

मर्त्या सदोरुभयमर्थविविक्तदृष्टिः ॥ ४२॥

 

तं त्वानुरूपमभजं जगतामधीश-

मात्मानमत्र च परत्र च कामपूरम् ।

स्यान्मे तवाङ्घ्रिररणं सृतिभिर्भ्रमन्त्या

यो वै भजन्तमुपयात्यनृतापवर्गः ॥ ४३॥

 

तस्याः स्युरच्युत नृपा भवतोपदिष्टाः

स्त्रीणां गृहेषु खरगोश्वबिडालभृत्याः ।

यत्कर्णमूलमरिकर्षण नोपयाया-

द्युष्मत्कथा मृडविरिञ्चसभासु गीता ॥ ४४॥

 

त्वक्श्मश्रुरोमनखकेशपिनद्धमन्त-

र्मांसास्थिरक्तकृमिविट्कफपित्तवातम् ।

जीवच्छवं भजति कान्तमतिर्विमूढा

या ते पदाब्जमकरन्दमजिघ्रती स्त्री ॥ ४५॥

 

अस्त्वम्बुजाक्ष मम ते चरणानुराग

आत्मन् रतस्य मयि चानतिरिक्तदृष्टेः ।

यर्ह्यस्य वृद्धय उपात्तरजोऽतिमात्रो

मामीक्षसे तदु ह नः परमानुकम्पा ॥ ४६॥

 

नैवालीकमहं मन्ये वचस्ते मधुसूदन ।

अम्बाया इव हि प्रायः कन्यायाः स्याद्रतिः क्वचित् ॥ ४७॥

 

व्यूढायाश्चापि पुंश्चल्या मनोऽभ्येति नवं नवम् ।

बुधोऽसतीं न बिभृयात्तां बिभ्रदुभयच्युतः ॥ ४८॥

 

श्रीभगवानुवाच

साध्व्येतच्छ्रोतुकामैस्त्वं राजपुत्रि प्रलम्भिता ।

मयोदितं यदन्वात्थ सर्वं तत्सत्यमेव हि ॥ ४९॥

 

यान् यान् कामयसे कामान् मय्यकामाय भामिनि ।

सन्ति ह्येकान्तभक्तायास्तव कल्याणि नित्यदा ॥ ५०॥

 

उपलब्धं पतिप्रेम पातिव्रत्यं च तेऽनघे ।

यद्वाक्यैश्चाल्यमानाया न धीर्मय्यपकर्षिता ॥ ५१॥

 

ये मां भजन्ति दाम्पत्ये तपसा व्रतचर्यया ।

कामात्मानोऽपवर्गेशं मोहिता मम मायया ॥ ५२॥

 

मां प्राप्य मानिन्यपवर्गसम्पदं

वाञ्छन्ति ये सम्पद एव तत्पतिम् ।

ते मन्दभाग्या निरयेऽपि ये नृणां

मात्रात्मकत्वान्निरयः सुसङ्गमः ॥ ५३॥

 

दिष्ट्या गृहेश्वर्यसकृन्मयि त्वया

कृतानुवृत्तिर्भवमोचनी खलैः ।

सुदुष्करासौ सुतरां दुराशिषो

ह्यसुम्भराया निकृतिं जुषः स्त्रियाः ॥ ५४॥

 

न त्वादृशीं प्रणयिनीं गृहिणीं गृहेषु

पश्यामि मानिनि यया स्वविवाहकाले ।

प्राप्तान् नृपानवगणय्य रहो हरो मे

प्रस्थापितो द्विज उपश्रुतसत्कथस्य ॥ ५५॥

 

भ्रातुर्विरूपकरणं युधि निर्जितस्य

प्रोद्वाहपर्वणि च तद्वधमक्षगोष्ठ्याम् ।

दुःखं समुत्थमसहोऽस्मदयोगभीत्या

नैवाब्रवीः किमपि तेन वयं जितास्ते ॥ ५६॥

 

दूतस्त्वयाऽऽत्मलभने सुविविक्तमन्त्रः

प्रस्थापितो मयि चिरायति शून्यमेतत् ।

मत्वाजिहास इदमङ्गमनन्ययोग्यं

तिष्ठेत तत्त्वयि वयं प्रतिनन्दयामः ॥ ५७॥

 

श्रीशुक उवाच

एवं सौरतसंलापैर्भगवान् जगदीश्वरः ।

स्वरतो रमया रेमे नरलोकं विडम्बयन् ॥ ५८॥

 

तथान्यासामपि विभुर्गृहेषु गृहवानिव ।

आस्थितो गृहमेधीयान् धर्मान् लोकगुरुर्हरिः ॥ ५९॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे कृष्णरुक्मिणी-

संवादो नाम षष्टितमोऽध्यायः ॥ ६०॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकषष्टितमोऽध्यायः - ६१ ॥

 

श्रीशुक उवाच

एकैकशस्ताः कृष्णस्य पुत्रान् दश दशाबलाः ।

अजीजनन्ननवमान् पितुः सर्वात्मसम्पदा ॥ १॥

 

गृहादनपगं वीक्ष्य राजपुत्र्योऽच्युतं स्थितम् ।

प्रेष्ठं न्यमंसत स्वं स्वं न तत्तत्त्वविदः स्त्रियः ॥ २॥

 

चार्वब्जकोशवदनायतबाहुनेत्र-

सप्रेमहासरसवीक्षितवल्गुजल्पैः ।

सम्मोहिता भगवतो न मनो विजेतुं

स्वैर्विभ्रमैः समशकन् वनिता विभूम्नः ॥ ३॥

 

स्मायावलोकलवदर्शितभावहारि-

भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डैः ।

पत्न्यस्तु षोडशसहस्रमनङ्गबाणैः

यस्येन्द्रियं विमथितुं करणैर्न शेकुः ॥ ४॥

 

इत्थं रमापतिमवाप्य पतिं स्त्रियस्ता

ब्रह्मादयोऽपि न विदुः पदवीं यदीयाम् ।

भेजुर्मुदाविरतमेधितयानुराग-

हासावलोकनवसङ्गमलालसाद्यम् ॥ ५॥

 

प्रत्युद्गमासनवरार्हणपादशौच-

ताम्बूलविश्रमणवीजनगन्धमाल्यैः ।

केशप्रसारशयनस्नपनोपहार्यैः

दासीशता अपि विभोर्विदधुः स्म दास्यम् ॥ ६॥

 

तासां या दश पुत्राणां कृष्णस्त्रीणां पुरोदिताः ।

अष्टौ महिष्यस्तत्पुत्रान् प्रद्युम्नादीन् गृणामि ते ॥ ७॥

 

चारुदेष्णः सुदेष्णश्च चारुदेहश्च वीर्यवान् ।

सुचारुश्चारुगुप्तश्च भद्रचारुस्तथापरः ॥ ८॥

 

चारुचन्द्रो विचारुश्च चारुश्च दशमो हरेः ।

प्रद्युम्नप्रमुखा जाता रुक्मिण्यां नावमाः पितुः ॥ ९॥

 

भानुः सुभानुः स्वर्भानुः प्रभानुर्भानुमांस्तथा ।

चन्द्रभानुर्बृहद्भानुरतिभानुस्तथाष्टमः ॥ १०॥

 

श्रीभानुः प्रतिभानुश्च सत्यभामात्मजा दश ।

साम्बः सुमित्रः पुरुजिच्छतजिच्च सहस्रजित् ॥ ११॥

 

विजयश्चित्रकेतुश्च वसुमान् द्रविडः क्रतुः ।

जाम्बवत्याः सुता ह्येते साम्बाद्याः पितृसम्मताः ॥ १२॥

 

वीरश्चन्द्रोऽश्वसेनश्च चित्रगुर्वेगवान् वृषः ।

आमः शङ्कुर्वसुः श्रीमान् कुन्तिर्नाग्नजितेः सुताः ॥ १३॥

 

श्रुतः कविर्वृषो वीरः सुबाहुर्भद्र एकलः ।

शान्तिर्दर्शः पूर्णमासः कालिन्द्याः सोमकोऽवरः ॥ १४॥

 

प्रघोषो गात्रवान् सिंहो बलः प्रबल ऊर्ध्वगः ।

माद्र्याः पुत्रा महाशक्तिः सह ओजोऽपराजितः ॥ १५॥

 

वृको हर्षोऽनिलो गृध्रो वर्धनोऽन्नाद एव च ।

महाशः पावनो वह्निर्मित्रविन्दात्मजाः क्षुधिः ॥ १६॥

 

सङ्ग्रामजिद्बृहत्सेनः शूरः प्रहरणोऽरिजित् ।

जयः सुभद्रो भद्राया वाम आयुश्च सत्यकः ॥ १७॥

 

दीप्तिमांस्ताम्रतप्ताद्या रोहिण्यास्तनया हरेः ।

प्रद्युम्नाच्चानिरुद्धोऽभूद्रुक्मवत्यां महाबलः ॥ १८॥

 

पुत्र्यां तु रुक्मिणो राजन् नाम्ना भोजकटे पुरे ।

एतेषां पुत्रपौत्राश्च बभूवुः कोटिशो नृप ।

मातरः कृष्णजातानां सहस्राणि च षोडश ॥ १९॥

 

राजोवाच

कथं रुक्म्यरिपुत्राय प्रादाद्दुहितरं युधि ।

कृष्णेन परिभूतस्तं हन्तुं रन्ध्रं प्रतीक्षते ।

एतदाख्याहि मे विद्वन् द्विषोर्वैवाहिकं मिथः ॥ २०॥

 

अनागतमतीतं च वर्तमानमतीन्द्रियम् ।

विप्रकृष्टं व्यवहितं सम्यक् पश्यन्ति योगिनः ॥ २१॥

 

श्रीशुक उवाच

वृतः स्वयंवरे साक्षादनङ्गोऽङ्गयुतस्तया ।

राज्ञः समेतान् निर्जित्य जहारैकरथो युधि ॥ २२॥

 

यद्यप्यनुस्मरन् वैरं रुक्मी कृष्णावमानितः ।

व्यतरद्भागिनेयाय सुतां कुर्वन् स्वसुः प्रियम् ॥ २३॥

 

रुक्मिण्यास्तनयां राजन् कृतवर्मसुतो बली ।

उपयेमे विशालाक्षीं कन्यां चारुमतीं किल ॥ २४॥

 

दौहित्रायानिरुद्धाय पौत्रीं रुक्म्यददाद्धरेः ।

रोचनां बद्धवैरोऽपि स्वसुः प्रियचिकीर्षया ।

जानन्नधर्मं तद्यौनं स्नेहपाशानुबन्धनः ॥ २५॥

 

तस्मिन्नभ्युदये राजन् रुक्मिणी रामकेशवौ ।

पुरं भोजकटं जग्मुः साम्बप्रद्युम्नकादयः ॥ २६॥

 

तस्मिन् निवृत्त उद्वाहे कालिङ्गप्रमुखा नृपाः ।

दृप्तास्ते रुक्मिणं प्रोचुर्बलमक्षैर्विनिर्जय ॥ २७॥

 

अनक्षज्ञो ह्ययं राजन्नपि तद्व्यसनं महत् ।

इत्युक्तो बलमाहूय तेनाक्षैर्रुक्म्यदीव्यत ॥ २८॥

 

शतं सहस्रमयुतं रामस्तत्राददे पणम् ।

तं तु रुक्म्यजयत्तत्र कालिङ्गः प्राहसद्बलम् ।

दन्तान् सन्दर्शयन्नुच्चैर्नामृष्यत्तद्धलायुधः ॥ २९॥

 

ततो लक्षं रुक्म्यगृह्णाद् ग्लहं तत्राजयद्बलः ।

जितवानहमित्याह रुक्मी कैतवमाश्रितः ॥ ३०॥

 

मन्युना क्षुभितः श्रीमान् समुद्र इव पर्वणि ।

जात्यारुणाक्षोऽतिरुषा न्यर्बुदं ग्लहमाददे ॥ ३१॥

 

तं चापि जितवान् रामो धर्मेणच्छलमाश्रितः ।

रुक्मी जितं मयात्रेमे वदन्तु प्राश्निका इति ॥ ३२॥

 

तदाब्रवीन्नभोवाणी बलेनैव जितो ग्लहः ।

धर्मतो वचनेनैव रुक्मी वदति वै मृषा ॥ ३३॥

 

तामनादृत्य वैदर्भो दुष्टराजन्यचोदितः ।

सङ्कर्षणं परिहसन् बभाषे कालचोदितः ॥ ३४॥

 

नैवाक्षकोविदा यूयं गोपाला वनगोचराः ।

अक्षैर्दीव्यन्ति राजानो बाणैश्च न भवादृशाः ॥ ३५॥

 

रुक्मिणैवमधिक्षिप्तो राजभिश्चोपहासितः ।

क्रुद्धः परिघमुद्यम्य जघ्ने तं नृम्णसंसदि ॥ ३६॥

 

कलिङ्गराजं तरसा गृहीत्वा दशमे पदे ।

दन्तानपातयत्क्रुद्धो योऽहसद्विवृतैर्द्विजैः ॥ ३७॥

 

अन्ये निर्भिन्नबाहूरुशिरसो रुधिरोक्षिताः ।

राजानो दुद्रवर्भीता बलेन परिघार्दिताः ॥ ३८॥

 

निहते रुक्मिणि श्याले नाब्रवीत्साध्वसाधु वा ।

रुक्मिणीबलयो राजन् स्नेहभङ्गभयाद्धरिः ॥ ३९॥

 

ततोऽनिरुद्धं सह सूर्यया वरं

रथं समारोप्य ययुः कुशस्थलीम् ।

रामादयो भोजकटाद्दशार्हाः

सिद्धाखिलार्था मधुसूदनाश्रयाः ॥ ४०॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे अनिरुद्ध-

विवाहे रुक्मिवधो नामैकषष्टितमोऽध्यायः ॥ ६१॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ द्विषष्टितमोऽध्यायः - ६२ ॥

 

राजोवाच

बाणस्य तनयामूषामुपयेमे यदूत्तमः ।

तत्र युद्धमभूद्घोरं हरिशङ्करयोर्महत् ।

एतत्सर्वं महायोगिन् समाख्यातुं त्वमर्हसि ॥ १॥

 

श्रीशुक उवाच

बाणः पुत्रशतज्येष्ठो बलेरासीन्महात्मनः ।

येन वामनरूपाय हरयेऽदायि मेदिनी ॥ २॥

 

तस्यौरसः सुतो बाणः शिवभक्तिरतः सदा ।

मान्यो वदान्यो धीमांश्च सत्यसन्धो दृढव्रतः ॥ ३॥

 

शोणिताख्ये पुरे रम्ये स राज्यमकरोत्पुरा ।

तस्य शम्भोः प्रसादेन किङ्करा इव तेऽमराः ।

सहस्रबाहुर्वाद्येन ताण्डवेऽतोषयन्मृडम् ॥ ४॥

 

भगवान् सर्वभूतेशः शरण्यो भक्तवत्सलः ।

वरेण छन्दयामास स तं वव्रे पुराधिपम् ॥ ५॥

 

स एकदाऽऽह गिरिशं पार्श्वस्थं वीर्यदुर्मदः ।

किरीटेनार्कवर्णेन संस्पृशंस्तत्पदाम्बुजम् ॥ ६॥

 

नमस्ये त्वां महादेव लोकानां गुरुमीश्वरम् ।

पुंसामपूर्णकामानां कामपूरामराङ्घ्रिपम् ॥ ७॥

 

दोःसहस्रं त्वया दत्तं परं भाराय मेऽभवत् ।

त्रिलोक्यां प्रतियोद्धारं न लभे त्वदृते समम् ॥ ८॥

 

कण्डूत्या निभृतैर्दोर्भिर्युयुत्सुर्दिग्गजानहम् ।

आद्यायां चूर्णयन्नद्रीन् भीतास्तेऽपि प्रदुद्रुवुः ॥ ९॥

 

तच्छ्रुत्वा भगवान् क्रुद्धः केतुस्ते भज्यते यदा ।

त्वद्दर्पघ्नं भवेन्मूढ संयुगं मत्समेन ते ॥ १०॥

 

इत्युक्तः कुमतिर्हृष्टः स्वगृहं प्राविशन्नृप ।

प्रतीक्षन् गिरिशादेशं स्ववीर्यनशनं कुधीः ॥ ११॥

 

तस्योषा नाम दुहिता स्वप्ने प्राद्युम्निना रतिम् ।

कन्यालभत कान्तेन प्रागदृष्टश्रुतेन सा ॥ १२॥

 

सा तत्र तमपश्यन्ती क्वासि कान्तेति वादिनी ।

सखीनां मध्य उत्तस्थौ विह्वला व्रीडिता भृशम् ॥ १३॥

 

बाणस्य मन्त्री कुम्भाण्डश्चित्रलेखा च तत्सुता ।

सख्यपृच्छत्सखीमूषां कौतूहलसमन्विता ॥ १४॥

 

कं त्वं मृगयसे सुभ्रूः कीदृशस्ते मनोरथः ।

हस्तग्राहं न तेऽद्यापि राजपुत्र्युपलक्षये ॥ १५॥

 

ऊषोवाच

दृष्टः कश्चिन्नरः स्वप्ने श्यामः कमललोचनः ।

पीतवासा बृहद्बाहुर्योषितां हृदयङ्गमः ॥ १६॥

 

तमहं मृगये कान्तं पाययित्वाधरं मधु ।

क्वापि यातः स्पृहयतीं क्षिप्त्वा मां वृजिनार्णवे ॥ १७॥

 

चित्रलेखोवाच

व्यसनं तेऽपकर्षामि त्रिलोक्यां यदि भाव्यते ।

तमानेष्ये नरं यस्ते मनोहर्ता तमादिश ॥ १८॥

 

इत्युक्त्वा देवगन्धर्वसिद्धचारणपन्नगान् ।

दैत्यविद्याधरान् यक्षान् मनुजांश्च यथालिखत् ॥ १९॥

 

मनुजेषु च सा वृष्णीन् शूरमानकदुन्दुभिम् ।

व्यलिखद्रामकृष्णौ च प्रद्युम्नं वीक्ष्य लज्जिता ॥ २०॥

 

अनिरुद्धं विलिखितं वीक्ष्योषावाङ्मुखी ह्रिया ।

सोऽसावसाविति प्राह स्मयमाना महीपते ॥ २१॥

 

चित्रलेखा तमाज्ञाय पौत्रं कृष्णस्य योगिनी ।

ययौ विहायसा राजन् द्वारकां कृष्णपालिताम् ॥ २२॥

 

तत्र सुप्तं सुपर्यङ्के प्राद्युम्निं योगमास्थिता ।

गृहीत्वा शोणितपुरं सख्यै प्रियमदर्शयत् ॥ २३॥

 

सा च तं सुन्दरवरं विलोक्य मुदितानना ।

दुष्प्रेक्ष्ये स्वगृहे पुम्भी रेमे प्राद्युम्निना समम् ॥ २४॥

 

परार्ध्यवासः स्रग्गन्धधूपदीपासनादिभिः ।

पानभोजनभक्ष्यैश्च वाक्यैः शुश्रूषयार्चितः ॥ २५॥

 

गूढः कन्यापुरे शश्वत्प्रवृद्धस्नेहया तया ।

नाहर्गणान् स बुबुधे ऊषयापहृतेन्द्रियः ॥ २६॥

 

तां तथा यदुवीरेण भुज्यमानां हतव्रताम् ।

हेतुभिर्लक्षयाञ्चक्रुराप्रीतां दुरवच्छदैः ॥ २७॥

 

भटा आवेदयाञ्चक्रू राजंस्ते दुहितुर्वयम् ।

विचेष्टितं लक्षयामः कन्यायाः कुलदूषणम् ॥ २८॥

 

अनपायिभिरस्माभिर्गुप्तायाश्च गृहे प्रभो ।

कन्याया दूषणं पुम्भिर्दुष्प्रेक्षाया न विद्महे ॥ २९॥

 

ततः प्रव्यथितो बाणो दुहितुः श्रुतदूषणः ।

त्वरितः कन्यकागारं प्राप्तोऽद्राक्षीद्यदूद्वहम् ॥ ३०॥

 

कामात्मजं तं भुवनैकसुन्दरं

श्यामं पिशङ्गाम्बरमम्बुजेक्षणम् ।

बृहद्भुजं कुण्डलकुन्तलत्विषा

स्मितावलोकेन च मण्डिताननम् ॥ ३१॥

 

दीव्यन्तमक्षैः प्रिययाभिनृम्णया

तदङ्गसङ्गस्तनकुङ्कुमस्रजम् ।

बाह्वोर्दधानं मधुमल्लिकाश्रितां

तस्याग्र आसीनमवेक्ष्य विस्मितः ॥ ३२॥

 

स तं प्रविष्टं वृतमाततायिभि-

र्भटैरनीकैरवलोक्य माधवः ।

उद्यम्य मौर्वं परिघं व्यवस्थितो

यथान्तको दण्डधरो जिघांसया ॥ ३३॥

 

जिघृक्षया तान् परितः प्रसर्पतः

शुनो यथा सूकरयूथपोहऽनत् ।

ते हन्यमाना भवनाद्विनिर्गता

निर्भिन्नमूर्धोरुभुजाः प्रदुद्रुवुः ॥ ३४॥

 

तं नागपाशैर्बलिनन्दनो बली

घ्नन्तं स्वसैन्यं कुपितो बबन्ध ह ।

ऊषा भृशं शोकविषादविह्वला

बद्धं निशम्याश्रुकलाक्ष्यरौदिषीत् ॥ ३५॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे अनिरुद्धबन्धो

नाम द्विषष्टितमोऽध्यायः ॥ ६२॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ त्रिषष्टितमोऽध्यायः - ६३ ॥

 

श्रीशुक उवाच

अपश्यतां चानिरुद्धं तद्बन्धूनां च भारत ।

चत्वारो वार्षिका मासा व्यतीयुरनुशोचताम् ॥ १॥

 

नारदात्तदुपाकर्ण्य वार्तां बद्धस्य कर्म च ।

प्रययुः शोणितपुरं वृष्णयः कृष्णदेवताः ॥ २॥

 

प्रद्युम्नो युयुधानश्च गदः साम्बोऽथ सारणः ।

नन्दोपनन्दभद्राद्या रामकृष्णानुवर्तिनः ॥ ३॥

 

अक्षौहिणीभिर्द्वादशभिः समेताः सर्वतोदिशम् ।

रुरुधुर्बाणनगरं समन्तात्सात्वतर्षभाः ॥ ४॥

 

भज्यमानपुरोद्यानप्राकाराट्टालगोपुरम् ।

प्रेक्षमाणो रुषाऽऽविष्टस्तुल्यसैन्योऽभिनिर्ययौ ॥ ५॥

 

बाणार्थे भगवान् रुद्रः ससुतैः प्रमथैर्वृतः ।

आरुह्य नन्दिवृषभं युयुधे रामकृष्णयोः ॥ ६॥

 

आसीत्सुतुमुलं युद्धमद्भुतं रोमहर्षणम् ।

कृष्णशङ्करयो राजन् प्रद्युम्नगुहयोरपि ॥ ७॥

 

कुम्भाण्डकूपकर्णाभ्यां बलेन सह संयुगः ।

साम्बस्य बाणपुत्रेण बाणेन सह सात्यकेः ॥ ८॥

 

ब्रह्मादयः सुराधीशा मुनयः सिद्धचारणाः ।

गन्धर्वाप्सरसो यक्षा विमानैर्द्रष्टुमागमन् ॥ ९॥

 

शङ्करानुचरान् शौरिर्भूतप्रमथगुह्यकान् ।

डाकिनीर्यातुधानांश्च वेतालान् सविनायकान् ॥ १०॥

 

प्रेतमातृपिशाचांश्च कुष्माण्डान् ब्रह्मराक्षसान् ।

द्रावयामास तीक्ष्णाग्रैः शरैः शार्ङ्गधनुश्च्युतैः ॥ ११॥

 

पृथग्विधानि प्रायुङ्क्त पिनाक्यस्त्राणि शार्ङ्गिणे ।

प्रत्यस्त्रैः शमयामास शार्ङ्गपाणिरविस्मितः ॥ १२॥

 

ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्वतम् ।

आग्नेयस्य च पार्जन्यं नैजं पाशुपतस्य च ॥ १३॥

 

मोहयित्वा तु गिरिशं जृम्भणास्त्रेण जृम्भितम् ।

बाणस्य पृतनां शौरिर्जघानासिगदेषुभिः ॥ १४॥

 

स्कन्दः प्रद्युम्नबाणौघैरर्द्यमानः समन्ततः ।

असृग्विमुञ्चन् गात्रेभ्यः शिखिनापाक्रमद्रणात् ॥ १५॥

 

कुम्भाण्डः कूपकर्णश्च पेततुर्मुसलार्दितौ ।

दुद्रुवुस्तदनीकानि हतनाथानि सर्वतः ॥ १६॥

 

विशीर्यमाणं स्वबलं दृष्ट्वा बाणोऽत्यमर्षणः ।

कृष्णमभ्यद्रवत्सङ्ख्ये रथी हित्वैव सात्यकिम् ॥ १७॥

 

धनूंष्याकृष्य युगपद्बाणः पञ्चशतानि वै ।

एकैकस्मिन् शरौ द्वौ द्वौ सन्दधे रणदुर्मदः ॥ १८॥

 

तानि चिच्छेद भगवान् धनूंषि युगपद्धरिः ।

सारथिं रथमश्वांश्च हत्वा शङ्खमपूरयत् ॥ १९॥

 

तन्माता कोटरा नाम नग्ना मुक्तशिरोरुहा ।

पुरोऽवतस्थे कृष्णस्य पुत्रप्राणरिरक्षया ॥ २०॥

 

ततस्तिर्यङ्मुखो नग्नामनिरीक्षन् गदाग्रजः ।

बाणश्च तावद्विरथश्छिन्नधन्वाविशत्पुरम् ॥ २१॥

 

विद्राविते भूतगणे ज्वरस्तु त्रिशिरास्त्रिपात् ।

अभ्यधावत दाशार्हं दहन्निव दिशो दश ॥ २२॥

 

अथ नारायणो देवस्तं दृष्ट्वा व्यसृजज्ज्वरम् ।

माहेश्वरो वैष्णवश्च युयुधाते ज्वरावुभौ ॥ २३॥

 

माहेश्वरः समाक्रन्दन् वैष्णवेन बलार्दितः ।

अलब्ध्वाभयमन्यत्र भीतो माहेश्वरो ज्वरः ।

शरणार्थी हृषीकेशं तुष्टाव प्रयताञ्जलिः ॥ २४॥

 

ज्वर उवाच

नमामि त्वानन्तशक्तिं परेशं

सर्वात्मानं केवलं ज्ञप्तिमात्रम् ।

विश्वोत्पत्तिस्थानसंरोधहेतुं

यत्तद्ब्रह्म ब्रह्मलिङ्गं प्रशान्तम् ॥ २५॥

 

कालो दैवं कर्म जीवः स्वभावो

द्रव्यं क्षेत्रं प्राण आत्मा विकारः ।

तत्सङ्घातो बीजरोहप्रवाह-

स्त्वन्मायैषा तन्निषेधं प्रपद्ये ॥ २६॥

 

नानाभावैर्लीलयैवोपपन्नै-

र्देवान् साधून् लोकसेतून् बिभर्षि ।

हंस्युन्मार्गान् हिंसया वर्तमानान्

जन्मैतत्ते भारहाराय भूमेः ॥ २७॥

 

तप्तोऽहं ते तेजसा दुःसहेन

शान्तोग्रेणात्युल्बणेन ज्वरेण ।

तावत्तापो देहिनां तेऽङ्घ्रिमूलं

नो सेवेरन् यावदाशानुबद्धाः ॥ २८॥

 

श्रीभगवानुवाच

त्रिशिरस्ते प्रसन्नोऽस्मि व्येतु ते मज्ज्वराद्भयम् ।

यो नौ स्मरति संवादं तस्य त्वन्न भवेद्भयम् ॥ २९॥

 

इत्युक्तोऽच्युतमानम्य गतो माहेश्वरो ज्वरः ।

बाणस्तु रथमारूढः प्रागाद्योत्स्यन् जनार्दनम् ॥ ३०॥

 

ततो बाहुसहस्रेण नानायुधधरोऽसुरः ।

मुमोच परमक्रुद्धो बाणांश्चक्रायुधे नृप ॥ ३१॥

 

तस्यास्यतोऽस्त्राण्यसकृच्चक्रेण क्षुरनेमिना ।

चिच्छेद भगवान् बाहून् शाखा इव वनस्पतेः ॥ ३२॥

 

बाहुषु छिद्यमानेषु बाणस्य भगवान् भवः ।

भक्तानुकम्प्युपव्रज्य चक्रायुधमभाषत ॥ ३३॥

 

श्रीरुद्र उवाच

त्वं हि ब्रह्म परं ज्योतिर्गूढं ब्रह्मणि वाङ्मये ।

यं पश्यन्त्यमलात्मान आकाशमिव केवलम् ॥ ३४॥

 

नाभिर्नभोऽग्निर्मुखमम्बु रेतो

द्यौः शीर्षमाशाः श्रुतिरङ्घ्रिरुर्वी ।

चन्द्रो मनो यस्य दृगर्क आत्मा

अहं समुद्रो जठरं भुजेन्द्रः ॥ ३५॥

 

रोमाणि यस्यौषधयोऽम्बुवाहाः

केशा विरिञ्चो धिषणा विसर्गः ।

प्रजापतिर्हृदयं यस्य धर्मः

स वै भवान् पुरुषो लोककल्पः ॥ ३६॥

 

तवावतारोऽयमकुण्ठधामन्

धर्मस्य गुप्त्यै जगतो भवाय ।

वयं च सर्वे भवतानुभाविता

विभावयामो भुवनानि सप्त ॥ ३७॥

 

त्वमेक आद्यः पुरुषोऽद्वितीय-

स्तुर्यः स्वदृग्घेतुरहेतुरीशः ।

प्रतीयसेऽथापि यथाविकारं

स्वमायया सर्वगुणप्रसिद्ध्यै ॥ ३८॥

 

यथैव सूर्यः पिहितश्छायया स्वया

छायां च रूपाणि च सञ्चकास्ति ।

एवं गुणेनापिहितो गुणांस्त्व-

मात्मप्रदीपो गुणिनश्च भूमन् ॥ ३९॥

 

यन्मायामोहितधियः पुत्रदारगृहादिषु ।

उन्मज्जन्ति निमज्जन्ति प्रसक्ता वृजिनार्णवे ॥ ४०॥

 

देवदत्तमिमं लब्ध्वा नृलोकमजितेन्द्रियः ।

यो नाद्रियेत त्वत्पादौ स शोच्यो ह्यात्मवञ्चकः ॥ ४१॥

 

यस्त्वां विसृजते मर्त्य आत्मानं प्रियमीश्वरम् ।

विपर्ययेन्द्रियार्थार्थं विषमत्त्यमृतं त्यजन् ॥ ४२॥

 

अहं ब्रह्माथ विबुधा मुनयश्चामलाशयाः ।

सर्वात्मना प्रपन्नास्त्वामात्मानं प्रेष्ठमीश्वरम् ॥ ४३॥

 

तं त्वा जगत्स्थित्युदयान्तहेतुं

समं प्रशान्तं सुहृदात्मदैवम् ।

अनन्यमेकं जगदात्मकेतं

भवापवर्गाय भजाम देवम् ॥ ४४॥

 

अयं ममेष्टो दयितोऽनुवर्ती

मयाभयं दत्तममुष्य देव ।

सम्पाद्यतां तद्भवतः प्रसादो

यथा हि ते दैत्यपतौ प्रसादः ॥ ४५॥

 

श्रीभगवानुवाच

यदात्थ भगवंस्त्वं नः करवाम प्रियं तव ।

भवतो यद्व्यवसितं तन्मे साध्वनुमोदितम् ॥ ४६॥

 

अवध्योऽयं ममाप्येष वैरोचनिसुतोऽसुरः ।

प्रह्लादाय वरो दत्तो न वध्यो मे तवान्वयः ॥ ४७॥

 

दर्पोपशमनायास्य प्रवृक्णा बाहवो मया ।

सूदितं च बलं भूरि यच्च भारायितं भुवः ॥ ४८॥

 

चत्वारोऽस्य भुजाः शिष्टा भविष्यन्त्यजरामरः ।

पार्षदमुख्यो भवतो नकुतश्चिद्भयोऽसुरः ॥ ४९॥

 

इति लब्ध्वाभयं कृष्णं प्रणम्य शिरसासुरः ।

प्राद्युम्निं रथमारोप्य सवध्वा समुपानयत् ॥ ५०॥

 

अक्षौहिण्या परिवृतं सुवासःसमलङ्कृतम् ।

सपत्नीकं पुरस्कृत्य ययौ रुद्रानुमोदितः ॥ ५१॥

 

स्वराजधानीं समलङ्कृतां ध्वजैः

सतोरणैरुक्षितमार्गचत्वराम् ।

विवेश शङ्खानकदुन्दुभिस्वनै-

रभ्युद्यतः पौरसुहृद्द्विजातिभिः ॥ ५२॥

 

य एवं कृष्णविजयं शङ्करेण च संयुगम् ।

संस्मरेत्प्रातरुत्थाय न तस्य स्यात्पराजयः ॥ ५३॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे अनिरुद्धानयनं

नाम त्रिषष्टितमोऽध्यायः ॥ ६३॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ चतुःषष्टितमोऽध्यायः - ६४ ॥

 

श्रीशुक उवाच

एकदोपवनं राजन् जग्मुर्यदुकुमारकाः ।

विहर्तुं साम्बप्रद्युम्नचारुभानुगदादयः ॥ १॥

 

क्रीडित्वा सुचिरं तत्र विचिन्वन्तः पिपासिताः ।

जलं निरुदके कूपे ददृशुः सत्त्वमद्भुतम् ॥ २॥

 

कृकलासं गिरिनिभं वीक्ष्य विस्मितमानसाः ।

तस्य चोद्धरणे यत्नं चक्रुस्ते कृपयान्विताः ॥ ३॥

 

चर्मजैस्तान्तवैः पाशैर्बद्ध्वा पतितमर्भकाः ।

नाशक्नुवन् समुद्धर्तुं कृष्णायाचख्युरुत्सुकाः ॥ ४॥

 

तत्रागत्यारविन्दाक्षो भगवान् विश्वभावनः ।

वीक्ष्योज्जहार वामेन तं करेण स लीलया ॥ ५॥

 

स उत्तमश्लोककराभिमृष्टो

विहाय सद्यः कृकलासरूपम् ।

सन्तप्तचामीकरचारुवर्णः

स्वर्ग्यद्भुतालङ्करणाम्बरस्रक् ॥ ६॥

 

पप्रच्छ विद्वानपि तन्निदानं

जनेषु विख्यापयितुं मुकुन्दः ।

कस्त्वं महाभाग वरेण्यरूपो

देवोत्तमं त्वां गणयामि नूनम् ॥ ७॥

 

दशामिमां वा कतमेन कर्मणा

सम्प्रापितोऽस्यतदर्हः सुभद्र ।

आत्मानमाख्याहि विवित्सतां नो

यन्मन्यसे नः क्षममत्र वक्तुम् ॥ ८॥

 

श्रीशुक उवाच

इति स्म राजा सम्पृष्टः कृष्णेनानन्तमूर्तिना ।

माधवं प्रणिपत्याह किरीटेनार्क वर्चसा ॥ ९॥

 

नृग उवाच

नृगो नाम नरेन्द्रोऽहमिक्ष्वाकुतनयः प्रभो ।

दानिष्वाख्यायमानेषु यदि ते कर्णमस्पृशम् ॥ १०॥

 

किं नु तेऽविदितं नाथ सर्वभूतात्मसाक्षिणः ।

कालेनाव्याहतदृशो वक्ष्येऽथापि तवाज्ञया ॥ ११॥

 

यावत्यः सिकता भूमेर्यावत्यो दिवि तारकाः ।

यावत्यो वर्षधाराश्च तावतीरददं स्म गाः ॥ १२॥

 

पयस्विनीस्तरुणीः शीलरूप-

गुणोपपन्नाः कपिला हेमश‍ृङ्गीः ।

न्यायार्जिता रूप्यखुराः सवत्सा

दुकूलमालाभरणा ददावहम् ॥ १३॥

 

स्वलङ्कृतेभ्यो गुणशीलवद्भ्यः

सीदत्कुटुम्बेभ्य ऋतव्रतेभ्यः ।

तपःश्रुतब्रह्मवदान्यसद्भ्यः

प्रादां युवभ्यो द्विजपुङ्गवेभ्यः ॥ १४॥

 

गोभूहिरण्यायतनाश्वहस्तिनः

कन्याः सदासीस्तिलरूप्यशय्याः ।

वासांसि रत्नानि परिच्छदान् रथा-

निष्टं च यज्ञैश्चरितं च पूर्तम् ॥ १५॥

 

कस्यचिद्द्विजमुख्यस्य भ्रष्टा गौर्मम गोधने ।

सम्पृक्ताविदुषा सा च मया दत्ता द्विजातये ॥ १६॥

 

तां नीयमानां तत्स्वामी दृष्ट्रोवाच ममेति तम् ।

ममेति परिग्राह्याह नृगो मे दत्तवानिति ॥ १७॥

 

विप्रौ विवदमानौ मामूचतुः स्वार्थसाधकौ ।

भवान् दातापहर्तेति तच्छ्रुत्वा मेऽभवद्भ्रमः ॥ १८॥

 

अनुनीतावुभौ विप्रौ धर्मकृच्छ्रगतेन वै ।

गवां लक्षं प्रकृष्टानां दास्याम्येषा प्रदीयताम् ॥ १९॥

 

भवन्तावनुगृह्णीतां किङ्करस्याविजानतः ।

समुद्धरत मां कृच्छ्रात्पतन्तं निरयेऽशुचौ ॥ २०॥

 

नाहं प्रतीच्छे वै राजन्नित्युक्त्वा स्वाम्यपाक्रमत् ।

नान्यद्गवामप्ययुतमिच्छामीत्यपरो ययौ ॥ २१॥

 

एतस्मिन्नन्तरे याम्यैर्दूतैर्नीतो यमक्षयम् ।

यमेन पृष्टस्तत्राहं देवदेव जगत्पते ॥ २२॥

 

पूर्वं त्वमशुभं भुङ्क्षे उताहो नृपते शुभम् ।

नान्तं दानस्य धर्मस्य पश्ये लोकस्य भास्वतः ॥ २३॥

 

पूर्वं देवाशुभं भुञ्ज इति प्राह पतेति सः ।

तावदद्राक्षमात्मानं कृकलासं पतन् प्रभो ॥ २४॥

 

ब्रह्मण्यस्य वदान्यस्य तव दासस्य केशव ।

स्मृतिर्नाद्यापि विध्वस्ता भवत्सन्दर्शनार्थिनः ॥ २५॥

 

स त्वं कथं मम विभोऽक्षिपथः परात्मा

योगेश्वरैः श्रुतिदृशामलहृद्विभाव्यः ।

साक्षादधोक्षज उरुव्यसनान्धबुद्धेः

स्यान्मेऽनुदृश्य इह यस्य भवापवर्गः ॥ २६॥

 

देवदेव जगन्नाथ गोविन्द पुरुषोत्तम ।

नारायण हृषीकेश पुण्यश्लोकाच्युताव्यय ॥ २७॥

 

अनुजानीहि मां कृष्ण यान्तं देवगतिं प्रभो ।

यत्र क्वापि सतश्चेतो भूयान्मे त्वत्पदास्पदम् ॥ २८॥

 

नमस्ते सर्वभावाय ब्रह्मणेऽनन्तशक्तये ।

कृष्णाय वासुदेवाय योगानां पतये नमः ॥ २९॥

 

इत्युक्त्वा तं परिक्रम्य पादौ स्पृष्ट्वा स्वमौलिना ।

अनुज्ञातो विमानाग्र्यमारुहत्पश्यतां नृणाम् ॥ ३०॥

 

कृष्णः परिजनं प्राह भगवान् देवकीसुतः ।

ब्रह्मण्यदेवो धर्मात्मा राजन्याननुशिक्षयन् ॥ ३१॥

 

दुर्जरं बत ब्रह्मस्वं भुक्तमग्नेर्मनागपि ।

तेजीयसोऽपि किमुत राज्ञामीश्वरमानिनाम् ॥ ३२॥

 

नाहं हालाहलं मन्ये विषं यस्य प्रतिक्रिया ।

ब्रह्मस्वं हि विषं प्रोक्तं नास्य प्रतिविधिर्भुवि ॥ ३३॥

 

हिनस्ति विषमत्तारं वह्निरद्भिः प्रशाम्यति ।

कुलं समूलं दहति ब्रह्मस्वारणिपावकः ॥ ३४॥

 

ब्रह्मस्वं दुरनुज्ञातं भुक्तं हन्ति त्रिपूरुषम् ।

प्रसह्य तु बलाद्भुक्तं दश पूर्वान् दशापरान् ॥ ३५॥

 

राजानो राजलक्ष्म्यान्धा नात्मपातं विचक्षते ।

निरयं येऽभिमन्यन्ते ब्रह्मस्वं साधु बालिशाः ॥ ३६॥

 

गृह्णन्ति यावतः पांसून् क्रन्दतामश्रुबिन्दवः ।

विप्राणां हृतवृत्तीनां वदान्यानां कुटुम्बिनाम् ॥ ३७॥

 

राजानो राजकुल्याश्च तावतोऽब्दान्निरङ्कुशाः ।

कुम्भीपाकेषु पच्यन्ते ब्रह्मदायापहारिणः ॥ ३८॥

 

स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेच्च यः ।

षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ॥ ३९॥

 

न मे ब्रह्मधनं भूयाद्यद्गृध्वाल्पायुषो नराः ।

पराजिताश्च्युता राज्याद्भवन्त्युद्वेजिनोऽहयः ॥ ४०॥

 

विप्रं कृतागसमपि नैव द्रुह्यत मामकाः ।

घ्नन्तं बहु शपन्तं वा नमस्कुरुत नित्यशः ॥ ४१॥

 

यथाहं प्रणमे विप्राननुकालं समाहितः ।

तथा नमत यूयं च योऽन्यथा मे स दण्डभाक् ॥ ४२॥

 

ब्राह्मणार्थो ह्यपहृतो हर्तारं पातयत्यधः ।

अजानन्तमपि ह्येनं नृगं ब्राह्मणगौरिव ॥ ४३॥

 

एवं विश्राव्य भगवान् मुकुन्दो द्वारकौकसः ।

पावनः सर्वलोकानां विवेश निजमन्दिरम् ॥ ४४॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे नृगोपाख्यानं

नाम चतुःषष्टितमोऽध्यायः ॥ ६४॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ पञ्चषष्टितमोऽध्यायः - ६५ ॥

 

श्रीशुक उवाच

बलभद्रः कुरुश्रेष्ठ भगवान् रथमास्थितः ।

सुहृद्दिदृक्षुरुत्कण्ठः प्रययौ नन्दगोकुलम् ॥ १॥

 

परिष्वक्तश्चिरोत्कण्ठैर्गोपैर्गोपीभिरेव च ।

रामोऽभिवाद्य पितरावाशीर्भिरभिनन्दितः ॥ २॥

 

चिरं नः पाहि दाशार्ह सानुजो जगदीश्वरः ।

इत्यारोप्याङ्कमालिङ्ग्य नेत्रैः सिषिचतुर्जलैः ॥ ३॥

 

गोपवृद्धांश्च विधिवद्यविष्ठैरभिवन्दितः ।

यथावयो यथासख्यं यथासम्बन्धमात्मनः ॥ ४॥

 

समुपेत्याथ गोपालान् हास्यहस्तग्रहादिभिः ।

विश्रान्तं सुखमासीनं पप्रच्छुः पर्युपागताः ॥ ५॥

 

पृष्टाश्चानामयं स्वेषु प्रेमगद्गदया गिरा ।

कृष्णे कमलपत्राक्षे सन्न्यस्ताखिलराधसः ॥ ६॥

 

कच्चिन्नो बान्धवा राम सर्वे कुशलमासते ।

कच्चित्स्मरथ नो राम यूयं दारसुतान्विताः ॥ ७॥

 

दिष्ट्या कंसो हतः पापो दिष्ट्या मुक्ताः सुहृज्जनाः ।

निहत्य निर्जित्य रिपून् दिष्ट्या दुर्गं समाश्रीताः ॥ ८॥

 

गोप्यो हसन्त्यः पप्रच्छू रामसन्दर्शनादृताः ।

कच्चिदास्ते सुखं कृष्णः पुरस्त्रीजनवल्लभः ॥ ९॥

 

कच्चित्स्मरति वा बन्धून् पितरं मातरं च सः ।

अप्यसौ मातरं द्रष्टुं सकृदप्यागमिष्यति ।

अपि वा स्मरतेऽस्माकमनुसेवां महाभुजः ॥ १०॥

 

मातरं पितरं भ्रातॄन् पतीन् पुत्रान् स्वसॄरपि ।

यदर्थे जहिम दाशार्ह दुस्त्यजान् स्वजनान् प्रभो ॥ ११॥

 

ता नः सद्यः परित्यज्य गतः सञ्छिन्नसौहृदः ।

कथं नु तादृशं स्त्रीभिर्न श्रद्धीयेत भाषितम् ॥ १२॥

 

कथं नु गृह्णन्त्यनवस्थितात्मनो

वचः कृतघ्नस्य बुधाः पुरस्त्रियः ।

गृह्णन्ति वै चित्रकथस्य सुन्दर-

स्मितावलोकोच्छ्वसितस्मरातुराः ॥ १३॥

 

किं नस्तत्कथया गोप्यः कथाः कथयतापराः ।

यात्यस्माभिर्विना कालो यदि तस्य तथैव नः ॥ १४॥

 

इति प्रहसितं शौरेर्जल्पितं चारु वीक्षितम् ।

गतिं प्रेमपरिष्वङ्गं स्मरन्त्यो रुरुदुः स्त्रियः ॥ १५॥

 

सङ्कर्षणस्ताः कृष्णस्य सन्देशैर्हृदयङ्गमैः ।

सान्त्वयामास भगवान् नानानुनयकोविदः ॥ १६॥

 

द्वौ मासौ तत्र चावात्सीन्मधुं माधवमेव च ।

रामः क्षपासु भगवान् गोपीनां रतिमावहन् ॥ १७॥

 

पूर्णचन्द्रकलामृष्टे कौमुदीगन्धवायुना ।

यमुनोपवने रेमे सेविते स्त्रीगणैर्वृतः ॥ १८॥

 

वरुणप्रेषिता देवी वारुणी वृक्षकोटरात् ।

पतन्ती तद्वनं सर्वं स्वगन्धेनाध्यवासयत् ॥ १९॥

 

तं गन्धं मधुधाराया वायुनोपहृतं बलः ।

आघ्रायोपगतस्तत्र ललनाभिः समं पपौ ॥ २०॥

 

(उपगीयमानो गन्धर्वैर्वनिताशोभिमण्डले ।

रेमे करेणुयूथेशो माहेन्द्र इव वारणः ॥

 

नेदुर्दुन्दुभयो व्योम्नि ववृषुः कुसुमैर्मुदा ।

गन्धर्वा मुनयो रामं तद्वीर्यैरीडिरे तदा ॥)

उपगीयमानचरितो वनिताभिर्हलायुधः ।

वनेषु व्यचरत्क्षीबो मदविह्वललोचनः ॥ २१॥

 

स्रग्व्येककुण्डलो मत्तो वैजयन्त्या च मालया ।

बिभ्रत्स्मितमुखाम्भोजं स्वेदप्रालेयभूषितम् ॥ २२॥

 

स आजुहाव यमुनां जलक्रीडार्थमीश्वरः ।

निजं वाक्यमनादृत्य मत्त इत्यापगां बलः ।

अनागतां हलाग्रेण कुपितो विचकर्ष ह ॥ २३॥

 

पापे त्वं मामवज्ञाय यन्नायासि मयाऽऽहुता ।

नेष्ये त्वां लाङ्गलाग्रेण शतधा कामचारिणीम् ॥ २४॥

 

एवं निर्भर्त्सिता भीता यमुना यदुनन्दनम् ।

उवाच चकिता वाचं पतिता पादयोर्नृप ॥ २५॥

 

राम राम महाबाहो न जाने तव विक्रमम् ।

यस्यैकांशेन विधृता जगती जगतः पते ॥ २६॥

 

परं भावं भगवतो भगवन् मामजानतीम् ।

मोक्तुमर्हसि विश्वात्मन् प्रपन्नां भक्तवत्सल ॥ २७॥

 

ततो व्यमुञ्चद्यमुनां याचितो भगवान् बलः ।

विजगाह जलं स्त्रीभिः करेणुभिरिवेभराट् ॥ २८॥

 

कामं विहृत्य सलिलादुत्तीर्णायासिताम्बरे ।

भूषणानि महार्हाणि ददौ कान्तिः शुभां स्रजम् ॥ २९॥

 

वसित्वा वाससी नीले मालामामुच्य काञ्चनीम् ।

रेजे स्वलङ्कृतो लिप्तो माहेन्द्र इव वारणः ॥ ३०॥

 

अद्यापि दृश्यते राजन् यमुनाऽऽकृष्टवर्त्मना ।

बलस्यानन्तवीर्यस्य वीर्यं सूचयतीव हि ॥ ३१॥

 

एवं सर्वा निशा याता एकेव रमतो व्रजे ।

रामस्याक्षिप्तचित्तस्य माधुर्यैर्व्रजयोषिताम् ॥ ३२॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे बलदेवविजये

यमुनाकर्षणं नाम पञ्चषष्टितमोऽध्यायः ॥ ६५॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ षट्षष्टितमोऽध्यायः - ६६ ॥

 

श्रीशुक उवाच

नन्दव्रजं गते रामे करूषाधिपतिर्नृप ।

वासुदेवोऽहमित्यज्ञो दूतं कृष्णाय प्राहिणोत् ॥ १॥

 

त्वं वासुदेवो भगवानवतीर्णो जगत्पतिः ।

इति प्रस्तोभितो बालैर्मेन आत्मानमच्युतम् ॥ २॥

 

दूतं च प्राहिणोन्मन्दः कृष्णायाव्यक्तवर्त्मने ।

द्वारकायां यथा बालो नृपो बालकृतोऽबुधः ॥ ३॥

 

दूतस्तु द्वारकामेत्य सभायामास्थितं प्रभुम् ।

कृष्णं कमलपत्राक्षं राजसन्देशमब्रवीत् ॥ ४॥

 

वासुदेवोऽवतीर्णोहमेक एव न चापरः ।

भूतानामनुकम्पार्थं त्वं तु मिथ्याभिधां त्यज ॥ ५॥

 

यानि त्वमस्मच्चिह्नानि मौढ्याद्बिभर्षि सात्वत ।

त्यक्त्वैहि मां त्वं शरणं नो चेद्देहि ममाहवम् ॥ ६॥

 

श्रीशुक उवाच

कत्थनं तदुपाकर्ण्य पौण्ड्रकस्याल्पमेधसः ।

उग्रसेनादयः सभ्या उच्चकैर्जहसुस्तदा ॥ ७॥

 

उवाच दूतं भगवान् परिहासकथामनु ।

उत्स्रक्ष्ये मूढ चिह्नानि यैस्त्वमेवं विकत्थसे ॥ ८॥

 

मुखं तदपिधायाज्ञ कङ्कगृध्रवटैर्वृतः ।

शयिष्यसे हतस्तत्र भविता शरणं शुनाम् ॥ ९॥

 

इति दूतस्तदाक्षेपं स्वामिने सर्वमाहरत् ।

कृष्णोऽपि रथमास्थाय काशीमुपजगाम ह ॥ १०॥

 

पौण्ड्रकोऽपि तदुद्योगमुपलभ्य महारथः ।

अक्षौहिणीभ्यां संयुक्तो निश्चक्राम पुराद्द्रुतम् ॥ ११॥

 

तस्य काशिपतिर्मित्रं पार्ष्णिग्राहोऽन्वयान्नृप ।

अक्षौहिणीभिस्तिसृभिरपश्यत्पौण्ड्रकं हरिः ॥ १२॥

 

शङ्खार्यसिगदाशार्ङ्गश्रीवत्साद्युपलक्षितम् ।

बिभ्राणं कौस्तुभमणिं वनमालाविभूषितम् ॥ १३॥

 

कौशेयवाससी पीते वसानं गरुडध्वजम् ।

अमूल्यमौल्याभरणं स्फुरन्मकरकुण्डलम् ॥ १४॥

 

दृष्ट्वा तमात्मनस्तुल्यवेषं कृत्रिममास्थितम् ।

यथा नटं रङ्गगतं विजहास भृशं हरिः ॥ १५॥

 

शूलैर्गदाभिः परिघैः शक्त्यृष्टिप्रासतोमरैः ।

असिभिः पट्टिशैर्बाणैः प्राहरन्नरयो हरिम् ॥ १६॥

 

कृष्णस्तु तत्पौण्ड्रककाशिराजयो-

र्बलं गजस्यन्दनवाजिपत्तिमत् ।

गदासिचक्रेषुभिरार्दयद्भृशं

यथा युगान्ते हुतभुक्पृथक् प्रजाः ॥ १७॥

 

आयोधनं तद्रथवाजिकुञ्जर-

द्विपत्खरोष्ट्रैररिणावखण्डितैः ।

बभौ चितं मोदवहं मनस्विना-

माक्रीडनं भूतपतेरिवोल्बणम् ॥ १८॥

 

अथाह पौण्ड्रकं शौरिर्भो भो पौण्ड्रक यद्भवान् ।

दूतवाक्येन मामाह तान्यस्त्राण्युत्सृजामि ते ॥ १९॥

 

त्याजयिष्येऽभिधानं मे यत्त्वयाज्ञ मृषा धृतम् ।

व्रजामि शरणं तेऽद्य यदि नेच्छामि संयुगम् ॥ २०॥

 

इति क्षिप्त्वा शितैर्बाणैर्विरथीकृत्य पौण्ड्रकम् ।

शिरोऽवृश्चद्रथाङ्गेन वज्रेणेन्द्रो यथा गिरेः ॥ २१॥

 

तथा काशीपतेः कायाच्छिर उत्कृत्य पत्रिभिः ।

न्यपातयत्काशीपुर्यां पद्मकोशमिवानिलः ॥ २२॥

 

एवं मत्सरिणं हत्वा पौण्ड्रकं ससखं हरिः ।

द्वारकामाविशत्सिद्धैर्गीयमानकथामृतः ॥ २३॥

 

स नित्यं भगवद्ध्यानप्रध्वस्ताखिलबन्धनः ।

बिभ्राणश्च हरे राजन् स्वरूपं तन्मयोऽभवत् ॥ २४॥

 

शिरः पतितमालोक्य राजद्वारे सकुण्डलम् ।

किमिदं कस्य वा वक्त्रमिति संशिश्यिरे जनाः ॥ २५॥

 

राज्ञः काशीपतेर्ज्ञात्वा महिष्यः पुत्रबान्धवाः ।

पौराश्च हा हता राजन् नाथ नाथेति प्रारुदन् ॥ २६॥

 

सुदक्षिणस्तस्य सुतः कृत्वा संस्थाविधिं पितुः ।

निहत्य पितृहन्तारं यास्याम्यपचितिं पितुः ॥ २७॥

 

इत्यात्मनाभिसन्धाय सोपाध्यायो महेश्वरम् ।

सुदक्षिणोऽर्चयामास परमेण समाधिना ॥ २८॥

 

प्रीतोऽविमुक्ते भगवांस्तस्मै वरमदाद्भवः ।

पितृहन्तृवधोपायं स वव्रे वरमीप्सितम् ॥ २९॥

 

दक्षिणाग्निं परिचर ब्राह्मणैः सममृत्विजम् ।

अभिचारविधानेन स चाग्निः प्रमथैर्वृतः ॥ ३०॥

 

साधयिष्यति सङ्कल्पमब्रह्मण्ये प्रयोजितः ।

इत्यादिष्टस्तथा चक्रे कृष्णायाभिचरन् व्रती ॥ ३१॥

 

ततोऽग्निरुत्थितः कुण्डान्मूर्तिमानतिभीषणः ।

तप्तताम्रशिखाश्मश्रुरङ्गारोद्गारिलोचनः ॥ ३२॥

 

दंष्ट्रोग्रभ्रुकुटीदण्डकठोरास्यः स्वजिह्वया ।

आलिहन् सृक्किणी नग्नो विधुन्वंस्त्रिशिखं ज्वलत् ॥ ३३॥

 

पद्भ्यां तालप्रमाणाभ्यां कम्पयन्नवनीतलम् ।

सोऽभ्यधावद्वृतो भूतैर्द्वारकां प्रदहन् दिशः ॥ ३४॥

 

तमाभिचारदहनमायान्तं द्वारकौकसः ।

विलोक्य तत्रसुः सर्वे वनदाहे मृगा यथा ॥ ३५॥

 

अक्षैः सभायां क्रीडन्तं भगवन्तं भयातुराः ।

त्राहि त्राहि त्रिलोकेश वह्नेः प्रदहतः पुरम् ॥ ३६॥

 

श्रुत्वा तज्जनवैक्लव्यं दृष्ट्वा स्वानां च साध्वसम् ।

शरण्यः सम्प्रहस्याह मा भैष्टेत्यवितास्म्यहम् ॥ ३७॥

 

सर्वस्यान्तर्बहिः साक्षी कृत्यां माहेश्वरीं विभुः ।

विज्ञाय तद्विघातार्थं पार्श्वस्थं चक्रमादिशत् ॥ ३८॥

 

तत्सूर्यकोटिप्रतिमं सुदर्शनं

जाज्वल्यमानं प्रलयानलप्रभम् ।

स्वतेजसा खं ककुभोऽथ रोदसी

चक्रं मुकुन्दास्त्रमथाग्निमार्दयत् ॥ ३९॥

 

कृत्यानलः प्रतिहतः स रथाङ्गपाणे-

रस्त्रौजसा स नृप भग्नमुखो निवृत्तः ।

वाराणसीं परिसमेत्य सुदक्षिणं तं

सर्त्विग्जनं समदहत्स्वकृतोऽभिचारः ॥ ४०॥

 

चक्रं च विष्णोस्तदनुप्रविष्टं

वाराणसीं साट्टसभालयापणाम् ।

सगोपुराट्टालककोष्ठसङ्कुलां

सकोशहस्त्यश्वरथान्नशालाम् ॥ ४१॥

 

दग्ध्वा वाराणसीं सर्वां विष्णोश्चक्रं सुदर्शनम् ।

भूयः पार्श्वमुपातिष्ठत्कृष्णस्याक्लिष्टकर्मणः ॥ ४२॥

 

य एतच्छ्रावयेन्मर्त्यः उत्तमश्लोकविक्रमम् ।

समाहितो वा श‍ृणुयात्सर्वपापैः प्रमुच्यते ॥ ४३॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे पौण्ड्रकादि-

वधो नाम षट्षष्टितमोऽध्यायः ॥ ६६॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ सप्तषष्टितमोऽध्यायः - ६७ ॥

 

राजोवाच

भुयोऽहं श्रोतुमिच्छामि रामस्याद्भुतकर्मणः ।

अनन्तस्याप्रमेयस्य यदन्यत्कृतवान् प्रभुः ॥ १॥

 

श्रीशुक उवाच

नरकस्य सखा कश्चिद्द्विविदो नाम वानरः ।

सुग्रीवसचिवः सोऽथ भ्राता मैन्दस्य वीर्यवान् ॥ २॥

 

सख्युः सोऽपचितिं कुर्वन् वानरो राष्ट्रविप्लवम् ।

पुरग्रामाकरान् घोषानदहद्वह्निमुत्सृजन् ॥ ३॥

 

क्वचित्स शैलानुत्पाट्य तैर्देशान् समचूर्णयत् ।

आनर्तान् सुतरामेव यत्रास्ते मित्रहा हरिः ॥ ४॥

 

क्वचित्समुद्रमध्यस्थो दोर्भ्यामुत्क्षिप्य तज्जलम् ।

देशान् नागायुतप्राणो वेलाकूलानमज्जयत् ॥ ५॥

 

आश्रमान् ऋषिमुख्यानां कृत्वा भग्नवनस्पतीन् ।

अदूषयच्छकृन्मूत्रैरग्नीन् वैतानिकान् खलः ॥ ६॥

 

पुरुषान् योषितो दृप्तः क्ष्माभृद्द्रोणीगुहासु सः ।

निक्षिप्य चाप्यधाच्छैलैः पेशस्कारीव कीटकम् ॥ ७॥

 

एवं देशान् विप्रकुर्वन् दूषयंश्च कुलस्त्रियः ।

श्रुत्वा सुललितं गीतं गिरिं रैवतकं ययौ ॥ ८॥

 

तत्रापश्यद्यदुपतिं रामं पुष्करमालिनम् ।

सुदर्शनीयसर्वाङ्गं ललनायूथमध्यगम् ॥ ९॥

 

गायन्तं वारुणीं पीत्वा मदविह्वललोचनम् ।

विभ्राजमानं वपुषा प्रभिन्नमिव वारणम् ॥ १०॥

 

दुष्टः शाखामृगः शाखामारूढः कम्पयन् द्रुमान् ।

चक्रे किलकिलाशब्दमात्मानं सम्प्रदर्शयन् ॥ ११॥

 

तस्य धार्ष्ट्यं कपेर्वीक्ष्य तरुण्यो जातिचापलाः ।

हास्यप्रिया विजहसुर्बलदेवपरिग्रहाः ॥ १२॥

 

ता हेलयामास कपिर्भ्रूक्षेपैः सम्मुखादिभिः ।

दर्शयन् स्वगुदं तासां रामस्य च निरीक्षतः ॥ १३॥

 

तं ग्राव्णा प्राहरत्क्रुद्धो बलः प्रहरतां वरः ।

स वञ्चयित्वा ग्रावाणं मदिराकलशं कपिः ॥ १४॥

 

गृहीत्वा हेलयामास धूर्तस्तं कोपयन् हसन् ।

निर्भिद्य कलशं दुष्टो वासांस्यास्फालयद्बलम् ॥ १५॥

 

कदर्थीकृत्य बलवान् विप्रचक्रे मदोद्धतः ।

तं तस्याविनयं दृष्ट्वा देशांश्च तदुपद्रुतान् ॥ १६॥

 

क्रुद्धो मुसलमादत्त हलं चारिजिघांसया ।

द्विविदोऽपि महावीर्यः सालमुद्यम्य पाणिना ॥ १७॥

 

अभ्येत्य तरसा तेन बलं मूर्धन्यताडयत् ।

तं तु सङ्कर्षणो मूर्ध्नि पतन्तमचलो यथा ॥ १८॥

 

प्रतिजग्राह बलवान् सुनन्देनाहनच्च तम् ।

मुसलाहतमस्तिष्को विरेजे रक्तधारया ॥ १९॥

 

गिरिर्यथा गैरिकया प्रहारं नानुचिन्तयन् ।

पुनरन्यं समुत्क्षिप्य कृत्वा निष्पत्रमोजसा ॥ २०॥

 

तेनाहनत्सुसङ्क्रुद्धस्तं बलः शतधाच्छिनत् ।

ततोऽन्येन रुषा जघ्ने तं चापि शतधाच्छिनत् ॥ २१॥

 

एवं युध्यन् भगवता भग्ने भग्ने पुनः पुनः ।

आकृष्य सर्वतो वृक्षान् निर्वृक्षमकरोद्वनम् ॥ २२॥

 

ततोऽमुञ्चच्छिलावर्षं बलस्योपर्यमर्षितः ।

तत्सर्वं चूर्णयामास लीलया मुसलायुधः ॥ २३॥

 

स बाहू तालसङ्काशौ मुष्टीकृत्य कपीश्वरः ।

आसाद्य रोहिणीपुत्रं ताभ्यां वक्षस्यरूरुजत् ॥ २४॥

 

यादवेन्द्रोऽपि तं दोर्भ्यां त्यक्त्वा मुसललाङ्गले ।

जत्रावभ्यर्दयत्क्रुद्धः सोऽपतद्रुधिरं वमन् ॥ २५॥

 

चकम्पे तेन पतता सटङ्कः सवनस्पतिः ।

पर्वतः कुरुशार्दूल वायुना नौरिवाम्भसि ॥ २६॥

 

जयशब्दो नमः शब्दः साधु साध्विति चाम्बरे ।

सुरसिद्धमुनीन्द्राणामासीत्कुसुमवर्षिणाम् ॥ २७॥

 

एवं निहत्य द्विविदं जगद्व्यतिकरावहम् ।

संस्तूयमानो भगवान् जनैः स्वपुरमाविशत् ॥ २८॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे द्विविधवधो

नाम सप्तषष्टितमोऽध्यायः ॥ ६७॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ अष्टषष्टितमोऽध्यायः - ६८ ॥

 

श्रीशुक उवाच

दुर्योधनसुतां राजन् लक्ष्मणां समितिञ्जजयः ।

स्वयंवरस्थामहरत्साम्बो जाम्बवतीसुतः ॥ १॥

 

कौरवाः कुपिता ऊचुर्दुर्विनीतोऽयमर्भकः ।

कदर्थीकृत्य नः कन्यामकामामहरद्बलात् ॥ २॥

 

बध्नीतेमं दुर्विनीतं किं करिष्यन्ति वृष्णयः ।

येऽस्मत्प्रसादोपचितां दत्तां नो भुञ्जते महीम् ॥ ३॥

 

निगृहीतं सुतं श्रुत्वा यद्येष्यन्तीह वृष्णयः ।

भग्नदर्पाः शमं यान्ति प्राणा इव सुसंयताः ॥ ४॥

 

इति कर्णः शलो भूरिर्यज्ञकेतुः सुयोधनः ।

साम्बमारेभिरे बद्धुं कुरुवृद्धानुमोदिताः ॥ ५॥

 

दृष्ट्वानुधावतः साम्बो धार्तराष्ट्रान् महारथः ।

प्रगृह्य रुचिरं चापं तस्थौ सिंह इवैकलः ॥ ६॥

 

तं ते जिघृक्षवः क्रुद्धास्तिष्ठ तिष्ठेति भाषिणः ।

आसाद्य धन्विनो बाणैः कर्णाग्रण्यः समाकिरन् ॥ ७॥

 

सोऽपविद्धः कुरुश्रेष्ठ कुरुभिर्यदुनन्दनः ।

नामृष्यत्तदचिन्त्यार्भः सिंहः क्षुद्रमृगैरिव ॥ ८॥

 

विस्फूर्ज्य रुचिरं चापं सर्वान् विव्याध सायकैः ।

कर्णादीन् षड्रथान् वीरांस्तावद्भिर्युगपत्पृथक् ॥ ९॥

 

चतुर्भिश्चतुरो वाहानेकैकेन च सारथीन् ।

रथिनश्च महेष्वासांस्तस्य तत्तेऽभ्यपूजयन् ॥ १०॥

 

तं तु ते विरथं चक्रुश्चत्वारश्चतुरो हयान् ।

एकस्तु सारथिं जघ्ने चिच्छेदान्यः शरासनम् ॥ ११॥

 

तं बद्ध्वा विरथीकृत्य कृच्छ्रेण कुरवो युधि ।

कुमारं स्वस्य कन्यां च स्वपुरं जयिनोऽविशन् ॥ १२॥

 

तच्छ्रुत्वा नारदोक्तेन राजन् सञ्जातमन्यवः ।

कुरून् प्रत्युद्यमं चक्रुरुग्रसेनप्रचोदिताः ॥ १३॥

 

सान्त्वयित्वा तु तान् रामः सन्नद्धान् वृष्णिपुङ्गवान् ।

नैच्छत्कुरूणां वृष्णीनां कलिं कलिमलापहः ॥ १४॥

 

जगाम हास्तिनपुरं रथेनादित्यवर्चसा ।

ब्राह्मणैः कुलवृद्धैश्च वृतश्चन्द्र इव ग्रहैः ॥ १५॥

 

गत्वा गजाह्वयं रामो बाह्योपवनमास्थितः ।

उद्धवं प्रेषयामास धृतराष्ट्रं बुभुत्सया ॥ १६॥

 

सोऽभिवन्द्याम्बिकापुत्रं भीष्मं द्रोणं च बाह्लिकम् ।

दुर्योधनं च विधिवद्राममागतमब्रवीत् ॥ १७॥

 

तेऽतिप्रीतास्तमाकर्ण्य प्राप्तं रामं सुहृत्तमम् ।

तमर्चयित्वाभिययुः सर्वे मङ्गलपाणयः ॥ १८॥

 

तं सङ्गम्य यथान्यायं गामर्घ्यं च न्यवेदयन् ।

तेषां ये तत्प्रभावज्ञाः प्रणेमुः शिरसा बलम् ॥ १९॥

 

बन्धून् कुशलिनः श्रुत्वा पृष्ट्वा शिवमनामयम् ।

परस्परमथो रामो बभाषेऽविक्लवं वचः ॥ २०॥

 

उग्रसेनः क्षितीशेशो यद्व आज्ञापयत्प्रभुः ।

तदव्यग्रधियः श्रुत्वा कुरुध्वं माविलम्बितम् ॥ २१॥

 

यद्यूयं बहवस्त्वेकं जित्वाऽधर्मेण धार्मिकम् ।

अबध्नीताथ तन्मृष्ये बन्धूनामैक्यकाम्यया ॥ २२॥

 

वीर्यशौर्यबलोन्नद्धमात्मशक्तिसमं वचः ।

कुरवो बलदेवस्य निशम्योचुः प्रकोपिताः ॥ २३॥

 

अहो महच्चित्रमिदं कालगत्या दुरत्यया ।

आरुरुक्षत्युपानद्वै शिरो मुकुटसेवितम् ॥ २४॥

 

एते यौनेन सम्बद्धाः सहशय्यासनाशनाः ।

वृष्णयस्तुल्यतां नीता अस्मद्दत्तनृपासनाः ॥ २५॥

 

चामरव्यजने शङ्खमातपत्रं च पाण्डुरम् ।

किरीटमासनं शय्यां भुञ्जतेऽस्मदुपेक्षया ॥ २६॥

 

अलं यदूनां नरदेवलाञ्छनै-

र्दातुः प्रतीपैः फणिनामिवामृतम् ।

येऽस्मत्प्रसादोपचिता हि यादवा

आज्ञापयन्त्यद्य गतत्रपा बत ॥ २७॥

 

कथमिन्द्रोऽपि कुरुभिर्भीष्मद्रोणार्जुनादिभिः ।

अदत्तमवरुन्धीत सिंहग्रस्तमिवोरणः ॥ २८॥

 

श्रीशुक उवाच

जन्मबन्धुश्रियोन्नद्धमदास्ते भरतर्षभ ।

आश्राव्य रामं दुर्वाच्यमसभ्याः पुरमाविशन् ॥ २९॥

 

दृष्ट्वा कुरूणां दौःशील्यं श्रुत्वावाच्यानि चाच्युतः ।

अवोचत्कोपसंरब्धो दुष्प्रेक्ष्यः प्रहसन् मुहुः ॥ ३०॥

 

नूनं नानामदोन्नद्धाः शान्तिं नेच्छन्त्यसाधवः ।

तेषां हि प्रशमो दण्डः पशूनां लगुडो यथा ॥ ३१॥

 

अहो यदून् सुसंरब्धान् कृष्णं च कुपितं शनैः ।

सान्त्वयित्वाहमेतेषां शममिच्छन्निहागतः ॥ ३२॥

 

त इमे मन्दमतयः कलहाभिरताः खलाः ।

तं मामवज्ञाय मुहुर्दुर्भाषान् मानिनोऽब्रुवन् ॥ ३३॥

 

नोग्रसेनः किल विभुर्भोजवृष्ण्यन्धकेश्वरः ।

शक्रादयो लोकपाला यस्यादेशानुवर्तिनः ॥ ३४॥

 

सुधर्माऽऽक्रम्यते येन पारिजातोऽमराङ्घ्रिपः ।

आनीय भुज्यते सोऽसौ न किलाध्यासनार्हणः ॥ ३५॥

 

यस्य पादयुगं साक्षाच्छ्रीरुपास्तेऽखिलेश्वरी ।

स नार्हति किल श्रीशो नरदेवपरिच्छदान् ॥ ३६॥

 

यस्याङ्घ्रिपङ्कजरजोऽखिललोकपालैः

मौल्युत्तमैर्धृतमुपासिततीर्थतीर्थम् ।

ब्रह्मा भवोऽहमपि यस्य कलाः कलायाः

श्रीश्चोद्वहेम चिरमस्य नृपासनं क्व ॥ ३७॥

 

भुञ्जते कुरुभिर्दत्तं भूखण्डं वृष्णयः किल ।

उपानहः किल वयं स्वयं तु कुरवः शिरः ॥ ३८॥

 

अहो ऐश्वर्यमत्तानां मत्तानामिव मानिनाम् ।

असम्बद्धा गिरो रूक्षाः कः सहेतानुशासीता ॥ ३९॥

 

अद्य निष्कौरवीं पृथ्वीं करिष्यामीत्यमर्षितः ।

गृहीत्वा हलमुत्तस्थौ दहन्निव जगत्त्रयम् ॥ ४०॥

 

लाङ्गलाग्रेण नगरमुद्विदार्य गजाह्वयम् ।

विचकर्ष स गङ्गायां प्रहरिष्यन्नमर्षितः ॥ ४१॥

 

जलयानमिवाघूर्णं गङ्गायां नगरं पतत् ।

आकृष्यमाणमालोक्य कौरवाः जातसम्भ्रमाः ॥ ४२॥

 

तमेव शरणं जग्मुः सकुटुम्बा जिजीविषवः ।

सलक्ष्मणं पुरस्कृत्य साम्बं प्राञ्जलयः प्रभुम् ॥ ४३॥

 

राम रामाखिलाधार प्रभावं न विदाम ते ।

मूढानां नः कुबुद्धीनां क्षन्तुमर्हस्यतिक्रमम् ॥ ४४॥

 

स्थित्युत्पत्त्यप्ययानां त्वमेको हेतुर्निराश्रयः ।

लोकान् क्रीडनकानीश क्रीडतस्ते वदन्ति हि ॥ ४५॥

 

त्वमेव मूर्ध्नीदमनन्त लीलया

भूमण्डलं बिभर्षि सहस्रमूर्धन् ।

अन्ते च यः स्वात्मनि रुद्धविश्वः

शेषेऽद्वितीयः परिशिष्यमाणः ॥ ४६॥

 

कोपस्तेऽखिलशिक्षार्थं न द्वेषान्न च मत्सरात् ।

बिभ्रतो भगवन् सत्त्वं स्थितिपालनतत्परः ॥ ४७॥

 

नमस्ते सर्वभूतात्मन् सर्वशक्तिधराव्यय ।

विश्वकर्मन् नमस्तेऽस्तु त्वां वयं शरणं गताः ॥ ४८॥

 

श्रीशुक उवाच

एवं प्रपन्नैः संविग्नैर्वेपमानायनैर्बलः ।

प्रसादितः सुप्रसन्नो मा भैष्टेत्यभयं ददौ ॥ ४९॥

 

दुर्योधनः पारिबर्हं कुञ्जरान् षष्टिहायनान् ।

ददौ च द्वादशशतान्ययुतानि तुरङ्गमान् ॥ ५०॥

 

रथानां षट्सहस्राणि रौक्माणां सूर्यवर्चसाम् ।

दासीनां निष्ककण्ठीनां सहस्रं दुहितृवत्सलः ॥ ५१॥

 

प्रतिगृह्य तु तत्सर्वं भगवान् सात्वतर्षभः ।

ससुतः सस्नुषः प्रागात्सुहृद्भिरभिनन्दितः ॥ ५२॥

 

ततः प्रविष्टः स्वपुरं हलायुधः

समेत्य बन्धूननुरक्तचेतसः ।

शशंस सर्वं यदुपुङ्गवानां

मध्ये सभायां कुरुषु स्वचेष्टितम् ॥ ५३॥

 

अद्यापि च पुरं ह्येतत्सूचयद्रामविक्रमम् ।

समुन्नतं दक्षिणतो गङ्गायामनुदृश्यते ॥ ५४॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे हास्तिनपुर-

कर्षणरूपसङ्कर्षणविजयो नामाष्टषष्टितमोऽध्यायः ॥ ६८॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकोनसप्ततितमोऽध्यायः - ६९ ॥

 

श्रीशुक उवाच

नरकं निहतं श्रुत्वा तथोद्वाहं च योषिताम् ।

कृष्णेनैकेन बह्वीनां तद्दिदृक्षुः स्म नारदः ॥ १॥

 

चित्रं बतैतदेकेन वपुषा युगपत्पृथक् ।

गृहेषु द्व्यष्टसाहस्रं स्त्रिय एक उदावहत् ॥ २॥

 

इत्युत्सुको द्वारवतीं देवर्षिर्द्रष्टुमागमत् ।

पुष्पितोपवनारामद्विजालिकुलनादिताम् ॥ ३॥

 

उत्फुल्लेन्दीवराम्भोजकह्लारकुमुदोत्पलैः ।

छुरितेषु सरःसूच्चैः कूजितां हंससारसैः ॥ ४॥

 

प्रासादलक्षैर्नवभिर्जुष्टां स्फाटिकराजतैः ।

महामरकतप्रख्यैः स्वर्णरत्नपरिच्छदैः ॥ ५॥

 

विभक्तरथ्यापथचत्वरापणैः

शालासभाभी रुचिरां सुरालयैः ।

संसिक्तमार्गाङ्गणवीथिदेहलीं

पतत्पताकाध्वजवारितातपाम् ॥ ६॥

 

तस्यामन्तःपुरं श्रीमदर्चितं सर्वधिष्ण्यपैः ।

हरेः स्वकौशलं यत्र त्वष्ट्रा कार्त्स्न्येन दर्शितम् ॥ ७॥

 

तत्र षोडशभिः सद्मसहस्रैः समलङ्कृतम् ।

विवेशैकतमं शौरेः पत्नीनां भवनं महत् ॥ ८॥

 

विष्टब्धं विद्रुमस्तम्भैर्वैदूर्यफलकोत्तमैः ।

इन्द्रनीलमयैः कुड्यैर्जगत्या चाहतत्विषा ॥ ९॥

 

वितानैर्निर्मितैस्त्वष्ट्रा मुक्तादामविलम्बिभिः ।

दान्तैरासनपर्यङ्कैर्मण्युत्तमपरिष्कृतैः ॥ १०॥

 

दासीभिर्निष्ककण्ठीभिः सुवासोभिरलङ्कृतम् ।

पुम्भिः सकञ्चुकोष्णीषसुवस्त्रमणिकुण्डलैः ॥ ११॥

 

रत्नप्रदीपनिकरद्युतिभिर्निरस्त-

ध्वान्तं विचित्रवलभीषु शिखण्डिनोऽङ्ग ।

नृत्यन्ति यत्र विहितागुरुधूपमक्षै-

र्निर्यान्तमीक्ष्य घनबुद्धय उन्नदन्तः ॥ १२॥

 

तस्मिन् समानगुणरूपवयःसुवेष-

दासीसहस्रयुतयानुसवं गृहिण्या ।

विप्रो ददर्श चमरव्यजनेन रुक्म-

दण्डेन सात्वतपतिं परिवीजयन्त्या ॥ १३॥

 

तं सन्निरीक्ष्य भगवान् सहसोत्थितश्री-

पर्यङ्कतः सकलधर्मभृतां वरिष्ठः ।

आनम्य पादयुगलं शिरसा किरीट-

जुष्टेन साञ्जलिरवीविशदासने स्वे ॥ १४॥

 

तस्यावनिज्य चरणौ तदपः स्वमूर्ध्ना-

बिभ्रज्जगद्गुरुतरोऽपि सतां पतिर्हि ।

ब्रह्मण्यदेव इति यद्गुणनामयुक्तं

तस्यैव यच्चरणशौचमशेषतीर्थम् ॥ १५॥

 

सम्पूज्य देवऋषिवर्यमृषिः पुराणो

नारायणो नरसखो विधिनोदितेन ।

वाण्याभिभाष्य मितयामृतमिष्टया तं

प्राह प्रभो भगवते करवाम हे किम् ॥ १६॥

 

नारद उवाच

नैवाद्भुतं त्वयि विभोऽखिललोकनाथे

मैत्री जनेषु सकलेषु दमः खलानाम् ।

निःश्रेयसाय हि जगत्स्थितिरक्षणाभ्यां

स्वैरावतार उरुगाय विदाम सुष्ठु ॥ १७॥

 

दृष्टं तवाङ्घ्रियुगलं जनतापवर्गं

ब्रह्मादिभिर्हृदि विचिन्त्यमगाधबोधैः ।

संसारकूपपतितोत्तरणावलम्बं

ध्यायंश्चराम्यनुगृहाण यथा स्मृतिः स्यात् ॥ १८॥

 

ततोऽन्यदाविशद्गेहं कृष्णपत्न्याः स नारदः ।

योगेश्वरेश्वरस्याङ्ग योगमायाविवित्सया ॥ १९॥

 

दीव्यन्तमक्षैस्तत्रापि प्रियया चोद्धवेन च ।

पूजितः परया भक्त्या प्रत्युत्थानासनादिभिः ॥ २०॥

 

पृष्टश्चाविदुषेवासौ कदाऽऽयातो भवानिति ।

क्रियते किं नु पूर्णानामपूर्णैरस्मदादिभिः ॥ २१॥

 

अथापि ब्रूहि नो ब्रह्मन् जन्मैतच्छोभनं कुरु ।

स तु विस्मित उत्थाय तूष्णीमन्यदगाद्गृहम् ॥ २२॥

 

तत्राप्यचष्ट गोविन्दं लालयन्तं सुतान् शिशून् ।

ततोऽन्यस्मिन् गृहेऽपश्यन्मज्जनाय कृतोद्यमम् ॥ २३॥

 

जुह्वन्तं च वितानाग्नीन् यजन्तं पञ्चभिर्मखैः ।

भोजयन्तं द्विजान् क्वापि भुञ्जानमवशेषितम् ॥ २४॥

 

क्वापि सन्ध्यामुपासीनं जपन्तं ब्रह्म वाग्यतम् ।

एकत्र चासिचर्माभ्यां चरन्तमसिवर्त्मसु ॥ २५॥

 

अश्वैर्गजै रथैः क्वापि विचरन्तं गदाग्रजम् ।

क्वचिच्छयानं पर्यङ्के स्तूयमानं च वन्दिभिः ॥ २६॥

 

मन्त्रयन्तं च कस्मिंश्चिन्मन्त्रिभिश्चोद्धवादिभिः ।

जलक्रीडारतं क्वापि वारमुख्याबलावृतम् ॥ २७॥

 

कुत्रचिद्द्विजमुख्येभ्यो ददतं गाः स्वलङ्कृताः ।

इतिहासपुराणानि श‍ृण्वन्तं मङ्गलानि च ॥ २८॥

 

हसन्तं हास्यकथया कदाचित्प्रियया गृहे ।

क्वापि धर्मं सेवमानमर्थकामौ च कुत्रचित् ॥ २९॥

 

ध्यायन्तमेकमासीनं पुरुषं प्रकृतेः परम् ।

शुश्रूषन्तं गुरून् क्वापि कामैर्भोगैः सपर्यया ॥ ३०॥

 

कुर्वन्तं विग्रहं कैश्चित्सन्धिं चान्यत्र केशवम् ।

कुत्रापि सह रामेण चिन्तयन्तं सतां शिवम् ॥ ३१॥

 

पुत्राणां दुहितॄणां च काले विध्युपयापनम् ।

दारैर्वरैस्तत्सदृशैः कल्पयन्तं विभूतिभिः ॥ ३२॥

 

प्रस्थापनोपानयनैरपत्यानां महोत्सवान् ।

वीक्ष्य योगेश्वरेशस्य येषां लोका विसिस्मिरे ॥ ३३॥

 

यजन्तं सकलान् देवान् क्वापि क्रतुभिरूर्जितैः ।

पूर्तयन्तं क्वचिद्धर्मं कूर्पाराममठादिभिः ॥ ३४॥

 

चरन्तं मृगयां क्वापि हयमारुह्य सैन्धवम् ।

घ्नन्तं ततः पशून् मेध्यान् परीतं यदुपुङ्गवैः ॥ ३५॥

 

अव्यक्तलिङ्गं प्रकृतिष्वन्तःपुरगृहादिषु ।

क्वचिच्चरन्तं योगेशं तत्तद्भावबुभुत्सया ॥ ३६॥

 

अथोवाच हृषीकेशं नारदः प्रहसन्निव ।

योगमायोदयं वीक्ष्य मानुषीमीयुषो गतिम् ॥ ३७॥

 

विदाम योगमायास्ते दुर्दर्शा अपि मायिनाम् ।

योगेश्वरात्मन् निर्भाता भवत्पादनिषेवया ॥ ३८॥

 

अनुजानीहि मां देव लोकांस्ते यशसाऽऽप्लुतान् ।

पर्यटामि तवोद्गायन् लीलां भुवनपावनीम् ॥ ३९॥

 

श्रीभगवानुवाच

ब्रह्मन् धर्मस्य वक्ताहं कर्ता तदनुमोदिता ।

तच्छिक्षयन् लोकमिममास्थितः पुत्र मा खिदः ॥ ४०॥

 

श्रीशुक उवाच

इत्याचरन्तं सद्धर्मान् पावनान् गृहमेधिनाम् ।

तमेव सर्वगेहेषु सन्तमेकं ददर्श ह ॥ ४१॥

 

कृष्णस्यानन्तवीर्यस्य योगमायामहोदयम् ।

मुहुर्दृष्ट्वा ऋषिरभूद्विस्मितो जातकौतुकः ॥ ४२॥

 

इत्यर्थकामधर्मेषु कृष्णेन श्रद्धितात्मना ।

सम्यक् सभाजितः प्रीतस्तमेवानुस्मरन् ययौ ॥ ४३॥

 

एवं मनुष्यपदवीमनुवर्तमानो

नारायणोऽखिलभवाय गृहीतशक्तिः ।

रेमेऽङ्ग षोडशसहस्रवराङ्गनानां

सव्रीडसौहृदनिरीक्षणहासजुष्टः ॥ ४४॥

 

यानीह विश्वविलयोद्भववृत्तिहेतुः

कर्माण्यनन्यविषयाणि हरिश्चकार ।

यस्त्वङ्ग गायति श‍ृणोत्यनुमोदते वा

भक्तिर्भवेद्भगवति ह्यपवर्गमार्गे ॥ ४५॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे कृष्णगार्हस्त्य-

दर्शनं नामैकोनसप्ततितमोऽध्यायः ॥ ६९॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ सप्ततितमोऽध्यायः - ७० ॥

 

श्रीशुक उवाच

अथोषस्युपवृत्तायां कुक्कुटान् कूजतोऽशपन् ।

गृहीतकण्ठ्यः पतिभिर्माधव्यो विरहातुराः ॥ १॥

 

वयांस्यरोरुवन् कृष्णं बोधयन्तीव वन्दिनः ।

गायत्स्वलिष्वनिद्राणि मन्दारवनवायुभिः ॥ २॥

 

मुहूर्तं तं तु वैदर्भी नामृष्यदतिशोभनम् ।

परिरम्भणविश्लेषात्प्रियबाह्वन्तरं गता ॥ ३॥

 

ब्राह्मे मुहूर्त उत्थाय वार्युपस्पृश्य माधवः ।

दध्यौ प्रसन्नकरण आत्मानं तमसः परम् ॥ ४॥

 

एकं स्वयञ्ज्योतिरनन्यमव्ययं

स्वसंस्थया नित्यनिरस्तकल्मषम् ।

ब्रह्माख्यमस्योद्भवनाशहेतुभिः

स्वशक्तिभिर्लक्षितभावनिर्वृतिम् ॥ ५॥

 

अथाप्लुतोऽम्भस्यमले यथाविधि

क्रियाकलापं परिधाय वाससी ।

चकार सन्ध्योपगमादि सत्तमो

हुतानलो ब्रह्म जजाप वाग्यतः ॥ ६॥

 

उपस्थायार्कमुद्यन्तं तर्पयित्वाऽऽत्मनः कलाः ।

देवान् ऋषीन् पितॄन् वृद्धान् विप्रानभ्यर्च्य चात्मवान् ॥ ७॥

 

धेनूनां रुक्मश‍ृङ्गीणां साध्वीनां मौक्तिकस्रजाम् ।

पयस्विनीनां गृष्टीनां सवत्सानां सुवाससाम् ॥ ८॥

 

ददौ रूप्यखुराग्राणां क्षौमाजिनतिलैः सह ।

अलङ्कृतेभ्यो विप्रेभ्यो बद्वं बद्वं दिने दिने ॥ ९॥

 

गोविप्रदेवतावृद्धगुरून् भूतानि सर्वशः ।

नमस्कृत्यात्मसम्भूतीर्मङ्गलानि समस्पृशत् ॥ १०॥

 

आत्मानं भूषयामास नरलोकविभूषणम् ।

वासोभिर्भूषणैः स्वीयैर्दिव्यस्रगनुलेपनैः ॥ ११॥

 

अवेक्ष्याज्यं तथाऽऽदर्शं गोवृषद्विजदेवताः ।

कामांश्च सर्ववर्णानां पौरान्तःपुरचारिणाम् ।

प्रदाप्य प्रकृतीः कामैः प्रतोष्य प्रत्यनन्दत ॥ १२॥

 

संविभज्याग्रतो विप्रान् स्रक्ताम्बूलानुलेपनैः ।

सुहृदः प्रकृतीर्दारानुपायुङ्क्त ततः स्वयम् ॥ १३॥

 

तावत्सूत उपानीय स्यन्दनं परमाद्भुतम् ।

सुग्रीवाद्यैर्हयैर्युक्तं प्रणम्यावस्थितोऽग्रतः ॥ १४॥

 

गृहीत्वा पाणिना पाणी सारथेस्तमथारुहत् ।

सात्यक्युद्धवसंयुक्तः पूर्वाद्रिमिव भास्करः ॥ १५॥

 

ईक्षितोऽन्तःपुरस्त्रीणां सव्रीडप्रेमवीक्षितैः ।

कृच्छ्राद्विसृष्टो निरगाज्जातहासो हरन् मनः ॥ १६॥

 

सुधर्माख्यां सभां सर्वैर्वृष्णिभिः परिवारितः ।

प्राविशद्यन्निविष्टानां न सन्त्यङ्ग षडूर्मयः ॥ १७॥

 

तत्रोपविष्टः परमासने विभु-

र्बभौ स्वभासा ककुभोऽवभासयन् ।

वृतो नृसिंहैर्यदुभिर्यदूत्तमो

यथोडुराजो दिवि तारकागणैः ॥ १८॥

 

तत्रोपमन्त्रिणो राजन् नानाहास्यरसैर्विभुम् ।

उपतस्थुर्नटाचार्या नर्तक्यस्ताण्डवैः पृथक् ॥ १९॥

 

मृदङ्गवीणामुरजवेणुतालदरस्वनैः ।

ननृतुर्जगुस्तुष्टुवुश्च सूतमागधवन्दिनः ॥ २०॥

 

तत्राहुर्ब्राह्मणाः केचिदासीना ब्रह्मवादिनः ।

पूर्वेषां पुण्ययशसां राज्ञां चाकथयन् कथाः ॥ २१॥

 

तत्रैकः पुरुषो राजन्नागतोऽपूर्वदर्शनः ।

विज्ञापितो भगवते प्रतीहारैः प्रवेशितः ॥ २२॥

 

स नमस्कृत्य कृष्णाय परेशाय कृताञ्जलिः ।

राज्ञामावेदयद्दुःखं जरासन्धनिरोधजम् ॥ २३॥

 

ये च दिग्विजये तस्य सन्नतिं न ययुर्नृपाः ।

प्रसह्य रुद्धास्तेनासन्नयुते द्वे गिरिव्रजे ॥ २४॥

 

कृष्ण कृष्णाप्रमेयात्मन् प्रपन्नभयभञ्जन ।

वयं त्वां शरणं यामो भवभीताः पृथग्धियः ॥ २५॥

 

लोको विकर्मनिरतः कुशले प्रमत्तः

कर्मण्ययं त्वदुदिते भवदर्चने स्वे ।

यस्तावदस्य बलवानिह जीविताशां

सद्यश्छिनत्त्यनिमिषाय नमोऽस्तु तस्मै ॥ २६॥

 

लोके भवाञ्जगदिनः कलयावतीर्णः

सद्रक्षणाय खलनिग्रहणाय चान्यः ।

कश्चित्त्वदीयमतियाति निदेशमीश

किं वा जनः स्वकृतमृच्छति तन्न विद्मः ॥ २७॥

 

स्वप्नायितं नृपसुखं परतन्त्रमीश

शश्वद्भयेन मृतकेन धुरं वहामः ।

हित्वा तदात्मनि सुखं त्वदनीहलभ्यं

क्लिश्यामहेऽतिकृपणास्तव माययेह ॥ २८॥

 

तन्नो भवान् प्रणतशोकहराङ्घ्रियुग्मो

बद्धान् वियुङ्क्ष्व मगधाह्वयकर्मपाशात् ।

यो भूभुजोऽयुतमतङ्गजवीर्यमेको

बिभ्रद्रुरोध भवने मृगराडिवावीः ॥ २९॥

 

यो वै त्वया द्विनवकृत्व उदात्तचक्र-

भग्नो मृधे खलु भवन्तमनन्तवीर्यम् ।

जित्वा नृलोकनिरतं सकृदूढदर्पो

युष्मत्प्रजा रुजति नोऽजित तद्विधेहि ॥ ३०॥

 

दूत उवाच

इति मागधसंरुद्धा भवद्दर्शनकङ्क्षिणः ।

प्रपन्नाः पादमूलं ते दीनानां शं विधीयताम् ॥ ३१॥

 

श्रीशुक उवाच

राजदूते ब्रुवत्येवं देवर्षिः परमद्युतिः ।

बिभ्रत्पिङ्गजटाभारं प्रादुरासीद्यथा रविः ॥ ३२॥

 

तं दृष्ट्वा भगवान् कृष्णः सर्वलोकेश्वरेश्वरः ।

ववन्द उत्थितः शीर्ष्णा ससभ्यः सानुगो मुदा ॥ ३३॥

 

सभाजयित्वा विधिवत्कृतासनपरिग्रहम् ।

बभाषे सूनृतैर्वाक्यैः श्रद्धया तर्पयन् मुनिम् ॥ ३४॥

 

अपि स्विदद्य लोकानां त्रयाणामकुतोभयम् ।

ननु भूयान् भगवतो लोकान् पर्यटतो गुणः ॥ ३५॥

 

न हि तेऽविदितं किञ्चिल्लोकेष्वीश्वरकर्तृषु ।

अथ पृच्छामहे युष्मान् पाण्डवानां चिकीर्षितम् ॥ ३६॥

 

श्रीनारद उवाच

दृष्टा माया ते बहुशो दुरत्यया

माया विभो विश्वसृजश्च मायिनः ।

भूतेषु भूमंश्चरतः स्वशक्तिभि-

र्वह्नेरिवच्छन्नरुचो न मेऽद्भुतम् ॥ ३७॥

 

तवेहितं कोऽर्हति साधु वेदितुं

स्वमाययेदं सृजतो नियच्छतः ।

यद्विद्यमानात्मतयावभासते

तस्मै नमस्ते स्वविलक्षणात्मने ॥ ३८॥

 

जीवस्य यः संसरतो विमोक्षणं

न जानतोऽनर्थवहाच्छरीरतः ।

लीलावतारैः स्वयशःप्रदीपकं

प्राज्वालयत्त्वा तमहं प्रपद्ये ॥ ३९॥

 

अथाप्याश्रावये ब्रह्म नरलोकविडम्बनम् ।

राज्ञः पैतृष्वसेयस्य भक्तस्य च चिकीर्षितम् ॥ ४०॥

 

यक्ष्यति त्वां मखेन्द्रेण राजसूयेन पाण्डवः ।

पारमेष्ठ्यकामो नृपतिस्तद्भवाननुमोदताम् ॥ ४१॥

 

तस्मिन् देव क्रतुवरे भवन्तं वै सुरादयः ।

दिदृक्षवः समेष्यन्ति राजानश्च यशस्विनः ॥ ४२॥

 

श्रवणात्कीर्तनाद्ध्यानात्पूयन्तेऽन्तेवसायिनः ।

तव ब्रह्ममयस्येश किमुतेक्षाभिमर्शिनः ॥ ४३॥

 

यस्यामलं दिवि यशः प्रथितं रसायां

भूमौ च ते भुवनमङ्गल दिग्वितानम् ।

मन्दाकिनीति दिवि भोगवतीति चाधो

गङ्गेति चेह चरणाम्बु पुनाति विश्वम् ॥ ४४॥

 

श्रीशुक उवाच

तत्र तेष्वात्मपक्षेष्वगृह्णत्सु विजिगीषया ।

वाचः पेशैः स्मयन् भृत्यमुद्धवं प्राह केशवः ॥ ४५॥

 

श्रीभगवानुवाच

त्वं हि नः परमं चक्षुः सुहृन्मन्त्रार्थतत्त्ववित् ।

तथात्र ब्रूह्यनुष्ठेयं श्रद्दध्मः करवाम तत् ॥ ४६॥

 

इत्युपामन्त्रितो भर्त्रा सर्वज्ञेनापि मुग्धवत् ।

निदेशं शिरसाऽऽधाय उद्धवः प्रत्यभाषत ॥ ४७॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे भगवद्यान-

विचारो नाम सप्ततितमोऽध्यायः ॥ ७०॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकसप्ततितमोऽध्यायः - ७१ ॥

 

श्रीशुक उवाच

इत्युदीरितमाकर्ण्य देवऋषेरुद्धवोऽब्रवीत् ।

सभ्यानां मतमाज्ञाय कृष्णस्य च महामतिः ॥ १॥

 

उद्धव उवाच

यदुक्तमृषिणा देव साचिव्यं यक्ष्यतस्त्वया ।

कार्यं पैतृष्वसेयस्य रक्षा च शरणैषिणाम् ॥ २॥

 

यष्टव्यं राजसूयेन दिक्चक्रजयिना विभो ।

अतो जरासुतजय उभयार्थो मतो मम ॥ ३॥

 

अस्माकं च महानर्थो ह्येतेनैव भविष्यति ।

यशश्च तव गोविन्द राज्ञो बद्धान् विमुञ्चतः ॥ ४॥

 

स वै दुर्विषहो राजा नागायुतसमो बले ।

बलिनामपि चान्येषां भीमं समबलं विना ॥ ५॥

 

द्वैरथे स तु जेतव्यो मा शताक्षौहिणीयुतः ।

ब्रह्मण्योऽभ्यर्थितो विप्रैर्न प्रत्याख्याति कर्हिचित् ॥ ६॥

 

ब्रह्मवेषधरो गत्वा तं भिक्षेत वृकोदरः ।

हनिष्यति न सन्देहो द्वैरथे तव सन्निधौ ॥ ७॥

 

निमित्तं परमीशस्य विश्वसर्गनिरोधयोः ।

हिरण्यगर्भः शर्वश्च कालस्यारूपिणस्तव ॥ ८॥

 

गायन्ति ते विशदकर्म गृहेषु देव्यो

राज्ञां स्वशत्रुवधमात्मविमोक्षणं च ।

गोप्यश्च कुञ्जरपतेर्जनकात्मजायाः

पित्रोश्च लब्धशरणा मुनयो वयं च ॥ ९॥

 

जरासन्धवधः कृष्ण भूर्यर्थायोपकल्पते ।

प्रायः पाकविपाकेन तव चाभिमतः क्रतुः ॥ १०॥

 

श्रीशुक उवाच

इत्युद्धववचो राजन् सर्वतोभद्रमच्युतम् ।

देवर्षिर्यदुवृद्धाश्च कृष्णश्च प्रत्यपूजयन् ॥ ११॥

 

अथादिशत्प्रयाणाय भगवान् देवकीसुतः ।

भृत्यान् दारुकजैत्रादीननुज्ञाप्य गुरून् विभुः ॥ १२॥

 

निर्गमय्यावरोधान् स्वान् ससुतान् सपरिच्छदान् ।

सङ्कर्षणमनुज्ञाप्य यदुराजं च शत्रुहन् ।

सूतोपनीतं स्वरथमारुहद्गरुडध्वजम् ॥ १३॥

 

ततो रथद्विपभटसादिनायकैः

करालया परिवृत आत्मसेनया ।

मृदङ्गभेर्यानकशङ्खगोमुखैः

प्रघोषघोषित्ककुभो निराक्रमत् ॥ १४॥

 

नृवाजिकाञ्चनशिबिकाभिरच्युतं

सहात्मजाः पतिमनु सुव्रता ययुः ।

वराम्बराभरणविलेपनस्रजः

सुसंवृता नृभिरसिचर्मपाणिभिः ॥ १५॥

 

नरोष्ट्रगोमहिषखराश्वतर्यनः

करेणुभिः परिजनवारयोषितः ।

स्वलङ्कृताः कटकुटिकम्बलाम्बरा-

द्युपस्करा ययुरधियुज्य सर्वतः ॥ १६॥

 

बलं बृहद्ध्वजपटछत्रचामरै-

र्वरायुधाभरणकिरीटवर्मभिः ।

दिवांशुभिस्तुमुलरवं बभौ रवे-

र्यथार्णवः क्षुभिततिमिङ्गिलोर्मिभिः ॥ १७॥

 

अथो मुनिर्यदुपतिना सभाजितः

प्रणम्य तं हृदि विदधद्विहायसा ।

निशम्य तद्व्यवसितमाहृतार्हणो

मुकुन्दसन्दर्शननिर्वृतेन्द्रियः ॥ १८॥

 

राजदूतमुवाचेदं भगवान् प्रीणयन् गिरा ।

मा भैष्ट दूत भद्रं वो घातयिष्यामि मागधम् ॥ १९॥

 

इत्युक्तः प्रस्थितो दूतो यथावदवदन्नृपान् ।

तेऽपि सन्दर्शनं शौरेः प्रत्यैक्षन् यन्मुमुक्षवः ॥ २०॥

 

आनर्तसौवीरमरूंस्तीर्त्वा विनशनं हरिः ।

गिरीन् नदीरतीयाय पुरग्रामव्रजाकरान् ॥ २१॥

 

ततो दृषद्वतीं तीर्त्वा मुकुन्दोऽथ सरस्वतीम् ।

पञ्चालानथ मत्स्यांश्च शक्रप्रस्थमथागमत् ॥ २२॥

 

तमुपागतमाकर्ण्य प्रीतो दुर्दर्शनं नृणाम् ।

अजातशत्रुर्निरगात्सोपाध्यायः सुहृद्वृतः ॥ २३॥

 

गीतवादित्रघोषेण ब्रह्मघोषेण भूयसा ।

अभ्ययात्स हृषीकेशं प्राणाः प्राणमिवादृतः ॥ २४॥

 

दृष्ट्वा विक्लिन्नहृदयः कृष्णं स्नेहेन पाण्डवः ।

चिराद्दृष्टं प्रियतमं सस्वजेऽथ पुनः पुनः ॥ २५॥

 

दोर्भ्यां परिष्वज्य रमामलालयं

मुकुन्दगात्रं नृपतिर्हताशुभः ।

लेभे परां निर्वृतिमश्रुलोचनो

हृष्यत्तनुर्विस्मृतलोकविभ्रमः ॥ २६॥

 

तं मातुलेयं परिरभ्य निर्वृतो

भीमः स्मयन् प्रेमजलाकुलेन्द्रियः ।

यमौ किरीटी च सुहृत्तमं मुदा

प्रवृद्धबाष्पाः परिरेभिरेऽच्युतम् ॥ २७॥

 

अर्जुनेन परिष्वक्तो यमाभ्यामभिवादितः ।

ब्राह्मणेभ्यो नमस्कृत्य वृद्धेभ्यश्च यथार्हतः ॥ २८॥

 

मानितो मानयामास कुरुसृञ्जयकैकयान् ।

सूतमागधगन्धर्वा वन्दिनश्चोपमन्त्रिणः ॥ २९॥

 

मृदङ्गशङ्खपटहवीणापणवगोमुखैः ।

ब्राह्मणाश्चारविन्दाक्षं तुष्टुवुर्ननृतुर्जगुः ॥ ३०॥

 

एवं सुहृद्भिः पर्यस्तः पुण्यश्लोकशिखामणिः ।

संस्तूयमानो भगवान् विवेशालङ्कृतं पुरम् ॥ ३१॥

 

संसिक्तवर्त्म करिणां मदगन्धतोयै-

श्चित्रध्वजैः कनकतोरणपूर्णकुम्भैः ।

मृष्टात्मभिर्नवदुकूलविभूषणस्रग्-

गन्धैर्नृभिर्युवतिभिश्च विराजमानम् ॥ ३२॥

 

उद्दीप्तदीपबलिभिः प्रतिसद्मजाल-

निर्यातधूपरुचिरं विलसत्पताकम् ।

मूर्धन्यहेमकलशै रजतोरुश‍ृङ्गै-

र्जुष्टं ददर्श भवनैः कुरुराजधाम ॥ ३३॥

 

प्राप्तं निशम्य नरलोचनपानपात्र-

मौत्सुक्यविश्लथितकेशदुकूलबन्धाः ।

सद्यो विसृज्य गृहकर्म पतींश्च तल्पे

द्रष्टुं ययुर्युवतयः स्म नरेन्द्रमार्गे ॥ ३४॥

 

तस्मिन् सुसङ्कुल इभाश्वरथद्विपद्भिः

कृष्णं सभार्यमुपलभ्य गृहाधिरूढाः ।

नार्यो विकीर्य कुसुमैर्मनसोपगुह्य

सुस्वागतं विदधुरुत्स्मयवीक्षितेन ॥ ३५॥

 

ऊचुः स्त्रियः पथि निरीक्ष्य मुकुन्दपत्नीः

तारा यथोडुपसहाः किमकार्यमूभिः ।

यच्चक्षुषां पुरुषमौलिरुदारहास-

लीलावलोककलयोत्सवमातनोति ॥ ३६॥

 

तत्र तत्रोपसङ्गम्य पौरा मङ्गलपाणयः ।

चक्रुः सपर्यां कृष्णाय श्रेणीमुख्या हतैनसः ॥ ३७॥

 

अन्तःपुरजनैः प्रीत्या मुकुन्दः फुल्ललोचनैः ।

ससम्भ्रमैरभ्युपेतः प्राविशद्राजमन्दिरम् ॥ ३८॥

 

पृथा विलोक्य भ्रात्रेयं कृष्णं त्रिभुवनेश्वरम् ।

प्रीतात्मोत्थाय पर्यङ्कात्सस्नुषा परिषस्वजे ॥ ३९॥

 

गोविन्दं गृहमानीय देवदेवेशमादृतः ।

पूजायां नाविदत्कृत्यं प्रमोदोपहतो नृपः ॥ ४०॥

 

पितृष्वसुर्गुरुस्त्रीणां कृष्णश्चक्रेऽभिवादनम् ।

स्वयं च कृष्णया राजन् भगिन्या चाभिवन्दितः ॥ ४१॥

 

श्वश्र्वा सञ्चोदिता कृष्णा कृष्णपत्नीश्च सर्वशः ।

आनर्च रुक्मिणीं सत्यां भद्रां जाम्बवतीं तथा ॥ ४२॥

 

कालिन्दीं मित्रविन्दां च शैब्यां नाग्नजितीं सतीम् ।

अन्याश्चाभ्यागता यास्तु वासःस्रङ्मण्डनादिभिः ॥ ४३॥

 

सुखं निवासयामास धर्मराजो जनार्दनम् ।

ससैन्यं सानुगामात्यं सभार्यं च नवं नवम् ॥ ४४॥

 

तर्पयित्वा खाण्डवेन वह्निं फाल्गुनसंयुतः ।

मोचयित्वा मयं येन राज्ञे दिव्या सभा कृता ॥ ४५॥

 

उवास कतिचिन्मासान् राज्ञः प्रियचिकीर्षया ।

विहरन् रथमारुह्य फाल्गुनेन भटैर्वृतः ॥ ४६॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे कृष्णस्य

इन्द्रप्रस्थगमनं नामैकसप्ततितमोऽध्यायः ॥ ७१॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ द्विसप्ततितमोऽध्यायः - ७२ ॥

 

श्रीशुक उवाच

एकदा तु सभामध्य आस्थितो मुनिभिर्वृतः ।

ब्राह्मणैः क्षत्रियैर्वैश्यैर्भ्रातृभिश्च युधिष्ठिरः ॥ १॥

 

आचार्यैः कुलवृद्धैश्च ज्ञातिसम्बन्धिबान्धवैः ।

श‍ृण्वतामेव चैतेषामाभाष्येदमुवाच ह ॥ २॥

 

युधिष्ठिर उवाच

क्रतुराजेन गोविन्द राजसूयेन पावनीः ।

यक्ष्ये विभूतीर्भवतस्तत्सम्पादय नः प्रभो ॥ ३॥

 

त्वत्पादुके अविरतं परि ये चरन्ति

ध्यायन्त्यभद्रनशने शुचयो गृणन्ति ।

विन्दन्ति ते कमलनाभ भवापवर्ग-

माशासते यदि त आशिष ईश नान्ये ॥ ४॥

 

तद्देवदेव भवतश्चरणारविन्द-

सेवानुभावमिह पश्यतु लोक एषः ।

ये त्वां भजन्ति न भजन्त्युत वोभयेषां

निष्ठां प्रदर्शय विभो कुरुसृञ्जयानाम् ॥ ५॥

 

न ब्रह्मणः स्वपरभेदमतिस्तव स्यात्

सर्वात्मनः समदृशः स्वसुखानुभूतेः ।

संसेवतां सुरतरोरिव ते प्रसादः

सेवानुरूपमुदयो न विपर्ययोऽत्र ॥ ६॥

 

श्रीभगवानुवाच

सम्यग्व्यवसितं राजन् भवता शत्रुकर्शन ।

कल्याणी येन ते कीर्तिर्लोकाननुभविष्यति ॥ ७॥

 

ऋषीणां पितृदेवानां सुहृदामपि नः प्रभो ।

सर्वेषामपि भूतानामीप्सितः क्रतुराडयम् ॥ ८॥

 

विजित्य नृपतीन् सर्वान् कृत्वा च जगतीं वशे ।

सम्भृत्य सर्वसम्भारानाहरस्व महाक्रतुम् ॥ ९॥

 

एते ते भ्रातरो राजंल्लोकपालांशसम्भवाः ।

जितोऽस्म्यात्मवता तेऽहं दुर्जयो योऽकृतात्मभिः ॥ १०॥

 

न कश्चिन्मत्परं लोके तेजसा यशसा श्रिया ।

विभूतिभिर्वाभिभवेद्देवोऽपि किमु पार्थिवः ॥ ११॥

 

श्रीशुक उवाच

निशम्य भगवद्गीतं प्रीतः फुल्लमुखाम्बुजः ।

भ्रातॄन् दिग्विजयेऽयुङ्क्त विष्णुतेजोपबृंहितान् ॥ १२॥

 

सहदेवं दक्षिणस्यामादिशत्सह सृञ्जयैः ।

दिशि प्रतीच्यां नकुलमुदीच्यां सव्यसाचिनम् ।

प्राच्यां वृकोदरं मत्स्यैः केकयैः सह मद्रकैः ॥ १३॥

 

ते विजित्य नृपान् वीरा आजह्रुर्दिग्भ्य ओजसा ।

अजातशत्रवे भूरि द्रविणं नृप यक्ष्यते ॥ १४॥

 

श्रुत्वाजितं जरासन्धं नृपतेर्ध्यायतो हरिः ।

आहोपायं तमेवाद्य उद्धवो यमुवाच ह ॥ १५॥

 

भीमसेनोऽर्जुनः कृष्णो ब्रह्मलिङ्गधरास्त्रयः ।

जग्मुर्गिरिव्रजं तात बृहद्रथसुतो यतः ॥ १६॥

 

ते गत्वाऽऽतिथ्यवेलायां गृहेषु गृहमेधिनम् ।

ब्रह्मण्यं समयाचेरन् राजन्या ब्रह्मलिङ्गिनः ॥ १७॥

 

राजन् विद्ध्यतिथीन् प्राप्तानर्थिनो दूरमागतान् ।

तन्नः प्रयच्छ भद्रं ते यद्वयं कामयामहे ॥ १८॥

 

किं दुर्मर्षं तितिक्षूणां किमकार्यमसाधुभिः ।

किं न देयं वदान्यानां कः परः समदर्शिनाम् ॥ १९॥

 

योऽनित्येन शरीरेण सतां गेयं यशो ध्रुवम् ।

नाचिनोति स्वयं कल्पः स वाच्यः शोच्य एव सः ॥ २०॥

 

हरिश्चन्द्रो रन्तिदेव उञ्छवृत्तिः शिबिर्बलिः ।

व्याधः कपोतो बहवो ह्यध्रुवेण ध्रुवं गताः ॥ २१॥

 

श्रीशुक उवाच

स्वरैराकृतिभिस्तांस्तु प्रकोष्ठैर्ज्याहतैरपि ।

राजन्यबन्धून् विज्ञाय दृष्टपूर्वानचिन्तयत् ॥ २२॥

 

राजन्यबन्धवो ह्येते ब्रह्मलिङ्गानि बिभ्रति ।

ददामि भिक्षितं तेभ्य आत्मानमपि दुस्त्यजम् ॥ २३॥

 

बलेर्नु श्रूयते कीर्तिर्वितता दिक्ष्वकल्मषा ।

ऐश्वर्याद्भ्रंशितस्यापि विप्रव्याजेन विष्णुना ॥ २४॥

 

श्रियं जिहीर्षतेन्द्रस्य विष्णवे द्विजरूपिणे ।

जानन्नपि महीं प्रादाद्वार्यमाणोऽपि दैत्यराट् ॥ २५॥

 

जीवता ब्राह्मणार्थाय को न्वर्थः क्षत्रबन्धुना ।

देहेन पतमानेन नेहता विपुलं यशः ॥ २६॥

 

इत्युदारमतिः प्राह कृष्णार्जुनवृकोदरान् ।

हे विप्रा व्रियतां कामो ददाम्यात्मशिरोऽपि वः ॥ २७॥

 

श्रीभगवानुवाच

युद्धं नो देहि राजेन्द्र द्वन्द्वशो यदि मन्यसे ।

युद्धार्थिनो वयं प्राप्ता राजन्या नान्नकाङ्क्षिणः ॥ २८॥

 

असौ वृकोदरः पार्थस्तस्य भ्रातार्जुनो ह्ययम् ।

अनयोर्मातुलेयं मां कृष्णं जानीहि ते रिपुम् ॥ २९॥

 

एवमावेदितो राजा जहासोच्चैः स्म मागधः ।

आह चामर्षितो मन्दा युद्धं तर्हि ददामि वः ॥ ३०॥

 

न त्वया भीरुणा योत्स्ये युधि विक्लवतेजसा ।

मथुरां स्वपुरीं त्यक्त्वा समुद्रं शरणं गतः ॥ ३१॥

 

अयं तु वयसातुल्यो नातिसत्त्वो न मे समः ।

अर्जुनो न भवेद्योद्धा भीमस्तुल्यबलो मम ॥ ३२॥

 

इत्युक्त्वा भीमसेनाय प्रादाय महतीं गदाम् ।

द्वितीयां स्वयमादाय निर्जगाम पुराद्बहिः ॥ ३३॥

 

ततः समे खले वीरौ संयुक्तावितरेतरौ ।

जघ्नतुर्वज्रकल्पाभ्यां गदाभ्यां रणदुर्मदौ ॥ ३४॥

 

मण्डलानि विचित्राणि सव्यं दक्षिणमेव च ।

चरतोः शुशुभे युद्धं नटयोरिव रङ्गिणोः ॥ ३५॥

 

ततश्चटचटाशब्दो वज्रनिष्पेषसन्निभः ।

गदयोः क्षिप्तयो राजन् दन्तयोरिव दन्तिनोः ॥ ३६॥

 

ते वै गदे भुजजवेन निपात्यमाने

अन्योन्यतोंऽसकटिपादकरोरुजत्रून् ।

चूर्णीबभूवतुरुपेत्य यथार्कशाखे

संयुध्यतोर्द्विरदयोरिव दीप्तमन्व्योः ॥ ३७॥

 

इत्थं तयोः प्रहतयोर्गदयोर्नृवीरौ

क्रुद्धौ स्वमुष्टिभिरयःस्परशैरपिंष्टाम् ।

शब्दस्तयोः प्रहरतोरिभयोरिवासी-

न्निर्घातवज्रपरुषस्तलताडनोत्थः ॥ ३८॥

 

तयोरेवं प्रहरतोः समशिक्षाबलौजसोः ।

निर्विशेषमभूद्युद्धमक्षीणजवयोर्नृप ॥ ३९॥

 

एवं तयोर्महाराज युध्यतोः सप्तविंशतिः ।

दिनानि निरगंस्तत्र सुहृद्वन्निशि तिष्ठतोः ॥ ४०॥

 

एकदा मातुलेयं वै प्राह राजन् वृकोदरः ।

न शक्तोऽहं जरासन्धं निर्जेतुं युधि माधव ॥ ४१॥

 

शत्रोर्जन्ममृती विद्वाञ्जीवितं च जराकृतम् ।

पार्थमाप्याययन् स्वेन तेजसाचिन्तयद्धरिः ॥ ४२॥

 

सञ्चिन्त्यारिवधोपायं भीमस्यामोघदर्शनः ।

दर्शयामास विटपं पाटयन्निव संज्ञया ॥ ४३॥

 

तद्विज्ञाय महासत्त्वो भीमः प्रहरतां वरः ।

गृहीत्वा पादयोः शत्रुं पातयामास भूतले ॥ ४४॥

 

एकं पादं पदाऽऽक्रम्य दोर्भ्यामन्यं प्रगृह्य सः ।

गुदतः पाटयामास शाखमिव महागजः ॥ ४५॥

 

एकपादोरुवृषणकटिपृष्ठस्तनांसके ।

एकबाह्वक्षिभ्रूकर्णे शकले ददृशुः प्रजाः ॥ ४६॥

 

हाहाकारो महानासीन्निहते मगधेश्वरे ।

पूजयामासतुर्भीमं परिरभ्य जयाच्युतौ ॥ ४७॥

 

सहदेवं तत्तनयं भगवान् भूतभावनः ।

अभ्यषिञ्चदमेयात्मा मगधानां पतिं प्रभुः ।

मोचयामास राजन्यान् संरुद्धा मागधेन ये ॥ ४८॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे जरासन्धवधो

नाम द्विसप्ततितमोऽध्यायः ॥ ७२॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ त्रिसप्ततितमोऽध्यायः - ७३ ॥

 

श्रीशुक उवाच

अयुते द्वे शतान्यष्टौ लीलया युधि निर्जिताः ।

ते निर्गता गिरिद्रोण्यां मलिना मलवाससः ॥ १॥

 

क्षुत्क्षामाः शुष्कवदनाः संरोधपरिकर्शिताः ।

ददृशुस्ते घनश्यामं पीतकौशेयवाससम् ॥ २॥

 

श्रीवत्साङ्कं चतुर्बाहुं पद्मगर्भारुणेक्षणम् ।

चारुप्रसन्नवदनं स्फुरन्मकरकुण्डलम् ॥ ३॥

 

पद्महस्तं गदाशङ्खरथाङ्गैरुपलक्षितम् ।

किरीटहारकटककटिसूत्राङ्गदाञ्चितम् ॥ ४॥

 

भ्राजद्वरमणिग्रीवं निवीतं वनमालया ।

पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया ॥ ५॥

 

जिघ्रन्त इव नासाभ्यां रम्भन्त इव बाहुभिः ।

प्रणेमुर्हतपाप्मानो मूर्धभिः पादयोर्हरेः ॥ ६॥

 

कृष्णसन्दर्शनाह्लादध्वस्तसंरोधनक्लमाः ।

प्रशशंसुर्हृषीकेशं गीर्भिः प्राञ्जलयो नृपाः ॥ ७॥

 

राजान ऊचुः

नमस्ते देवदेवेश प्रपन्नार्तिहराव्यय ।

प्रपन्नान् पाहि नः कृष्ण निर्विण्णान् घोरसंसृतेः ॥ ८॥

 

नैनं नाथान्वसूयामो मागधं मधुसूदन ।

अनुग्रहो यद्भवतो राज्ञां राज्यच्युतिर्विभो ॥ ९॥

 

राज्यैश्वर्यमदोन्नद्धो न श्रेयो विन्दते नृपः ।

त्वन्मायामोहितोऽनित्या मन्यते सम्पदोऽचलाः ॥ १०॥

 

मृगतृष्णां यथा बाला मन्यन्त उदकाशयम् ।

एवं वैकारिकीं मायामयुक्ता वस्तु चक्षते ॥ ११॥

 

वयं पुरा श्रीमदनष्टदृष्टयो

जिगीषयास्या इतरेतरस्पृधः ।

घ्नन्तः प्रजाः स्वा अतिनिर्घृणाः प्रभो

मृत्युं पुरस्त्वाविगणय्य दुर्मदाः ॥ १२॥

 

त एव कृष्णाद्य गभीररंहसा

दुरन्तवीर्येण विचालिताः श्रियः ।

कालेन तन्वा भवतोऽनुकम्पया

विनष्टदर्पाश्चरणौ स्मराम ते ॥ १३॥

 

अथो न राज्यं मृगतृष्णिरूपितं

देहेन शश्वत्पतता रुजां भुवा ।

उपासितव्यं स्पृहयामहे विभो

क्रियाफलं प्रेत्य च कर्णरोचनम् ॥ १४॥

 

तं नः समादिशोपायं येन ते चरणाब्जयोः ।

स्मृतिर्यथा न विरमेदपि संसरतामिह ॥ १५॥

 

कृष्णाय वासुदेवाय हरये परमात्मने ।

प्रणतक्लेशनाशाय गोविन्दाय नमो नमः ॥ १६॥(२)

श्रीशुक उवाच

संस्तूयमानो भगवान् राजभिर्मुक्तबन्धनैः ।

तानाह करुणस्तात शरण्यः श्लक्ष्णया गिरा ॥ १७॥

 

श्रीभगवानुवाच

अद्य प्रभृति वो भूपा मय्यात्मन्यखिलेश्वरे ।

सुदृढा जायते भक्तिर्बाढमाशंसितं तथा ॥ १८॥

 

दिष्ट्या व्यवसितं भूपा भवन्त ऋतभाषिणः ।

श्रियैश्वर्यमदोन्नाहं पश्य उन्मादकं नृणाम् ॥ १९॥

 

हैहयो नहुषो वेनो रावणो नरकोऽपरे ।

श्रीमदाद्भ्रंशिताः स्थानाद्देवदैत्यनरेश्वराः ॥ २०॥

 

भवन्त एतद्विज्ञाय देहाद्युत्पाद्यमन्तवत् ।

मां यजन्तोऽध्वरैर्युक्ताः प्रजा धर्मेण रक्षथ ॥ २१॥

 

सन्तन्वन्तः प्रजातन्तून् सुखं दुःखं भवाभवौ ।

प्राप्तं प्राप्तं च सेवन्तो मच्चित्ता विचरिष्यथ ॥ २२॥

 

उदासीनाश्च देहादावात्मारामा धृतव्रताः ।

मय्यावेश्य मनः सम्यङ् मामन्ते ब्रह्म यास्यथ ॥ २३॥

 

श्रीशुक उवाच

इत्यादिश्य नृपान् कृष्णो भगवान् भुवनेश्वरः ।

तेषां न्ययुङ्क्त पुरुषान् स्त्रियो मज्जनकर्मणि ॥ २४॥

 

सपर्यां कारयामास सहदेवेन भारत ।

नरदेवोचितैर्वस्त्रैर्भूषणैः स्रग्विलेपनैः ॥ २५॥

 

भोजयित्वा वरान्नेन सुस्नातान् समलङ्कृतान् ।

भोगैश्च विविधैर्युक्तांस्ताम्बूलाद्यैर्नृपोचितैः ॥ २६॥

 

ते पूजिता मुकुन्देन राजानो मृष्टकुण्डलाः ।

विरेजुर्मोचिताः क्लेशात्प्रावृडन्ते यथा ग्रहाः ॥ २७॥

 

रथान् सदश्वानारोप्य मणिकाञ्चनभूषितान् ।

प्रीणय्य सूनृतैर्वाक्यैः स्वदेशान् प्रत्ययापयत् ॥ २८॥

 

त एवं मोचिताः कृच्छ्रात्कृष्णेन सुमहात्मना ।

ययुस्तमेव ध्यायन्तः कृतानि च जगत्पतेः ॥ २९॥

 

जगदुः प्रकृतिभ्यस्ते महापुरुषचेष्टितम् ।

यथान्वशासद्भगवांस्तथा चक्रुरतन्द्रिताः ॥ ३०॥

 

जरासन्धं घातयित्वा भीमसेनेन केशवः ।

पार्थाभ्यां संयुतः प्रायात्सहदेवेन पूजितः ॥ ३१॥

 

गत्वा ते खाण्डवप्रस्थं शङ्खान् दध्मुर्जितारयः ।

हर्षयन्तः स्वसुहृदो दुर्हृदां चासुखावहाः ॥ ३२॥

 

तच्छ्रुत्वा प्रीतमनस इन्द्रप्रस्थनिवासिनः ।

मेनिरे मागधं शान्तं राजा चाप्तमनोरथः ॥ ३३॥

 

अभिवन्द्याथ राजानं भीमार्जुनजनार्दनाः ।

सर्वमाश्रावयाञ्चक्रुरात्मना यदनुष्ठितम् ॥ ३४॥

 

निशम्य धर्मराजस्तत्केशवेनानुकम्पितम् ।

आनन्दाश्रुकलां मुञ्चन् प्रेम्णा नोवाच किञ्चन ॥ ३५॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे कृष्णाद्यागमने

त्रिसप्ततितमोऽध्यायः ॥ ७३॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ चतुःसप्ततितमोऽध्यायः - ७४ ॥

 

श्रीशुक उवाच

एवं युधिष्ठिरो राजा जरासन्धवधं विभोः ।

कृष्णस्य चानुभावं तं श्रुत्वा प्रीतस्तमब्रवीत् ॥ १॥

 

युधिष्ठिर उवाच

ये स्युस्त्रैलोक्यगुरवः सर्वे लोकमहेश्वराः ।

वहन्ति दुर्लभं लब्ध्वा शिरसैवानुशासनम् ॥ २॥

 

स भवानरविन्दाक्षो दीनानामीशमानिनाम् ।

धत्तेऽनुशासनं भूमंस्तदत्यन्तविडम्बनम् ॥ ३॥

 

न ह्येकस्याद्वितीयस्य ब्रह्मणः परमात्मनः ।

कर्मभिर्वर्धते तेजो ह्रसते च यथा रवेः ॥ ४॥

 

न वै तेऽजित भक्तानां ममाहमिति माधव ।

त्वं तवेति च नानाधीः पशूनामिव वैकृता ॥ ५॥

 

श्रीशुक उवाच

इत्युक्त्वा यज्ञिये काले वव्रे युक्तान् स ऋत्विजः ।

कृष्णानुमोदितः पार्थो ब्राह्मणान् ब्रह्मवादिनः ॥ ६॥

 

द्वैपायनो भरद्वाजः सुमन्तुर्गौतमोऽसितः ।

वसिष्ठश्च्यवनः कण्वो मैत्रेयः कवषस्त्रितः ॥ ७॥

 

विश्वामित्रो वामदेवः सुमतिर्जैमिनिः क्रतुः ।

पैलः पराशरो गर्गो वैशम्पायन एव च ॥ ८॥

 

अथर्वा कश्यपो धौम्यो रामो भार्गव आसुरिः ।

वीतिहोत्रो मधुच्छन्दा वीरसेनोऽकृतव्रणः ॥ ९॥

 

उपहूतास्तथा चान्ये द्रोणभीष्मकृपादयः ।

धृतराष्ट्रः सहसुतो विदुरश्च महामतिः ॥ १०॥

 

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा यज्ञदिदृक्षवः ।

तत्रेयुः सर्वराजानो राज्ञां प्रकृतयो नृप ॥ ११॥

 

ततस्ते देवयजनं ब्राह्मणाः स्वर्णलाङ्गलैः ।

कृष्ट्वा तत्र यथाम्नायं दीक्षयाञ्चक्रिरे नृपम् ॥ १२॥

 

हैमाः किलोपकरणा वरुणस्य यथा पुरा ।

इन्द्रादयो लोकपाला विरिञ्चभवसंयुताः ॥ १३॥

 

सगणाः सिद्धगन्धर्वा विद्याधरमहोरगाः ।

मुनयो यक्षरक्षांसि खगकिन्नरचारणाः ॥ १४॥

 

राजानश्च समाहूता राजपत्न्यश्च सर्वशः ।

राजसूयं समीयुः स्म राज्ञः पाण्डुसुतस्य वै ॥ १५॥

 

मेनिरे कृष्णभक्तस्य सूपपन्नमविस्मिताः ।

अयाजयन् महाराजं याजका देववर्चसः ॥ १६॥

 

राजसूयेन विधिवत्प्रचेतसमिवामराः ।

सौत्येऽहन्यवनीपालो याजकान् सदसस्पतीन् ।

अपूजयन्महाभागान् यथावत्सुसमाहितः ॥ १७॥

 

सदस्याग्र्यार्हणार्हं वै विमृशन्तः सभासदः ।

नाध्यगच्छन्ननैकान्त्यात्सहदेवस्तदाब्रवीत् ॥ १८॥

 

अर्हति ह्यच्युतः श्रैष्ठ्यं भगवान् सात्वताम्पतिः ।

एष वै देवताः सर्वा देशकालधनादयः ॥ १९॥

 

यदात्मकमिदं विश्वं क्रतवश्च यदात्मकाः ।

अग्निराहुतयो मन्त्राः साङ्ख्यं योगश्च यत्परः ॥ २०॥

 

एक एवाद्वितीयोऽसावैतदात्म्यमिदं जगत् ।

आत्मनाऽऽत्माश्रयः सभ्याः सृजत्यवति हन्त्यजः ॥ २१॥

 

विविधानीह कर्माणि जनयन् यदवेक्षया ।

ईहते यदयं सर्वः श्रेयो धर्मादिलक्षणम् ॥ २२॥

 

तस्मात्कृष्णाय महते दीयतां परमार्हणम् ।

एवं चेत्सर्वभूतानामात्मनश्चार्हणं भवेत् ॥ २३॥

 

सर्वभूतात्मभूताय कृष्णायानन्यदर्शिने ।

देयं शान्ताय पूर्णाय दत्तस्यानन्त्यमिच्छता ॥ २४॥

 

इत्युक्त्वा सहदेवोऽभूत्तूष्णीं कृष्णानुभाववित् ।

तच्छ्रुत्वा तुष्टुवुः सर्वे साधु साध्विति सत्तमाः ॥ २५॥

 

श्रुत्वा द्विजेरितं राजा ज्ञात्वा हार्दं सभासदाम् ।

समर्हयद्धृषीकेशं प्रीतः प्रणयविह्वलः ॥ २६॥

 

तत्पादाववनिज्यापः शिरसा लोकपावनीः ।

सभार्यः सानुजामात्यः सकुटुम्बोऽवहन्मुदा ॥ २७॥

 

वासोभिः पीतकौशेयैर्भूषणैश्च महाधनैः ।

अर्हयित्वाश्रुपूर्णाक्षो नाशकत्समवेक्षितुम् ॥ २८॥

 

इत्थं सभाजितं वीक्ष्य सर्वे प्राञ्जलयो जनाः ।

नमो जयेति नेमुस्तं निपेतुः पुष्पवृष्टयः ॥ २९॥

 

इत्थं निशम्य दमघोषसुतः स्वपीठा-

दुत्थाय कृष्णगुणवर्णनजातमन्युः ।

उत्क्षिप्य बाहुमिदमाह सदस्यमर्षी

संश्रावयन् भगवते परुषाण्यभीतः ॥ ३०॥

 

ईशो दुरत्ययः काल इति सत्यवती श्रुतिः ।

वृद्धानामपि यद्बुद्धिर्बालवाक्यैर्विभिद्यते ॥ ३१॥

 

यूयं पात्रविदां श्रेष्ठा मा मन्ध्वं बालभाषीतम् ।

सदसस्पतयः सर्वे कृष्णो यत्सम्मतोऽर्हणे ॥ ३२॥

 

तपोविद्याव्रतधरान् ज्ञानविध्वस्तकल्मषान् ।

परमऋषीन् ब्रह्मनिष्ठांल्लोकपालैश्च पूजितान् ॥ ३३॥

 

सदस्पतीनतिक्रम्य गोपालः कुलपांसनः ।

यथा काकः पुरोडाशं सपर्यां कथमर्हति ॥ ३४॥

 

वर्णाश्रमकुलापेतः सर्वधर्मबहिष्कृतः ।

स्वैरवर्ती गुणैर्हीनः सपर्यां कथमर्हति ॥ ३५॥

 

ययातिनैषां हि कुलं शप्तं सद्भिर्बहिष्कृतम् ।

वृथापानरतं शश्वत्सपर्यां कथमर्हति ॥ ३६॥

 

ब्रह्मर्षिसेवितान् देशान् हित्वैतेऽब्रह्मवर्चसम् ।

समुद्रं दुर्गमाश्रित्य बाधन्ते दस्यवः प्रजाः ॥ ३७॥

 

एवमादीन्यभद्राणि बभाषे नष्टमङ्गलः ।

नोवाच किञ्चिद्भगवान् यथा सिंहः शिवारुतम् ॥ ३८॥

 

भगवन्निन्दनं श्रुत्वा दुःसहं तत्सभासदः ।

कर्णौ पिधाय निर्जग्मुः शपन्तश्चेदिपं रुषा ॥ ३९॥

 

निन्दां भगवतः श‍ृण्वंस्तत्परस्य जनस्य वा ।

ततो नापैति यः सोऽपि यात्यधः सुकृताच्च्युतः ॥ ४०॥

 

ततः पाण्डुसुताः क्रुद्धा मत्स्यकैकयसृञ्जयाः ।

उदायुधाः समुत्तस्थुः शिशुपालजिघांसवः ॥ ४१॥

 

ततश्चैद्यस्त्वसम्भ्रान्तो जगृहे खड्गचर्मणी ।

भर्त्सयन् कृष्णपक्षीयान् राज्ञः सदसि भारत ॥ ४२॥

 

तावदुत्थाय भगवान् स्वान् निवार्य स्वयं रुषा ।

शिरः क्षुरान्तचक्रेण जहारापततो रिपोः ॥ ४३॥

 

शब्दः कोलाहलोऽप्यासीच्छिशुपाले हते महान् ।

तस्यानुयायिनो भूपा दुद्रुवुर्जीवितैषिणः ॥ ४४॥

 

चैद्यदेहोत्थितं ज्योतिर्वासुदेवमुपाविशत् ।

पश्यतां सर्वभूतानामुल्केव भुवि खाच्च्युता ॥ ४५॥

 

जन्मत्रयानुगुणितवैरसंरब्धया धिया ।

ध्यायंस्तन्मयतां यातो भावो हि भवकारणम् ॥ ४६॥

 

ऋत्विग्भ्यः ससदस्येभ्यो दक्षिणां विपुलामदात् ।

सर्वान् सम्पूज्य विधिवच्चक्रेऽवभृथमेकराट् ॥ ४७॥

 

साधयित्वा क्रतुं राज्ञः कृष्णो योगेश्वरेश्वरः ।

उवास कतिचिन्मासान् सुहृद्भिरभियाचितः ॥ ४८॥

 

ततोऽनुज्ञाप्य राजानमनिच्छन्तमपीश्वरः ।

ययौ सभार्यः सामात्यः स्वपुरं देवकीसुतः ॥ ४९॥

 

वर्णितं तदुपाख्यानं मया ते बहुविस्तरम् ।

वैकुण्ठवासिनोर्जन्म विप्रशापात्पुनः पुनः ॥ ५०॥

 

राजसूयावभृथ्येन स्नातो राजा युधिष्ठिरः ।

ब्रह्मक्षत्रसभामध्ये शुशुभे सुरराडिव ॥ ५१॥

 

राज्ञा सभाजिताः सर्वे सुरमानवखेचराः ।

कृष्णं क्रतुं च शंसन्तः स्वधामानि ययुर्मुदा ॥ ५२॥

 

दुर्योधनमृते पापं कलिं कुरुकुलामयम् ।

यो न सेहे श्रियं स्फीतां दृष्ट्वा पाण्डुसुतस्य ताम् ॥ ५३॥

 

य इदं कीर्तयेद्विष्णोः कर्म चैद्यवधादिकम् ।

राजमोक्षं वितानं च सर्वपापैः प्रमुच्यते ॥ ५४॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे शिशुपालवधो

नाम चतुःसप्ततितमोऽध्यायः ॥ ७४॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ पञ्चसप्ततितमोऽध्यायः - ७५ ॥

 

राजोवाच

अजातशत्रोस्तं दृष्ट्वा राजसूयमहोदयम् ।

सर्वे मुमुदिरे ब्रह्मन् नृदेवा ये समागताः ॥ १॥

 

दुर्योधनं वर्जयित्वा राजानः सर्षयः सुराः ।

इति श्रुतं नो भगवंस्तत्र कारणमुच्यताम् ॥ २॥

 

ऋषिरुवाच

पितामहस्य ते यज्ञे राजसूये महात्मनः ।

बान्धवाः परिचर्यायां तस्यासन् प्रेमबन्धनाः ॥ ३॥

 

भीमो महानसाध्यक्षो धनाध्यक्षः सुयोधनः ।

सहदेवस्तु पूजायां नकुलो द्रव्यसाधने ॥ ४॥

 

गुरुशुश्रूषणे जिष्णुः कृष्णः पादावनेजने ।

परिवेषणे द्रुपदजा कर्णो दाने महामनाः ॥ ५॥

 

युयुधानो विकर्णश्च हार्दिक्यो विदुरादयः ।

बाह्लीकपुत्रा भूर्याद्या ये च सन्तर्दनादयः ॥ ६॥

 

निरूपिता महायज्ञे नानाकर्मसु ते तदा ।

प्रवर्तन्ते स्म राजेन्द्र राज्ञः प्रियचिकीर्षवः ॥ ७॥

 

ऋत्विक्सदस्यबहुवित्सु सुहृत्तमेषु

स्विष्टेषु सूनृतसमर्हणदक्षिणाभिः ।

चैद्ये च सात्वतपतेश्चरणं प्रविष्टे

चक्रुस्ततस्त्ववभृथस्नपनं द्युनद्याम् ॥ ८॥

 

मृदङ्गशङ्खपणवधुन्धुर्यानकगोमुखाः ।

वादित्राणि विचित्राणि नेदुरावभृथोत्सवे ॥ ९॥

 

नर्तक्यो ननृतुर्हृष्टा गायका यूथशो जगुः ।

वीणावेणुतलोन्नादस्तेषां स दिवमस्पृशत् ॥ १०॥

 

चित्रध्वजपताकाग्रैरिभेन्द्रस्यन्दनार्वभिः ।

स्वलङ्कृतैर्भटैर्भूपा निर्ययू रुक्ममालिनः ॥ ११॥

 

यदुसृञ्जयकाम्बोजकुरुकेकयकोसलाः ।

कम्पयन्तो भुवं सैन्यैर्यजमानपुरःसराः ॥ १२॥

 

सदस्यर्त्विग्द्विजश्रेष्ठा ब्रह्मघोषेण भूयसा ।

देवर्षिपितृगन्धर्वास्तुष्टुवुः पुष्पवर्षिणः ॥ १३॥

 

स्वलङ्कृता नरा नार्यो गन्धस्रग्भूषणाम्बरैः ।

विलिम्पन्त्योऽभिषिञ्चन्त्यो विजह्रुर्विविधै रसैः ॥ १४॥

 

तैलगोरसगन्धोदहरिद्रासान्द्रकुङ्कुमैः ।

पुम्भिर्लिप्ताः प्रलिम्पन्त्यो विजह्रुर्वारयोषितः ॥ १५॥

 

गुप्ता नृभिर्निरगमन्नुपलब्धुमेत-

द्देव्यो यथा दिवि विमानवरैर्नृदेव्यः ।

ता मातुलेयसखिभिः परिषिच्यमानाः

सव्रीडहासविकसद्वदना विरेजुः ॥ १६॥

 

ता देवरानुत सखीन् सिषिचुर्दृतीभिः

क्लिन्नाम्बरा विवृतगात्रकुचोरुमध्याः ।

औत्सुक्यमुक्तकबराच्च्यवमानमाल्याः

क्षोभं दधुर्मलधियां रुचिरैर्विहारैः ॥ १७॥

 

स सम्राड् रथमारुढः सदश्वं रुक्ममालिनम् ।

व्यरोचत स्वपत्नीभिः क्रियाभिः क्रतुराडिव ॥ १८॥

 

पत्नीसम्याजावभृथ्यैश्चरित्वा ते तमृत्विजः ।

आचान्तं स्नापयाञ्चक्रुर्गङ्गायां सह कृष्णया ॥ १९॥

 

देवदुन्दुभयो नेदुर्नरदुन्दुभिभिः समम् ।

मुमुचुः पुष्पवर्षाणि देवर्षिपितृमानवाः ॥ २०॥

 

सस्नुस्तत्र ततः सर्वे वर्णाश्रमयुता नराः ।

महापातक्यपि यतः सद्यो मुच्येत किल्बिषात् ॥ २१॥

 

अथ राजाहते क्षौमे परिधाय स्वलङ्कृतः ।

ऋत्विक्सदस्यविप्रादीनानर्चाभरणाम्बरैः ॥ २२॥

 

बन्धूञ्ज्ञातिनृपान् मित्रसुहृदोऽन्यांश्च सर्वशः ।

अभीक्ष्णं पूजयामास नारायणपरो नृपः ॥ २३॥

 

सर्वे जनाः सुररुचो मणिकुण्डलस्र-

गुष्णीषकञ्चुकदुकूलमहार्घ्यहाराः ।

नार्यश्च कुण्डलयुगालकवृन्दजुष्ट-

वक्त्रश्रियः कनकमेखलया विरेजुः ॥ २४॥

 

अथर्त्विजो महाशीलाः सदस्या ब्रह्मवादिनः ।

ब्रह्मक्षत्रियविट् शूद्रा राजानो ये समागताः ॥ २५॥

 

देवर्षिपितृभूतानि लोकपालाः सहानुगाः ।

पूजितास्तमनुज्ञाप्य स्वधामानि ययुर्नृप ॥ २६॥

 

हरिदासस्य राजर्षे राजसूयमहोदयम् ।

नैवातृप्यन् प्रशंसन्तः पिबन् मर्त्योऽमृतं यथा ॥ २७॥

 

ततो युधिष्ठिरो राजा सुहृत्सम्बन्धिबान्धवान् ।

प्रेम्णा निवारयामास कृष्णं च त्यागकातरः ॥ २८॥

 

भगवानपि तत्राङ्ग न्यवात्सीत्तत्प्रियङ्करः ।

प्रस्थाप्य यदुवीरांश्च साम्बादींश्च कुशस्थलीम् ॥ २९॥

 

इत्थं राजा धर्मसुतो मनोरथमहार्णवम् ।

सुदुस्तरं समुत्तीर्य कृष्णेनासीद्गतज्वरः ॥ ३०॥

 

एकदान्तःपुरे तस्य वीक्ष्य दुर्योधनः श्रियम् ।

अतप्यद्राजसूयस्य महित्वं चाच्युतात्मनः ॥ ३१॥

 

यस्मिन् नरेन्द्रदितिजेन्द्रसुरेन्द्रलक्ष्मीः

नाना विभान्ति किल विश्वसृजोपकॢप्ताः ।

ताभिः पतीन् द्रुपदराजसुतोपतस्थे

यस्यां विषक्तहृदयः कुरुराडतप्यत् ॥ ३२॥

 

यस्मिंस्तदा मधुपतेर्महिषीसहस्रं

श्रोणीभरेण शनकैः क्वणदङ्घ्रिशोभम् ।

मध्ये सुचारु कुचकुङ्कुमशोणहारं

श्रीमन्मुखं प्रचलकुण्डलकुन्तलाढ्यम् ॥ ३३॥

 

सभायां मयकॢप्तायां क्वापि धर्मसुतोऽधिराट् ।

वृतोऽनुजैर्बन्धुभिश्च कृष्णेनापि स्वचक्षुषा ॥ ३४॥

 

आसीनः काञ्चने साक्षादासने मघवानिव ।

पारमेष्ठ्यश्रीया जुष्टः स्तूयमानश्च वन्दिभिः ॥ ३५॥

 

तत्र दुर्योधनो मानी परीतो भ्रातृभिर्नृप ।

किरीटमाली न्यविशदसिहस्तः क्षिपन् रुषा ॥ ३६॥

 

स्थलेऽभ्यगृह्णाद्वस्त्रान्तं जलं मत्वा स्थलेऽपतत् ।

जले च स्थलवद्भ्रान्त्या मयमायाविमोहितः ॥ ३७॥

 

जहास भीमस्तं दृष्ट्वा स्त्रियो नृपतयोऽपरे ।

निवार्यमाणा अप्यङ्ग राज्ञा कृष्णानुमोदिताः ॥ ३८॥

 

स व्रीडितोऽवाग्वदनो रुषाज्वल-

न्निष्क्रम्य तूष्णीं प्रययौ गजाह्वयम् ।

हा हेति शब्दः सुमहानभूत्सता-

मजातशत्रुर्विमना इवाभवत् ।

बभूव तूष्णीं भगवान् भुवो भरं

समुज्जिहीर्षुर्भ्रमति स्म यद्दृशा ॥ ३९॥

 

एतत्तेऽभिहितं राजन् यत्पृष्टोऽहमिह त्वया ।

सुयोधनस्य दौरात्म्यं राजसूये महाक्रतौ ॥ ४०॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे दुर्योधन-

मानभङ्गो नाम पञ्चसप्ततितमोऽध्यायः ॥ ७५॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ षट्सप्ततितमोऽध्यायः - ७६ ॥

 

श्रीशुक उवाच

अथान्यदपि कृष्णस्य श‍ृणु कर्माद्भुतं नृप ।

क्रीडानरशरीरस्य यथा सौभपतिर्हतः ॥ १॥

 

शिशुपालसखः शाल्वो रुक्मिण्युद्वाह आगतः ।

यदुभिर्निर्जितः सङ्ख्ये जरासन्धादयस्तथा ॥ २॥

 

शाल्वः प्रतिज्ञामकरोच्छृण्वतां सर्वभूभुजाम् ।

अयादवीं क्ष्मां करिष्ये पौरुषं मम पश्यत ॥ ३॥

 

इति मूढः प्रतिज्ञाय देवं पशुपतिं प्रभुम् ।

आराधयामास नृपः पांसुमुष्टिं सकृद्ग्रसन् ॥ ४॥

 

संवत्सरान्ते भगवानाशुतोष उमापतिः ।

वरेण च्छन्दयामास शाल्वं शरणमागतम् ॥ ५॥

 

देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् ।

अभेद्यं कामगं वव्रे स यानं वृष्णिभीषणम् ॥ ६॥

 

तथेति गिरिशादिष्टो मयः परपुरञ्जयः ।

पुरं निर्माय शाल्वाय प्रादात्सौभमयस्मयम् ॥ ७॥

 

स लब्ध्वा कामगं यानं तमोधाम दुरासदम् ।

ययौ द्वारवतीं शाल्वो वैरं वृष्णिकृतं स्मरन् ॥ ८॥

 

निरुध्य सेनया शाल्वो महत्या भरतर्षभ ।

पुरीं बभञ्जोपवनान्युद्यानानि च सर्वशः ॥ ९॥

 

स गोपुराणि द्वाराणि प्रासादाट्टालतोलिकाः ।

विहारान् स विमानाग्र्यान्निपेतुः शस्त्रवृष्टयः ॥ १०॥

 

शिला द्रुमाश्चाशनयः सर्पा आसारशर्कराः ।

प्रचण्डश्चक्रवातोऽभूद्रजसाऽऽच्छादिता दिशः ॥ ११॥

 

इत्यर्द्यमाना सौभेन कृष्णस्य नगरी भृशम् ।

नाभ्यपद्यत शं राजंस्त्रिपुरेण यथा मही ॥ १२॥

 

प्रद्युम्नो भगवान् वीक्ष्य बाध्यमाना निजाः प्रजाः ।

मा भैष्टेत्यभ्यधाद्वीरो रथारूढो महायशाः ॥ १३॥

 

सात्यकिश्चारुदेष्णश्च साम्बोऽक्रूरः सहानुजः ।

हार्दिक्यो भानुविन्दश्च गदश्च शुकसारणौ ॥ १४॥

 

अपरे च महेष्वासा रथयूथपयूथपाः ।

निर्ययुर्दंशिता गुप्ता रथेभाश्वपदातिभिः ॥ १५॥

 

ततः प्रववृते युद्धं शाल्वानां यदुभिः सह ।

यथासुराणां विबुधैस्तुमुलं लोमहर्षणम् ॥ १६॥

 

ताश्च सौभपतेर्माया दिव्यास्त्रै रुक्मिणीसुतः ।

क्षणेन नाशयामास नैशं तम इवोष्णगुः ॥ १७॥

 

विव्याध पञ्चविंशत्या स्वर्णपुङ्खैरयोमुखैः ।

शाल्वस्य ध्वजिनीपालं शरैः सन्नतपर्वभिः ॥ १८॥

 

शतेनाताडयच्छाल्वमेकैकेनास्य सैनिकान् ।

दशभिर्दशभिर्नेतॄन् वाहनानि त्रिभिस्त्रिभिः ॥ १९॥

 

तदद्भुतं महत्कर्म प्रद्युम्नस्य महात्मनः ।

दृष्ट्वा तं पूजयामासुः सर्वे स्वपरसैनिकाः ॥ २०॥

 

बहुरूपैकरूपं तद्दृश्यते न च दृश्यते ।

मायामयं मयकृतं दुर्विभाव्यं परैरभूत् ॥ २१॥

 

क्वचिद्भूमौ क्वचिद्व्योम्नि गिरिमूर्ध्नि जले क्वचित् ।

अलातचक्रवद्भ्राम्यत्सौभं तद्दुरवस्थितम् ॥ २२॥

 

यत्र यत्रोपलक्ष्येत ससौभः सह सैनिकः ।

शाल्वस्ततस्ततोऽमुञ्चञ्छरान् सात्वतयूथपाः ॥ २३॥

 

शरैरग्न्यर्कसंस्पर्शैराशीविषदुरासदैः ।

पीड्यमानपुरानीकः शाल्वोऽमुह्यत्परेरितैः ॥ २४॥

 

शाल्वानीकपशस्त्रौघैर्वृष्णिवीरा भृशार्दिताः ।

न तत्यजू रणं स्वं स्वं लोकद्वयजिगीषवः ॥ २५॥

 

शाल्वामात्यो द्युमान् नाम प्रद्युम्नं प्राक्प्रपीडितः ।

आसाद्य गदया मौर्व्या व्याहत्य व्यनदद्बली ॥ २६॥

 

प्रद्युम्नं गदया शीर्णवक्षःस्थलमरिन्दमम् ।

अपोवाह रणात्सूतो धर्मविद्दारुकात्मजः ॥ २७॥

 

लब्धसम्ज्ञो मुहूर्तेन कार्ष्णिः सारथिमब्रवीत् ।

अहो असाध्विदं सूत यद्रणान्मेऽपसर्पणम् ॥ २८॥

 

न यदूनां कुले जातः श्रूयते रणविच्युतः ।

विना मत्क्लीबचित्तेन सूतेन प्राप्तकिल्बिषात् ॥ २९॥

 

किं नु वक्ष्येऽभिसङ्गम्य पितरौ रामकेशवौ ।

युद्धात्सम्यगपक्रान्तः पृष्टस्तत्रात्मनः क्षमम् ॥ ३०॥

 

व्यक्तं मे कथयिष्यन्ति हसन्त्यो भ्रातृजामयः ।

क्लैब्यं कथं कथं वीर तवान्यैः कथ्यतां मृधे ॥ ३१॥

 

सारथिरुवाच

धर्मं विजानताऽऽयुष्मन् कृतमेतन्मया विभो ।

सूतः कृच्छ्रगतं रक्षेद्रथिनं सारथिं रथी ॥ ३२॥

 

एतद्विदित्वा तु भवान् मयापोवाहितो रणात् ।

उपसृष्टः परेणेति मूर्च्छितो गदया हतः ॥ ३३॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे उत्तरार्धे शाल्वयुद्धे षट्सप्ततितमोऽध्यायः ॥ ७६॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ सप्तसप्ततितमोऽध्यायः - ७७ ॥

 

श्रीशुक उवाच

स तूपस्पृश्य सलिलं दंशितो धृतकार्मुकः ।

नय मां द्युमतः पार्श्वं वीरस्येत्याह सारथिम् ॥ १॥

 

विधमन्तं स्वसैन्यानि द्युमन्तं रुक्मिणीसुतः ।

प्रतिहत्य प्रत्यविध्यन्नाराचैरष्टभिः स्मयन् ॥ २॥

 

चतुर्भिश्चतुरो वाहान् सूतमेकेन चाहनत् ।

द्वाभ्यां धनुश्च केतुं च शरेणान्येन वै शिरः ॥ ३॥

 

गदसात्यकिसाम्बाद्या जघ्नुः सौभपतेर्बलम् ।

पेतुः समुद्रे सौभेयाः सर्वे सञ्छिन्नकन्धराः ॥ ४॥

 

एवं यदूनां शाल्वानां निघ्नतामितरेतरम् ।

युद्धं त्रिणवरात्रं तदभूत्तुमुलमुल्बणम् ॥ ५॥

 

इन्द्रप्रस्थं गतः कृष्ण आहूतो धर्मसूनुना ।

राजसूयेऽथ निर्वृत्ते शिशुपाले च संस्थिते ॥ ६॥

 

कुरुवृद्धाननुज्ञाप्य मुनींश्च ससुतां पृथाम् ।

निमित्तान्यतिघोराणि पश्यन् द्वारवतीं ययौ ॥ ७॥

 

आह चाहमिहायात आर्यमिश्राभिसङ्गतः ।

राजन्याश्चैद्यपक्षीया नूनं हन्युः पुरीं मम ॥ ८॥

 

वीक्ष्य तत्कदनं स्वानां निरूप्य पुररक्षणम् ।

सौभं च शाल्वराजं च दारुकं प्राह केशवः ॥ ९॥

 

रथं प्रापय मे सूत शाल्वस्यान्तिकमाशु वै ।

सम्भ्रमस्ते न कर्तव्यो मायावी सौभराडयम् ॥ १०॥

 

इत्युक्तश्चोदयामास रथमास्थाय दारुकः ।

विशन्तं ददृशुः सर्वे स्वे परे चारुणानुजम् ॥ ११॥

 

शाल्वश्च कृष्णमालोक्य हतप्रायबलेश्वरः ।

प्राहरत्कृष्णसूताय शक्तिं भीमरवां मृधे ॥ १२॥

 

तामापतन्तीं नभसि महोल्कामिव रंहसा ।

भासयन्तीं दिशः शौरिः सायकैः शतधाच्छिनत् ॥ १३॥

 

तं च षोडशभिर्विद्ध्वा बाणैः सौभं च खे भ्रमत् ।

अविध्यच्छरसन्दोहैः खं सूर्य इव रश्मिभिः ॥ १४॥

 

शाल्वः शौरेस्तु दोः सव्यं सशार्ङ्गं शार्ङ्गधन्वनः ।

बिभेद न्यपतद्धस्ताच्छार्ङ्गमासीत्तदद्भुतम् ॥ १५॥

 

हाहाकारो महानासीद्भूतानां तत्र पश्यताम् ।

विनद्य सौभराडुच्चैरिदमाह जनार्दनम् ॥ १६॥

 

यत्त्वया मूढ नः सख्युर्भ्रातुर्भार्या हृतेक्षताम् ।

प्रमत्तः स सभामध्ये त्वया व्यापादितः सखा ॥ १७॥

 

तं त्वाद्य निशितैर्बाणैरपराजितमानिनम् ।

नयाम्यपुनरावृत्तिं यदि तिष्ठेर्ममाग्रतः ॥ १८॥

 

श्रीभगवानुवाच

वृथा त्वं कत्थसे मन्द न पश्यस्यन्तिकेऽन्तकम् ।

पौरुषं दर्शयन्ति स्म शूरा न बहुभाषिणः ॥ १९॥

 

इत्युक्त्वा भगवाञ्छाल्वं गदया भीमवेगया ।

तताड जत्रौ संरब्धः स चकम्पे वमन्नसृक् ॥ २०॥

 

गदायां सन्निवृत्तायां शाल्वस्त्वन्तरधीयत ।

ततो मुहूर्त आगत्य पुरुषः शिरसाच्युतम् ।

देवक्या प्रहितोऽस्मीति नत्वा प्राह वचो रुदन् ॥ २१॥

 

कृष्ण कृष्ण महाबाहो पिता ते पितृवत्सल ।

बद्ध्वापनीतः शाल्वेन सौनिकेन यथा पशुः ॥ २२॥

 

निशम्य विप्रियं कृष्णो मानुषीं प्रकृतिं गतः ।

विमनस्को घृणी स्नेहाद्बभाषे प्राकृतो यथा ॥ २३॥

 

कथं राममसम्भ्रान्तं जित्वाजेयं सुरासुरैः ।

शाल्वेनाल्पीयसा नीतः पिता मे बलवान् विधिः ॥ २४॥

 

इति ब्रुवाणे गोविन्दे सौभराट् प्रत्युपस्थितः ।

वसुदेवमिवानीय कृष्णं चेदमुवाच सः ॥ २५॥

 

एष ते जनिता तातो यदर्थमिह जीवसि ।

वधिष्ये वीक्षतस्तेऽमुमीशश्चेत्पाहि बालिश ॥ २६॥

 

एवं निर्भर्त्स्य मायावी खड्गेनानकदुन्दुभेः ।

उत्कृत्य शिर आदाय खस्थं सौभं समाविशत् ॥ २७॥

 

ततो मुहूर्तं प्रकृतावुपप्लुतः

स्वबोध आस्ते स्वजनानुषङ्गतः ।

महानुभावस्तदबुध्यदासुरीं

मायां स शाल्वप्रसृतां मयोदिताम् ॥ २८॥

 

न तत्र दूतं न पितुः कलेवरं

प्रबुद्ध आजौ समपश्यदच्युतः ।

स्वाप्नं यथा चाम्बरचारिणं रिपुं

सौभस्थमालोक्य निहन्तुमुद्यतः ॥ २९॥

 

एवं वदन्ति राजर्षे ऋषयः के च नान्विताः ।

यत्स्ववाचो विरुध्येत नूनं ते न स्मरन्त्युत ॥ ३०॥

 

क्व शोकमोहौ स्नेहो वा भयं वा येऽज्ञसम्भवाः ।

क्व चाखण्डितविज्ञानज्ञानैश्वर्यस्त्वखण्डितः ॥ ३१॥

 

यत्पादसेवोर्जितयाऽऽत्मविद्यया

हिन्वन्त्यनाद्यात्मविपर्ययग्रहम् ।

लभन्त आत्मीयमनन्तमैश्वरं

कुतो नु मोहः परमस्य सद्गतेः ॥ ३२॥

 

तं शस्त्रपूगैः प्रहरन्तमोजसा

शाल्वं शरैः शौरिरमोघविक्रमः ।

विद्ध्वाच्छिनद्वर्म धनुः शिरोमणिं

सौभं च शत्रोर्गदया रुरोज ह ॥ ३३॥

 

तत्कृष्णहस्तेरितया विचूर्णितं

पपात तोये गदया सहस्रधा ।

विसृज्य तद्भूतलमास्थितो गदा-

मुद्यम्य शाल्वोऽच्युतमभ्यगाद्द्रुतम् ॥ ३४॥

 

आधावतः सगदं तस्य बाहुं

भल्लेन छित्त्वाथ रथाङ्गमद्भुतम् ।

वधाय शाल्वस्य लयार्कसन्निभं

बिभ्रद्बभौ सार्क इवोदयाचलः ॥ ३५॥

 

जहार तेनैव शिरः सकुण्डलं

किरीटयुक्तं पुरुमायिनो हरिः ।

वज्रेण वृत्रस्य यथा पुरन्दरो

बभूव हाहेति वचस्तदा नृणाम् ॥ ३६॥

 

तस्मिन् निपतिते पापे सौभे च गदया हते ।

नेदुर्दुन्दुभयो राजन् दिवि देवगणेरिताः ।

सखीनामपचितिं कुर्वन् दन्तवक्त्रो रुषाभ्यगात् ॥ ३७॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे सौभवधो

नाम सप्तसप्ततितमोऽध्यायः ॥ ७७॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ अष्टसप्ततितमोऽध्यायः - ७८ ॥

 

श्रीशुक उवाच

शिशुपालस्य शाल्वस्य पौण्ड्रकस्यापि दुर्मतिः ।

परलोकगतानां च कुर्वन् पारोक्ष्यसौहृदम् ॥ १॥

 

एकः पदातिः सङ्क्रुद्धो गदापाणिः प्रकम्पयन् ।

पद्भ्यामिमां महाराज महासत्त्वो व्यदृश्यत ॥ २॥

 

तं तथाऽऽयान्तमालोक्य गदामादाय सत्वरः ।

अवप्लुत्य रथात्कृष्णः सिन्धुं वेलेव प्रत्यधात् ॥ ३॥

 

गदामुद्यम्य कारूषो मुकुन्दं प्राह दुर्मदः ।

दिष्ट्या दिष्ट्या भवानद्य मम दृष्टिपथं गतः ॥ ४॥

 

त्वं मातुलेयो नः कृष्ण मित्रध्रुङ्मां जिघांससि ।

अतस्त्वां गदया मन्द हनिष्ये वज्रकल्पया ॥ ५॥

 

तर्ह्यानृण्यमुपैम्यज्ञ मित्राणां मित्रवत्सलः ।

बन्धुरूपमरिं हत्वा व्याधिं देहचरं यथा ॥ ६॥

 

एवं रूक्षैस्तुदन् वाक्यैः कृष्णं तोत्रैरिव द्विपम् ।

गदयाताडयन्मूर्ध्नि सिंहवद्व्यनदच्चसः ॥ ७॥

 

गदयाभिहतोऽप्याजौ न चचाल यदूद्वहः ।

कृष्णोऽपि तमहन् गुर्व्या कौमोदक्या स्तनान्तरे ॥ ८॥

 

गदानिर्भिन्नहृदय उद्वमन् रुधिरं मुखात् ।

प्रसार्य केशबाह्वङ्घ्रीन् धरण्यां न्यपतद्व्यसुः ॥ ९॥

 

ततः सूक्ष्मतरं ज्योतिः कृष्णमाविशदद्भुतम् ।

पश्यतां सर्वभूतानां यथा चैद्यवधे नृप ॥ १०॥

 

विदूरथस्तु तद्भ्राता भ्रातृशोकपरिप्लुतः ।

आगच्छदसिचर्माभ्यामुच्छ्वसंस्तज्जिघांसया ॥ ११॥

 

तस्य चापततः कृष्णश्चक्रेण क्षुरनेमिना ।

शिरो जहार राजेन्द्र सकिरीटं सकुण्डलम् ॥ १२॥

 

एवं सौभं च शाल्वं च दन्तवक्त्रं सहानुजम् ।

हत्वा दुर्विषहानन्यैरीडितः सुरमानवैः ॥ १३॥

 

मुनिभिः सिद्धगन्धर्वैर्विद्याधरमहोरगैः ।

अप्सरोभिः पितृगणैर्यक्षैः किन्नरचारणैः ॥ १४॥

 

उपगीयमानविजयः कुसुमैरभिवर्षितः ।

वृतश्च वृष्णिप्रवरैर्विवेशालङ्कृतां पुरीम् ॥ १५॥

 

एवं योगेश्वरः कृष्णो भगवान् जगदीश्वरः ।

ईयते पशुदृष्टीनां निर्जितो जयतीति सः ॥ १६॥

 

श्रुत्वा युद्धोद्यमं रामः कुरूणां सह पाण्डवैः ।

तीर्थाभिषेकव्याजेन मध्यस्थः प्रययौ किल ॥ १७॥

 

स्नात्वा प्रभासे सन्तर्प्य देवर्षिपितृमानवान् ।

सरस्वतीं प्रतिस्रोतं ययौ ब्राह्मणसंवृतः ॥ १८॥

 

पृथूदकं बिन्दुसरस्त्रितकूपं सुदर्शनम् ।

विशालं ब्रह्मतीर्थं च चक्रं प्राचीं सरस्वतीम् ॥ १९॥

 

यमुनामनु यान्येव गङ्गामनु च भारत ।

जगाम नैमिषं यत्र ऋषयः सत्रमासते ॥ २०॥

 

तमागतमभिप्रेत्य मुनयो दीर्घसत्रिणः ।

अभिनन्द्य यथान्यायं प्रणम्योत्थाय चार्चयन् ॥ २१॥

 

सोऽर्चितः सपरीवारः कृतासनपरिग्रहः ।

रोमहर्षणमासीनं महर्षेः शिष्यमैक्षत ॥ २२॥

 

अप्रत्युत्थायिनं सूतमकृतप्रह्वणाञ्जलिम् ।

अध्यासीनं च तान् विप्रांश्चुकोपोद्वीक्ष्य माधवः ॥ २३॥

 

कस्मादसाविमान् विप्रानध्यास्ते प्रतिलोमजः ।

धर्मपालांस्तथैवास्मान् वधमर्हति दुर्मतिः ॥ २४॥

 

ऋषेर्भगवतो भूत्वा शिष्योऽधीत्य बहूनि च ।

सेतिहासपुराणानि धर्मशास्त्राणि सर्वशः ॥ २५॥

 

अदान्तस्याविनीतस्य वृथा पण्डितमानिनः ।

न गुणाय भवन्ति स्म नटस्येवाजितात्मनः ॥ २६॥

 

एतदर्थो हि लोकेऽस्मिन्नवतारो मया कृतः ।

वध्या मे धर्मध्वजिनस्ते हि पातकिनोऽधिकाः ॥ २७॥

 

एतावदुक्त्वा भगवान् निवृत्तोऽसद्वधादपि ।

भावित्वात्तं कुशाग्रेण करस्थेनाहनत्प्रभुः ॥ २८॥

 

हाहेति वादिनः सर्वे मुनयः खिन्नमानसाः ।

ऊचुः सङ्कर्षणं देवमधर्मस्ते कृतः प्रभो ॥ २९॥

 

अस्य ब्रह्मासनं दत्तमस्माभिर्यदुनन्दन ।

आयुश्चात्माक्लमं तावद्यावत्सत्रं समाप्यते ॥ ३०॥

 

अजानतैवाचरितस्त्वया ब्रह्मवधो यथा ।

योगेश्वरस्य भवतो नाम्नायोऽपि नियामकः ॥ ३१॥

 

यद्येतद्ब्रह्महत्यायाः पावनं लोकपावन ।

चरिष्यति भवांल्लोकसङ्ग्रहोऽनन्यचोदितः ॥ ३२॥

 

श्रीभगवानुवाच

करिष्ये वधनिर्वेशं लोकानुग्रहकाम्यया ।

नियमः प्रथमे कल्पे यावान् स तु विधीयताम् ॥ ३३॥

 

दीर्घमायुर्बतैतस्य सत्त्वमिन्द्रियमेव च ।

आशासितं यत्तद्ब्रूत साधये योगमायया ॥ ३४॥

 

ऋषय ऊचुः

अस्त्रस्य तव वीर्यस्य मृत्योरस्माकमेव च ।

यथा भवेद्वचः सत्यं तथा राम विधीयताम् ॥ ३५॥

 

श्रीभगवानुवाच

आत्मा वै पुत्र उत्पन्न इति वेदानुशासनम् ।

तस्मादस्य भवेद्वक्ता आयुरिन्द्रियसत्त्ववान् ॥ ३६॥

 

किं वः कामो मुनिश्रेष्ठा ब्रूताहं करवाण्यथ ।

अजानतस्त्वपचितिं यथा मे चिन्त्यतां बुधाः ॥ ३७॥

 

ऋषय ऊचुः

इल्वलस्य सुतो घोरो बल्वलो नाम दानवः ।

स दूषयति नः सत्रमेत्य पर्वणि पर्वणि ॥ ३८॥

 

तं पापं जहि दाशार्ह तन्नः शुश्रूषणं परम् ।

पूयशोणितविण्मूत्रसुरामांसाभिवर्षिणम् ॥ ३९॥

 

ततश्च भारतं वर्षं परीत्य सुसमाहितः ।

चरित्वा द्वादशमासांस्तीर्थस्नायी विशुध्यसे ॥ ४०॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे बलदेवचरिते

बल्वलवधोपक्रमो नामाष्टसप्ततितमोऽध्यायः ॥ ७८॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकोनाशीतितमोऽध्यायः - ७९ ॥

 

श्रीशुक उवाच

ततः पर्वण्युपावृत्ते प्रचण्डः पांसुवर्षणः ।

भीमो वायुरभूद्राजन् पूयगन्धस्तु सर्वशः ॥ १॥

 

ततोऽमेध्यमयं वर्षं बल्वलेन विनिर्मितम् ।

अभवद्यज्ञशालायां सोऽन्वदृश्यत शूलधृक् ॥ २॥

 

तं विलोक्य बृहत्कायं भिन्नाञ्जनचयोपमम् ।

तप्तताम्रशिखाश्मश्रुं दंष्ट्रोग्रभ्रुकुटीमुखम् ॥ ३॥

 

सस्मार मुसलं रामः परसैन्यविदारणम् ।

हलं च दैत्यदमनं ते तूर्णमुपतस्थतुः ॥ ४॥

 

तमाकृष्य हलाग्रेण बल्वलं गगनेचरम् ।

मुसलेनाहनत्क्रुद्धो मूर्ध्नि ब्रह्मद्रुहं बलः ॥ ५॥

 

सोऽपतद्भुवि निर्भिन्नललाटोऽसृक्समुत्सृजन् ।

मुञ्चन्नार्तस्वरं शैलो यथा वज्रहतोऽरुणः ॥ ६॥

 

संस्तुत्य मुनयो रामं प्रयुज्यावितथाशिषः ।

अभ्यषिञ्चन्महाभागा वृत्रघ्नं विबुधा यथा ॥ ७॥

 

वैजयन्तीं ददुर्मालां श्रीधामाम्लानपङ्कजाम् ।

रामाय वाससी दिव्ये दिव्यान्याभरणानि च ॥ ८॥

 

अथ तैरभ्यनुज्ञातः कौशिकीमेत्य ब्राह्मणैः ।

स्नात्वा सरोवरमगाद्यतः सरयुरास्रवत् ॥ ९॥

 

अनुस्रोतेन सरयूं प्रयागमुपगम्य सः ।

स्नात्वा सन्तर्प्य देवादीन् जगाम पुलहाश्रमम् ॥ १०॥

 

गोमतीं गण्डकीं स्नात्वा विपाशां शोण आप्लुतः ।

गयां गत्वा पितॄनिष्ट्वा गङ्गासागरसङ्गमे ॥ ११॥

 

उपस्पृश्य महेन्द्राद्रौ रामं दृष्ट्वाभिवाद्य च ।

सप्तगोदावरीं वेणां पम्पां भीमरथीं ततः ॥ १२॥

 

स्कन्दं दृष्ट्वा ययौ रामः श्रीशैलं गिरिशालयम् ।

द्रविडेषु महापुण्यं दृष्ट्वाद्रिं वेङ्कटं प्रभुः ॥ १३॥

 

कामकोष्णीं पुरीं काञ्चीं कावेरीं च सरिद्वराम् ।

श्रीरङ्गाख्यं महापुण्यं यत्र सन्निहितो हरिः ॥ १४॥

 

ऋषभाद्रिं हरेः क्षेत्रं दक्षिणां मथुरां तथा ।

सामुद्रं सेतुमगमन्महापातकनाशनम् ॥ १५॥

 

तत्रायुतमदाद्धेनूर्ब्राह्मणेभ्यो हलायुधः ।

कृतमालां ताम्रपर्णीं मलयं च कुलाचलम् ॥ १६॥

 

तत्रागस्त्यं समासीनं नमस्कृत्याभिवाद्य च ।

योजितस्तेन चाशीर्भिरनुज्ञातो गतोऽर्णवम् ।

दक्षिणं तत्र कन्याख्यां दुर्गां देवीं ददर्श सः ॥ १७॥

 

ततः फाल्गुनमासाद्य पञ्चाप्सरसमुत्तमम् ।

विष्णुः सन्निहितो यत्र स्नात्वास्पर्शद्गवायुतम् ॥ १८॥

 

ततोऽभिव्रज्य भगवान् केरलांस्तु त्रिगर्तकान् ।

गोकर्णाख्यं शिवक्षेत्रं सान्निध्यं यत्र धूर्जटेः ॥ १९॥

 

आर्यां द्वैपायनीं दृष्ट्वा शूर्पारकमगाद्बलः ।

तापीं पयोष्णीं निर्विन्ध्यामुपस्पृश्याथ दण्डकम् ॥ २०॥

 

प्रविश्य रेवामगमद्यत्र माहिष्मती पुरी ।

मनुतीर्थमुपस्पृश्य प्रभासं पुनरागमत् ॥ २१॥

 

श्रुत्वा द्विजैः कथ्यमानं कुरुपाण्डवसंयुगे ।

सर्वराजन्यनिधनं भारं मेने हृतं भुवः ॥ २२॥

 

स भीमदुर्योधनयोर्गदाभ्यां युध्यतोर्मृधे ।

वारयिष्यन् विनशनं जगाम यदुनन्दनः ॥ २३॥

 

युधिष्ठिरस्तु तं दृष्ट्वा यमौ कृष्णार्जुनावपि ।

अभिवाद्याभवंस्तूष्णीं किं विवक्षुरिहागतः ॥ २४॥

 

गदापाणी उभौ दृष्ट्वा संरब्धौ विजयैषिणौ ।

मण्डलानि विचित्राणि चरन्ताविदमब्रवीत् ॥ २५॥

 

युवां तुल्यबलौ वीरौ हे राजन् हे वृकोदर ।

एकं प्राणाधिकं मन्ये उतैकं शिक्षयाधिकम् ॥ २६॥

 

तस्मादेकतरस्येह युवयोः समवीर्ययोः ।

न लक्ष्यते जयोऽन्यो वा विरमत्वफलो रणः ॥ २७॥

 

न तद्वाक्यं जगृहतुर्बद्धवैरौ नृपार्थवत् ।

अनुस्मरन्तावन्योन्यं दुरुक्तं दुष्कृतानि च ॥ २८॥

 

दिष्टं तदनुमन्वानो रामो द्वारवतीं ययौ ।

उग्रसेनादिभिः प्रीतैर्ज्ञातिभिः समुपागतः ॥ २९॥

 

तं पुनर्नैमिषं प्राप्तमृषयोऽयाजयन् मुदा ।

क्रत्वङ्गं क्रतुभिः सर्वैर्निवृत्ताखिलविग्रहम् ॥ ३०॥

 

तेभ्यो विशुद्धं विज्ञानं भगवान् व्यतरद्विभुः ।

येनैवात्मन्यदो विश्वमात्मानं विश्वगं विदुः ॥ ३१॥

 

स्वपत्न्यावभृथस्नातो ज्ञातिबन्धुसुहृद्वृतः ।

रेजे स्वज्योत्स्नयेवेन्दुः सुवासाः सुष्ठ्वलङ्कृतः ॥ ३२॥

 

ईदृग्विधान्यसङ्ख्यानि बलस्य बलशालिनः ।

अनन्तस्याप्रमेयस्य मायामर्त्यस्य सन्ति हि ॥ ३३॥

 

योऽनुस्मरेत रामस्य कर्माण्यद्भुतकर्मणः ।

सायम्प्रातरनन्तस्य विष्णोः स दयितो भवेत् ॥ ३४॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे बलदेव-

तीर्थयात्रानिरूपणं नामैकोनाशीतितमोऽध्यायः ॥ ७९॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ अशीतितमोऽध्यायः - ८० ॥

 

राजोवाच

भगवन् यानि चान्यानि मुकुन्दस्य महात्मनः ।

वीर्याण्यनन्तवीर्यस्य श्रोतुमिच्छामहे प्रभो ॥ १॥

 

को नु श्रुत्वासकृद्ब्रह्मन्नुत्तमश्लोकसत्कथाः ।

विरमेत विशेषज्ञो विषण्णः काममार्गणैः ॥ २॥

 

सा वाग्यया तस्य गुणान् गृणीते

करौ च तत्कर्मकरौ मनश्च ।

स्मरेद्वसन्तं स्थिरजङ्गमेषु

श‍ृणोति तत्पुण्यकथाः स कर्णः ॥ ३॥

 

शिरस्तु तस्योभयलिङ्गमानमे-

त्तदेव यत्पश्यति तद्धि चक्षुः ।

अङ्गानि विष्णोरथ तज्जनानां

पादोदकं यानि भजन्ति नित्यम् ॥ ४॥

 

सूत उवाच

विष्णुरातेन सम्पृष्टो भगवान् बादरायणिः ।

वासुदेवे भगवति निमग्नहृदयोऽब्रवीत् ॥ ५॥

 

श्रीशुक उवाच

कृष्णस्यासीत्सखा कश्चिद्ब्राह्मणो ब्रह्मवित्तमः ।

विरक्त इन्द्रियार्थेषु प्रशान्तात्मा जितेन्द्रियः ॥ ६॥

 

यदृच्छयोपपन्नेन वर्तमानो गृहाश्रमी ।

तस्य भार्या कुचैलस्य क्षुत्क्षामा च तथाविधा ॥ ७॥

 

पतिव्रता पतिं प्राह म्लायता वदनेन सा ।

दरिद्रा सीदमाना सा वेपमानाभिगम्य च ॥ ८॥

 

ननु ब्रह्मन् भगवतः सखा साक्षाच्छ्रियः पतिः ।

ब्रह्मण्यश्च शरण्यश्च भगवान् सात्वतर्षभः ॥ ९॥

 

तमुपैहि महाभाग साधूनां च परायणम् ।

दास्यति द्रविणं भूरि सीदते ते कुटुम्बिने ॥ १०॥

 

आस्तेऽधुना द्वारवत्यां भोजवृष्ण्यन्धकेश्वरः ।

स्मरतः पादकमलमात्मानमपि यच्छति ।

किं न्वर्थकामान् भजतो नात्यभीष्टान् जगद्गुरुः ॥ ११॥

 

स एवं भार्यया विप्रो बहुशः प्रार्थितो मृदु ।

अयं हि परमो लाभ उत्तमश्लोकदर्शनम् ॥ १२॥

 

इति सञ्चिन्त्य मनसा गमनाय मतिं दधे ।

अप्यस्त्युपायनं किञ्चिद्गृहे कल्याणि दीयताम् ॥ १३॥

 

याचित्वा चतुरो मुष्टीन् विप्रान् पृथुकतण्डुलान् ।

चैलखण्डेन तान् बद्ध्वा भर्त्रे प्रादादुपायनम् ॥ १४॥

 

स तानादाय विप्राग्र्यः प्रययौ द्वारकां किल ।

कृष्णसन्दर्शनं मह्यं कथं स्यादिति चिन्तयन् ॥ १५॥

 

त्रीणि गुल्मान्यतीयाय तिस्रः कक्षाश्च स द्विजः ।

विप्रोऽगम्यान्धकवृष्णीनां गृहेष्वच्युतधर्मिणाम् ॥ १६॥

 

गृहं द्व्यष्टसहस्राणां महिषीणां हरेर्द्विजः ।

विवेशैकतमं श्रीमद्ब्रह्मानन्दं गतो यथा ॥ १७॥

 

तं विलोक्याच्युतो दूरात्प्रियापर्यङ्कमास्थितः ।

सहसोत्थाय चाभ्येत्य दोर्भ्यां पर्यग्रहीन्मुदा ॥ १८॥

 

सख्युः प्रियस्य विप्रर्षेरङ्गसङ्गातिनिर्वृतः ।

प्रीतो व्यमुञ्चदब्बिन्दून् नेत्राभ्यां पुष्करेक्षणः ॥ १९॥

 

अथोपवेश्य पर्यङ्के स्वयं सख्युः समर्हणम् ।

उपहृत्यावनिज्यास्य पादौ पादावनेजनीः ॥ २०॥

 

अग्रहीच्छिरसा राजन् भगवांल्लोकपावनः ।

व्यलिम्पद्दिव्यगन्धेन चन्दनागुरुकुङ्कमैः ॥ २१॥

 

धूपैः सुरभिभिर्मित्रं प्रदीपावलिभिर्मुदा ।

अर्चित्वाऽऽवेद्य ताम्बूलं गां च स्वागतमब्रवीत् ॥ २२॥

 

कुचैलं मलिनं क्षामं द्विजं धमनिसन्ततम् ।

देवी पर्यचरत्साक्षाच्चामरव्यजनेन वै ॥ २३॥

 

अन्तःपुरजनो दृष्ट्वा कृष्णेनामलकीर्तिना ।

विस्मितोऽभूदतिप्रीत्या अवधूतं सभाजितम् ॥ २४॥

 

किमनेन कृतं पुण्यमवधूतेन भिक्षुणा ।

श्रिया हीनेन लोकेऽस्मिन् गर्हितेनाधमेन च ॥ २५॥

 

योऽसौ त्रिलोकगुरुणा श्रीनिवासेन सम्भृतः ।

पर्यङ्कस्थां श्रियं हित्वा परिष्वक्तोऽग्रजो यथा ॥ २६॥

 

कथयाञ्चक्रतुर्गाथाः पूर्वा गुरुकुले सतोः ।

आत्मनो ललिता राजन् करौ गृह्य परस्परम् ॥ २७॥

 

श्रीभगवानुवाच

अपि ब्रह्मन् गुरुकुलाद्भवता लब्धदक्षिणात् ।

समावृत्तेन धर्मज्ञ भार्योढा सदृशी न वा ॥ २८॥

 

प्रायो गृहेषु ते चित्तमकामविहितं तथा ।

नैवातिप्रीयसे विद्वन् धनेषु विदितं हि मे ॥ २९॥

 

केचित्कुर्वन्ति कर्माणि कामैरहतचेतसः ।

त्यजन्तः प्रकृतीर्दैवीर्यथाहं लोकसङ्ग्रहम् ॥ ३०॥

 

कच्चिद्गुरुकुले वासं ब्रह्मन् स्मरसि नौ यतः ।

द्विजो विज्ञाय विज्ञेयं तमसः पारमश्नुते ॥ ३१॥

 

स वै सत्कर्मणां साक्षाद्द्विजातेरिह सम्भवः ।

आद्योऽङ्ग यत्राश्रमिणां यथाहं ज्ञानदो गुरुः ॥ ३२॥

 

नन्वर्थकोविदा ब्रह्मन् वर्णाश्रमवतामिह ।

ये मया गुरुणा वाचा तरन्त्यञ्जो भवार्णवम् ॥ ३३॥

 

नाहमिज्याप्रजातिभ्यां तपसोपशमेन वा ।

तुष्येयं सर्वभूतात्मा गुरुशुश्रूषया यथा ॥ ३४॥

 

अपि नः स्मर्यते ब्रह्मन् वृत्तं निवसतां गुरौ ।

गुरुदारैश्चोदितानामिन्धनानयने क्वचित् ॥ ३५॥

 

प्रविष्टानां महारण्यमपर्तौ सुमहद्द्विज ।

वातवर्षमभूत्तीव्रं निष्ठुराः स्तनयित्नवः ॥ ३६॥

 

सूर्यश्चास्तङ्गतस्तावत्तमसा चावृता दिशः ।

निम्नं कूलं जलमयं न प्राज्ञायत किञ्चन ॥ ३७॥

 

वयं भृशं तत्र महानिलाम्बुभि-

र्निहन्यमाना महुरम्बुसम्प्लवे ।

दिशोऽविदन्तोऽथ परस्परं वने

गृहीतहस्ताः परिबभ्रिमातुराः ॥ ३८॥

 

एतद्विदित्वा उदिते रवौ सान्दीपनिर्गुरुः ।

अन्वेषमाणो नः शिष्यानाचार्योऽपश्यदातुरान् ॥ ३९॥

 

अहो हे पुत्रका यूयमस्मदर्थेऽतिदुःखिताः ।

आत्मा वै प्राणिनां प्रेष्ठस्तमनादृत्य मत्पराः ॥ ४०॥

 

एतदेव हि सच्छिष्यैः कर्तव्यं गुरुनिष्कृतम् ।

यद्वै विशुद्धभावेन सर्वार्थात्मार्पणं गुरौ ॥ ४१॥

 

तुष्टोऽहं भो द्विजश्रेष्ठाः सत्याः सन्तु मनोरथाः ।

छन्दांस्ययातयामानि भवन्त्विह परत्र च ॥ ४२॥

 

इत्थं विधान्यनेकानि वसतां गुरुवेश्मसु ।

गुरोरनुग्रहेणैव पुमान् पूर्णः प्रशान्तये ॥ ४३॥

 

ब्राह्मण उवाच

किमस्माभिरनिर्वृत्तं देवदेव जगद्गुरो ।

भवता सत्यकामेन येषां वासो गुरावभूत् ॥ ४४॥

 

यस्यच्छन्दोमयं ब्रह्म देह आवपनं विभो ।

श्रेयसां तस्य गुरुषु वासोऽत्यन्तविडम्बनम् ॥ ४५॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे श्रीदामचरिते

अशीतितमोऽध्यायः ॥ ८०॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकाशीतितमोऽध्यायः - ८१ ॥

 

श्रीशुक उवाच

स इत्थं द्विजमुख्येन सह सङ्कथयन् हरिः ।

सर्वभूतमनोऽभिज्ञः स्मयमान उवाच तम् ॥ १॥

 

ब्रह्मण्यो ब्राह्मणं कृष्णो भगवान् प्रहसन् प्रियम् ।

प्रेम्णा निरीक्षणेनैव प्रेक्षन् खलु सतां गतिः ॥ २॥

 

श्रीभगवानुवाच

किमुपायनमानीतं ब्रह्मन् मे भवता गृहात् ।

अण्वप्युपाहृतं भक्तैः प्रेम्णा भूर्येव मे भवेत् ।

भूर्यप्यभक्तोपहृतं न मे तोषाय कल्पते ॥ ३॥

 

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।

तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ ४॥

 

इत्युक्तोऽपि द्विजस्तस्मै व्रीडितः पतये श्रियः ।

पृथुकप्रसृतिं राजन् न प्रायच्छदवाङ्मुखः ॥ ५॥

 

सर्वभूतात्मदृक्साक्षात्तस्यागमनकारणम् ।

विज्ञायाचिन्तयन्नायं श्रीकामो माभजत्पुरा ॥ ६॥

 

पत्न्याः पतिव्रतायास्तु सखा प्रियचिकीर्षया ।

प्राप्तो मामस्य दास्यामि सम्पदोऽमर्त्यदुर्लभाः ॥ ७॥

 

इत्थं विचिन्त्य वसनाच्चीरबद्धान् द्विजन्मनः ।

स्वयं जहार किमिदमिति पृथुकतण्डुलान् ॥ ८॥

 

नन्वेतदुपनीतं मे परमप्रीणनं सखे ।

तर्पयन्त्यङ्ग मां विश्वमेते पृथुकतण्डुलाः ॥ ९॥

 

इति मुष्टिं सकृज्जग्ध्वा द्वितीयां जग्धुमाददे ।

तावच्छ्रीर्जगृहे हस्तं तत्परा परमेष्ठिनः ॥ १०॥

 

एतावतालं विश्वात्मन् सर्वसम्पत्समृद्धये ।

अस्मिन् लोकेऽथ वामुष्मिन् पुंसस्त्वत्तोषकारणम् ॥ ११॥

 

ब्राह्मणस्तां तु रजनीमुषित्वाच्युतमन्दिरे ।

भुक्त्वा पीत्वा सुखं मेने आत्मानं स्वर्गतं यथा ॥ १२॥

 

श्वोभूते विश्वभावेन स्वसुखेनाभिवन्दितः ।

जगाम स्वालयं तात पथ्यनुव्रज्य नन्दितः ॥ १३॥

 

स चालब्ध्वा धनं कृष्णान्न तु याचितवान् स्वयम् ।

स्वगृहान् व्रीडितोऽगच्छन्महद्दर्शननिर्वृतः ॥ १४॥

 

अहो ब्रह्मण्यदेवस्य दृष्टा ब्रह्मण्यता मया ।

यद्दरिद्रतमो लक्ष्मीमाश्लिष्टो बिभ्रतोरसि ॥ १५॥

 

क्वाहं दरिद्रः पापीयान् क्व कृष्णः श्रीनिकेतनः ।

ब्रह्मबन्धुरिति स्माहं बाहुभ्यां परिरम्भितः ॥ १६॥

 

निवासितः प्रियाजुष्टे पर्यङ्के भ्रातरो यथा ।

महिष्या वीजितः श्रान्तो वालव्यजनहस्तया ॥ १७॥

 

शुश्रूषया परमया पादसंवाहनादिभिः ।

पूजितो देवदेवेन विप्रदेवेन देववत् ॥ १८॥

 

स्वर्गापवर्गयोः पुंसां रसायां भुवि सम्पदाम् ।

सर्वासामपि सिद्धीनां मूलं तच्चरणार्चनम् ॥ १९॥

 

अधनोऽयं धनं प्राप्य माद्यन्नुच्चैर्न मां स्मरेत् ।

इति कारुणिको नूनं धनं मेऽभूरि नाददात् ॥ २०॥

 

इति तच्चिन्तयन्नन्तः प्राप्तो निजगृहान्तिकम् ।

सूर्यानलेन्दुसङ्काशैर्विमानैः सर्वतो वृतम् ॥ २१॥

 

विचित्रोपवनोद्यानैः कूजद्द्विजकुलाकुलैः ।

प्रोत्फुल्लकुमुदाम्भोजकह्लारोत्पलवारिभिः ॥ २२॥

 

जुष्टं स्वलङ्कृतैः पुम्भिः स्त्रीभिश्च हरिणाक्षिभिः ।

किमिदं कस्य वा स्थानं कथं तदिदमित्यभूत् ॥ २३॥

 

एवं मीमांसमानं तं नरा नार्योऽमरप्रभाः ।

प्रत्यगृह्णन् महाभागं गीतवाद्येन भूयसा ॥ २४॥

 

पतिमागतमाकर्ण्य पत्न्युद्धर्षातिसम्भ्रमा ।

निश्चक्राम गृहात्तूर्णं रूपिणी श्रीरिवालयात् ॥ २५॥

 

पतिव्रता पतिं दृष्ट्वा प्रेमोत्कण्ठाश्रुलोचना ।

मीलिताक्ष्यनमद्बुद्ध्या मनसा परिषस्वजे ॥ २६॥

 

पत्नीं वीक्ष्य विस्फुरन्तीं देवीं वैमानिकीमिव ।

दासीनां निष्ककण्ठीनां मध्ये भान्तीं स विस्मितः ॥ २७॥

 

प्रीतः स्वयं तया युक्तः प्रविष्टो निजमन्दिरम् ।

मणिस्तम्भशतोपेतं महेन्द्रभवनं यथा ॥ २८॥

 

पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः ।

पर्यङ्का हेमदण्डानि चामरव्यजनानि च ॥ २९॥

 

आसनानि च हैमानि मृदूपस्तरणानि च ।

मुक्तादामविलम्बीनि वितानानि द्युमन्ति च ॥ ३०॥

 

स्वच्छस्फटिककुड्येषु महामारकतेषु च ।

रत्नदीपा भ्राजमाना ललनारत्नसंयुताः ॥ ३१॥

 

विलोक्य ब्राह्मणस्तत्र समृद्धीः सर्वसम्पदाम् ।

तर्कयामास निर्व्यग्रः स्वसमृद्धिमहैतुकीम् ॥ ३२॥

 

नूनं बतैतन्मम दुर्भगस्य

शश्वद्दरिद्रस्य समृद्धिहेतुः ।

महाविभूतेरवलोकतोऽन्यो

नैवोपपद्येत यदूत्तमस्य ॥ ३३॥

 

नन्वब्रुवाणो दिशते समक्षं

याचिष्णवे भूर्यपि भूरिभोजः ।

पर्जन्यवत्तत्स्वयमीक्षमाणो

दाशार्हकाणामृषभः सखा मे ॥ ३४॥

 

किञ्चित्करोत्युर्वपि यत्स्वदत्तं

सुहृत्कृतं फल्ग्वपि भूरिकारी ।

मयोपनीतां पृथुकैकमुष्टिं

प्रत्यग्रहीत्प्रीतियुतो महात्मा ॥ ३५॥

 

तस्यैव मे सौहृदसख्यमैत्री-

दास्यं पुनर्जन्मनि जन्मनि स्यात् ।

महानुभावेन गुणालयेन

विषज्जतस्तत्पुरुषप्रसङ्गः ॥ ३६॥

 

भक्ताय चित्रा भगवान् हि सम्पदो

राज्यं विभूतीर्न समर्थयत्यजः ।

अदीर्घबोधाय विचक्षणः स्वयं

पश्यन्निपातं धनिनां मदोद्भवम् ॥ ३७॥

 

इत्थं व्यवसितो बुद्ध्या भक्तोऽतीव जनार्दने ।

विषयान् जायया त्यक्ष्यन् बुभुजे नातिलम्पटः ॥ ३८॥

 

तस्य वै देवदेवस्य हरेर्यज्ञपतेः प्रभोः ।

ब्राह्मणाः प्रभवो दैवं न तेभ्यो विद्यते परम् ॥ ३९॥

 

एवं स विप्रो भगवत्सुहृत्तदा

दृष्ट्वा स्वभृत्यैरजितं पराजितम् ।

तद्ध्यानवेगोद्ग्रथितात्मबन्धन-

स्तद्धाम लेभेऽचिरतः सतां गतिम् ॥ ४०॥

 

एतद्ब्रह्मण्यदेवस्य श्रुत्वा ब्रह्मण्यतां नरः ।

लब्धभावो भगवति कर्मबन्धाद्विमुच्यते ॥ ४१॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे पृथुको-

पाख्यानं नामैकाशीतितमोऽध्यायः ॥ ८१॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ द्व्यशीतितमोऽध्यायः - ८२ ॥

 

श्रीशुक उवाच

अथैकदा द्वारवत्यां वसतो रामकृष्णयोः ।

सूर्योपरागः सुमहानासीत्कल्पक्षये यथा ॥ १॥

 

तं ज्ञात्वा मनुजा राजन् पुरस्तादेव सर्वतः ।

समन्तपञ्चकं क्षेत्रं ययुः श्रेयोविधित्सया ॥ २॥

 

निःक्षत्रियां महीं कुर्वन् रामः शस्त्रभृतां वरः ।

नृपाणां रुधिरौघेण यत्र चक्रे महाह्रदान् ॥ ३॥

 

ईजे च भगवान् रामो यत्रास्पृष्टोऽपि कर्मणा ।

लोकस्य ग्राहयन्नीशो यथान्योऽघापनुत्तये ॥ ४॥

 

महत्यां तीर्थयात्रायां तत्रागन् भारतीः प्रजाः ।

वृष्णयश्च तथाक्रूरवसुदेवाहुकादयः ॥ ५॥

 

ययुर्भारत तत्क्षेत्रं स्वमघं क्षपयिष्णवः ।

गदप्रद्युम्नसाम्बाद्याः सुचन्द्रशुकसारणैः ॥ ६॥

 

आस्तेऽनिरुद्धो रक्षायां कृतवर्मा च यूथपः ।

ते रथैर्देवधिष्ण्याभैर्हयैश्च तरलप्लवैः ॥ ७॥

 

गजैर्नदद्भिरभ्राभैर्नृभिर्विद्याधरद्युभिः ।

व्यरोचन्त महातेजाः पथि काञ्चनमालिनः ॥ ८॥

 

दिव्यस्रग्वस्त्रसन्नाहाः कलत्रैः खेचरा इव ।

तत्र स्नात्वा महाभागा उपोष्य सुसमाहिताः ॥ ९॥

 

ब्राह्मणेभ्यो ददुर्धेनूर्वासःस्रग्रुक्ममालिनीः ।

रामह्रदेषु विधिवत्पुनराप्लुत्य वृष्णयः ॥ १०॥

 

ददुः स्वन्नं द्विजाग्र्येभ्यः कृष्णे नो भक्तिरस्त्विति ।

स्वयं च तदनुज्ञाता वृष्णयः कृष्णदेवताः ॥ ११॥

 

भुक्त्वोपविविशुः कामं स्निग्धच्छायाङ्घ्रिपाङ्घ्रिषु ।

तत्रागतांस्ते ददृशुः सुहृत्सम्बन्धिनो नृपान् ॥ १२॥

 

मत्स्योशीनरकौसल्यविदर्भकुरुसृञ्जयान् ।

काम्बोजकैकयान्मद्रान् कुन्तीनानर्तकेरलान् ॥ १३॥

 

अन्यांश्चैवात्मपक्षीयान् परांश्च शतशो नृप ।

नन्दादीन् सुहृदो गोपान् गोपीश्चोत्कण्ठिताश्चिरम् ॥ १४॥

 

अन्योन्यसन्दर्शनहर्षरंहसा

प्रोत्फुल्लहृद्वक्त्रसरोरुहश्रियः ।

आश्लिष्य गाढं नयनैः स्रवज्जला

हृष्यत्त्वचो रुद्धगिरो ययुर्मुदम् ॥ १५॥

 

स्त्रियश्च संवीक्ष्य मिथोऽतिसौहृद-

स्मितामलापाङ्गदृशोऽभिरेभिरे ।

स्तनैः स्तनान् कुङ्कुमपङ्करूषिता-

न्निहत्य दोर्भिः प्रणयाश्रुलोचनाः ॥ १६॥

 

ततोऽभिवाद्य ते वृद्धान् यविष्ठैरभिवादिताः ।

स्वागतं कुशलं पृष्ट्वा चक्रुः कृष्णकथा मिथः ॥ १७॥

 

पृथा भ्रातॄन् स्वसॄर्वीक्ष्य तत्पुत्रान् पितरावपि ।

भ्रातृपत्नीर्मुकुन्दं च जहौ सङ्कथया शुचः ॥ १८॥

 

कुन्त्युवाच

आर्य भ्रातरहं मन्ये आत्मानमकृताशिषम् ।

यद्वा आपत्सु मद्वार्तां नानुस्मरथ सत्तमाः ॥ १९॥

 

सुहृदो ज्ञातयः पुत्रा भ्रातरः पितरावपि ।

नानुस्मरन्ति स्वजनं यस्य दैवमदक्षिणम् ॥ २०॥

 

वसुदेव उवाच

अम्ब मास्मानसूयेथा दैवक्रीडनकान् नरान् ।

ईशस्य हि वशे लोकः कुरुते कार्यतेऽथ वा ॥ २१॥

 

कंसप्रतापिताः सर्वे वयं याता दिशं दिशम् ।

एतर्ह्येव पुनः स्थानं दैवेनासादिताः स्वसः ॥ २२॥

 

श्रीशुक उवाच

वसुदेवोग्रसेनाद्यैर्यदुभिस्तेऽर्चिता नृपाः ।

आसन्नच्युतसन्दर्शपरमानन्दनिर्वृताः ॥ २३॥

 

भीष्मो द्रोणोऽम्बिकापुत्रो गान्धारी ससुता तथा ।

सदाराः पाण्डवाः कुन्ती सञ्जयो विदुरः कृपः ॥ २४॥‘

कुन्तिभोजो विराटश्च भीष्मको नग्नजिन्महान् ।

पुरुजिद्द्रुपदः शल्यो धृष्टकेतुः सकाशिराट् ॥ २५॥

 

दमघोषो विशालाक्षो मैथिलो मद्रकेकयौ ।

युधामन्युः सुशर्मा च ससुता बाह्लिकादयः ॥ २६॥

 

राजानो ये च राजेन्द्र युधिष्ठिरमनुव्रताः ।

श्रीनिकेतं वपुः शौरेः सस्त्रीकं वीक्ष्य विस्मिताः ॥ २७॥

 

अथ ते रामकृष्णाभ्यां सम्यक् प्राप्तसमर्हणाः ।

प्रशशंसुर्मुदा युक्ता वृष्णीन् कृष्णपरिग्रहान् ॥ २८॥

 

अहो भोजपते यूयं जन्मभाजो नृणामिह ।

यत्पश्यथासकृत्कृष्णं दुर्दर्शमपि योगिनाम् ॥ २९॥

 

यद्विश्रुतिः श्रुतिनुतेदमलं पुनाति

पादावनेजनपयश्च वचश्च शास्त्रम् ।

भूः कालभर्जितभगापि यदङ्घ्रिपद्म-

स्पर्शोत्थशक्तिरभिवर्षति नोऽखिलार्थान् ॥ ३०॥

 

तद्दर्शनस्पर्शनानुपथप्रजल्प-

शय्यासनाशनसयौनसपिण्डबन्धः ।

येषां गृहे निरयवर्त्मनि वर्ततां वः

स्वर्गापवर्गविरमः स्वयमास विष्णुः ॥ ३१॥

 

श्रीशुक उवाच

नन्दस्तत्र यदून् प्राप्तान् ज्ञात्वा कृष्णपुरोगमान् ।

तत्रागमद्वृतो गोपैरनःस्थार्थैर्दिदृक्षया ॥ ३२॥

 

तं दृष्ट्वा वृष्णयो हृष्टास्तन्वः प्राणमिवोत्थिताः ।

परिषस्वजिरे गाढं चिरदर्शनकातराः ॥ ३३॥

 

वसुदेवः परिष्वज्य सम्प्रीतः प्रेमविह्वलः ।

स्मरन् कंसकृतान् क्लेशान् पुत्रन्यासं च गोकुले ॥ ३४॥

 

कृष्णरामौ परिष्वज्य पितरावभिवाद्य च ।

न किञ्चनोचतुः प्रेम्णा साश्रुकण्ठौ कुरूद्वह ॥ ३५॥

 

तावात्मासनमारोप्य बाहुभ्यां परिरभ्य च ।

यशोदा च महाभागा सुतौ विजहतुः शुचः ॥ ३६॥

 

रोहिणी देवकी चाथ परिष्वज्य व्रजेश्वरीम् ।

स्मरन्त्यौ तत्कृतां मैत्रीं बाष्पकण्ठ्यौ समूचतुः ॥ ३७॥

 

का विस्मरेत वां मैत्रीमनिवृत्तां व्रजेश्वरि ।

अवाप्याप्यैन्द्रमैश्वर्यं यस्या नेह प्रतिक्रिया ॥ ३८॥

 

एतावदृष्टपितरौ युवयोः स्म पित्रोः

सम्प्रीणनाभ्युदयपोषणपालनानि ।

प्राप्योषतुर्भवति पक्ष्म ह यद्वदक्ष्णोः

न्यस्तावकुत्र च भयौ न सतां परः स्वः ॥ ३९॥

 

श्रीशुक उवाच

गोप्यश्च कृष्णमुपलभ्य चिरादभीष्टं

यत्प्रेक्षणे दृशिषु पक्ष्मकृतं शपन्ति ।

दृग्भिर्हृदीकृतमलं परिरभ्य सर्वा-

स्तद्भावमापुरपि नित्ययुजां दुरापम् ॥ ४०॥

 

भगवांस्तास्तथाभूता विविक्त उपसङ्गतः ।

आश्लिष्यानामयं पृष्ट्वा प्रहसन्निदमब्रवीत् ॥ ४१॥

 

अपि स्मरथ नः सख्यः स्वानामर्थचिकीर्षया ।

गतांश्चिरायिताञ्छत्रुपक्षक्षपणचेतसः ॥ ४२॥

 

अप्यवध्यायथास्मान् स्विदकृतज्ञाविशङ्कया ।

नूनं भूतानि भगवान् युनक्ति वियुनक्ति च ॥ ४३॥

 

वायुर्यथा घनानीकं तृणं तूलं रजांसि च ।

संयोज्याक्षिपते भूयस्तथा भूतानि भूतकृत् ॥ ४४॥

 

मयि भक्तिर्हि भूतानाममृतत्वाय कल्पते ।

दिष्ट्या यदासीन्मत्स्नेहो भवतीनां मदापनः ॥ ४५॥

 

अहं हि सर्वभूतानामादिरन्तोऽन्तरं बहिः ।

भौतिकानां यथा खं वार्भूर्वायुर्ज्योतिरङ्गनाः ॥ ४६॥

 

एवं ह्येतानि भूतानि भूतेष्वात्माऽऽत्मना ततः ।

उभयं मय्यथ परे पश्यताभातमक्षरे ॥ ४७॥

 

श्रीशुक उवाच

अध्यात्मशिक्षया गोप्य एवं कृष्णेन शिक्षिताः ।

तदनुस्मरणध्वस्तजीवकोशास्तमध्यगन् ॥ ४८॥

 

आहुश्च ते नलिननाभ पदारविन्दं

योगेश्वरैर्हृदि विचिन्त्यमगाधबोधैः ।

संसारकूपपतितोत्तरणावलम्बं

गेहञ्जुषामपि मनस्युदियात्सदा नः ॥ ४९॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे वृष्णिगोप-

सङ्गमो नाम द्व्यशीतितमोऽध्यायः ॥ ८२॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ त्र्यशीतितमोऽध्यायः - ८३ ॥

 

श्रीशुक उवाच

तथानुगृह्य भगवान् गोपीनां स गुरुर्गतिः ।

युधिष्ठिरमथापृच्छत्सर्वांश्च सुहृदोऽव्ययम् ॥ १॥

 

त एवं लोकनाथेन परिपृष्टाः सुसत्कृताः ।

प्रत्यूचुर्हृष्टमनसस्तत्पादेक्षाहतांहसः ॥ २॥

 

कुतोऽशिवं त्वच्चरणाम्बुजासवं

महन्मनस्तो मुखनिःसृतं क्वचित् ।

पिबन्ति ये कर्णपुटैरलं प्रभो

देहम्भृतां देहकृदस्मृतिच्छिदम् ॥ ३॥

 

हित्वाऽऽत्मधाम विधुतात्मकृतत्र्यवस्थ-

मानन्दसम्प्लवमखण्डमकुण्ठबोधम् ।

कालोपसृष्टनिगमावन आत्तयोग-

मायाकृतिं परमहंसगतिं नताः स्मः ॥ ४॥

 

ऋषिरुवाच

इत्युत्तमश्लोकशिखामणिं जने-

ष्वभिष्टुवत्स्वन्धककौरवस्त्रियः ।

समेत्य गोविन्दकथा मिथोऽगृणं-

स्त्रिलोकगीताः श‍ृणु वर्णयामि ते ॥ ५॥

 

द्रौपद्युवाच

हे वैदर्भ्यच्युतो भद्रे हे जाम्बवति कौसले ।

हे सत्यभामे कालिन्दि शैब्ये रोहिणि लक्ष्मणे ॥ ६॥

 

हे कृष्णपत्न्य एतन्नो ब्रूत वो भगवान् स्वयम् ।

उपयेमे यथा लोकमनुकुर्वन् स्वमायया ॥ ७॥

 

रुक्मिण्युवाच

चैद्याय मार्पयितुमुद्यतकार्मुकेषु

राजस्वजेयभटशेखरिताङ्घ्रिरेणुः ।

निन्ये मृगेन्द्र इव भागमजावियूथा-

त्तच्छ्रीनिकेतचरणोऽस्तु ममार्चनाय ॥ ८॥

 

सत्यभामोवाच

यो मे सनाभिवधतप्तहृदा ततेन

लिप्ताभिशापमपमार्ष्टुमुपाजहार ।

जित्वर्क्षराजमथ रत्नमदात्स तेन

भीतः पितादिशत मां प्रभवेऽपि दत्ताम् ॥ ९॥

 

जाम्बवत्युवाच

प्राज्ञाय देहकृदमुं निजनाथदैवं

सीतापतिं त्रिणवहान्यमुनाभ्ययुध्यत् ।

ज्ञात्वा परीक्षित उपाहरदर्हणं मां

पादौ प्रगृह्य मणिनाहममुष्य दासी ॥ १०॥

 

कालिन्द्युवाच

तपश्चरन्तीमाज्ञाय स्वपादस्पर्शनाशया ।

सख्योपेत्याग्रहीत्पाणिं योऽहं तद्गृहमार्जनी ॥ ११॥

 

मित्रविन्दोवाच

यो मां स्वयंवर उपेत्य विजित्य भूपान्

निन्ये श्वयूथगमिवात्मबलिं द्विपारिः ।

भ्रातॄंश्च मेऽपकुरुतः स्वपुरं श्रियौकः

तस्यास्तु मेऽनुभवमङ्घ्र्यवनेजनत्वम् ॥ १२॥

 

सत्योवाच

सप्तोक्षणोऽतिबलवीर्यसुतीक्ष्णश‍ृङ्गान्

पित्रा कृतान् क्षितिपवीर्यपरीक्षणाय ।

तान् वीरदुर्मदहनस्तरसा निगृह्य

क्रीडन् बबन्ध ह यथा शिशवोऽजतोकान् ॥ १३॥

 

य इत्थं वीर्यशुल्कां मां दासीभिश्चतुरङ्गिणीम् ।

पथि निर्जित्य राजन्यान् निन्ये तद्दास्यमस्तु मे ॥ १४॥

 

भद्रोवाच

पिता मे मातुलेयाय स्वयमाहूय दत्तवान् ।

कृष्णे कृष्णाय तच्चित्तामक्षौहिण्या सखीजनैः ॥ १५॥

 

अस्य मे पादसंस्पर्शो भवेज्जन्मनि जन्मनि ।

कर्मभिर्भ्राम्यमाणाया येन तच्छ्रेय आत्मनः ॥ १६॥

 

लक्ष्मणोवाच

ममापि राज्ञ्यच्युतजन्मकर्म

श्रुत्वा मुहुर्नारदगीतमास ह ।

चित्तं मुकुन्दे किल पद्महस्तया

वृतः सुसम्मृश्य विहाय लोकपान् ॥ १७॥

 

ज्ञात्वा मम मतं साध्वि पिता दुहितृवत्सलः ।

बृहत्सेन इति ख्यातस्तत्रोपायमचीकरत् ॥ १८॥

 

यथा स्वयंवरे राज्ञि मत्स्यः पार्थेप्सया कृतः ।

अयं तु बहिराच्छन्नो दृश्यते स जले परम् ॥ १९॥

 

श्रुत्वैतत्सर्वतो भूपा आययुर्मत्पितुः पुरम् ।

सर्वास्त्रशस्त्रतत्त्वज्ञाः सोपाध्यायाः सहस्रशः ॥ २०॥

 

पित्रा सम्पूजिताः सर्वे यथावीर्यं यथावयः ।

आददुः सशरं चापं वेद्धुं पर्षदि मद्धियः ॥ २१॥

 

आदाय व्यसृजन् केचित्सज्यं कर्तुमनीश्वराः ।

आकोटि ज्यां समुत्कृष्य पेतुरेकेऽमुना हताः ॥ २२॥

 

सज्यं कृत्वा परे वीरा मागधाम्बष्ठचेदिपाः ।

भीमो दुर्योधनः कर्णो नाविदंस्तदवस्थितिम् ॥ २३॥

 

मत्स्याभासं जले वीक्ष्य ज्ञात्वा च तदवस्थितिम् ।

पार्थो यत्तोऽसृजद्बाणं नाच्छिनत्पस्पृशे परम् ॥ २४॥

 

राजन्येषु निवृत्तेषु भग्नमानेषु मानिषु ।

भगवान् धनुरादाय सज्यं कृत्वाथ लीलया ॥ २५॥

 

तस्मिन् सन्धाय विशिखं मत्स्यं वीक्ष्य सकृज्जले ।

छित्त्वेषुणापातयत्तं सूर्ये चाभिजिति स्थिते ॥ २६॥

 

दिवि दुन्दुभयो नेदुर्जयशब्दयुता भुवि ।

देवाश्च कुसुमासारान् मुमुचुर्हर्षविह्वलाः ॥ २७॥

 

तद्रङ्गमाविशमहं कलनूपुराभ्यां

पद्भ्यां प्रगृह्य कनकोज्ज्वलरत्नमालाम् ।

नूत्ने निवीय परिधाय च कौशिकाग्र्ये

सव्रीडहासवदना कबरीधृतस्रक् ॥ २८॥

 

उन्नीय वक्त्रमुरुकुन्तलकुण्डलत्वि-

ड्गण्डस्थलं शिशिरहासकटाक्षमोक्षैः ।

राज्ञो निरीक्ष्य परितः शनकैर्मुरारे-

रंसेऽनुरक्तहृदया निदधे स्वमालाम् ॥ २९॥

 

तावन्मृदङ्गपटहाः शङ्खभेर्यानकादयः ।

निनेदुर्नटनर्तक्यो ननृतुर्गायका जगुः ॥ ३०॥

 

एवं वृते भगवति मयेशे नृपयूथपाः ।

न सेहिरे याज्ञसेनि स्पर्धन्तो हृच्छयातुराः ॥ ३१॥

 

मां तावद्रथमारोप्य हयरत्नचतुष्टयम् ।

शार्ङ्गमुद्यम्य सन्नद्धस्तस्थावाजौ चतुर्भुजः ॥ ३२॥

 

दारुकश्चोदयामास काञ्चनोपस्करं रथम् ।

मिषतां भूभुजां राज्ञि मृगाणां मृगराडिव ॥ ३३॥

 

तेऽन्वसज्जन्त राजन्या निषेद्धुं पथि केचन ।

संयत्ता उद्धृतेष्वासा ग्रामसिंहा यथा हरिम् ॥ ३४॥

 

ते शार्ङ्गच्युतबाणौघैः कृत्तबाह्वङ्घ्रिकन्धराः ।

निपेतुः प्रधने केचिदेके सन्त्यज्य दुद्रुवुः ॥ ३५॥

 

ततः पुरीं यदुपतिरत्यलङ्कृतां

रविच्छदध्वजपटचित्रतोरणाम् ।

कुशस्थलीं दिवि भुवि चाभिसंस्तुतां

समाविशत्तरणिरिव स्वकेतनम् ॥ ३६॥

 

पिता मे पूजयामास सुहृत्सम्बन्धिबान्धवान् ।

महार्हवासोऽलङ्कारैः शय्यासनपरिच्छदैः ॥ ३७॥

 

दासीभिः सर्वसम्पद्भिर्भटेभरथवाजिभिः ।

आयुधानि महार्हाणि ददौ पूर्णस्य भक्तितः ॥ ३८॥

 

आत्मारामस्य तस्येमा वयं वै गृहदासिकाः ।

सर्वसङ्गनिवृत्त्याद्धा तपसा च बभूविम ॥ ३९॥

 

महिष्य ऊचुः

भौमं निहत्य सगणं युधि तेन रुद्धा

ज्ञात्वाथ नः क्षितिजये जितराजकन्याः ।

निर्मुच्य संसृतिविमोक्षमनुस्मरन्तीः

पादाम्बुजं परिणिनाय य आप्तकामः ॥ ४०॥

 

न वयं साध्वि साम्राज्यं स्वाराज्यं भौज्यमप्युत ।

वैराज्यं पारमेष्ठ्यं च आनन्त्यं वा हरेः पदम् ॥ ४१॥

 

कामयामह एतस्य श्रीमत्पादरजः श्रियः ।

कुचकुङ्कुमगन्धाढ्यं मूर्ध्ना वोढुं गदाभृतः ॥ ४२॥

 

व्रजस्त्रियो यद्वाञ्छन्ति पुलिन्द्यस्तृणवीरुधः ।

गावश्चारयतो गोपाः पादस्पर्शं महात्मनः ॥ ४३॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे उत्तरार्धे त्र्यशीतितमोऽध्यायः ॥ ८३॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ चतुरशीतितमोऽध्यायः - ८४ ॥

 

श्रीशुक उवाच

श्रुत्वा पृथा सुबलपुत्र्यथ याज्ञसेनी

माधव्यथ क्षितिपपत्न्य उत स्वगोप्यः ।

कृष्णेऽखिलात्मनि हरौ प्रणयानुबन्धं

सर्वा विसिस्म्युरलमश्रुकलाकुलाक्ष्यः ॥ १॥

 

इति सम्भाषमाणासु स्त्रीभिः स्त्रीषु नृभिर्नृषु ।

आययुर्मुनयस्तत्र कृष्णरामदिदृक्षया ॥ २॥

 

द्वैपायनो नारदश्च च्यवनो देवलोऽसितः ।

विश्वामित्रः शतानन्दो भरद्वाजोऽथ गौतमः ॥ ३॥

 

रामः सशिष्यो भगवान् वसिष्ठो गालवो भृगुः ।

पुलस्त्यः कश्यपोऽत्रिश्च मार्कण्डेयो बृहस्पतिः ॥ ४॥

 

द्वितस्त्रितश्चैकतश्च ब्रह्मपुत्रास्तथाङ्गिराः ।

अगस्त्यो याज्ञवल्क्यश्च वामदेवादयोऽपरे ॥ ५॥

 

तान् दृष्ट्वा सहसोत्थाय प्रागासीना नृपादयः ।

पाण्डवाः कृष्णरामौ च प्रणेमुर्विश्ववन्दितान् ॥ ६॥

 

तानानर्चुर्यथा सर्वे सहरामोऽच्युतोऽर्चयत् ।

स्वागतासनपाद्यार्घ्यमाल्यधूपानुलेपनैः ॥ ७॥

 

उवाच सुखमासीनान् भगवान् धर्मगुप्तनुः ।

सदसस्तस्य महतो यतवाचोऽनुश‍ृण्वतः ॥ ८॥

 

श्रीभगवानुवाच

अहो वयं जन्मभृतो लब्धं कार्त्स्न्येन तत्फलम् ।

देवानामपि दुष्प्रापं यद्योगेश्वरदर्शनम् ॥ ९॥

 

किं स्वल्पतपसां नॄणामर्चायां देवचक्षुषाम् ।

दर्शनस्पर्शनप्रश्नप्रह्वपादार्चनादिकम् ॥ १०॥

 

न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ।

ते पुनन्त्युरुकालेन दर्शनादेव साधवः ॥ ११॥

 

नाग्निर्न सूर्यो न च चन्द्रतारका

न भूर्जलं खं श्वसनोऽथ वाङ्मनः ।

उपासिता भेदकृतो हरन्त्यघं

विपश्चितो घ्नन्ति मुहूर्तसेवया ॥ १२॥

 

यस्यात्मबुद्धिः कुणपे त्रिधातुके

स्वधीः कलत्रादिषु भौम इज्यधीः ।

यत्तीर्थबुद्धिः सलिले न कर्हिचि-

ज्जनेष्वभिज्ञेषु स एव गोखरः ॥ १३॥

 

श्रीशुक उवाच

निशम्येत्थं भगवतः कृष्णस्याकुण्ठमेधसः ।

वचो दुरन्वयं विप्रास्तूष्णीमासन् भ्रमद्धियः ॥ १४॥

 

चिरं विमृश्य मुनय ईश्वरस्येशितव्यताम् ।

जनसङ्ग्रह इत्यूचुः स्मयन्तस्तं जगद्गुरुम् ॥ १५॥

 

मुनय ऊचुः

यन्मायया तत्त्वविदुत्तमा वयं

विमोहिता विश्वसृजामधीश्वराः ।

यदीशितव्यायति गूढ ईहया

अहो विचित्रं भगवद्विचेष्टितम् ॥ १६॥

 

अनीह एतद्बहुधैक आत्मना

सृजत्यवत्यत्ति न बध्यते यथा ।

भौमैर्हि भूमिर्बहुनामरूपिणी

अहो विभूम्नश्चरितं विडम्बनम् ॥ १७॥

 

अथापि काले स्वजनाभिगुप्तये

बिभर्षि सत्त्वं खलनिग्रहाय च ।

स्वलीलया वेदपथं सनातनं

वर्णाश्रमात्मा पुरुषः परो भवान् ॥ १८॥

 

ब्रह्म ते हृदयं शुक्लं तपःस्वाध्यायसंयमैः ।

यत्रोपलब्धं सद्व्यक्तमव्यक्तं च ततः परम् ॥ १९॥

 

तस्माद्ब्रह्मकुलं ब्रह्मन् शास्त्रयोनेस्त्वमात्मनः ।

सभाजयसि सद्धाम तद्ब्रह्मण्याग्रणीर्भवान् ॥ २०॥

 

अद्य नो जन्मसाफल्यं विद्यायास्तपसो दृशः ।

त्वया सङ्गम्य सद्गत्या यदन्तः श्रेयसां परः ॥ २१॥

 

नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे ।

स्वयोगमाययाच्छन्नमहिम्ने परमात्मने ॥ २२॥

 

न यं विदन्त्यमी भूपा एकारामाश्च वृष्णयः ।

मायाजवनिकाच्छन्नमात्मानं कालमीश्वरम् ॥ २३॥

 

यथा शयानः पुरुष आत्मानं गुणतत्त्वदृक् ।

नाममात्रेन्द्रियाभातं न वेद रहितं परम् ॥ २४॥

 

एवं त्वा नाममात्रेषु विषयेष्विन्द्रियेहया ।

मायया विभ्रमच्चित्तो न वेद स्मृत्युपप्लवात् ॥ २५॥

 

तस्याद्य ते ददृशिमाङ्घ्रिमघौघमर्ष-

तीर्थास्पदं हृदि कृतं सुविपक्वयोगैः ।

उत्सिक्तभक्त्युपहताशयजीवकोशा

आपुर्भवद्गतिमथोऽनुगृहाण भक्तान् ॥ २६॥

 

श्रीशुक उवाच

इत्यनुज्ञाप्य दाशार्हं धृतराष्ट्रं युधिष्ठिरम् ।

राजर्षे स्वाश्रमान् गन्तुं मुनयो दधिरे मनः ॥ २७॥

 

तद्वीक्ष्य तानुपव्रज्य वसुदेवो महायशाः ।

प्रणम्य चोपसङ्गृह्य बभाषेदं सुयन्त्रितः ॥ २८॥

 

वसुदेव उवाच

नमो वः सर्वदेवेभ्य ऋषयः श्रोतुमर्हथ ।

कर्मणा कर्मनिर्हारो यथा स्यान्नस्तदुच्यताम् ॥ २९॥

 

नारद उवाच

नाति चित्रमिदं विप्रा वसुदेवो बुभुत्सया ।

कृष्णं मत्वार्भकं यन्नः पृच्छति श्रेय आत्मनः ॥ ३०॥

 

सन्निकर्षो हि मर्त्यानामनादरणकारणम् ।

गाङ्गं हित्वा यथान्याम्भस्तत्रत्यो याति शुद्धये ॥ ३१॥

 

यस्यानुभूतिः कालेन लयोत्पत्त्यादिनास्य वै ।

स्वतोऽन्यस्माच्च गुणतो न कुतश्चन रिष्यति ॥ ३२॥

 

तं क्लेशकर्मपरिपाकगुणप्रवाहै-

रव्याहतानुभवमीश्वरमद्वितीयम् ।

प्राणादिभिः स्वविभवैरुपगूढमन्यो

मन्येत सूर्यमिव मेघहिमोपरागैः ॥ ३३॥

 

अथोचुर्मुनयो राजन्नाभाष्यानकदुन्दभिम् ।

सर्वेषां श‍ृण्वतां राज्ञां तथैवाच्युतरामयोः ॥ ३४॥

 

कर्मणा कर्मनिर्हार एष साधु निरूपितः ।

यच्छ्रद्धया यजेद्विष्णुं सर्वयज्ञेश्वरं मखैः ॥ ३५॥

 

चित्तस्योपशमोऽयं वै कविभिः शास्त्रचक्षुषा ।

दर्शितः सुगमो योगो धर्मश्चात्ममुदावहः ॥ ३६॥

 

अयं स्वस्त्ययनः पन्था द्विजातेर्गृहमेधिनः ।

यच्छ्रद्धयाऽऽप्तवित्तेन शुक्लेनेज्येत पूरुषः ॥ ३७॥

 

वित्तैषणां यज्ञदानैर्गृहैर्दारसुतैषणाम् ।

आत्मलोकैषणां देव कालेन विसृजेद्बुधः ।

ग्रामे त्यक्तैषणाः सर्वे ययुर्धीरास्तपोवनम् ॥ ३८॥

 

ऋणैस्त्रिभिर्द्विजो जातो देवर्षिपितॄणां प्रभो ।

यज्ञाध्ययनपुत्रैस्तान्यनिस्तीर्य त्यजन् पतेत् ॥ ३९॥

 

त्वं त्वद्य मुक्तो द्वाभ्यां वै ऋषिपित्रोर्महामते ।

यज्ञैर्देवर्णमुन्मुच्य निरृणोऽशरणो भव ॥ ४०॥

 

वसुदेव भवान्नूनं भक्त्या परमया हरिम् ।

जगतामीश्वरं प्रार्चः स यद्वां पुत्रतां गतः ॥ ४१॥

 

श्रीशुक उवाच

इति तद्वचनं श्रुत्वा वसुदेवो महामनाः ।

तान् ऋषीन् ऋत्विजो वव्रे मूर्ध्नाऽऽनम्य प्रसाद्य च ॥ ४२॥

 

त एनमृषयो राजन् वृता धर्मेण धार्मिकम् ।

तस्मिन्नयाजयन् क्षेत्रे मखैरुत्तमकल्पकैः ॥ ४३॥

 

तद्दीक्षायां प्रवृत्तायां वृष्णयः पुष्करस्रजः ।

स्नाताः सुवाससो राजन् राजानः सुष्ठ्वलङ्कृताः ॥ ४४॥

 

तन्महिष्यश्च मुदिता निष्ककण्ठ्यः सुवाससः ।

दीक्षाशालामुपाजग्मुरालिप्ता वस्तुपाणयः ॥ ४५॥

 

नेदुर्मृदङ्गपटहशङ्खभेर्यानकादयः ।

ननृतुर्नटनर्तक्यस्तुष्टुवुः सूतमागधाः ।

जगुः सुकण्ठ्यो गन्धर्व्यः सङ्गीतं सहभर्तृकाः ॥ ४६॥

 

तमभ्यषिञ्चन् विधिवदक्तमभ्यक्तमृत्विजः ।

पत्नीभिरष्टादशभिः सोमराजमिवोडुभिः ॥ ४७॥

 

ताभिर्दुकूलवलयैर्हारनूपुरकुण्डलैः ।

स्वलङ्कृताभिर्विबभौ दीक्षितोऽजिनसंवृतः ॥ ४८॥

 

तस्यर्त्विजो महाराज रत्नकौशेयवाससः ।

ससदस्या विरेजुस्ते यथा वृत्रहणोऽध्वरे ॥ ४९॥

 

तदा रामश्च कृष्णश्च स्वैः स्वैर्बन्धुभिरन्वितौ ।

रेजतुः स्वसुतैर्दारैर्जीवेशौ स्वविभूतिभिः ॥ ५०॥

 

ईजेऽनुयज्ञं विधिना अग्निहोत्रादिलक्षणैः ।

प्राकृतैर्वैकृतैर्यज्ञैर्द्रव्यज्ञानक्रियेश्वरम् ॥ ५१॥

 

अथर्त्विग्भ्योऽददात्काले यथाम्नातं स दक्षिणाः ।

स्वलङ्कृतेभ्योऽलङ्कृत्य गोभूकन्या महाधनाः ॥ ५२॥

 

पत्नीसंयाजावभृथ्यैश्चरित्वा ते महर्षयः ।

सस्नू रामह्रदे विप्रा यजमानपुरःसराः ॥ ५३॥

 

स्नातोऽलङ्कारवासांसि वन्दिभ्योऽदात्तथा स्त्रियः ।

ततः स्वलङ्कृतो वर्णानाश्वभ्योऽन्नेन पूजयत् ॥ ५४॥

 

बन्धून् सदारान् ससुतान् पारिबर्हेण भूयसा ।

विदर्भकोसलकुरून् काशिकेकयसृञ्जयान् ॥ ५५॥

 

सदस्यर्त्विक्सुरगणान् नृभूतपितृचारणान् ।

श्रीनिकेतमनुज्ञाप्य शंसन्तः प्रययुः क्रतुम् ॥ ५६॥

 

धृतराष्ट्रोऽनुजः पार्था भीष्मो द्रोणः पृथा यमौ ।

नारदो भगवान् व्यासः सुहृत्सम्बन्धिबान्धवाः ॥ ५७॥

 

बन्धून् परिष्वज्य यदून् सौहृदात्क्लिन्नचेतसः ।

ययुर्विरहकृच्छ्रेण स्वदेशांश्चापरे जनाः ॥ ५८॥

 

नन्दस्तु सह गोपालैर्बृहत्या पूजयार्चितः ।

कृष्णरामोग्रसेनाद्यैर्न्यवात्सीद्बन्धुवत्सलः ॥ ५९॥

 

वसुदेवोऽञ्जसोत्तीर्य मनोरथमहार्णवम् ।

सुहृद्वृतः प्रीतमना नन्दमाह करे स्पृशन् ॥ ६०॥

 

वसुदेव उवाच

भ्रातरीशकृतः पाशो नृणां यः स्नेहसंज्ञितः ।

तं दुस्त्यजमहं मन्ये शूराणामपि योगिनाम् ॥ ६१॥

 

अस्मास्वप्रतिकल्पेयं यत्कृताज्ञेषु सत्तमैः ।

मैत्र्यर्पिताफला वापि न निवर्तेत कर्हिचित् ॥ ६२॥

 

प्रागकल्पाच्च कुशलं भ्रातर्वो नाचराम हि ।

अधुना श्रीमदान्धाक्षा न पश्यामः पुरः सतः ॥ ६३॥

 

मा राज्यश्रीरभूत्पुंसः श्रेयस्कामस्य मानद ।

स्वजनानुत बन्धून् वा न पश्यति ययान्धदृक् ॥ ६४॥

 

श्रीशुक उवाच

एवं सौहृदशैथिल्यचित्त आनकदुन्दुभिः ।

रुरोद तत्कृतां मैत्रीं स्मरन्नश्रुविलोचनः ॥ ६५॥

 

नन्दस्तु सख्युः प्रियकृत्प्रेम्णा गोविन्दरामयोः ।

अद्य श्व इति मासांस्त्रीन् यदुभिर्मानितोऽवसत् ॥ ६६॥

 

ततः कामैः पूर्यमाणः सव्रजः सहबान्धवः ।

परार्ध्याभरणक्षौमनानानर्घ्यपरिच्छदैः ॥ ६७॥

 

वसुदेवोग्रसेनाभ्यां कृष्णोद्धवबलादिभिः ।

दत्तमादाय पारिबर्हं यापितो यदुभिर्ययौ ॥ ६८॥

 

नन्दो गोपाश्च गोप्यश्च गोविन्दचरणाम्बुजे ।

मनः क्षिप्तं पुनर्हर्तुमनीशा मथुरां ययुः ॥ ६९॥

 

बन्धुषु प्रतियातेषु वृष्णयः कृष्णदेवताः ।

वीक्ष्य प्रावृषमासन्नां ययुर्द्वारवतीं पुनः ॥ ७०॥

 

जनेभ्यः कथयाञ्चक्रुर्यदुदेवमहोत्सवम् ।

यदासीत्तीर्थयात्रायां सुहृत्सन्दर्शनादिकम् ॥ ७१॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे तीर्थयात्रा-

नुवर्णनं नाम चतुरशीतितमोऽध्यायः ॥ ८४॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ पञ्चाशीतितमोऽध्यायः - ८५ ॥

 

श्रीबादरायणिरुवाच

अथैकदाऽऽत्मजौ प्राप्तौ कृतपादाभिवन्दनौ ।

वसुदेवोऽभिनन्द्याह प्रीत्या सङ्कर्षणाच्युतौ ॥ १॥

 

मुनीनां स वचः श्रुत्वा पुत्रयोर्धामसूचकम् ।

तद्वीर्यैर्जातविश्रम्भः परिभाष्याभ्यभाषत ॥ २॥

 

कृष्ण कृष्ण महायोगिन् सङ्कर्षण सनातन ।

जाने वामस्य यत्साक्षात्प्रधानपुरुषौ परौ ॥ ३॥

 

यत्र येन यतो यस्य यस्मै यद्यद्यथा यदा ।

स्यादिदं भगवान् साक्षात्प्रधानपुरुषेश्वरः ॥ ४॥

 

एतन्नानाविधं विश्वमात्मसृष्टमधोक्षज ।

आत्मनानुप्रविश्यात्मन् प्राणो जीवो बिभर्ष्यज ॥ ५॥

 

प्राणादीनां विश्वसृजां शक्तयो याः परस्य ताः ।

पारतन्त्र्याद्वैसादृश्याद्द्वयोश्चेष्टैव चेष्टताम् ॥ ६॥

 

कान्तिस्तेजः प्रभा सत्ता चन्द्राग्न्यर्कर्क्षविद्युताम् ।

यत्स्थैर्यं भूभृतां भूमेर्वृत्तिर्गन्धोऽर्थतो भवान् ॥ ७॥

 

तर्पणं प्राणनमपां देवत्वं ताश्च तद्रसः ।

ओजः सहो बलं चेष्टा गतिर्वायोस्तवेश्वर ॥ ८॥

 

दिशां त्वमवकाशोऽसि दिशः खं स्फोट आश्रयः ।

नादो वर्णस्त्वमोङ्कार आकृतीनां पृथक्कृतिः ॥ ९॥

 

इन्द्रियं त्विन्द्रियाणां त्वं देवाश्च तदनुग्रहः ।

अवबोधोभवान्बुद्धेर्जीवस्यानुस्मृतिः सती ॥ १०॥

 

भूतानामसि भूतादिरिन्द्रियाणां च तैजसः ।

वैकारिको विकल्पानां प्रधानमनुशायिनम् ॥ ११॥

 

नश्वरेष्विह भावेषु तदसि त्वमनश्वरम् ।

यथा द्रव्यविकारेषु द्रव्यमात्रं निरूपितम् ॥ १२॥

 

सत्त्वंरजस्तम इति गुणास्तद्वृत्तयश्च याः ।

त्वय्यद्धा ब्रह्मणि परे कल्पिता योगमायया ॥ १३॥

 

तस्मान्न सन्त्यमी भावा यर्हि त्वयि विकल्पिताः ।

त्वं चामीषु विकारेषु ह्यन्यदाव्यावहारिकः ॥ १४॥

 

गुणप्रवाह एतस्मिन्नबुधास्त्वखिलात्मनः ।

गतिं सूक्ष्मामबोधेन संसरन्तीह कर्मभिः ॥ १५॥

 

यदृच्छया नृतां प्राप्य सुकल्पामिह दुर्लभाम् ।

स्वार्थे प्रमत्तस्य वयो गतं त्वन्माययेश्वर ॥ १६॥

 

असावहम्ममैवैते देहे चास्यान्वयादिषु ।

स्नेहपाशैर्निबध्नाति भवान् सर्वमिदं जगत् ॥ १७॥

 

युवां न नः सुतौ साक्षात्प्रधानपुरुषेश्वरौ ।

भूभारक्षत्रक्षपण अवतीर्णौ तथात्थ ह ॥ १८॥

 

तत्ते गतोऽस्म्यरणमद्य पदारविन्द-

मापन्नसंसृतिभयापहमार्तबन्धो ।

एतावतालमलमिन्द्रियलालसेन

मर्त्यात्मदृक्त्वयि परे यदपत्यबुद्धिः ॥ १९॥

 

सूतीगृहे ननु जगाद भवानजो नौ

सञ्जज्ञ इत्यनुयुगं निजधर्मगुप्त्यै ।

नानातनूर्गगनवद्विदधज्जहासि

को वेद भूम्न उरुगाय विभूतिमायाम् ॥ २०॥

 

श्रीशुक उवाच

आकर्ण्येत्थं पितुर्वाक्यं भगवान् सात्वतर्षभः ।

प्रत्याह प्रश्रयानम्रः प्रहसन् श्लक्ष्णया गिरा ॥ २१॥

 

श्रीभगवानुवाच

वचो वः समवेतार्थं तातैतदुपमन्महे ।

यन्नः पुत्रान् समुद्दिश्य तत्त्वग्राम उदाहृतः ॥ २२॥

 

अहं यूयमसावार्य इमे च द्वारकौकसः ।

सर्वेऽप्येवं यदुश्रेष्ठ विमृश्याः सचराचरम् ॥ २३॥

 

आत्मा ह्येकः स्वयञ्ज्योतिर्नित्योऽन्यो निर्गुणो गुणैः ।

आत्मसृष्टैस्तत्कृतेषु भूतेषु बहुधेयते ॥ २४॥

 

खं वायुर्ज्योतिरापो भूस्तत्कृतेषु यथाशयम् ।

आविस्तिरोऽल्पभूर्येको नानात्वं यात्यसावपि ॥ २५॥

 

श्रीशुक उवाच

एवं भगवता राजन् वसुदेव उदाहृतम् ।

श्रुत्वा विनष्टनानाधीस्तूष्णीं प्रीतमना अभूत् ॥ २६॥

 

अथ तत्र कुरुश्रेष्ठ देवकी सर्वदेवता ।

श्रुत्वाऽऽनीतं गुरोः पुत्रमात्मजाभ्यां सुविस्मिता ॥ २७॥

 

कृष्णरामौ समाश्राव्य पुत्रान् कंसविहिंसितान् ।

स्मरन्ती कृपणं प्राह वैक्लव्यादश्रुलोचना ॥ २८॥

 

देवक्युवाच

राम रामाप्रमेयात्मन् कृष्ण योगेश्वरेश्वर ।

वेदाहं वां विश्वसृजामीश्वरावादिपूरुषौ ॥ २९॥

 

कालविध्वस्तसत्त्वानां राज्ञामुच्छास्त्रवर्तिनाम् ।

भूमेर्भारायमाणानामवतीर्णौ किलाद्य मे ॥ ३०॥

 

यस्यांशांशांशभागेन विश्वोत्पत्तिलयोदयाः ।

भवन्ति किल विश्वात्मंस्तं त्वाद्याहं गतिं गता ॥ ३१॥

 

चिरान्मृतसुतादाने गुरुणा किल चोदितौ ।

आनिन्यथुः पितृस्थानाद्गुरवे गुरुदक्षिणाम् ॥ ३२॥

 

तथा मे कुरुतं कामं युवां योगेश्वरेश्वरौ ।

भोजराजहतान् पुत्रान् कामये द्रष्टुमाहृतान् ॥ ३३॥

 

ऋषिरुवाच

एवं सञ्चोदितौ मात्रा रामः कृष्णश्च भारत ।

सुतलं संविविशतुर्योगमायामुपाश्रितौ ॥ ३४॥

 

तस्मिन् प्रविष्टावुपलभ्य दैत्यराड्

विश्वात्मदैवं सुतरां तथाऽऽत्मनः ।

तद्दर्शनाह्लादपरिप्लुताशयः

सद्यः समुत्थाय ननाम सान्वयः ॥ ३५॥

 

तयोः समानीय वरासनं मुदा

निविष्टयोस्तत्र महात्मनोस्तयोः ।

दधार पादाववनिज्य तज्जलं

सवृन्द आब्रह्म पुनद्यदम्बु ह ॥ ३६॥

 

समर्हयामास स तौ विभूतिभिः

महार्हवस्त्राभरणानुलेपनैः ।

ताम्बूलदीपामृतभक्षणादिभिः

स्वगोत्रवित्तात्मसमर्पणेन च ॥ ३७॥

 

स इन्द्रसेनो भगवत्पदाम्बुजं

बिभ्रन्मुहुः प्रेमविभिन्नया धिया ।

उवाच हानन्दजलाकुलेक्षणः

प्रहृष्टरोमा नृप गद्गदाक्षरम् ॥ ३८॥

 

बलिरुवाच

नमोऽनन्ताय बृहते नमः कृष्णाय वेधसे ।

साङ्ख्ययोगवितानाय ब्रह्मणे परमात्मने ॥ ३९॥

 

दर्शनं वां हि भूतानां दुष्प्रापं चाप्यदुर्लभम् ।

रजस्तमःस्वभावानां यन्नः प्राप्तौ यदृच्छया ॥ ४०॥

 

दैत्यदानवगन्धर्वाः सिद्धविद्याध्रचारणाः ।

यक्षरक्षःपिशाचाश्च भूतप्रमथनायकाः ॥ ४१॥

 

विशुद्धसत्त्वधाम्न्यद्धा त्वयि शास्त्रशरीरिणि ।

नित्यं निबद्धवैरास्ते वयं चान्ये च तादृशाः ॥ ४२॥

 

केचनोद्बद्धवैरेण भक्त्या केचन कामतः ।

न तथा सत्त्वसंरब्धाः सन्निकृष्टाः सुरादयः ॥ ४३॥

 

इदमित्थमिति प्रायस्तव योगेश्वरेश्वर ।

न विदन्त्यपि योगेशा योगमायां कुतो वयम् ॥ ४४॥

 

तन्नः प्रसीद निरपेक्षविमृग्ययुष्मत्

पादारविन्दधिषणान्यगृहान्धकूपात् ।

निष्क्रम्य विश्वशरणाङ्घ्र्युपलब्धवृत्तिः

शान्तो यथैक उत सर्वसखैश्चरामि ॥ ४५॥

 

शाध्यस्मानीशितव्येश निष्पापान् कुरु नः प्रभो ।

पुमान् यच्छ्रद्धयाऽऽतिष्ठंश्चोदनाया विमुच्यते ॥ ४६॥

 

श्रीभगवानुवाच

आसन् मरीचेः षट् पुत्रा ऊर्णायां प्रथमेऽन्तरे ।

देवाः कं जहसुर्वीक्ष्य सुतां यभितुमुद्यतम् ॥ ४७॥

 

तेनासुरीमगन् योनिमधुनावद्यकर्मणा ।

हिरण्यकशिपोर्जाता नीतास्ते योगमायया ॥ ४८॥

 

देवक्या उदरे जाता राजन् कंसविहिंसिताः ।

सा तान् शोचत्यात्मजान् स्वांस्त इमेऽध्यासतेऽन्तिके ॥ ४९॥

 

इत एतान् प्रणेष्यामो मातृशोकापनुत्तये ।

ततः शापाद्विनिर्मुक्ता लोकं यास्यन्ति विज्वराः ॥ ५०॥

 

स्मरोद्गीथः परिष्वङ्गः पतङ्गः क्षुद्रभृद्घृणी ।

षडिमे मत्प्रसादेन पुनर्यास्यन्ति सद्गतिम् ॥ ५१॥

 

इत्युक्त्वा तान् समादाय इन्द्रसेनेन पूजितौ ।

पुनर्द्वारवतीमेत्य मातुः पुत्रानयच्छताम् ॥ ५२॥

 

तान् दृष्ट्वा बालकान् देवी पुत्रस्नेहस्नुतस्तनी ।

परिष्वज्याङ्कमारोप्य मूर्ध्न्यजिघ्रदभीक्ष्णशः ॥ ५३॥

 

अपाययत्स्तनं प्रीता सुतस्पर्शपरिप्लुता ।

मोहिता मायया विष्णोर्यया सृष्टिः प्रवर्तते ॥ ५४॥

 

पीत्वामृतं पयस्तस्याः पीतशेषं गदाभृतः ।

नारायणाङ्गसंस्पर्शप्रतिलब्धात्मदर्शनाः ॥ ५५॥

 

ते नमस्कृत्य गोविन्दं देवकीं पितरं बलम् ।

मिषतां सर्वभूतानां ययुर्धाम दिवौकसाम् ॥ ५६॥

 

तं दृष्ट्वा देवकी देवी मृतागमननिर्गमम् ।

मेने सुविस्मिता मायां कृष्णस्य रचितां नृप ॥ ५७॥

 

एवं विधान्यद्भुतानि कृष्णस्य परमात्मनः ।

वीर्याण्यनन्तवीर्यस्य सन्त्यनन्तानि भारत ॥ ५८॥

 

सूत उवाच

य इदमनुश‍ृणोति श्रावयेद्वा मुरारे-

श्चरितममृतकीर्तेर्वर्णितं व्यासपुत्रैः ।

जगदघभिदलं तद्भक्तसत्कर्णपूरं

भगवति कृतचित्तो याति तत्क्षेमधाम ॥ ५९॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे मृताग्रजानयनं

नाम पञ्चाशीतितमोऽध्यायः ॥ ८५॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ षडशीतितमोऽध्यायः - ८६ ॥

 

राजोवाच

ब्रह्मन् वेदितुमिच्छामः स्वसारां रामकृष्णयोः ।

यथोपयेमे विजयो या ममासीत्पितामही ॥ १॥

 

श्रीशुक उवाच

अर्जुनस्तीर्थयात्रायां पर्यटन्नवनीं प्रभुः ।

गतः प्रभासमश‍ृणोन्मातुलेयीं स आत्मनः ॥ २॥

 

दुर्योधनाय रामस्तां दास्यतीति न चापरे ।

तल्लिप्सुः स यतिर्भूत्वा त्रिदण्डी द्वारकामगात् ॥ ३॥

 

तत्र वै वार्षिकान् मासानवात्सीत्स्वार्थसाधकः ।

पौरैः सभाजितोऽभीक्ष्णं रामेणाजानता च सः ॥ ४॥

 

एकदा गृहमानीय आतिथ्येन निमन्त्र्य तम् ।

श्रद्धयोपहृतं भैक्ष्यं बलेन बुभुजे किल ॥ ५॥

 

सोऽपश्यत्तत्र महतीं कन्यां वीरमनोहराम् ।

प्रीत्युत्फुल्लेक्षणस्तस्यां भावक्षुब्धं मनो दधे ॥ ६॥

 

सापि तं चकमे वीक्ष्य नारीणां हृदयङ्गमम् ।

हसन्ती व्रीडितापाङ्गी तन्न्यस्तहृदयेक्षणा ॥ ७॥

 

तां परं समनुध्यायन्नन्तरं प्रेप्सुरर्जुनः ।

न लेभे शं भ्रमच्चित्तः कामेनातिबलीयसा ॥ ८॥

 

महत्यां देवयात्रायां रथस्थां दुर्गनिर्गताम् ।

जहारानुमतः पित्रोः कृष्णस्य च महारथः ॥ ९॥

 

रथस्थो धनुरादाय शूरांश्चारुन्धतो भटान् ।

विद्राव्य क्रोशतां स्वानां स्वभागं मृगराडिव ॥ १०॥

 

तच्छ्रुत्वा क्षुभितो रामः पर्वणीव महार्णवः ।

गृहीतपादः कृष्णेन सुहृद्भिश्चान्वशाम्यत ॥ ११॥

 

प्राहिणोत्पारिबर्हाणि वरवध्वोर्मुदा बलः ।

महाधनोपस्करेभरथाश्वनरयोषितः ॥ १२॥

 

श्रीशुक उवाच

कृष्णस्यासीद्द्विजश्रेष्ठः श्रुतदेव इति श्रुतः ।

कृष्णैकभक्त्या पूर्णार्थः शान्तः कविरलम्पटः ॥ १३॥

 

स उवास विदेहेषु मिथिलायां गृहाश्रमी ।

अनीहयाऽऽगताहार्यनिर्वर्तितनिजक्रियः ॥ १४॥

 

यात्रामात्रं त्वहरहर्दैवादुपनमत्युत ।

नाधिकं तावता तुष्टः क्रियाश्चक्रे यथोचिताः ॥ १५॥

 

तथा तद्राष्ट्रपालोऽङ्ग बहुलाश्व इति श्रुतः ।

मैथिलो निरहम्मान उभावप्यच्युतप्रियौ ॥ १६॥

 

तयोः प्रसन्नो भगवान् दारुकेणाहृतं रथम् ।

आरुह्य साकं मुनिभिर्विदेहान् प्रययौ प्रभुः ॥ १७॥

 

नारदो वामदेवोऽत्रिः कृष्णो रामोऽसितोऽरुणिः ।

अहं बृहस्पतिः कण्वो मैत्रेयश्च्यवनादयः ॥ १८॥

 

तत्र तत्र तमायान्तं पौरा जानपदा नृप ।

उपतस्थुः सार्घ्यहस्ता ग्रहैः सूर्यमिवोदितम् ॥ १९॥

 

आनर्तधन्वकुरुजाङ्गलकङ्कमत्स्य-

पाञ्चालकुन्तिमधुकेकयकोसलार्णाः ।

अन्ये च तन्मुखसरोजमुदारहास-

स्निग्धेक्षणं नृप पपुर्दृशिभिर्नृनार्यः ॥ २०॥

 

तेभ्यः स्ववीक्षणविनष्टतमिस्रदृग्भ्यः

क्षेमं त्रिलोकगुरुरर्थदृशं च यच्छन् ।

श‍ृण्वन् दिगन्तधवलं स्वयशोऽशुभघ्नं

गीतं सुरैर्नृभिरगाच्छनकैर्विदेहान् ॥ २१॥

 

तेऽच्युतं प्राप्तमाकर्ण्य पौरा जानपदा नृप ।

अभीयुर्मुदितास्तस्मै गृहीतार्हणपाणयः ॥ २२॥

 

दृष्ट्वा त उत्तमश्लोकं प्रीत्युत्फुल्लाननाशयाः ।

कैर्धृताञ्जलिभिर्नेमुः श्रुतपूर्वांस्तथा मुनीन् ॥ २३॥

 

स्वानुग्रहाय सम्प्राप्तं मन्वानौ तं जगद्गुरुम् ।

मैथिलः श्रुतदेवश्च पादयोः पेततुः प्रभोः ॥ २४॥

 

न्यमन्त्रयेतां दाशार्हमातिथ्येन सह द्विजैः ।

मैथिलः श्रुतदेवश्च युगपत्संहताञ्जली ॥ २५॥

 

भगवांस्तदभिप्रेत्य द्वयोः प्रियचिकीर्षया ।

उभयोराविशद्गेहमुभाभ्यां तदलक्षितः ॥ २६॥

 

श्रोतुमप्यसतां दूरान् जनकः स्वगृहागतान् ।

आनीतेष्वासनाग्र्येषु सुखासीनान् महामनाः ॥ २७॥

 

प्रवृद्धभक्त्या उद्धर्षहृदयास्राविलेक्षणः ।

नत्वा तदङ्घ्रीन् प्रक्षाल्य तदपो लोकपावनीः ॥ २८॥

 

सकुटुम्बो वहन् मूर्ध्ना पूजयाञ्चक्र ईश्वरान् ।

गन्धमाल्याम्बराकल्पधूपदीपार्घ्यगोवृषैः ॥ २९॥

 

वाचा मधुरया प्रीणन्निदमाहान्नतर्पितान् ।

पादावङ्कगतौ विष्णोः संस्पृशञ्छनकैर्मुदा ॥ ३०॥

 

राजोवाच

भवान् हि सर्वभूतानामात्मा साक्षी स्वदृग्विभो ।

अथ नस्त्वत्पदाम्भोजं स्मरतां दर्शनं गतः ॥ ३१॥

 

स्ववचस्तदृतं कर्तुमस्मद्दृग्गोचरो भवान् ।

यदात्थैकान्तभक्तान्मे नानन्तः श्रीरजः प्रियः ॥ ३२॥

 

को नु त्वच्चरणाम्भोजमेवंविद्विसृजेत्पुमान् ।

निष्किञ्चनानां शान्तानां मुनीनां यस्त्वमात्मदः ॥ ३३॥

 

योऽवतीर्य यदोर्वंशे नृणां संसरतामिह ।

यशो वितेने तच्छान्त्यै त्रैलोक्यवृजिनापहम् ॥ ३४॥

 

नमस्तुभ्यं भगवते कृष्णायाकुण्ठमेधसे ।

नारायणाय ऋषये सुशान्तं तप ईयुषे ॥ ३५॥

 

दिनानि कतिचिद्भूमन् गृहान् नो निवस द्विजैः ।

समेतः पादरजसा पुनीहीदं निमेः कुलम् ॥ ३६॥

 

इत्युपामन्त्रितो राज्ञा भगवांल्लोकभावनः ।

उवास कुर्वन् कल्याणं मिथिलानरयोषिताम् ॥ ३७॥

 

श्रुतदेवोऽच्युतं प्राप्तं स्वगृहाञ्जनको यथा ।

नत्वा मुनीन् सुसंहृष्टो धुन्वन् वासो ननर्त ह ॥ ३८॥

 

तृणपीठबृषीष्वेतानानीतेषूपवेश्य सः ।

स्वागतेनाभिनन्द्याङ्घ्रीन् सभार्योऽवनिजे मुदा ॥ ३९॥

 

तदम्भसा महाभाग आत्मानं स गृहान्वयम् ।

स्नापयाञ्चक्र उद्धर्षो लब्धसर्वमनोरथः ॥ ४०॥

 

फलार्हणोशीरशिवामृताम्बुभि-

र्मृदा सुरभ्या तुलसीकुशाम्बुजैः ।

आराधयामास यथोपपन्नया

सपर्यया सत्त्वविवर्धनान्धसा ॥ ४१॥

 

स तर्कयामास कुतो ममान्वभू-

द्गृहान्धकुपे पतितस्य सङ्गमः ।

यः सर्वतीर्थास्पदपादरेणुभिः

कृष्णेन चास्यात्मनिकेतभूसुरैः ॥ ४२॥

 

सूपविष्टान् कृतातिथ्यान् श्रुतदेव उपस्थितः ।

सभार्यस्वजनापत्य उवाचाङ्घ्र्यभिमर्शनः ॥ ४३॥

 

श्रुतदेव उवाच

नाद्य नो दर्शनं प्राप्तः परं परमपूरुषः ।

यर्हीदं शक्तिभिः सृष्ट्वा प्रविष्टो ह्यात्मसत्तया ॥ ४४॥

 

यथा शयानः पुरुषो मनसैवात्ममायया ।

सृष्ट्वा लोकं परं स्वाप्नमनुविश्यावभासते ॥ ४५॥

 

श‍ृण्वतां गदतां शश्वदर्चतां त्वाभिवन्दताम् ।

नृणां संवदतामन्तर्हृदि भास्यमलात्मनाम् ॥ ४६॥

 

हृदिस्थोऽप्यतिदूरस्थः कर्मविक्षिप्तचेतसाम् ।

आत्मशक्तिभिरग्राह्योऽप्यन्त्युपेतगुणात्मनाम् ॥ ४७॥

 

नमोऽस्तु तेऽध्यात्मविदां परात्मने

अनात्मने स्वात्मविभक्तमृत्यवे ।

सकारणाकारणलिङ्गमीयुषे

स्वमाययासंवृतरुद्धदृष्टये ॥ ४८॥

 

स त्वं शाधि स्वभृत्यान्नः किं देव करवाम हे ।

एतदन्तो नृणां क्लेशो यद्भवानक्षिगोचरः ॥ ४९॥

 

श्रीशुक उवाच

तदुक्तमित्युपाकर्ण्य भगवान् प्रणतार्तिहा ।

गृहीत्वा पाणिना पाणिं प्रहसंस्तमुवाच ह ॥ ५०॥

 

श्रीभगवानुवाच

ब्रह्मंस्तेऽनुग्रहार्थाय सम्प्राप्तान् विद्ध्यमून् मुनीन् ।

सञ्चरन्ति मया लोकान् पुनन्तः पादरेणुभिः ॥ ५१॥

 

देवाः क्षेत्राणि तीर्थानि दर्शनस्पर्शनार्चनैः ।

शनैः पुनन्ति कालेन तदप्यर्हत्तमेक्षया ॥ ५२॥

 

ब्राह्मणो जन्मना श्रेयान् सर्वेषां प्राणिनामिह ।

तपसा विद्यया तुष्ट्या किमु मत्कलया युतः ॥ ५३॥

 

न ब्राह्मणान्मे दयितं रूपमेतच्चतुर्भुजम् ।

सर्ववेदमयो विप्रः सर्वदेवमयो ह्यहम् ॥ ५४॥

 

दुष्प्रज्ञा अविदित्वैवमवजानन्त्यसूयवः ।

गुरुं मां विप्रमात्मानमर्चादाविज्यदृष्टयः ॥ ५५॥

 

चराचरमिदं विश्वं भावा ये चास्य हेतवः ।

मद्रूपाणीति चेतस्याधत्ते विप्रो मदीक्षया ॥ ५६॥

 

तस्माद्ब्रह्मऋषीनेतान् ब्रह्मन् मच्छ्रद्धयार्चय ।

एवं चेदर्चितोऽस्म्यद्धा नान्यथा भूरिभूतिभिः ॥ ५७॥

 

श्रीशुक उवाच

स इत्थं प्रभुणाऽऽदिष्टः सह कृष्णान् द्विजोत्तमान् ।

आराध्यैकात्मभावेन मैथिलश्चाप सद्गतिम् ॥ ५८॥

 

एवं स्वभक्तयो राजन् भगवान् भक्तभक्तिमान् ।

उषित्वाऽऽदिश्य सन्मार्गं पुनर्द्वारवतीमगात् ॥ ५९॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे श्रुतदेवानुग्रहो

नाम षडशीतितमोऽध्यायः ॥ ८६॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ सप्ताशीतितमोऽध्यायः - ८७ ॥

 

परीक्षिदुवाच

ब्रह्मन् ब्रह्मण्यनिर्देश्ये निर्गुणे गुणवृत्तयः ।

कथं चरन्ति श्रुतयः साक्षात्सदसतः परे ॥ १॥

 

श्रीशुक उवाच

बुद्धीन्द्रियमनःप्राणान् जनानामसृजत्प्रभुः ।

मात्रार्थं च भवार्थं च आत्मनेऽकल्पनाय च ॥ २॥

 

सैषा ह्युपनिषद्ब्राह्मी पूर्वेषां पूर्वजैर्धृता ।

श्रद्धया धारयेद्यस्तां क्षेमं गच्छेदकिञ्चनः ॥ ३॥

 

अत्र ते वर्णयिष्यामि गाथां नारायणान्विताम् ।

नारदस्य च संवादमृषेर्नारायणस्य च ॥ ४॥

 

एकदा नारदो लोकान् पर्यटन् भगवत्प्रियः ।

सनातनमृषिं द्रष्टुं ययौ नारायणाश्रमम् ॥ ५॥

 

यो वै भारतवर्षेऽस्मिन् क्षेमाय स्वस्तये नृणाम् ।

धर्मज्ञानशमोपेतमाकल्पादास्थितस्तपः ॥ ६॥

 

तत्रोपविष्टमृषिभिः कलापग्रामवासिभिः ।

परीतं प्रणतोऽपृच्छदिदमेव कुरूद्वह ॥ ७॥

 

तस्मै ह्यवोचद्भगवान् ऋषीणां श‍ृण्वतामिदम् ।

यो ब्रह्मवादः पूर्वेषां जनलोकनिवासिनाम् ॥ ८॥

 

श्रीभगवानुवाच

स्वायम्भुव ब्रह्मसत्रं जनलोकेऽभवत्पुरा ।

तत्रस्थानां मानसानां मुनीनामूर्ध्वरेतसाम् ॥ ९॥

 

श्वेतद्वीपं गतवति त्वयि द्रष्टुं तदीश्वरम् ।

ब्रह्मवादः सुसंवृत्तः श्रुतयो यत्र शेरते ।

तत्र हायमभूत्प्रश्नस्त्वं मां यमनुपृच्छसि ॥ १०॥

 

तुल्यश्रुततपःशीलास्तुल्यस्वीयारिमध्यमाः ।

अपि चक्रुः प्रवचनमेकं शुश्रूषवोऽपरे ॥ ११॥

 

सनन्दन उवाच

स्वसृष्टमिदमापीय शयानं सह शक्तिभिः ।

तदन्ते बोधयाञ्चक्रुस्तल्लिङ्गैः श्रुतयः परम् ॥ १२॥

 

यथा शयानं सम्राजं वन्दिनस्तत्पराक्रमैः ।

प्रत्यूषेऽभ्येत्य सुश्लोकैर्बोधयन्त्यनुजीविनः ॥ १३॥

 

श्रुतय ऊचुः

जय जय जह्यजामजित दोषगृभीतगुणां

त्वमसि यदात्मना समवरुद्धसमस्तभगः ।

अगजगदोकसामखिलशक्त्यवबोधक ते

क्वचिदजयाऽऽत्मना च चरतोऽनुचरेन्निगमः ॥ १४॥

 

बृहदुपलब्धमेतदवयन्त्यवशेषतया

यत उदयास्तमयौ विकृतेर्मृदि वाविकृतात् ।

अत ऋषयो दधुस्त्वयि मनोवचनाचरितं

कथमयथा भवन्ति भुवि दत्तपदानि नृणाम् ॥ १५॥

 

इति तव सूरयस्त्र्यधिपतेऽखिललोकमल-

क्षपणकथामृताब्धिमवगाह्य तपांसि जहुः ।

किमुत पुनः स्वधामविधुताशयकालगुणाः

परम भजन्ति ये पदमजस्रसुखानुभवम् ॥ १६॥

 

दृतय इव श्वसन्त्यसुभृतो यदि तेऽनुविधा

महदहमादयोऽण्डमसृजन् यदनुग्रहतः ।

पुरुषविधोऽन्वयोऽत्र चरमोऽन्नमयादिषु यः

सदसतः परं त्वमथ यदेष्ववशेषमृतम् ॥ १७॥

 

उदरमुपासते य ऋषिवर्त्मसु कूर्पदृशः

परिसरपद्धतिं हृदयमारुणयो दहरम् ।

तत उदगादनन्त तव धाम शिरः परमं

पुनरिह यत्समेत्य न पतन्ति कृतान्तमुखे ॥ १८॥

 

स्वकृतविचित्रयोनिषु विशन्निव हेतुतया

तरतमतश्चकास्स्यनलवत्स्वकृतानुकृतिः ।

अथ वितथास्वमूष्ववितथं तव धाम समं

विरजधियोऽन्वयन्त्यभिविपण्यव एकरसम् ॥ १९॥

 

स्वकृतपुरेष्वमीष्वबहिरन्तरसंवरणं

तव पुरुषं वदन्त्यखिलशक्तिधृतोंऽशकृतम् ।

इति नृगतिं विविच्य कवयो निगमावपनं

भवत उपासतेऽङ्घ्रिमभवं भुवि विश्वसिताः ॥ २०॥

 

दुरवगमात्मतत्त्वनिगमाय तवात्ततनोः

चरितमहामृताब्धिपरिवर्तपरिश्रमणाः ।

न परिलषन्ति केचिदपवर्गमपीश्वर ते

चरणसरोजहंसकुलसङ्गविसृष्टगृहाः ॥ २१॥

 

त्वदनुपथं कुलायमिदमात्मसुहृत्प्रियवत्

चरति तथोन्मुखे त्वयि हिते प्रिय आत्मनि च ।

न बत रमन्त्यहो असदुपासनयाऽऽत्महनो

यदनुशया भ्रमन्त्युरुभये कुशरीरभृतः ॥ २२॥

 

निभृतमरुन्मनोऽक्षदृढयोगयुजो हृदि

यन्मुनय उपासते तदरयोऽपि ययुः स्मरणात् ।

स्त्रिय उरगेन्द्रभोगभुजदण्डविषक्तधियो

वयमपि ते समाः समदृशोऽङ्घ्रिसरोजसुधाः ॥ २३॥

 

क इह नु वेद बतावरजन्मलयोऽग्रसरं

यत उदगादृषिर्यमनु देवगणा उभये ।

तर्हि न सन्न चासदुभयं न च कालजवः

किमपि न तत्र शास्त्रमवकृष्य शयीत यदा ॥ २४॥

 

जनिमसतः सतो मृतिमुतात्मनि ये च भिदां

विपणमृतं स्मरन्त्युपदिशन्ति त आरुपितैः ।

त्रिगुणमयः पुमानिति भिदा यदबोधकृता

त्वयि न ततः परत्र स भवेदवबोधरसे ॥ २५॥

 

सदिव मनस्त्रिवृत्त्वयि विभात्यसदामनुजात्

सदभिमृशन्त्यशेषमिदमात्मतयाऽऽत्मविदः ।

न हि विकृतिं त्यजन्ति कनकस्य तदात्मतया

स्वकृतमनुप्रविष्टमिदमात्मतयावसितम् ॥ २६॥

 

तव परि ये चरन्त्यखिलसत्त्वनिकेततया

त उत पदाऽऽक्रमन्त्यविगणय्य शिरो निरृतेः ।

परिवयसे पशूनिव गिरा विबुधानपि तांस्त्वयि

कृतसौहृदाः खलु पुनन्ति न ये विमुखाः ॥ २७॥

 

त्वमकरणः स्वराडखिलकारकशक्तिधरः

तव बलिमुद्वहन्ति समदन्त्यजयानिमिषाः ।

वर्षभुजोऽखिलक्षितिपतेरिव विश्वसृजो

विदधति यत्र ये त्वधिकृता भवतश्चकिताः ॥ २८॥

 

स्थिरचरजातयः स्युरजयोत्थनिमित्तयुजो

विहर उदीक्षया यदि परस्य विमुक्त ततः ।

न हि परमस्य कश्चिदपरो न परश्च भवेत्

वियत इवापदस्य तव शून्यतुलां दधतः ॥ २९॥

 

अपरिमिता ध्रुवास्तनुभृतो यदि सर्वगताः

तर्हि न शास्यतेति नियमो ध्रुव नेतरथा ।

अजनि च यन्मयं तदविमुच्य नियन्तृ भवेत्

सममनुजानतां यदमतं मतदुष्टतया ॥ ३०॥

 

न घटत उद्भवः प्रकृतिपूरुषयोरजयोः

उभययुजा भवन्त्यसुभृतो जलबुद्बुदवत् ।

त्वयि त इमे ततो विविधनामगुणैः परमे

सरित इवार्णवे मधुनि लिल्युरशेषरसाः ॥ ३१॥

 

नृषु तव मायया भ्रमममीष्ववगत्य भृशं

त्वयि सुधियोऽभवे दधति भावमनुप्रभवम् ।

कथमनुवर्ततां भवभयं तव यद्भ्रुकुटिः

सृजति मुहुस्त्रिणेमिरभवच्छरणेषु भयम् ॥ ३२॥

 

विजितहृषीकवायुभिरदान्तमनस्तुरगं

य इह यतन्ति यन्तुमतिलोलमुपायखिदः ।

व्यसनशतान्विताः समवहाय गुरोश्चरणं

वणिज इवाज सन्त्यकृतकर्णधरा जलधौ ॥ ३३॥

 

स्वजनसुतात्मदारधनधामधरासुरथैः

त्वयि सति किं नृणां श्रयत आत्मनि सर्वरसे ।

इति सदजानतां मिथुनतो रतये चरतां

सुखयति को न्विह स्वविहते स्वनिरस्तभगे ॥ ३४॥

 

भुवि पुरुपुण्यतीर्थसदनान्यृषयो विमदाः

त उत भवत्पदाम्बुजहृदोऽघभिदङ्घ्रिजलाः ।

दधति सकृन्मनस्त्वयि य आत्मनि नित्यसुखे

न पुनरुपासते पुरुषसारहरावसथान् ॥ ३५॥

 

सत इदमुत्थितं सदिति चेन्ननु तर्कहतं

व्यभिचरति क्व च क्व च मृषा न तथोभययुक् ।

व्यवहृतये विकल्प इषितोऽन्धपरम्परया

भ्रमयति भारती त उरुवृत्तिभिरुक्थजडान् ॥ ३६॥

 

न यदिदमग्र आस न भविष्यदतो निधनात्

अनुमितमन्तरा त्वयि विभाति मृषैकरसे ।

अत उपमीयते द्रविणजातिविकल्पपथैः

वितथमनोविलासमृतमित्यवयन्त्यबुधाः ॥ ३७॥

 

स यदजया त्वजामनुशयीत गुणांश्च जुषन्

भजति सरूपतां तदनु मृत्युमपेतभगः ।

त्वमुत जहासि तामहिरिव त्वचमात्तभगो

महसि महीयसेऽष्टगुणितेऽपरिमेयभगः ॥ ३८॥

 

यदि न समुद्धरन्ति यतयो हृदि कामजटा

दुरधिगमोऽसतां हृदि गतोऽस्मृतकण्ठमणिः ।

असुतृपयोगिनामुभयतोऽप्यसुखं भगवन्

अनपगतान्तकादनधिरूढपदाद्भवतः ॥ ३९॥

 

त्वदवगमी न वेत्ति भवदुत्थशुभाशुभयोः

गुणविगुणान्वयांस्तर्हि देहभृतां च गिरः ।

अनुयुगमन्वहं सगुण गीतपरम्परया

श्रवणभृतो यतस्त्वमपवर्गगतिर्मनुजैः ॥ ४०॥

 

द्युपतय एव ते न ययुरन्तमनन्ततया

त्वमपि यदन्तराण्डनिचया ननु सावरणाः ।

ख इव रजांसि वान्ति वयसा सह यच्छ्रुतयः

त्वयि हि फलन्त्यतन्निरसनेन भवन्निधनाः ॥ ४१॥

 

श्रीभगवानुवाच

इत्येतद्ब्रह्मणः पुत्रा आश्रुत्यात्मानुशासनम् ।

सनन्दनमथानर्चुः सिद्धा ज्ञात्वाऽऽत्मनो गतिम् ॥ ४२॥

 

इत्यशेषसमाम्नायपुराणोपनिषद्रसः ।

समुद्धृतः पूर्वजातैर्व्योमयानैर्महात्मभिः ॥ ४३॥

 

त्वं चैतद्ब्रह्मदायाद श्रद्धयाऽऽत्मानुशासनम् ।

धारयंश्चर गां कामं कामानां भर्जनं नृणाम् ॥ ४४॥

 

श्रीशुक उवाच

एवं स ऋषिणाऽऽदिष्टं गृहीत्वा श्रद्धयाऽऽत्मवान् ।

पूर्णः श्रुतधरो राजन्नाह वीरव्रतो मुनिः ॥ ४५॥

 

नारद उवाच

नमस्तस्मै भगवते कृष्णायामलकीर्तये ।

यो धत्ते सर्वभूतानामभवायोशतीः कलाः ॥ ४६॥

 

इत्याद्यमृषिमानम्य तच्छिष्यांश्च महात्मनः ।

ततोऽगादाश्रमं साक्षात्पितुर्द्वैपायनस्य मे ॥ ४७॥

 

सभाजितो भगवता कृतासनपरिग्रहः ।

तस्मै तद्वर्णयामास नारायणमुखाच्छ्रुतम् ॥ ४८॥

 

इत्येतद्वर्णितं राजन् यन्नः प्रश्नः कृतस्त्वया ।

यथा ब्रह्मण्यनिर्देश्ये निर्गुणेऽपि मनश्चरेत् ॥ ४९॥

 

योऽस्योत्प्रेक्षक आदिमध्यनिधने योऽव्यक्तजीवेश्वरो

यः सृष्ट्वेदमनुप्रविश्य ऋषिणा चक्रे पुरः शास्ति ताः ।

यं सम्पद्य जहात्यजामनुशयी सुप्तः कुलायं यथा

तं कैवल्यनिरस्तयोनिमभयं ध्यायेदजस्रं हरिम् ॥ ५०॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे नारदनारायण-

संवादे वेदस्तुतिर्नाम सप्ताशीतितमोऽध्यायः ॥ ८७॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ अष्टाशीतितमोऽध्यायः - ८८ ॥

 

राजोवाच

देवासुरमनुष्येषु ये भजन्त्यशिवं शिवम् ।

प्रायस्ते धनिनो भोजा न तु लक्ष्म्याः पतिं हरिम् ॥ १॥

 

एतद्वेदितुमिच्छामः सन्देहोऽत्र महान् हि नः ।

विरुद्धशीलयोः प्रभ्वोर्विरुद्धा भजतां गतिः ॥ २॥

 

श्रीशुक उवाच

शिवः शक्तियुतः शश्वत्त्रिलिङ्गो गुणसंवृतः ।

वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा ॥ ३॥

 

ततो विकारा अभवन् षोडशामीषु कञ्चन ।

उपधावन् विभूतीनां सर्वासामश्नुते गतिम् ॥ ४॥

 

हरिर्हि निर्गुणः साक्षात्पुरुषः प्रकृतेः परः ।

स सर्वदृगुपद्रष्टा तं भजन् निर्गुणो भवेत् ॥ ५॥

 

निवृत्तेष्वश्वमेधेषु राजा युष्मत्पितामहः ।

श‍ृण्वन् भगवतो धर्मानपृच्छदिदमच्युतम् ॥ ६॥

 

स आह भगवांस्तस्मै प्रीतः शुश्रूषवे प्रभुः ।

नृणां निःश्रेयसार्थाय योऽवतीर्णो यदोः कुले ॥ ७॥

 

श्रीभगवानुवाच

यस्याहमनुगृह्णामि हरिष्ये तद्धनं शनैः ।

ततोऽधनं त्यजन्त्यस्य स्वजना दुःखदुःखितम् ॥ ८॥

 

स यदा वितथोद्योगो निर्विण्णः स्याद्धनेहया ।

मत्परैः कृतमैत्रस्य करिष्ये मदनुग्रहम् ॥ ९॥

 

तद्ब्रह्म परमं सूक्ष्मं चिन्मात्रं सदनन्तकम् ।

(विज्ञायात्मतया धीरः संसारात्परिमुच्यते ।)

अतो मां सुदुराराध्यं हित्वान्यान् भजते जनः ॥ १०॥

 

ततस्त आशुतोषेभ्यो लब्धराज्यश्रियोद्धताः ।

मत्ताः प्रमत्ता वरदान् विस्मरन्त्यवजानते ॥ ११॥

 

श्रीशुक उवाच

शापप्रसादयोरीशा ब्रह्मविष्णुशिवादयः ।

सद्यः शापप्रसादोऽङ्ग शिवो ब्रह्मा न चाच्युतः ॥ १२॥

 

अत्र चोदाहरन्तीममितिहासं पुरातनम् ।

वृकासुराय गिरिशो वरं दत्त्वाऽऽप सङ्कटम् ॥ १३॥

 

वृको नामासुरः पुत्रः शकुनेः पथि नारदम् ।

दृष्ट्वाऽऽशुतोषं पप्रच्छ देवेषु त्रिषु दुर्मतिः ॥ १४॥

 

स आह देवं गिरिशमुपाधावाशु सिद्ध्यसि ।

योऽल्पाभ्यां गुणदोषाभ्यामाशु तुष्यति कुप्यति ॥ १५॥

 

दशास्यबाणयोस्तुष्टः स्तुवतोर्वन्दिनोरिव ।

ऐश्वर्यमतुलं दत्त्वा तत आप सुसङ्कटम् ॥ १६॥

 

इत्यादिष्टस्तमसुर उपाधावत्स्वगात्रतः ।

केदार आत्मक्रव्येण जुह्वानोऽग्निमुखं हरम् ॥ १७॥

 

देवोपलब्धिमप्राप्य निर्वेदात्सप्तमेऽहनि ।

शिरोऽवृश्चत्स्वधितिना तत्तीर्थक्लिन्नमूर्धजम् ॥ १८॥

 

तदा महाकारुणिकः स धूर्जटि-

र्यथा वयं चाग्निरिवोत्थितोऽनलात् ।

निगृह्य दोर्भ्यां भुजयोर्न्यवारय-

त्तत्स्पर्शनाद्भूय उपस्कृताकृतिः ॥ १९॥

 

तमाह चाङ्गालमलं वृणीष्व मे

यथाभिकामं वितरामि ते वरम् ।

प्रीयेय तोयेन नृणां प्रपद्यता-

महो त्वयाऽऽत्मा भृशमर्द्यते वृथा ॥ २०॥

 

देवं स वव्रे पापीयान् वरं भूतभयावहम् ।

यस्य यस्य करं शीर्ष्णि धास्ये स म्रियतामिति ॥ २१॥

 

तच्छ्रुत्वा भगवान् रुद्रो दुर्मना इव भारत ।

ओं इति प्रहसंस्तस्मै ददेऽहेरमृतं यथा ॥ २२॥

 

इत्युक्तः सोऽसुरो नूनं गौरीहरणलालसः ।

स तद्वरपरीक्षार्थं शम्भोर्मूर्ध्नि किलासुरः ।

स्वहस्तं धातुमारेभे सोऽबिभ्यत्स्वकृताच्छिवः ॥ २३॥

 

तेनोपसृष्टः सन्त्रस्तः पराधावन् सवेपथुः ।

यावदन्तं दिवो भूमेः काष्ठानामुदगादुदक् ॥ २४॥

 

अजानन्तः प्रतिविधिं तूष्णीमासन् सुरेश्वराः ।

ततो वैकुण्ठमगमद्भास्वरं तमसः परम् ॥ २५॥

 

यत्र नारायणः साक्षान्न्यासिनां परमा गतिः ।

शान्तानां न्यस्तदण्डानां यतो नावर्तते गतः ॥ २६॥

 

तं तथाव्यसनं दृष्ट्वा भगवान् वृजिनार्दनः ।

दूरात्प्रत्युदियाद्भूत्वा वटुको योगमायया ॥ २७॥

 

मेखलाजिनदण्डाक्षैस्तेजसाग्निरिव ज्वलन् ।

अभिवादयामास च तं कुशपाणिर्विनीतवत् ॥ २८॥

 

श्रीभगवानुवाच

शाकुनेय भवान् व्यक्तं श्रान्तः किं दूरमागतः ।

क्षणं विश्रम्यतां पुंस आत्मायं सर्वकामधुक् ॥ २९॥

 

यदि नः श्रवणायालं युष्मद्व्यवसितं विभो ।

भण्यतां प्रायशः पुम्भिर्धृतैः स्वार्थान् समीहते ॥ ३०॥

 

श्रीशुक उवाच

एवं भगवता पृष्टो वचसामृतवर्षिणा ।

गतक्लमोऽब्रवीत्तस्मै यथापूर्वमनुष्ठितम् ॥ ३१॥

 

श्रीभगवानुवाच

एवं चेत्तर्हि तद्वाक्यं न वयं श्रद्दधीमहि ।

यो दक्षशापात्पैशाच्यं प्राप्तः प्रेतपिशाचराट् ॥ ३२॥

 

यदि वस्तत्र विश्रम्भो दानवेन्द्र जगद्गुरौ ।

तर्ह्यङ्गाशु स्वशिरसि हस्तं न्यस्य प्रतीयताम् ॥ ३३॥

 

यद्यसत्यं वचः शम्भोः कथञ्चिद्दानवर्षभ ।

तदैनं जह्यसद्वाचं न यद्वक्तानृतं पुनः ॥ ३४॥

 

इत्थं भगवतश्चित्रैर्वचोभिः स सुपेशलैः ।

भिन्नधीर्विस्मृतः शीर्ष्णि स्वहस्तं कुमतिर्व्यधात् ॥ ३५॥

 

अथापतद्भिन्नशिराः वज्राहत इव क्षणात् ।

जयशब्दो नमःशब्दः साधुशब्दोऽभवद्दिवि ॥ ३६॥

 

मुमुचुः पुष्पवर्षाणि हते पापे वृकासुरे ।

देवर्षिपितृगन्धर्वा मोचितः सङ्कटाच्छिवः ॥ ३७॥

 

मुक्तं गिरिशमभ्याह भगवान् पुरुषोत्तमः ।

अहो देव महादेव पापोऽयं स्वेन पाप्मना ॥ ३८॥

 

हतः को नु महत्स्वीश जन्तुर्वै कृतकिल्बिषः ।

क्षेमी स्यात्किमु विश्वेशे कृतागस्को जगद्गुरौ ॥ ३९॥

 

य एवमव्याकृतशक्त्युदन्वतः

परस्य साक्षात्परमात्मनो हरेः ।

गिरित्रमोक्षं कथयेच्छृणोति वा

विमुच्यते संसृतिभिस्तथारिभिः ॥ ४०॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे रुद्रमोक्षणं

नामाष्टाशीतितमोऽध्यायः ॥ ८८॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकोननवतितमोऽध्यायः - ८९ ॥

 

श्रीशुक उवाच

सरस्वत्यास्तटे राजन् ऋषयः सत्रमासत ।

वितर्कः समभूत्तेषां त्रिष्वधीशेषु को महान् ॥ १॥

 

तस्य जिज्ञासया ते वै भृगुं ब्रह्मसुतं नृप ।

तज्ज्ञप्त्यै प्रेषयामासुः सोऽभ्यगाद्ब्रह्मणः सभाम् ॥ २॥

 

न तस्मै प्रह्वणं स्तोत्रं चक्रे सत्त्वपरीक्षया ।

तस्मै चुक्रोध भगवान् प्रज्वलन् स्वेन तेजसा ॥ ३॥

 

स आत्मन्युत्थितं मन्युमात्मजायात्मना प्रभुः ।

अशीशमद्यथा वह्निं स्वयोन्या वारिणाऽऽत्मभूः ॥ ४॥

 

ततः कैलासमगमत्स तं देवो महेश्वरः ।

परिरब्धुं समारेभ उत्थाय भ्रातरं मुदा ॥ ५॥

 

नैच्छत्त्वमस्युत्पथग इति देवश्चुकोप ह ।

शूलमुद्यम्य तं हन्तुमारेभे तिग्मलोचनः ॥ ६॥

 

पतित्वा पादयोर्देवी सान्त्वयामास तं गिरा ।

अथो जगाम वैकुण्ठं यत्र देवो जनार्दनः ॥ ७॥

 

शयानं श्रिय उत्सङ्गे पदा वक्षस्यताडयत् ।

तत उत्थाय भगवान् सह लक्ष्म्या सतां गतिः ॥ ८॥

 

स्वतल्पादवरुह्याथ ननाम शिरसा मुनिम् ।

आह ते स्वागतं ब्रह्मन् निषीदात्रासने क्षणम् ।

अजानतामागतान् वः क्षन्तुमर्हथ नः प्रभो ॥ ९॥

 

अतीव कोमलौ तात चरणौ ते महामुने ।

इत्युक्त्वा विप्रचरणौ मर्दयन् स्वेन पाणिना ॥ १०॥

 

पुनीहि सह लोकं मां लोकपालांश्च मद्गतान् ।

पादोदकेन भवतस्तीर्थानां तीर्थकारिणा ॥ ११॥

 

अद्याहं भगवंल्लक्ष्म्या आसमेकान्तभाजनम् ।

वत्स्यत्युरसि मे भूतिर्भवत्पादहतांहसः ॥ १२॥

 

श्रीशुक उवाच

एवं ब्रुवाणे वैकुण्ठे भृगुस्तन्मन्द्रया गिरा ।

निर्वृतस्तर्पितस्तूष्णीं भक्त्युत्कण्ठोऽश्रुलोचनः ॥ १३॥

 

पुनश्च सत्रमाव्रज्य मुनीनां ब्रह्मवादिनाम् ।

स्वानुभूतमशेषेण राजन् भृगुरवर्णयत् ॥ १४॥

 

तन्निशम्याथ मुनयो विस्मिता मुक्तसंशयाः ।

भूयांसं श्रद्दधुर्विष्णुं यतः शान्तिर्यतोऽभयम् ॥ १५॥

 

धर्मः साक्षाद्यतो ज्ञानं वैराग्यं च तदन्वितम् ।

ऐश्वर्यं चाष्टधा यस्माद्यशश्चात्ममलापहम् ॥ १६॥

 

मुनीनां न्यस्तदण्डानां शान्तानां समचेतसाम् ।

अकिञ्चनानां साधूनां यमाहुः परमां गतिम् ॥ १७॥

 

सत्त्वं यस्य प्रिया मूर्तिर्ब्राह्मणास्त्विष्टदेवताः ।

भजन्त्यनाशिषः शान्ता यं वा निपुणबुद्धयः ॥ १८॥

 

त्रिविधाकृतयस्तस्य राक्षसा असुराः सुराः ।

गुणिन्या मायया सृष्टाः सत्त्वं तत्तीर्थसाधनम् ॥ १९॥

 

श्रीशुक उवाच

एवं सारस्वता विप्रा नृणां संशयनुत्तये ।

पुरुषस्य पदाम्भोजसेवया तद्गतिं गताः ॥ २०॥

 

सूत उवाच

इत्येतन्मुनितनयास्यपद्मगन्ध-

पीयूषं भवभयभित्परस्य पुंसः ।

सुश्लोकं श्रवणपुटैः पिबत्यभीक्ष्णं

पान्थोऽध्वभ्रमणपरिश्रमं जहाति ॥ २१॥

 

श्रीशुक उवाच

एकदा द्वारवत्यां तु विप्रपत्न्याः कुमारकः ।

जातमात्रो भुवं स्पृष्ट्वा ममार किल भारत ॥ २२॥

 

विप्रो गृहीत्वा मृतकं राजद्वार्युपधाय सः ।

इदं प्रोवाच विलपन्नातुरो दीनमानसः ॥ २३॥

 

ब्रह्मद्विषः शठधियो लुब्धस्य विषयात्मनः ।

क्षत्रबन्धोः कर्मदोषात्पञ्चत्वं मे गतोऽर्भकः ॥ २४॥

 

हिंसाविहारं नृपतिं दुःशीलमजितेन्द्रियम् ।

प्रजा भजन्त्यः सीदन्ति दरिद्रा नित्यदुःखिताः ॥ २५॥

 

एवं द्वितीयं विप्रर्षिस्तृतीयं त्वेवमेव च ।

विसृज्य स नृपद्वारि तां गाथां समगायत ॥ २६॥

 

तामर्जुन उपश्रुत्य कर्हिचित्केशवान्तिके ।

परेते नवमे बाले ब्राह्मणं समभाषत ॥ २७॥

 

किं स्विद्ब्रह्मंस्त्वन्निवासे इह नास्ति धनुर्धरः ।

राजन्यबन्धुरेते वै ब्राह्मणाः सत्र आसते ॥ २८॥

 

धनदारात्मजापृक्ता यत्र शोचन्ति ब्राह्मणाः ।

ते वै राजन्यवेषेण नटा जीवन्त्यसुम्भराः ॥ २९॥

 

अहं प्रजा वां भगवन् रक्षिष्ये दीनयोरिह ।

अनिस्तीर्णप्रतिज्ञोऽग्निं प्रवेक्ष्ये हतकल्मषः ॥ ३०॥

 

ब्राह्मण उवाच

सङ्कर्षणो वासुदेवः प्रद्युम्नो धन्विनां वरः ।

अनिरुद्धोऽप्रतिरथो न त्रातुं शक्नुवन्ति यत् ॥ ३१॥

 

तत्कथं नु भवान् कर्म दुष्करं जगदीश्वरैः ।

चिकीर्षसि त्वं बालिश्यात्तन्न श्रद्दध्महे वयम् ॥ ३२॥

 

अर्जुन उवाच

नाहं सङ्कर्षणो ब्रह्मन् न कृष्णः कार्ष्णिरेव च ।

अहं वा अर्जुनो नाम गाण्डीवं यस्य वै धनुः ॥ ३३॥

 

मावमंस्था मम ब्रह्मन् वीर्यं त्र्यम्बकतोषणम् ।

मृत्युं विजित्य प्रधने आनेष्ये ते प्रजां प्रभो ॥ ३४॥

 

एवं विश्रम्भितो विप्रः फाल्गुनेन परन्तप ।

जगाम स्वगृहं प्रीतः पार्थवीर्यं निशामयन् ॥ ३५॥

 

प्रसूतिकाल आसन्ने भार्याया द्विजसत्तमः ।

पाहि पाहि प्रजां मृत्योरित्याहार्जुनमातुरः ॥ ३६॥

 

स उपस्पृश्य शुच्यम्भो नमस्कृत्य महेश्वरम् ।

दिव्यान्यस्त्राणि संस्मृत्य सज्यं गाण्डीवमाददे ॥ ३७॥

 

न्यरुणत्सूतिकागारं शरैर्नानास्त्रयोजितैः ।

तिर्यगूर्ध्वमधः पार्थश्चकार शरपञ्जरम् ॥ ३८॥

 

ततः कुमारः सञ्जातो विप्रपत्न्या रुदन् मुहुः ।

सद्योऽदर्शनमापेदे सशरीरो विहायसा ॥ ३९॥

 

तदाऽऽह विप्रो विजयं विनिन्दन् कृष्णसन्निधौ ।

मौढ्यं पश्यत मे योऽहं श्रद्दधे क्लीबकत्थनम् ॥ ४०॥

 

न प्रद्युम्नो नानिरुद्धो न रामो न च केशवः ।

यस्य शेकुः परित्रातुं कोऽन्यस्तदवितेश्वरः ॥ ४१॥

 

धिगर्जुनं मृषावादं धिगात्मश्लाघिनो धनुः ।

दैवोपसृष्टं यो मौढ्यादानिनीषति दुर्मतिः ॥ ४२॥

 

एवं शपति विप्रर्षौ विद्यामास्थाय फाल्गुनः ।

ययौ संयमनीमाशु यत्रास्ते भगवान् यमः ॥ ४३॥

 

विप्रापत्यमचक्षाणस्तत ऐन्द्रीमगात्पुरीम् ।

आग्नेयीं नैरृतीं सौम्यां वायव्यां वारुणीमथ ।

रसातलं नाकपृष्ठं धिष्ण्यान्यन्यान्युदायुधः ॥ ४४॥

 

ततोऽलब्धद्विजसुतो ह्यनिस्तीर्णप्रतिश्रुतः ।

अग्निं विविक्षुः कृष्णेन प्रत्युक्तः प्रतिषेधता ॥ ४५॥

 

दर्शये द्विजसूनूंस्ते मावज्ञात्मानमात्मना ।

ये ते नः कीर्तिं विमलां मनुष्याः स्थापयिष्यन्ति ॥ ४६॥

 

इति सम्भाष्य भगवानर्जुनेन सहेश्वरः ।

दिव्यं स्वरथमास्थाय प्रतीचीं दिशमाविशत् ॥ ४७॥

 

सप्तद्वीपान् सप्त सिन्धून्सप्तसप्त गिरीनथ ।

लोकालोकं तथातीत्य विवेश सुमहत्तमः ॥ ४८॥

 

तत्राश्वाः शैब्यसुग्रीवमेघपुष्पबलाहकाः ।

तमसि भ्रष्टगतयो बभूवुर्भरतर्षभ ॥ ४९॥

 

तान् दृष्ट्वा भगवान् कृष्णो महायोगेश्वरेश्वरः ।

सहस्रादित्यसङ्काशं स्वचक्रं प्राहिणोत्पुरः ॥ ५०॥

 

तमः सुघोरं गहनं कृतं मह-

द्विदारयद्भूरितरेण रोचिषा ।

मनोजवं निर्विविशे सुदर्शनं

गुणच्युतो रामशरो यथा चमूः ॥ ५१॥

 

द्वारेण चक्रानुपथेन तत्तमः

परं परं ज्योतिरनन्तपारम् ।

समश्नुवानं प्रसमीक्ष्य फाल्गुनः

प्रताडिताक्षो पिदधेऽक्षिणी उभे ॥ ५२॥

 

ततः प्रविष्टः सलिलं नभस्वता

बलीयसैजद्बृहदूर्मिभूषणम् ।

तत्राद्भुतं वै भवनं द्युमत्तमं

भ्राजन्मणिस्तम्भसहस्रशोभितम् ॥ ५३॥

 

तस्मिन् महाभीममनन्तमद्भुतं

सहस्रमूर्धन्यफणामणिद्युभिः ।

विभ्राजमानं द्विगुणोल्बणेक्षणं

सिताचलाभं शितिकण्ठजिह्वम् ॥ ५४॥

 

ददर्श तद्भोगसुखासनं विभुं

महानुभावं पुरुषोत्तमोत्तमम् ।

सान्द्राम्बुदाभं सुपिशङ्गवाससं

प्रसन्नवक्त्रं रुचिरायतेक्षणम् ॥ ५५॥

 

महामणिव्रातकिरीटकुण्डल-

प्रभापरिक्षिप्तसहस्रकुन्तलम् ।

प्रलम्बचार्वष्टभुजं सकौस्तुभं

श्रीवत्सलक्ष्मं वनमालया वृतम् ॥ ५६॥

 

सुनन्दनन्दप्रमुखैः स्वपार्षदै-

श्चक्रादिभिर्मूर्तिधरैर्निजायुधैः ।

पुष्ट्या श्रिया कीर्त्यजयाखिलर्धिभि-

र्निषेव्यमाणं परमेष्ठिनां पतिम् ॥ ५७॥

 

ववन्द आत्मानमनन्तमच्युतो

जिष्णुश्च तद्दर्शनजातसाध्वसः ।

तावाह भूमा परमेष्ठिनां प्रभु-

र्बद्धाञ्जली सस्मितमूर्जया गिरा ॥ ५८॥

 

द्विजात्मजा मे युवयोर्दिदृक्षुणा

मयोपनीता भुवि धर्मगुप्तये ।

कलावतीर्णाववनेर्भरासुरान्

हत्वेह भूयस्त्वरयेतमन्ति मे ॥ ५९॥

 

पूर्णकामावपि युवां नरनारायणावृषी ।

धर्ममाचरतां स्थित्यै ऋषभौ लोकसङ्ग्रहम् ॥ ६०॥

 

इत्यादिष्टौ भगवता तौ कृष्णौ परमेष्ठिना ।

ओमित्यानम्य भूमानमादाय द्विजदारकान् ॥ ६१॥

 

न्यवर्ततां स्वकं धाम सम्प्रहृष्टौ यथागतम् ।

विप्राय ददतुः पुत्रान् यथारूपं यथावयः ॥ ६२॥

 

निशाम्य वैष्णवं धाम पार्थः परमविस्मितः ।

यत्किञ्चित्पौरुषं पुंसां मेने कृष्णानुकम्पितम् ॥ ६३॥

 

इतीदृशान्यनेकानि वीर्याणीह प्रदर्शयन् ।

बुभुजे विषयान् ग्राम्यानीजे चात्यूर्जितैर्मखैः ॥ ६४॥

 

प्रववर्षाखिलान् कामान् प्रजासु ब्राह्मणादिषु ।

यथाकालं यथैवेन्द्रो भगवान् श्रैष्ठ्यमास्थितः ॥ ६५॥

 

हत्वा नृपानधर्मिष्ठान् घातयित्वार्जुनादिभिः ।

अञ्जसा वर्तयामास धर्मं धर्मसुतादिभिः ॥ ६६॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे उत्तरार्धे द्विजकुमारानयनं

नामैकोननवतितमोऽध्यायः ॥ ८९॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ नवतितमोऽध्यायः - ९० ॥

 

श्रीशुक उवाच

सुखं स्वपुर्यां निवसन् द्वारकायां श्रियः पतिः ।

सर्वसम्पत्समृद्धायां जुष्टायां वृष्णिपुङ्गवैः ॥ १॥

 

स्त्रीभिश्चोत्तमवेषाभिर्नवयौवनकान्तिभिः ।

कन्दुकादिभिर्हर्म्येषु क्रीडन्तीभिस्तडिद्द्युभिः ॥ २॥

 

नित्यं सङ्कुलमार्गायां मदच्युद्भिर्मतङ्गजैः ।

स्वलङ्कृतैर्भटैरश्वै रथैश्च कनकोज्ज्वलैः ॥ ३॥

 

उद्यानोपवनाढ्यायां पुष्पितद्रुमराजिषु ।

निर्विशद्भृङ्गविहगैर्नादितायां समन्ततः ॥ ४॥

 

रेमे षोडशसाहस्रपत्नीनामेकवल्लभः ।

तावद्विचित्ररूपोऽसौ तद्गेहेषु महर्द्धिषु ॥ ५॥

 

प्रोत्फुल्लोत्पलकह्लारकुमुदाम्भोजरेणुभिः ।

वासितामलतोयेषु कूजद्द्विजकुलेषु च ॥ ६॥

 

विजहार विगाह्याम्भो ह्रदिनीषु महोदयः ।

कुचकुङ्कुमलिप्ताङ्गः परिरब्धश्च योषिताम् ॥ ७॥

 

उपगीयमानो गन्धर्वैर्मृदङ्गपणवानकान् ।

वादयद्भिर्मुदा वीणां सूतमागधवन्दिभिः ॥ ८॥

 

सिच्यमानोऽच्युतस्ताभिर्हसन्तीभिः स्म रेचकैः ।

प्रतिषिञ्चन् विचिक्रीडे यक्षीभिर्यक्षराडिव ॥ ९॥

 

ताः क्लिन्नवस्त्रविवृतोरुकुचप्रदेशाः

सिञ्चन्त्य उद्धृतबृहत्कबरप्रसूनाः ।

कान्तं स्म रेचकजिहीरिषयोपगुह्य

जातस्मरोत्सवलसद्वदना विरेजुः ॥ १०॥

 

कृष्णस्तु तत्स्तनविषज्जितकुङ्कुमस्रक्-

क्रीडाभिषङ्गधुतकुन्तलवृन्दबन्धः ।

सिञ्चन्मुहुर्युवतिभिः प्रतिषिच्यमानो

रेमे करेणुभिरिवेभपतिः परीतः ॥ ११॥

 

नटानां नर्तकीनां च गीतवाद्योपजीविनाम् ।

क्रीडालङ्कारवासांसि कृष्णोऽदात्तस्य च स्त्रियः ॥ १२॥

 

कृष्णस्यैवं विहरतो गत्यालापेक्षितस्मितैः ।

नर्मक्ष्वेलिपरिष्वङ्गैः स्त्रीणां किल हृता धियः ॥ १३॥

 

ऊचुर्मुकुन्दैकधियोऽगिर उन्मत्तवज्जडम् ।

चिन्तयन्त्योऽरविन्दाक्षं तानि मे गदतः श‍ृणु ॥ १४॥

 

महिष्य ऊचुः

कुररि विलपसि त्वं वीतनिद्रा न शेषे

स्वपिति जगति रात्र्यामीश्वरो गुप्तबोधः ।

वयमिव सखि कच्चिद्गाढनिर्भिन्नचेता

नलिननयनहासोदारलीलेक्षितेन ॥ १५॥

 

नेत्रे निमीलयसि नक्तमदृष्टबन्धु-

स्त्वं रोरवीषि करुणं बत चक्रवाकि ।

दास्यं गता वयमिवाच्युतपादजुष्टां

किं वा स्रजं स्पृहयसे कबरेण वोढुम् ॥ १६॥

 

भो भोः सदा निष्टनसे उदन्व-

न्नलब्धनिद्रोऽधिगतप्रजागरः ।

किं वा मुकुन्दापहृतात्मलाञ्छनः

प्राप्तां दशां त्वं च गतो दुरत्ययाम् ॥ १७॥

 

त्वं यक्ष्मणा बलवतासि गृहीत इन्दो

क्षीणस्तमो न निजदीधितिभिः क्षिणोषि ।

कच्चिन्मुकुन्दगदितानि यथा वयं त्वं

विस्मृत्य भोः स्थगितगीरुपलक्ष्यसे नः ॥ १८॥

 

किन्त्वाचरितमस्माभिर्मलयानिल तेऽप्रियम् ।

गोविन्दापाङ्गनिर्भिन्ने हृदीरयसि नः स्मरम् ॥ १९॥

 

मेघ श्रीमंस्त्वमसि दयितो यादवेन्द्रस्य नूनं

श्रीवत्साङ्कं वयमिव भवान् ध्यायति प्रेमबद्धः ।

अत्युत्कण्ठः शबलहृदयोऽस्मद्विधो बाष्पधाराः

स्मृत्वा स्मृत्वा विसृजसि मुहुर्दुःखदस्तत्प्रसङ्गः ॥ २०॥

 

प्रियरावपदानि भाषसे मृतसञ्जीविकयानया गिरा ।

करवाणि किमद्य ते प्रियं वद मे वल्गितकण्ठ कोकिल ॥ २१॥

 

न चलसि न वदस्युदारबुद्धे

क्षितिधर चिन्तयसे महान्तमर्थम् ।

अपि बत वसुदेवनन्दनाङ्घ्रिं

वयमिव कामयसे स्तनैर्विधर्तुम् ॥ २२॥

 

शुष्यद्ध्रदाः कर्शिता बत सिन्धुपत्न्यः

सम्प्रत्यपास्तकमलश्रिय इष्टभर्तुः ।

यद्वद्वयं मधुपतेः प्रणयावलोक-

मप्राप्य मुष्टहृदयाः पुरुकर्शिताः स्म ॥ २३॥

 

हंस स्वागतमास्यतां पिब पयो ब्रूह्यङ्ग शौरेः कथां

दूतं त्वां नु विदाम कच्चिदजितः स्वस्त्यास्त उक्तं पुरा ।

किं वा नश्चलसौहृदः स्मरति तं कस्माद्भजामो वयं

क्षौद्रालापय कामदं श्रियमृते सैवैकनिष्ठा स्त्रियाम् ॥ २४॥

 

इतीदृशेन भावेन कृष्णे योगेश्वरेश्वरे ।

क्रियमाणेन माधव्यो लेभिरे परमां गतिम् ॥ २५॥

 

श्रुतमात्रोऽपि यः स्त्रीणां प्रसह्याकर्षते मनः ।

उरुगायोरुगीतो वा पश्यन्तीनां कुतः पुनः ॥ २६॥

 

याः सम्पर्यचरन् प्रेम्णा पादसंवाहनादिभिः ।

जगद्गुरुं भर्तृबुद्ध्या तासां किं वर्ण्यते तपः ॥ २७॥

 

एवं वेदोदितं धर्ममनुतिष्ठन् सतां गतिः ।

गृहं धर्मार्थकामानां मुहुश्चादर्शयत्पदम् ॥ २८॥

 

आस्थितस्य परं धर्मं कृष्णस्य गृहमेधिनाम् ।

आसन् षोडशसाहस्रं महिष्यश्च शताधिकम् ॥ २९॥

 

तासां स्त्रीरत्नभूतानामष्टौ याः प्रागुदाहृताः ।

रुक्मिणीप्रमुखा राजंस्तत्पुत्राश्चानुपूर्वशः ॥ ३०॥

 

एकैकस्यां दश दश कृष्णोऽजीजनदात्मजान् ।

यावत्य आत्मनो भार्या अमोघगतिरीश्वरः ॥ ३१॥

 

तेषामुद्दामवीर्याणामष्टादश महारथाः ।

आसन्नुदारयशसस्तेषां नामानि मे श‍ृणु ॥ ३२॥

 

प्रद्युम्नश्चानिरुद्धश्च दीप्तिमान् भानुरेव च ।

साम्बो मधुर्बृहद्भानुश्चित्रभानुर्वृकोऽरुणः ॥ ३३॥

 

पुष्करो वेदबाहुश्च श्रुतदेवः सुनन्दनः ।

चित्रबाहुर्विरूपश्च कविर्न्यग्रोध एव च ॥ ३४॥

 

एतेषामपि राजेन्द्र तनुजानां मधुद्विषः ।

प्रद्युम्न आसीत्प्रथमः पितृवद्रुक्मिणीसुतः ॥ ३५॥

 

स रुक्मिणो दुहितरमुपयेमे महारथः ।

तस्मात्सुतोऽनिरुद्धोऽभून्नागायुतबलान्वितः ॥ ३६॥

 

स चापि रुक्मिणः पौत्रीं दौहित्रो जगृहे ततः ।

वज्रस्तस्याभवद्यस्तु मौसलादवशेषितः ॥ ३७॥

 

प्रतिबाहुरभूत्तस्मात्सुबाहुस्तस्य चात्मजः ।

सुबाहोः शान्तसेनोऽभूच्छतसेनस्तु तत्सुतः ॥ ३८॥

 

न ह्येतस्मिन् कुले जाता अधना अबहुप्रजाः ।

अल्पायुषोऽल्पवीर्याश्च अब्रह्मण्याश्च जज्ञिरे ॥ ३९॥

 

यदुवंशप्रसूतानां पुंसां विख्यातकर्मणाम् ।

सङ्ख्या न शक्यते कर्तुमपि वर्षायुतैर्नृप ॥ ४०॥

 

तिस्रः कोट्यः सहस्राणामष्टाशीतिशतानि च ।

आसन् यदुकुलाचार्याः कुमाराणामिति श्रुतम् ॥ ४१॥

 

सङ्ख्यानं यादवानां कः करिष्यति महात्मनाम् ।

यत्रायुतानामयुतलक्षेणास्ते स आहुकः ॥ ४२॥

 

देवासुराहवहता दैतेया ये सुदारुणाः ।

ते चोत्पन्ना मनुष्येषु प्रजा दृप्ता बबाधिरे ॥ ४३॥

 

तन्निग्रहाय हरिणा प्रोक्ता देवा यदोः कुले ।

अवतीर्णाः कुलशतं तेषामेकाधिकं नृप ॥ ४४॥

 

तेषां प्रमाणं भगवान् प्रभुत्वेनाभवद्धरिः ।

ये चानुवर्तिनस्तस्य ववृधुः सर्वयादवाः ॥ ४५॥

 

शय्यासनाटनालापक्रीडास्नानादिकर्मसु ।

न विदुः सन्तमात्मानं वृष्णयः कृष्णचेतसः ॥ ४६॥

 

तीर्थं चक्रे नृपोनं यदजनि यदुषु स्वः सरित्पादशौचं

विद्विट् स्निग्धाः स्वरूपं ययुरजितपरा श्रीर्यदर्थेऽन्ययत्नः ।

यन्नामामङ्गलघ्नं श्रुतमथ गदितं यत्कृतो गोत्रधर्मः

कृष्णस्यैतन्न चित्रं क्षितिभरहरणं कालचक्रायुधस्य ॥ ४७॥

 

जयति जननिवासो देवकीजन्मवादो

यदुवरपरिषत्स्वैर्दोर्भिरस्यन्नधर्मम् ।

स्थिरचरवृजिनघ्नः सुस्मितश्रीमुखेन

व्रजपुरवनितानां वर्धयन् कामदेवम् ॥ ४८॥

 

इत्थं परस्य निजवर्त्मरिरक्षयाऽऽत्त-

लीलातनोस्तदनुरूपविडम्बनानि ।

कर्माणि कर्मकषणानि यदूत्तमस्य

श्रूयादमुष्य पदयोरनुवृत्तिमिच्छन् ॥ ४९॥

 

मर्त्यस्तयानुसवमेधितया मुकुन्द-

श्रीमत्कथाश्रवणकीर्तनचिन्तयैति ।

तद्धाम दुस्तरकृतान्तजवापवर्गं

ग्रामाद्वनं क्षितिभुजोऽपि ययुर्यदर्थाः ॥ ५०॥

 

इति श्रीमद्भागवते महापुराणे वैयासक्यामष्टादश-

साहस्र्यां पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे

श्रीकृष्णचरितानुवर्णनं  नाम नवतितमोऽध्यायः ॥ ९०॥

 

॥ इति दशमस्कन्धोत्तरार्धः समाप्तः ॥

 

॥ ॐ तत्सत् ॥