सावित्र्युपाख्यानम्
Savithri Upakhyana In Sanskrit
नारद उवाच ।।
तुलस्युपाख्यानमिदं श्रुतमीश सुधोपमम् ।।
यत्तु सावित्र्युपाख्यानं तन्मे व्याख्यातुमर्हसि ।। १ ।।
पुरा येन समुद्भूता सा श्रुता च श्रुतिप्रसूः ।।
केन वा पूजिता देवी प्रथमे कैश्च वा परे ।। २ ।।
नारायण उवाच ।।
ब्रह्मणा वेदजननी पूजिता प्रथमे मुने ।।
द्वितीये च देवगणैस्तत्पश्चाद्विदुषां गणैः ।। ३ ।।
तथा चाश्वपतिः पूर्वं पूजयामास भारते ।।
तत्पश्चात्पूजयामासुर्वर्णाश्चत्वार एव च ।। ४ ।।
नारद उवाच ।।
को वा सोऽश्वपतिर्ब्रह्मन्केन वा तेन पूजिता ।।
सर्वपूज्या च सावित्री तन्मे व्याख्यातुमर्हसि ।। ५ ।।
नारायण उवाच ।।
मद्रदेशे महाराजो बभूवाश्वपतिर्मुने ।।
वैरिणां बलहर्त्ता च मित्राणां दुःखनाशनः ।। ६ ।।
आसीत्तस्य महाराज्ञी महिषी धर्मचारिणी ।।
मालतीति च सा ख्याता यथा लक्ष्मीर्गदाभृतः ।। ७ ।।
सा च राज्ञी महासाध्वी वसिष्ठस्योपदेशतः ।।
चकाराराधनं भक्त्या सावित्र्याश्चैव नारद ।। ८ ।।
प्रत्यादेशं न सा प्राप महिषी न ददर्श ताम् ।।
गृहं जगाम सा दुःखाद्धृदयेन विदूयता ।। ९ ।।
राजा तां दुःखितां दृष्ट्वा बोधयित्वा नयेन वै ।।
सावित्र्यास्तपसे भक्त्या जगाम पुष्करं तदा ।। 2.23.१० ।।
तपश्चचार तत्रैव संयतः शतवत्सरम् ।।
न ददर्श च सावित्रीं प्रत्यादेशो बभूव ह ।। ११ ।।
शुश्रावाकाशवाणीं च नृपेन्द्रश्चाशरीरिणीम् ।।
गायत्रीदशलक्षं च जपं कुर्विति नारद ।। १२ ।।
एतस्मिन्नन्तरे तत्र प्रजगाम पराशरः ।।
प्रणनाम नृपस्तं च मुनिर्नृपमुवाच ह ।। १३ ।।
पराशर उवाच ।।
सकृज्जपश्च गायत्र्याः पापं दिनकृतं हरेत् ।।
दशधा प्रजपान्नॄणां दिवारात्र्यघमेव च ।। १४ ।।
शतधा च जपाच्चैवं पापं मासार्जितं परम् ।।
सहस्रधा जपाच्चैव कल्मषं वत्सरार्जितम् ।। १५ ।।
लक्षं जन्मकृतं पापं दशलक्षं त्रिजन्मनः ।।
सर्वजन्मकृतं पापं शतलक्षो विनश्यति ।। १५ ।।
करोति मुक्तिं विप्राणां जपो दशगुणस्ततः ।।
करं सर्पफणाकारं कृत्वा तु ऊर्ध्वमुद्रितम् ।। १७ ।।
आनम्रमूर्द्धमचलं प्रजपेत्प्राङ्मुखो द्विजः ।।
अनामिकामध्यदेशादथो वामक्रमेण च ।। १८ ।।
तर्जनीमूलपर्य्यन्तं जपस्यैष क्रमः करे ।।
श्वेतपङ्कज बीजानां स्फाटिकानां च संस्कृताम् ।। १९ ।।
कृत्वा वा मालिकां राजञ्जपेत्तीर्थे सुरालये ।।
संस्थाप्य मालामश्वत्थपत्रसप्तसु संयतः ।। 2.23.२० ।।
कृत्वा गोरोचनाक्तां च गायत्र्या स्नापयेत्सुधीः ।।
गायत्रीशतकं तस्यां जपेच्च विधिपूर्वकम् ।। २१ ।।
अथवा पञ्चगव्येन स्नाता माला च संस्कृता ।।
अथ गङ्गोदकेनैव स्नाता वाऽतिसुसंस्कृता ।।२२।।
एवं क्रमेण राजर्षे दशलक्षं जपं कुरु ।।
साक्षाद् द्रक्ष्यसि सावित्रीं त्रिजन्ममपातकक्षयात् ।। २३ ।।
नित्यं नित्यं त्रिसन्ध्यं च करिष्यसि दिने दिने ।।
मध्याह्ने चापि सायाह्ने प्रातरेव शुचिः सदा ।। २४ ।।
सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।।
यदह्ना कुरुते कर्म न तस्य फलभाग्भवेत् ।। २५ ।।
नोपतिष्ठति यः पूर्वां नोपास्ते यश्च पश्चिमाम् ।।
स शूद्रवद्बहिष्कार्य्यः सर्वस्माद् द्विजकर्मणः ।।२६।।
यावज्जीवनपर्य्यन्तं यस्त्रिसन्ध्यां करोति च ।।
स च सूर्य्यसमो विप्रस्तेजसा तपसा सदा ।।२७।।
तत्पादपद्मरजसा सद्यः पूता वसुन्धरा ।।
जीवन्मुक्तः स तेजस्वी सन्ध्या पूतो हि यो द्विजः ।। २८ ।।
तीर्थानि च पवित्राणि तस्य स्पर्शनमात्रतः ।।
ततः पापानि यान्त्येव वैनतेयादिवोरगाः ।। २९ ।।
न गृह्णन्ति सुराः पूजां पितरः पिण्डतर्पणम् ।।
स्वेच्छया च द्विजातेश्च त्रिसन्ध्यरहितस्य च ।। 2.23.३० ।।
विष्णुमन्त्रविहीनश्च त्रिसन्ध्यरहितो द्विजः ।।
एकादशीविहीनश्च विषहीनो यथोरगः ।। ३१ ।।
हरेरनैवेद्यभोजी धावको वृषवाहकः ।।
शूद्रान्नभोजी विप्रश्च विषहीनो यथोरगः ।। ३२ ।।
शवदाही च शूद्राणां यो विप्रो वृषलीपतिः ।।
शूद्राणां सूपकारश्च विषहीनो यथोरगः ।। ३३ ।।
शूद्राणां च प्रतिग्राही शूद्रयाजी च यो द्विजः ।।
असिजीवी मषीजीवी विषहीनो यथोरगः ।।३४।।
यो विप्रोऽवीरान्नभोजी ऋतुस्नातान्नभोजकः ।।
भगजीवी वार्धुषिको विषहीनो यथोरगः ।। ३५ ।।
यः कन्याविक्रयी विप्रो यो हरेर्नामविक्रयी ।।
यो विद्याविक्रयी भूप विषहीनो यथोरगः ।। ३६ ।।
सूर्य्योदये च द्विर्भोजी मत्स्यभोजी च यो द्विजः ।।
शिलापूजादिरहितो विषहीनो यथोरगः ।। ३७ ।।
इत्युक्त्वा च मुनिश्रेष्ठः सर्व पूजाविधिक्रमम् ।।
तमुवाच च सावित्र्या ध्यानादिकमभीप्सितम् ।। ३८ ।।
दत्त्वा सर्वं नृपेन्द्राय प्रययौ स्वालयं मुनिः ।।
राजा संपूज्य सावित्रीं ददर्श वरमाप च।।३९।।
नारद उवाच।।
किं वा ध्यानं च सावित्र्याः किं वा पूजाविधानकम्।।
स्तोत्रं मन्त्रं च किं दत्त्वा प्रययौ स पराशरः ।।2.23.४०।।
नृपः केन विधानेन संपूज्य श्रुतिमातरम्।।
वरं च किं वा संप्राप वद सोऽश्वपतिर्नृपः।।४१।।
नारायण उवाच।।
ज्येष्ठे कृष्णत्रयोदश्यां शुद्धे काले च संयतः।।
व्रतमेव चतुर्दश्यां व्रती भक्त्या समाचरेत्।।४२।।
व्रतं चतुर्दशाब्दं च द्विसप्तफलसंयुतम्।।
दत्त्वा द्विसप्तनैवेद्यं पुष्पधूपादिकं तथा ।।४३।।
वस्त्रं यज्ञोपवीतं च भोज्यं च विधिपूर्वकम्।।
संस्थाप्य मङ्गलघटं फलशाखासमन्वितम।।४४।।
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम्।।
संपूज्य पूजयेदिष्टं घटे आवाहिते मुने।।४५।।
शृणु ध्यानं च सावित्र्याश्चोक्तं माध्यन्दिने च यत्।।
स्तोत्रं पूजाविधानं च मन्त्रं च सर्वकामदम् ।। ४६ ।।
तप्तकाञ्चनवर्णाभां ज्वलन्तीं ब्रह्मतेजसा ।।
ग्रीष्ममध्याह्नमार्त्तण्डसहस्रसमसुप्रभाम् ।। ४७ ।।
ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम्।।
वह्निशुद्धांशुकाधानां भक्तानुग्रहकातराम् ।।४८।।
सुखदां मुक्तिदां शान्तां कान्तां च जगतां विधेः।।
सर्वसम्पत्स्वरूपां च प्रदात्रीं सर्वसम्पदाम् ।। ४९ ।।
वेदाधिष्ठातृदेवीं च वेदशास्त्रस्वरूपिणीम् ।।
वेदे बीजस्वरूपां च भजे त्वां वेदमातरम् ।। 2.23.५० ।।
ध्यात्वा ध्यानेन चानेन दत्त्वा पुष्पं स्वमूर्द्धनि ।।
पुनर्ध्यात्वा घटे भक्त्या देवीमावाहयेद्व्रती ।। ५१ ।।
दत्त्वा षोडशोपचारं वेदोक्तमन्त्रपूर्वकम् ।।
सम्पूज्य स्तुत्वा प्रणमेदेवं देवीं विधानतः ।। ५२ ।।
आसनं पाद्यमर्घ्यं च स्नानीयं चानुलेपनम् ।।
धूपं दीपं च नैवेद्यं ताम्बूलं शीतलं जलम्।।५३।।
वसनं भूषणं माल्यं गन्धमाचमनीयकम्।।
मनोहरं सुतल्पं च देयान्येतानि षोडश।।५४।।
दारुसारविकारं च हेमादिनिर्मितं च वा ।।
देवाधारं पुण्यदं च मया नित्यं निवेदितम् ।। ५५ ।।
तीर्थोदकं च पाद्यं च पुण्यदं प्रीतिदं महत् ।।
पूजाङ्गभूतं शुद्धं च मया भक्त्या निवेदितम्।। ५६ ।।
पवित्ररूपमर्घ्यं च दूर्वापुष्पाक्षतान्वितम् ।।
पुण्यदं शंखतोयाक्तं मया तुभ्यं निवेदितम् ।। ५७।।
सुगन्धि धात्रीतैलं च देहसौन्दर्य्यकारणम् ।।
मया निवेदितं भक्त्या स्नानीयं प्रतिगृह्यताम् ।। ५८ ।।
मलयाचलसम्भूतं देहशोभाविवर्द्धनम् ।।
सुगन्धियुक्तं सुखदं मया तुभ्यं निवेदितम् ।। ५९ ।।
गन्धद्रव्योद्भवः पुण्यः प्रीतिदो दिव्यगन्धदः ।।
मया निवेदितो भक्त्या धूपोऽयं प्रतिगृह्यताम् ।। 2.23.६० ।।
जगतां दर्शनीयं च दर्शनं दीप्तिकारणम् ।।
अन्धकारध्वंसबीजं मया तुभ्यं निवेदितम् ।। ६१ ।।
तुष्टिदं पुष्टिदं चैव प्रीतिदं क्षुद्विनाशनम् ।।
पुण्यदं स्वादुरूपं च नैवेद्यं प्रतिगृह्यताम् ।। ६२ ।।
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ।।
तुष्टिदं पुष्टिदं चैव मया भक्त्या निवेदितम् ।। ६३ ।।
सुशीतलं वासितं च पिपासानाशकारणम् ।।
जगतां जीवरूपं च जीवनं प्रतिगृह्यताम् ।।६४।।
देहशोभास्वरूपं च सभाशोभाविवर्द्धनम् ।।
कार्पासजं च कृमिजं वसनं प्रतिगृह्यताम् ।।६५।।
काञ्चनादिभिराबद्धं श्रीयुक्तं श्रीकरं सदा।।
सुखदं पुण्यदं चैव भूषणं प्रतिगृह्यताम् ।। ६६ ।।
नानापुष्पलताकीर्णं बहुभासा समन्वितम् ।।
प्रीतिदं पुण्यदं चैव माल्यं वै प्रतिगृह्यताम् ।। ६७ ।।
सर्वमङ्गलरूपश्च सर्व मङ्गलदो वरः ।।
पुण्यप्रदश्च गन्धाढ्यो गन्धश्च प्रतिगृह्यताम् ।।६८।।
शुद्धं शुद्धिप्रदं चैव शुद्धानां प्रीतिदं महत् ।।
रम्यमाचमनीयं च मया दत्तं प्रगृह्यताम् ।। ६९ ।।
रत्नसारादिनिर्माणं पुष्पचन्दनसंयुतम् ।।
सुखदं पुण्यदं चैव सुतल्पं प्रतिगृह्यताम ।। 2.23.७० ।।
नानावृक्षसमुद्भूतं नानारूपसमन्वितम् ।।
फलस्वरूपं फलदं फलं च प्रतिगृह्यताम् ।। ७१ ।।
सिन्दूरं च वरं रम्यं भालशोभाविवर्द्धनम् ।।
भूषणं भूषणानां च सिन्दूरं प्रतिगृह्यताम् ।। ७२ ।।
विशुद्धग्रंथिसंयुक्तं पुण्यसूत्रविनिर्मितम् ।।
पवित्रं वेदमन्त्रेण यज्ञसूत्रं च गृह्यताम् ।। ७३ ।।
द्रव्याण्येतानि मूलेन दत्त्वा स्तोत्रं पठेत्सुधीः ।।
ततः प्रणम्य विप्राय व्रती दद्याच्च दक्षिणाम् ।। ७४ ।।
सावित्रीति चतुर्थ्यन्तं वह्निजायान्तमेव च ।।
लक्ष्मीमायाकामपूर्वं मन्त्रमष्टाक्षरं विदुः ।। ७९ ।।
श्रीं ह्रीं क्लीं सावित्र्यै स्वाहा ।।
मध्यन्दिनोक्तं स्तोत्रं च सर्ववाञ्छाफलप्रदम् ।।
विप्रजीवनरूपं च निबोध कथयामि ते ।।७६।।
कृष्णेन दत्ता सावित्री गोलोके ब्रह्मणे पुरा ।।।
न याति सा तेन सार्द्धं ब्रह्मलोकं तु नारद ।। ७७ ।।
ब्रह्मा कृष्णाज्ञया भक्त्या पर्यष्टौद्वेदमातरम् ।।
तदा सा परितुष्टा च ब्रह्माणं चकमे सती ।। ७८ ।।
ब्रह्मोवाच ।।
नारायणस्वरूपे च नारायणि सनातनि ।।
नारायणात्समुद्भूते प्रसन्ना भव सुन्दरि ।। ७९ ।।।।
तेजस्स्वरूपे परमे परमानन्दरूपिणि ।।
द्विजातीनां जातिरूपे प्रसन्ना भव सुन्दरि।।2.23.८०।।
नित्ये नित्यप्रिये देवि नित्यानन्दस्वरूपिणि।।
सर्वमंगलरूपेण प्रसन्ना भव सुन्दरि ।।८१।।
सर्वस्वरूपे विप्राणां मन्त्रसारे परात्परे ।।
सुखदे मोक्षदे देवि प्रसन्ना भव सुन्दरि।।८२।।
विप्रपापेन्धदाहाय ज्वलदग्निशिखोपमे ।।
ब्रह्मतेजःप्रदे देवि प्रसन्ना भव सुन्दरि ।। ८३ ।।
कायेन मनसा वाचा यत्पापं कुरुते द्विजः ।।
तत्ते स्मरणमात्रेण भस्मीभूतं भविष्यति।।८४।।
इत्युक्त्वा जगतां धाता तत्र तस्थौ च संसदि ।।
सावित्री ब्रह्मणा सार्द्धं ब्रह्मलोकं जगाम सा ।।८९ ।।
अनेन स्तवराजेन संस्तूयाश्वपतिर्नृपः ।।
ददर्श तां च सावित्रीं वरं प्राप मनोगतम् ।।८६।।
स्तवराजमिदं पुण्यं त्रिसन्ध्यायां च यः पठेत् ।।
पाठे चतुर्णां वेदानां यत्फलं तल्लभेद् ध्रुवम् ।। ८७ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सावित्र्युपाख्याने सावित्रीस्तोत्रकथनं नाम त्रयोविंशतितमोध्यायः ।। २३ ।।
नारायण उवाच ।।
स्तुत्वा सोऽश्वपतिस्तेन संपूज्य विधिपूर्वकम् ।।
ददर्श तत्र तां देवीं सहस्रार्कसमप्रभाम् ।। १ ।।
उवाच सा तं राजानं प्रसन्ना सस्मिता सती ।।
यथा माता स्वपुत्रं च द्योतयन्ती दिशस्त्विषा ।।२।।
सावित्र्युवाच ।।
जानामि ते महाराज यत्ते मनसि वर्त्तते ।।
वाञ्छितं तव पत्न्याश्च सर्वं दास्यामि निश्चितम् ।।३ ।।
साध्वी कन्याभिलाषं च करोति तव कामिनी ।।
त्वं प्रार्थयसि पुत्रं च भविष्यति च ते क्रमात् ।। ४ ।।
इत्युक्त्वा सा महादेवी ब्रह्मलोकं जगाम ह ।।
राजा जगाम स्वगृहं तत्कन्याऽऽदौ बभूव ह ।। ५ ।।
राज्ञो धनाच्च सावित्र्या बभूव कमला कला ।।
सावित्रीति च तन्नाम चकाराश्वपतिर्नृपः ।। ६ ।।
कालेन सा वर्द्धमाना बभूव च दिने दिने ।।
रूपयौवनसम्पन्ना शुक्ले चन्द्रकला यथा ।। ७ ।।
सा वरं वरयामास द्युमत्सेनात्मजं तदा।।
सावित्री सत्यवन्तं च नानागुणसमन्वितम् ।। ।।८।।
राजा तस्मै ददौ तां च रत्नभूषणभूषिताम् ।।
स च सार्धं कौतुकेन तां गृहीत्वा गृहं ययौ।।९।।
स च संवत्सरेऽतीते सत्यवान्सत्यविक्रमः ।।
जगाम फलकाष्ठार्थं प्रहर्षं पितुराज्ञया ।।2.24.१०।।
जगाम तत्र सावित्री तत्पश्चाद्दैवयोगतः ।।
निपत्य वृक्षाद्दैवेन प्राणांस्तत्याज सत्यवान् ।। ११ ।।
यमस्तज्जीवपुरुषं बद्ध्वाङ्गुष्ठसमं मुने ।।
गृहीत्वा गमनं चक्रे तत्पश्चात्प्रययौ सती ।। १२ ।।
पश्चात्तां सुन्दरीं दृष्ट्वा यमः संयमिनीपतिः ।।
उवाच मधुरं साध्वीं साधूनां प्रवरो महान् ।। १३ ।।
यम उवाच ।।
अहो क्व यासि सावित्रि गृहीत्वा मानुषीं तनुम् ।।
यदि यास्यसि कान्तेन सार्धं देहं तदा त्यज ।। १४ ।।
गन्तुं मर्त्त्यो न शक्नोति गृहीत्वा पाञ्चभौतिकम्।।
देहं च यमलोकं च नश्वरं नश्वरः सदाः ।। १५ ।।
पूर्णश्च भर्त्तुस्ते कालः ह्यभवद्भारते सति ।।
स कर्मफलभोगार्थं सत्यवान्याति मद्गृहम् ।। १६ ।।
कर्मणा जायते जन्तुः कर्मणैव प्रलीयते ।।
सुखं दुःखं भयं शोकं कर्मणैव प्रपद्यते ।। १७ ।।
कर्मणेन्द्रो भवेज्जीवो ब्रह्मपुत्रः स्वकर्मणा ।।
स्वकर्मणा हरेर्दासो जन्मादिरहितो भवेत् ।। १६ ।।
स्वकर्मणा सर्वसिद्धिममरत्वं लभेद् ध्रुवम् ।।
लभेत्स्वकर्मणा विष्णोः सालोक्यादिचतुष्टयम् ।। १९ ।।
कर्मणा ब्राह्मणत्वं च मुक्तत्वं च स्वकर्मणा ।।
सुरत्वं च मनुत्वं च राजेन्द्रत्वं लभेन्नरः ।। 2.24.२० ।।
कर्मणा च मुनीन्द्रत्वं तपस्वित्वं च कर्मणा ।।
कर्मणा क्षत्रियत्वं च वैश्यत्वं च स्वकर्मणा ।। २१ ।।
कर्मणा चैव शूद्रत्वमन्त्यजत्वं स्वकर्मणा ।। २२ ।।
स्वकर्मणा च म्लेच्छत्वं लभते नात्र संशयः ।।
स्वकर्मणा जङ्गमत्वं स्थावरत्वं स्वकर्मणा ।। २३ ।।
स्वकर्मणा च शैलत्वं वृक्षत्वं च स्वकर्मणा ।।
स्वकर्मणा पशुत्वं च पक्षित्वं च स्वकर्मणा ।। २४ ।।
स्वकर्मणा क्षुद्रजन्तुः कृमित्वं च स्वकर्मणा ।।
स्वकर्मणा च सर्पत्वं गन्धर्वत्वं स्वकर्मणा ।। २५ ।।
स्वकर्मणा राक्षसत्वं किन्नरत्वं स्वकर्मणा ।।
स्वकर्मणा च यक्षत्वं कूष्माण्डत्वं स्वकर्मणा ।। २६ ।।
स्वकर्मणा च प्रेतत्वं वेतालत्वं स्वकर्मणा।।
भूतत्वं च पिशाचत्वं डाकिनीत्वं स्वकर्मणा ।। २७ ।।
दैत्यत्वं दानवत्वं चाप्यसुरत्वं स्वकर्मणा ।।
कर्मणा पुण्यवाञ्जीवो महापापी स्वकर्मणा ।। २८ ।।
कर्मणा सुन्दरोऽरोगी महारोगी च कर्मणा ।।
कर्मणा चान्धः काणश्च कुत्सितश्च स्वकर्मणा ।। २९ ।।
कर्मणा नरकं यान्ति जीवाः स्वर्गं स्वकर्मणा ।।
कर्मणा शक्रलोकं च सूर्य्यलोकं स्वकर्मणा ।। 2.24.३० ।।
कर्मणा चन्द्रलोकं च वह्निलोकं स्वकर्मणा ।।
कर्मणा वायुलोकं च कर्मणा वरुणालयम् ।। ३१ ।।
तथा कुबेरलोकं च नरो याति स्वकर्मणा ।।
कर्मणा ध्रुवलोकं च शिवलोकं स्वकर्मणा ।। ३२ ।।
याति नक्षत्रलोकं च सत्यलोकं स्वकर्मणा ।।
जनोलोकं तपोलोकं महर्लोकं स्वकर्मणा ।। ३३ ।।
स्वकर्मणा च पातालं ब्रह्मलोकं स्वकर्मणा ।।
कर्मणा भारतं पुण्यं सर्वेप्सितवरप्रदम् ।। ३४ ।।
कर्मणा याति वैकुण्ठं गोलोकं च निरामयम् ।।
कर्मणा चिरजीवी च क्षणायुश्च स्वकर्मणा ।। ३५ ।।
कर्मणा कोटिकल्पायुः क्षीणायुश्च स्वकर्मणा ।।
जीवसंचारमात्रायुर्गर्भे मृत्युः स्वकर्मणा ।। ३६ ।।
इत्येवं कथितं सर्वं मया तत्त्वं च सुन्दरि ।।
कर्मणा ते मृतो भर्त्ता गच्छ वत्से यथासुखम् ।। ३७ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे कर्मविपाके कर्मणः सर्वहेतुत्वप्रदर्शनं नाम चतुर्विंशतितमोऽध्यायः ।। २४ ।।
श्रीनारायण उवाच ।।
यमस्य वचनं श्रुत्वा सावित्री च पतिव्रता ।।
तुष्टाव परया भक्त्या तमुवाच मनस्विनी ।। १ ।।
सावित्र्युवाच ।।
किं कर्म वा शुभं धर्म्मराज किं वाऽशुभं नृणाम् ।।
कर्म निर्मूलयन्त्येव केन वा साधवो जनाः ।।२।।
कर्मणां बीजरूपः कः को वा कर्म्मफलप्रदः।।
किं कर्म्म तद्भवेत्केन को वा तद्धेतुरेव च।।३।।
को वा कर्मफलं भुङ्क्ते को वा निर्लिप्त एव च ।।
को वा देही कश्च देहः को वा वै कर्मकारकः।।४।।
किं विज्ञानं मनो बुद्धिः के वा प्राणाः शरीरिणाम् ।।
कानीन्द्रियाणि किं तेषां लक्षणं देवताश्च काः।।५।।
भोक्ता भोजयिता को वा को भोगः का च निष्कृतिः ।।
को जीवः परमात्मा कस्तन्मे व्याख्यातुमर्हसि ।।६।।
यम उवाच ।।
वेदेन विहितं कर्म तन्मये मङ्गलं परम्।।
अवैदिकं तु यत्कर्म तदेवाशुभमेव च।।७।।
अहैतुकी विष्णुसेवा सङ्कल्परहिता सताम्।।
कर्म्मनिर्म्मूलनात्मा वै सा चैव हरिभक्तिदा।।८।।
हरिभक्तो नरो यश्च स च मुक्तः श्रुतौ श्रुतम् ।।
जन्ममृत्युजराव्याधिशोकभीतिविवर्जितः ।।९।।
मुक्तिश्च द्विविधा साध्वि श्रुत्युक्ता सर्वसम्मता ।।
निर्वाणपददात्री च हरिभक्तिप्रदा नृणाम् ।। 2.25.१० ।।
हरिभक्तिस्वरूपां च मुक्तिं वाञ्छन्ति वैष्णवाः ।।
अन्ये निर्वाणरूपां च मुक्तिमिच्छन्ति साधवः ।। ।। ११ ।।
कर्म्मणो बीजरूपश्च सन्ततं तत्फलप्रदः ।।
रूर्मरूपश्च भगवाञ्छ्रीकृष्णः प्रकृतेः परः ।। १२ ।।
सोऽपि तद्धेतुरूपश्च कर्म्म तेन भवेत्सति ।।
जीवः कर्मफलं भुङ्क्ते आत्मा निर्लिप्त एव च ।। १३ ।।
आत्मनः प्रतिबिम्बं च देही जीवः स एव च ।।
पाञ्चभौतिकरूपश्च देहो नश्वर एव च।।१४।।
पृथिवी वायुराकाशो जलं तेजस्तथैव च।।
एतानि सूत्ररूपाणि सृष्टिः सृष्टिविधौ हरेः ।। ।। १५ ।।
कर्त्ता भोक्ता च देही च स्वात्मा भोजयिता सदा ।।
भोगो विभवभेदश्च निष्कृतिर्मुक्तिरेव च ।। १६ ।।
सदसद्भेदबीजं च ज्ञानं नानाविधं भवेत् ।।
विषयाणां विभागानां भेदबीजं च कीर्त्तितम् ।।१७।।
बुद्धिर्विवेचनारूपा ज्ञानसंदीपिनी श्रुतौ ।।
वायुभेदाश्च वै प्राणा बलरूपाश्च देहिनाम् ।। १६ ।।
इन्द्रियाणां वै प्रवरमीश्वराणां समूहकम् ।।
प्रेरकं कर्मणां चैव दुर्निवार्यं च देहिनाम् ।। १९ ।।
अनिरूप्यमदृश्यं च ज्ञानभेदं मनः स्मृतम् ।।
लोचनं श्रवणं प्राणं त्वग्जिह्वादिकमिन्द्रियम् ।। 2.25.२० ।।
अङ्गिनामङ्ग रूपं च प्रेरकं सर्वकर्मणाम् ।।
रिपुरूपं मित्ररूपं सुखदं दुःखदं सदा ।। २१ ।।
सूर्य्यो वायुश्च पृथिवी वाण्याद्या देवताः स्मृताः ।।
प्राणदेहादिभृद्यो हि स जीवः परिकीर्त्तितः।।२२।।
परमात्मा परं ब्रह्म निर्गुणः प्रकृतेः परः ।।
कारणं कारणानां च श्रीकृष्णो भगवान्स्वयम्।।२३।।
इत्येवं कथितं सर्वं मया पृष्टं यथागमम् ।।
ज्ञानिनां ज्ञानरूपं च गच्छ वत्से यथासुखम् ।। २४ ।।
सावित्र्युवाच ।।
त्यक्त्वा क्व यामि कान्तं वा त्वां वा ज्ञानार्णवं बुधम् ।।
प्रश्नं यद्यत्करोमि त्वां तद्भवान्वक्तुमर्हति ।। २५ ।।
कां कां योनिं याति जीवः कर्मणा केन वा यम ।।
केन वा कर्मणा स्वर्गं केन वा नरकं पितः ।। २६ ।।
केन वा कर्मणा मुक्तिः केन भक्तिर्भवेद्धरेः ।।
केन वा कर्मणा रोगी चारोगी केन कर्मणा।।२७।।
केन वा दीर्घजीवी च केनाल्पायुश्च कर्म्मणा ।।
केन वा कर्म्मणा दुःखी केन वा कर्म्मणा सुखी ।। २८ ।।
अङ्गहीनश्च काणश्च बधिरः केन कर्म्मणा ।।
अन्धो वा कृपणो वाऽपि प्रमत्तः केन कर्म्मणा ।। २९ ।।
क्षिप्तोऽतिलुब्धकश्चैव केन वा नरघातकः ।।
केन सिद्धिमवाप्नोति सालोक्यादिचतुष्टयम् ।।2.25.३०।।
केन वा ब्राह्मणत्वं च तपस्वित्वं च केन वा ।।
स्वर्गभोगादिकं केन वैकुण्ठं केन कर्म्मणा।।३१।।
गोलोकं केन वा ब्रह्मन्सर्वोत्कृष्टं निरामयम्।।
नरकं वा कतिविधं किं संख्यं नाम किं तथा ।।३२।।
को वा कं नरकं याति कियन्तं तेषु तिष्ठति ।।
पापिनां कर्म्मणा केन को वा व्याधिः प्रजायते ।।३३।।
यद्यदस्ति मया पृष्टं तन्मे व्याख्यातुमर्हसि ।। ३४ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे कर्म्मविपाके यमोक्त्यनन्तरं सावित्रीप्रश्नो नाम पञ्चविंशोऽध्यायः ।। २५ ।।
नारायण उवाच ।।
सावित्रीवचनं श्रुत्वा जगाम विस्मयं यमः ।
प्रहस्य वक्तुमारेभे कर्मपाकं च जीविनाम् ।। १ ।।
यम उवाच ।।
कन्या द्वादशवर्षीया वत्से त्वं वयसाऽधुना ।।
ज्ञानं ते पूर्वविदुषां योगिनां ज्ञानिनां परम् ।। २ ।।
सावित्रीवरदानेन त्वं सावित्रीकला सति ।।
प्राप्ता पुरा भूभृता च तपसा तत्समा शुभे ।। ३ ।।
यथा श्रीः श्रीपतेः क्रोडे भवानी च भवोरसि ।।
यथा राधा च श्रीकृष्णे सावित्री ब्रह्मवक्षसि ।। ४ ।।
धर्मोरसि यथा मूर्त्तिः शतरूपा मनौ यथा ।।
कर्दमे देवहूतिश्च वसिष्ठेऽरुन्धती यथा ।। ५ ।।
अदितिः कश्यपे चापि यथाऽहल्या च गौतमे ।।
यथा शची महेन्द्रे च यथा चन्द्रे च रोहिणी ।। ६ ।।
यथा रतिः कामदेवे यथा स्वाहा हुताशने ।।
यथा स्वधा च पितृषु यथा संज्ञा दिवाकरे ।। ७ ।।
वरुणानी च वरुणे यज्ञे च दक्षिणा यथा ।।
यथा धरा वराहे च देवसेना च कार्तिके ।। ८ ।।
सौभाग्या सुप्रिया त्वं च भव सत्यवति प्रिये ।।
इति तुभ्यं वरं दत्तमपरं च यदीप्सितम् ।।
वृणु देवि महाभागे सर्वं दास्यामि निश्चितम् ।। ९ ।।
सावित्र्युवाच ।।
सत्यवदौरसेनैव पुत्राणां शतकं मम ।।
भविष्यति महाभाग वरमेतन्मदीप्सितम् ।। 2.26.१० ।।
मत्पितुः पुत्रशतकं श्वशुरस्य च चक्षुषी ।।
राज्यलाभो भवत्वेव वरमेवं मदीप्सितम् ।। ११ ।।
अन्ते सत्यवता सार्द्धं यास्यामि हरिमन्दिरम् ।।
समतीते लक्षवर्षे देहीमं मे जगत्प्रभो ।। १२ ।।
जीवकर्मविपाकं च श्रोतुं कौतूहलं च मे ।।
विश्वविस्तारबीजं च तन्मे व्याख्यातुमर्हसि ।। १३ ।।
यम उवाच ।।
भविष्यति महासाध्वि सर्वं मानसिकं तव ।।
जीवकर्म्मविपाकं च कथयामि निशामय ।। १४ ।।
शुभानामशुभानां च कर्म्मणां जन्म भारते ।।
पुण्यक्षेत्रेऽत्र सर्वत्र नान्यत्र भुञ्जते जनाः ।। १५ ।।
सुरा दैत्या दानवाश्च गन्धर्वा राक्षसादयः ।।
नराश्च कर्म्मजनका न सर्वे समजीविनः ।। १६ ।।
विशिष्टजीविनः कर्म्म भुञ्जते सर्वयोनिषु ।।
विशेषतो मानवाश्च भ्रमन्ति सर्वयोनिषु ।। ।। १७ ।।
शुभाशुभं भुञ्जते च कर्म पूर्वार्जितं परम् ।।
शुभेन कर्मणा यान्ति ते स्वर्गादिकमेव च ।। १८ ।।
कर्म्मणा चाशुभेनैव भ्रमन्ति नरकेषु च ।।
कर्म्मनिर्मूलने मुक्तिः सा चोक्ता द्विविधा मता ।। १९।।
निर्वाणरूपा सेवा च कृष्णस्य परमात्मनः ।।
कुकर्मणा जीवश्चारोगी शुभकर्मणा ।। 2.26.२० ।।
दीर्घजीवी च क्षीणायुः सुखी दुःखी च निश्चितम् ।।
अन्धादयश्चाङ्गहीनाः कुत्सितेन च कर्मणा ।। २१ ।।
सिद्ध्यादिकमवाप्नोति सर्वोत्कृष्टेन कर्म्मणा ।।
सामान्यं कथितं सर्वं विशेषं शृणु सुन्दरि ।। २२ ।।
सुदुर्लभं सुभोग्यं च पुराणेषु श्रुतिष्वपि ।। २३ ।।
दुर्लभा मानवी जातिः सर्वजातिषु भारते ।।
सर्वाभ्यो ब्राह्मणः श्रेष्ठः प्रशस्तः सर्वकर्म्मसु।।२४।।
विष्णुभक्तो द्विजश्चैव गरीयान्भारते ततः ।।
निष्कामश्च सकामश्च वैष्णवो द्विविधः सति ।।२५।।
सकामश्च प्रधानश्च निष्कामो भक्त एव च ।।
कर्मभोगी सकामश्च निष्कामो निरुपद्रवः ।। २६ ।।
स याति देहं त्यक्ता च पदं विष्णोर्निरामयम् ।।
पुनरागमनं नास्ति तेषां निष्कामिणां सति ।। २७ ।।
ये सेवन्ते च द्विभुजं कृष्णमात्मानमीश्वरम् ।।
गोलोकं यान्ति ते भक्ता दिव्यरूपविधारिणः ।। २८ ।।
ये च नारायणं भक्ताः सेवन्ते च चतुर्भुजम् ।।
वैकुण्ठं यान्ति ते सर्वे दिव्यरूपविधारिणः ।।२९ ।।
सकामिनो वैष्णवाश्च गत्वा वैकुण्ठमेव च ।।
भारतं पुनरायान्ति तेषां जन्म द्विजातिषु ।। 2.26.३० ।।
कालेन ते च निष्कामा भविष्यन्ति क्रमेण च ।।
भक्तिं च निर्मलां बुद्धिं तेभ्यो दास्यति निश्चितम् ।। ३१ ।।
ब्राह्मणाद्वैष्णवादन्ये सकामाः सर्वजन्मसु ।।
न तेषां निर्मला बुद्धिर्विष्णुभक्तिविवर्जिताः ।। ३२ ।।
तीर्थाश्रिता द्विजा ये च तपस्यानिरताः सति ।।
ते यान्ति ब्रह्मलोकं च पुनरायान्ति भारतम् ।।३३।।
स्वधर्मनिरता विप्राः सूर्य्यभक्ताश्च भारते ।।
व्रजन्ति सूर्यलोकं ते पुनरायान्ति भारतम् ।। ३४ ।।
स्वधर्मनिरता विप्राः शैवाः शाक्ताश्च गाणपाः ।।
ते यान्ति शिवलोकं च पुनरायान्ति भारतम् ।। ३५ ।।
ये विप्रा अन्यदेवेष्टाः स्वधर्मनिरताः सति ।।
ते गत्वा शक्रलोकं च पुनरायान्ति भारतम् ।। ३६ ।।
हरिभक्ताश्च निष्कामाः स्वधर्म्मरहिता द्विजाः ।।
तेऽपि यान्ति हरेर्लोकं क्रमाद्भक्तिबलादहो ।।३७ ।।
स्वधर्म्मरहिता विप्रा देवान्यसेविनः सदा ।।
भ्रष्टाचाराश्च बालाश्च ते यांति नरकं ध्रुवम् ।। ३८ ।।
स्वधर्म्मनिरताश्चैवं वर्णाश्चत्वार एव च ।।
भवन्त्येव शुभस्यैव कर्मणः फलभागिनः ।। ३९ ।।
स्वधर्म्मरहितास्ते च नरकं यान्ति हि ध्रुवम्।।
भारते च भवन्त्येव कर्म्मणः फलभागिनः।।2.26.४०।।
स्वधर्मनिरता विप्राः स्वधर्मनिरताय च।।
कन्यां ददति विप्राय चन्द्रलोकं व्रजन्ति ते ।।४१।।
वसंति तत्र ते साध्वि यावदिन्द्राश्चतुर्दश।।
सालङ्कृताया दानेन द्विगुणं फलमुच्यते ।।४२।।
सकामा यांति तल्लोकं न निष्कामाश्च वैष्णवाः ।।
ते प्रयांति विष्णुलोकं फलसन्धानवर्जिताः ।। ४३ ।।
गव्यं च रजतं भार्यां वस्त्रं सस्यं फलं जलम् ।।
ये ददत्येव विप्रेभ्यस्तल्लोकं हि व्रजन्ति च ।।४४।।
वसंति ते च तल्लोकं यावन्मन्वन्तरं सति ।।
कालं च सुचिरं वासं कुर्वंति तत्र ते जनाः ।। ४५ ।।
ये ददति सुवर्णं च गां च ताम्रादिकं सति ।।
ते यांति सूर्यलोकं च शुचये ब्राह्मणाय च ।। ४६ ।।
वसन्ति तत्र ते लोके वर्षाणामयुतं सति ।।
विपुले च चिरं वासं कुर्वंति च निरामयाः ।।४७ ।।
ददाति भूमिं विप्रेभ्यो धान्यानि विपुलानि च ।।
स याति विष्णुलोकं च श्वेतद्वीपं मनोहरम्।।४८।।
तत्रैव निवसत्येव यावच्चन्द्रदिवाकरौ ।।
विपुलं विपुले वासं करोति पुण्यवान्सति ।। ४९ ।।
गृहं ददंति विप्राय ये जना भक्तिपूर्वकम् ।।
ते यांति सुरलोकं च चिरं तत्र भवंति ते ।।2.26.५०।।
गृहरेणुप्रमाणाब्दं दानं पुण्यदिने यदि ।।
विपुलं विपुले वासं कुर्वंति मानवाः सति।।५१।।
यस्मै यस्मै च देवाय यो ददाति गृहं नरः।।
स याति तस्य लोकं च रेणुमानाब्दमेव च ।। ५२ ।।
सौधे चतुर्गुणं पुण्यं पूर्त्ते शतगुणं फलम् ।।
प्रकृष्टेऽष्टगुणं तस्मादित्याह कमलोद्भवः ।। ५३ ।।
यो ददाति तडागं च सर्वभूताय भारते ।।
स याति जनलोकं च वर्षाणामयुतं सति।। ५४ ।।
वाप्यां फलं शतगुणं प्राप्नोति मानवस्ततः ।।
तथा सेतुप्रदानेन तडागस्य फलं लभेत् ।। ५५ ।।
धनुश्चतुःसहस्रेण दैर्घ्यमानेन निश्चितम् ।।
न्यूना वा तावती प्रस्थे सा वापी परिकीर्त्तिता ।। ५६ ।।
दशवापीसमा कन्या यदि पात्रे प्रदीयते ।।
फलं ददाति द्विगुणं यदि सालंकृता भवेत्।। ५७ ।।
तत्फलं च तडागे च पङ्कोद्धारेण तत्फलम् ।।
वाप्याश्च पंकोद्धारेण वापीतुल्यफलं लभेत् ।। ५८ ।।
अश्वत्थवृक्षमारोप्य प्रतिष्ठां च करोति यः ।।
स याति तपसो लोकं वर्षाणामयुतं परम् ।। ५९ ।।
पुष्पोद्यानं यो ददाति सावित्रि सर्वभूतये ।।
स वसेद्ध्रुवलोके च वर्षाणामयुतं ध्रुवम्।।2.26.६०।।
यो ददाति विमानं च विष्णवे भारते सति ।।
विष्णुलोके वसेत्सोऽपि यावन्मन्वन्तरं परम्।।६१।।
चित्रयुक्ते च विपुले फलं तस्य चतुर्गुणम्।।
रथार्धं शिबिकादाने फलमेव लभेद्ध्रुवम् ।। ६२ ।।
यो ददाति भक्तियुक्तो हरये दोलमन्दिरम् ।।
विष्णुलोके वसेत्सोऽपि यावन्मन्वतरं परम् ।। ६३ ।।
राजमार्गं सौधयुक्तं यः करोति पतिव्रते ।।
वर्षाणामयुतं सोऽपि शक्रलोके महीयते।। ६४ ।।
ब्राह्मणेभ्योऽपि देवेभ्यो दाने समफलं लभेत् ।।
यच्च दत्तं हि तद्भोक्तुर्न दत्तं नोपतिष्ठते ।। ६५ ।।
भुक्त्वा स्वर्गादिकं सौख्यं पुनरायान्ति भारते ।।
लभेद्विप्रकुलेष्वेव क्रमेणैवोत्तमादिषु ।। ६६ ।।
भारते पुण्यवान्विप्रो भुक्त्वा स्वर्गादिकं परम् ।।
पुनः सोऽपि भवेद्विप्रो न पुनः क्षत्रियादयः।।६७।।
क्षत्रियो वाऽपि वैश्यो वा कल्पकोटिशतेन च ।।
तपसा ब्राह्मणत्वं च न प्राप्नोति श्रुतौ श्रुतम् ।।६८।।
स्वधर्मरहिता विप्रा नानायोनिं व्रजन्ति च ।।
भुक्त्वा च कर्मभागं च विप्रयोनिं लभेत्पुनः।।६९।।
नाभुक्तं क्षीयते कर्म्म कल्पकोटिशतैरपि ।।
अवश्यवमेव भोक्तव्यं कल्पकोटिशतैरपि ।। 2.26.७० ।।
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्।।
देवतीर्थे सहायेन कायव्यूहेन शुध्यति।।७१।।
एतत्ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि।।७२।।
इति श्रीब्रह्मवैवर्त्ते महापुराण द्वितीये प्रकृतिखण्डे सावित्र्युपाख्याने कर्मविपाके कर्मानुरूपस्थानगमनं नाम षड्विंशोऽध्यायः।।२६।।
सावित्र्युवाच ।।
प्रयांति स्वर्गमन्यं च येन येनैव कर्म्मणा।।
मानवाः पुण्यवन्तश्च तन्मे व्याख्यातुमर्हसि ।। १ ।।
यम उवाच ।।
अन्नदानं च विप्राय यः करोति च भारते ।।
अन्नप्रमाणवर्ष च शक्रलोके महीयते ।।२।।
अन्नदानात्परं दानं न भूतं न भविष्यति ।।
नात्र पात्रपरीक्षा स्यान्न कालनियमः क्वचित् ।। ३ ।।
देवेभ्यो ब्राह्मणेभ्यो वा ददाति चासनं यदि ।।
महीयते वह्निलोके वर्षाणामयुतं ध्रुवम् ।। ४ ।।
यो ददाति च विप्राय दिव्यां धेनुं पयस्विनीम् ।।
तल्लोममानवर्णं च वैकुण्ठे च महीयते ।।५।।
चतुर्गुणं पुण्यदिने तीर्थे शतगुणं फलम् ।।
दानं नारायणक्षेत्रे फलं कोटिगुणं भवेत् ।। ६ ।।
गां यो ददाति विप्राय भारते भक्तिपूर्वकम् ।।
वर्षाणामयुतं चैव चन्द्रलोके महीयते ।।७।।
यश्चोभयमुखीदानं करोति ब्राह्मणाय च ।।
तल्लोममानवर्षं च वैकुण्ठे च महीयते।।८।।
यो ददाति ब्राह्मणाय शालिग्रामं सवस्त्रकम् ।।
महीयते स वैकुण्ठे यावच्चन्द्रदिवाकरौ ।।९।।
यो ददाति ब्राह्मणाय छत्रं च सुमनोहरम् ।।
वर्षाणामयुतं सोऽपि मोदते वरुणालये ।। 2.27.१० ।।
विप्राय पादुकायुग्मं यो ददाति च भारते ।।
महीयते वायुलोके वर्षाणामयुतं सति।।११।।
यो ददाति ब्राह्मणाय शय्यां दिव्यां मनोहराम्।।
महीयते चन्द्रलोके यावच्चन्द्रदिवाकरौ ।। १२ ।।
यो ददाति प्रदीपं च देवाय ब्राह्मणाय च ।।
यावन्मन्वन्तरं सोऽपि ब्रह्मलोके महीयते ।। १३ ।।
सम्प्राप्य मानवीं योनिं चक्षुष्मांश्च भवेद्ध्रुवम् ।।
न याति यमलोकं च तेन पुण्येन सुन्दरि ।। १४ ।।
करोति गजदानं च यो हि विप्राय भारते।।
यावदिन्द्रादिदेवस्य लोके चार्धासने वसेत् ।। १५ ।।
भारते योऽश्वदानं च करोति ब्राह्मणाय च ।।
मोदते वारुणे लोके यावदिन्द्राश्चतुर्दश ।। १६ ।।
प्रकृष्टां शिबिकां यो हि ददाति ब्राह्मणाय च ।।
महीयते विष्णुलोके यावन्मन्वन्तरं सति ।। १७ ।।
यो ददाति च विप्राय व्यजनं श्वेतचामरम् ।।
महीयते वायुलोके वर्षाणामयुतं ध्रुवम् ।। १८ ।।
धान्याचलं यो ददाति ब्राह्मणाय च भारते ।।
स च धान्यप्रमाणाब्दं विष्णुलोके महीयते ।। १९ ।।
ततः स्वयोनिं संप्राप्य चिरजीवी भवेत्सुखी ।।
दाता ग्रहीता तौ द्वौ च ध्रुवं वैकुण्ठगामिनौ ।। 2.27.२० ।।
सततं श्रीहरेर्नाम भारते यो जपेन्नरः ।।
स एव चिरजीवी च ततो मृत्युः पलायते ।।२१ ।।
यो नरो भारते वर्षे दोलनं कारयेद्धरेः ।।
पूर्णिमारजनीशेषे जीवन्मुक्तो भवेन्नरः ।। २२ ।।
इह लोके सुखं भुक्त्वा यात्यन्ते विष्णुमन्दिरम्।।
निश्चितं निवसेत्तत्र शतमन्वन्तरावधि ।। २३ ।।
फलमुत्तरफाल्गुन्यां ततोऽपि द्विगुणं भवेत् ।।
कल्पान्तजीवी स भवेदित्याह कमलोद्भवः ।। २४ ।।
तिलदानं ब्राह्मणाय यः करोति च भारते ।।
तिलप्रमाणवर्षं च मोदते विष्णुमन्दिरे ।। २५ ।।
ततः स्वयोनिं संप्राप्य चिरजीवी भवेत्सुखी।।
ताम्रपात्रस्थदानेन द्विगुणं च फलं लभेत्।।२६।।
सालंकृतां च भोग्यां च सवस्त्रां सुन्दरीं प्रियाम्।।
यो ददाति ब्राह्मणा य भारते च पतिव्रताम् ।। २७ ।।
महीयते चन्द्रलोके यावदिन्द्राश्चतुर्दश ।।
तत्र स्वर्वेश्यया सार्द्धं मोदते च दिवानिशम् ।। २८ ।।
ततो गन्धर्वलोके च वर्षाणामयुतं सति ।।
दिवानिशं कौतुकेन चोर्वश्या सह मोदते ।। २९ ।।
ततो जन्मसहस्रं च प्राप्नोति सुन्दरीं प्रियाम् ।।
सतीं सौभाग्ययुक्तां च कोमलां प्रियवादिनीम् ।। 2.27.३० ।।
ददाति सफलं वृक्षं ब्राह्मणाय च यो नरः ।।
फलप्रमाणवर्षं च शक्रलोके महीयते ।। ३१ ।।
पुनः स्वयोनिं संप्राप्य लभते सुतमुत्तमम् ।।
सफलानां च वृक्षाणां सहस्रं च प्रशंसितम् ।। ३२ ।।
केवलं फलदानं च ब्राह्मणाय ददाति यः ।।
सुचिरं स्वर्गवासं च कृत्वा याति च भारतम्।। ३३ ।।
नानाद्रव्यसमायुक्तं नानासस्यसमन्वितम् ।।
ददाति यश्च विप्राय भारते विपुलं गृहम् ।। ३४ ।।
कुबेरलोके वसति स च मन्वन्तरावधि ।।
ततः स्वयोनिं संप्राप्य महांश्च धनवान्भवेत् ।। ३५ ।।
यो जनः सस्यसंयुक्तां भूमिं च रुचिरां सति ।।
ददाति भक्त्या विप्राय पुण्यक्षेत्रे च वा सति।। ।। ३६ ।।
महीयते स वैकुण्ठे मन्वन्तरशतं ध्रुवम् ।।
पुनः स्वयोनिं संप्राप्य महांश्च भूमिवान्भवेत् ।। ३७ ।।
तं न त्यजति भूमिश्च जन्मनां शतकं परम् ।।
श्रीमांश्च धनवांश्चैव पुत्रवांश्च प्रजेश्वरः ।। ३८ ।।
सप्रजं च प्रकृष्टं च ग्रामं दद्याद्द्विजातये ।।
लक्षमन्वन्तरं चैव वैकुण्ठे स महीयते ।।३९।।
पुनः स्वयोनिं संप्राप्य ग्रामलक्षं लभेद्ध्रुवम् ।।
न जहाति च तं पृथ्वी जन्मनां लक्षमेव च ।।2.27.४०।।
सप्रजं सुप्रकृष्टं च पञ्चसस्यसमन्वितम् ।।
नानापुष्करिणीवृक्षफलभोगसमन्वितम् ।।४१।।
नगरं यश्च विप्राय ददाति भारते भुवि ।।
महीयते स वैकुण्ठे दशलक्षेन्द्रकालकम्।।४२।।
पुनः स्वयोनिं संप्राप्य राजेन्द्रो भारते भवेत्।।
नगराणां च नियुतं लभते नात्र संशयः।। ।। ४३ ।।
धरा तं न जहात्येव जन्मनां नियुतं ध्रुवम् ।।
परमैश्वर्य संयुक्तो भवेदेव महीतले ।।४४।।
नगराणां च शतकं देशं यो हि द्विजातये ।।
सुप्रकृष्टप्रजायुक्तं ददाति भक्तिपूर्वकम् ।। ४९ ।।
वापीतडागसंयुक्तं नानावृक्षसमन्वितम् ।।
महीयते स वैकुण्ठे कोटिमन्वन्तरावधि ।। ४६ ।।
पुनः स्वयोनिं संप्राप्य जम्बूद्वीपपतिर्भवेत् ।।
परमैश्वर्य्यसंयुक्तो यथा शक्रस्तथा भुवि ।। ४७ ।।
मही तं न जहात्येव जन्मनां कोटिमेव च ।।
कल्पान्तजीवी स भवेद्राजराजेश्वरो महान् ।।४८।।
स्वाधिकारं समग्रं च यो ददाति द्विजातये।।
चतुर्गुण फलं चातो भवेत्तस्य न संशयः ।।४९।।
जम्बूद्वीपं यो ददाति ब्राह्मणाय पतिव्रते ।।
फलं शतगुणं चातो भवेत्तस्य न संशयः ।।2.27.५०।।
सप्तद्वीपमहीदातुः सर्वतीर्थानुसेविनः।।
सर्वेषां तपसां कर्त्तुः सर्वोपवासकारिणः।।५१।।
सर्वदानप्रदातुश्च सर्वसिद्धेश्वरस्य च ।।
अस्त्येव पुनरावृत्तिर्न भक्तस्य हरेरहो।।५२।।
असंख्यब्रह्मणा पातं पश्यन्ति वैष्णवाः सति ।।
निवसन्ति हि गोलोके वैकुण्ठे वा हरेः पदे।।५३।।
विष्णुमन्त्रोपासकश्च विहाय मानवीं तनुम्।।
बिभर्त्ति दिव्यरूपं च जन्ममृत्युजरापहम्।।५४।।
लब्ध्वा विष्णोश्च सारूप्यं विष्णुसेवां करोति च।।
स च पश्यति गोलोके ह्यसंख्यं प्राकृतं लयम्।।५५।।
नश्यन्ति देवाः सिद्धाश्च विश्वानि निखिलानि च।।
कृष्णभक्ता न नश्यन्ति जन्ममृत्युजराहराः।।५६।।
कार्त्तिके तुलसीदानं करोति हरये च यः ।।
युगं पत्रप्रमाणं च मोदते हरिमन्दिरे ।। ५७ ।।
पुनः स्वयोनिं संप्राप्य हरिभक्तिं लभेद्ध्रुवम् ।।
सुखी च चिरजीवी च स भवेद्भारते भुवि।।५८।।
घृतप्रदीपं हरये कार्त्तिके यो ददाति च ।।
पलप्रमाणं वर्षं च मोदते हरिमन्दिरे ।। ५९ ।।
पुनः स्वयोनिं संप्राप्य विष्णुभक्तिं लभेद्ध्रुवम् ।।
महाधनाढ्यः स भवेच्चक्षुष्मांश्चैव दीप्तिमान् ।। 2.27.६० ।।
माघे यः स्नाति गङ्गायामरुणोदयकालतः ।।
युगषष्टिसहस्राणि मोदते हरिमन्दिरे ।। ६१ ।।
पुनः स्वयोनिं संप्राप्य विष्णुभक्तिं लभेद्ध्रुवम् ।।
जितेन्द्रियाणां प्रवरः स भवेद्भारते भुवि ।। ६२ ।।
माघे यः स्नाति गंगायां प्रयागे चारुणोदये ।।
वैकुण्ठे मोदते सोऽपि लक्षमन्वन्तरावधि ।। ६३ ।।
पुनः स्वयोनिं संप्राप्य विष्णुमन्त्रं लभेद्ध्रुवम् ।।
त्यक्त्वा च मानुषं देहं पुनर्याति हरेः पदम् ।। ६४ ।।
नास्ति तत्पुनरावृत्तिर्वैकुण्ठाच्च महीतले ।।
करोति हरिदास्यं च लब्ध्वा सारूप्यमेव च ।। ६५ ।।
नित्यस्नायी च गङ्गायां स पूतः सूर्य्यवद्भुवि ।।
पदे पदेऽश्वमेधस्य लभते निश्चितं फलम् ।। ६६ ।।
तस्यैव पादरजसा सद्यः पूता वसुन्धरा ।।
मोदते स च वैकुण्ठे यावच्चन्द्रदिवाकरौ ।। ६७ ।।
पुनः स्वयोनिं संप्राप्य तपस्विप्रवरो भवेत् ।।
स्वधर्मनिरतः शुद्धो विद्वांश्च सुजितेन्द्रियः ।। ६८ ।।
मीनकर्कटयोर्मध्ये गाढं तपति भास्करे ।।
भारते यो ददात्येव जलमेव सुवासितम् ।। ६९ ।।
मोदते स च वैकुण्ठे यावदिन्द्राश्चतुर्दश ।।
पुनः स्वयोनिं संप्राप्य सुखी निष्कपटो भवेत् ।। 2.27.७० ।।
वैशाखे हरये भक्त्या यो ददाति च चन्दनम् ।।
युगषष्टिसहस्राणि मोदते विष्णुमन्दिरे ।।
पुनः स्वयोनिं संप्राप्य रूपवांश्च सुखी भवेत् ।।७१।।
वैशाखे सक्तुदानं च यः करोति द्विजातये ।।
सक्तुरेणुप्रमाणाब्दं मोदते विष्णुमन्दिरे ।। ७२।।
करोति भारते यो हि कृष्णजन्माष्टमीव्रतम् ।।
शतजन्मकृतात्पापान्मुच्यते नात्र संशयः ।।७३ ।।
वैकुण्ठे मोदते सोऽपि यावदिन्द्राश्चतुर्दश ।।
पुनः स्वयोनिं संप्राप्य कृष्णभक्तिं लभेद्ध्रुवम् ।। ७४ ।।
इहैव भारते वर्षे शिवरात्रिं करोति यः ।।
मोदते शिवलोके च सप्तमन्वन्तरावधि ।। ७९ ।।
शिवाय शिवरात्रौ च बिल्वपत्रं ददाति यः ।।
पत्रप्रमाणं च युगं मोदते शिवमन्दिरे ।। ७६।।
पुनः स्वयोनिं संप्राप्य शिवभक्तिं लभेद्ध्रुवम् ।।
विद्यावान्पुत्रवाञ्छ्रीमान्प्रजावान्भूमिवान्भवेत् ।। ७७ ।।
चैत्रमासेऽथवा माघे शङ्करं योऽर्चयेद्व्रती ।।
करोति नर्त्तनं भक्त्या वेत्रपाणिर्दिवानिशम् ।। ७८ ।।
मासं वाप्यर्द्धमासं वा दश सप्तदिनानि वा ।।
दिनमानं युगं सोऽपि शिवलोके महीयते ।। ७९ ।।
श्रीरामनवमीं यो हि करोति भारते नरः।।
सप्तमन्वन्तरं यावन्मोदते विष्णुमन्दिरे ।। 2.27.८० ।।
पुनः स्वयोनिं संप्राप्य रामभक्तिं लभेद्ध्रुवम् ।।
जितेन्द्रियाणां प्रवरो महांश्च धार्मिको भवेत् ।। ८१ ।।
शारदीयां महापूजां प्रकृतेर्यः करोति च ।।
महिषैश्छागलैर्मेषैरिक्षुकूष्माण्डकैस्तथा ।। ८२ ।।
नैवेद्यैरुपहारैश्च धूपदीपादिभिस्तथा ।।
नृत्यगीतादिभिर्वाद्यैर्नानाकौतुकमङ्गलैः ।। ।। ८३ ।।
शिवलोके वसेत्सोऽपि सप्तमन्वन्तरावधि ।।
पुनः स्वयोनिं संप्राप्य बुद्धिं च निर्मलां लभेत् ।। ८४ ।।
अचलां श्रियमाप्नोति पुत्रपौत्रादिवर्द्धिनीम् ।।
महाप्रभावयुक्तश्च गजवाजिसमन्वितः ।। ८५ ।।
राजराजेश्वरः सोऽपि भवेदेव न संशयः ।।
भाद्रशुक्लाष्टमीं प्राप्य महालक्ष्मीं च योऽर्चयेत् ।।८६ ।।
नित्यं भक्त्या पक्षमेकं पुण्यक्षेत्रे च भारते ।।
दत्त्वा तस्यै प्रकृष्टानि चोपचाराणि षोडश ।। ८७ ।।
वैकुण्ठे मोदते सोऽपि यावच्चन्द्रदिवाकरौ।।
पुनः स्वयोनिं संप्राप्य राजराजेश्वरो भवेत् ।। ८८ ।।
कार्तिकीपूर्णिमायां च कृत्वा तु रासमण्डलम् ।।
गोपानां शतकं कृत्वा गोपीनां शतकं तथा ।। ८९ ।।
शिलायां प्रतिमायां वा श्रीकृष्णं राधया सह ।।
भारते पूजयेद्दत्त्वा चोपचाराणि षोडश ।। 2.27.९० ।।
गोलोके च वसेत्सोऽपि यावद्वै ब्रह्मणो वयः ।।
भारतं पुनरागत्य हरिभक्तिं लभेद्ध्रुवम् ।। ९१ ।।
क्रमेण सुदृढां भक्तिं लब्ध्वा मन्त्रं हरेरपि ।।
देहं त्यक्त्वा च गोलोकं पुनरेव प्रयाति सः ।। ९२ ।।
तत्र कृष्णस्य सारूप्यं संप्राप्य पार्षदो भवेत् ।।
पुनस्तत्पतनं नास्ति जरामृत्युहरो महान् ।। ९३ ।।
शुक्लां वाऽप्यथवा कृष्णां करोत्येकादशीं च यः ।।
वैकुण्ठे मोदते सोऽपि यावद्वै ब्रह्मणो वयः ।। ९४ ।।
भारतं पुनरागत्य हरिभक्तिं लभेद्ध्रुवम् ।।
पुनर्याति च वैकुण्ठं न तस्य पतनं भवेत् ।। ९५ ।।
भाद्रे शुक्ले च द्वादश्यां यः शक्रं पूजयेन्नरः ।।
षष्टिवर्षसहस्राणि शक्रलोके महीयते ।। ९६ ।।
रविवारेऽर्कसंक्रान्त्यां सप्तम्यां शुक्लपक्षतः ।।
सम्पूज्यार्कं हविष्यान्नं यः करोति च भारते ।। ९७ ।।
महीयते सोऽर्कलोके यावच्चन्द्रदिवाकरौ ।।
भारतं पुनरागत्य चारोगी श्रीयुतो भवेत् ।। ९८ ।।
ज्येष्ठशुक्लचतुर्दश्यां सावित्रीं यो हि पूजयेत् ।।
महीयते ब्रह्मलोके सप्तमन्वन्तरावधि ।। ९९ ।।
पुनर्महीं समागत्य श्रीमानतुलविक्रमः ।।
चिरजीवी भवेत्सोऽपि ज्ञानवान्सम्पदा युतः ।। 2.27.१०० ।।
माघस्य शुक्लपञ्चम्यां पूजयेद्यः सरस्वतीम् ।।
संयतो भक्तितो दत्त्वा चोपचाराणि षोडश।।१०१।।
महीयते स वैकुण्ठे यावद्ब्रह्मदिवानिशम् ।।
संप्राप्य च पुनर्जन्म स भवेत्कविपण्डितः ।। १०२ ।।
गां सुवर्णादिकं यो हि ब्राह्मणाय ददाति च ।।
नित्यं जीवनपर्यन्तं भक्तियुक्तश्च भारते ।। १०३ ।।
गवां लोमप्रमाणाब्दं द्विगुणं विष्णुमन्दिरे ।।
मोदते हरिणा सार्द्धं क्रीडाकौतुकमङ्गलैः ।। १०४ ।।
ततः पुनरिहागत्य विष्णुभक्तिं लभेद्ध्रुवम् ।।
ततः पुनरिहागत्य राजराजेश्वरो भवेत् ।।
गोमांश्च पुत्रवान्विद्वाञ्ज्ञानवान्सर्वतः सुखी ।। १०५ ।।
भोजयेद्यो हि मिष्टान्नं ब्राह्मणेभ्यश्च भारते ।।
विप्रलोमप्रमाणाब्दं मोदते विष्णुमन्दिरे ।। १०६ ।।
ततः पुनरिहागत्य स सुखी धनवान्भवेत् ।।
विद्वान्सुचिरजीवी च श्रीमानतुलविक्रमः ।। १०७ ।।
यो वक्ति वा ददात्येव हरेर्नामानि भारते ।।
युगनामप्रमाणं च विष्णुलोके महीयते ।। १०८ ।।
ततः पुनरिहागत्य विष्णुभक्तिं लभेद्ध्रुवम् ।।
यदि नारायणक्षेत्रे फलं कोटिगुणं लभेत् ।। १०९ ।।
नाम्नां कोटिं हरेर्यो हि क्षेत्रे नारायणे जपेत् ।।
सर्वपापविनिर्मुक्तो जीवन्मुक्तो भवेद्ध्रुवम् ।। 2.27.११० ।।
लभते न पुनर्जन्म वैकुण्ठे स महीयते ।।
लभेद्विष्णोश्च सारूप्यं न तस्य पतनं भवेत् ।। १११ ।।
यः शिवं पूजयेन्नित्यं कृत्वा लिङ्गं च पार्थिवम् ।।
यावज्जीवनपर्य्यन्तं स याति शिवमन्दिरम् ।। ११२ ।।
मृदां रेणुप्रमाणाब्दं शिवलोके महीयते ।।
ततः पुनरिहागत्य राजेन्द्रो भारते भवेत् ।। ।। ११३ ।।
शिलां च योऽर्चयेन्नित्यं शिलातोयं च भक्षति ।।
महीयते स वैकुण्ठे यावद्वै ब्रह्मणः शतम् ।। ११४ ।।
ततो लब्ध्वा पुनर्जन्म हरिभक्तिं सुदुर्लभाम् ।।
महीयते विष्णुलोके न तस्य पतनं भवेत् ।। ११५ ।।
तपांसि चैव सर्वाणि व्रतानि निखिलानि च।।
कृत्वा तिष्ठति वैकुण्डे यावदिन्द्राश्चतुर्दश ।।११६।।
ततो लब्ध्वा पुनर्जन्म राजेन्द्रो भारते भवेत् ।।
ततो मुक्तो भवेत्पश्चात्पुनर्जन्म न विद्यते ।। ११७ ।।
यः स्नाति सर्वर्तीर्थेषु भुवि कृत्वा प्रदक्षिणम् ।।
स च निर्वाणतां याति न तज्जन्म भवेद्भुवि ।।११८।।
पुण्यक्षेत्रे भारते च योऽश्वमेधं करोति च ।।
अश्वलोमप्रमाणाब्दं शक्रस्यार्द्धासने वसेत् ।। ११९ ।।
चतुर्गुणं राजसूये फलमाप्नोति मानवः ।।
नरमेधेऽश्वमेधार्द्धं गोमेधे च तदेव च।।2.27.१२०।।
पुत्रेष्टौ च तदर्धं च सुपुत्रं च लभेद्ध्रुवम्।।
लभते लाङ्गलेष्टौ च गोमेधसदृशं फलम्।।१२१।।
तत्समानं च विप्रेष्टौ वृद्धियागे च तत्फलम् ।।
पद्मयज्ञे तदर्द्धं च फलमाप्नोति मानवः ।।१२२।।
विशोके च विशोकं च पद्मार्द्धं स्वर्गमश्नुते ।।
विजये विजयी राजा स्वर्गे पद्मसमं भवेत्।।१२३।।
प्राजापत्ये प्रजालाभो भूवृद्धिर्भूभृतां भवेत् ।।
इह राजश्रियं लब्ध्वा पद्मार्द्धं स्वर्गमश्नुते ।।
ऋद्धियागे महैश्वर्यं स्वर्गं पद्मसमं भवेत् ।।१२४।।
विष्णुयज्ञः प्रधानं च सर्वयज्ञेषु सुन्दरि ।।
ब्रह्मणा च कृतः पूर्वं महासम्भारसंयुतः ।। १२५ ।।
बभूव कलहो यत्र दक्षशङ्करयोः सति ।।
शेपुश्च नन्दिनं विप्रा नन्दी विप्रांश्च कोपतः ।। १२६ ।। ।
यतो हेतोर्दक्षयज्ञं बभञ्ज चन्द्रशेखरः ।।
चकार विष्णुयज्ञं च पुरा दक्षप्रजापतिः ।।१२७।।
धर्मश्च कश्यपश्चैव शेषश्चापि च कर्दमः ।।।
स्वायम्भुवो मनुश्चैव तत्पुत्रश्च प्रियव्रतः ।। १२८ ।।
शिवः सनत्कुमारश्च कपिलश्च ध्रुवस्तथा ।।
राजसूयसहस्राणां समृद्ध्या च क्रतुर्भवेत् ।। १२९ ।।
राजसूयसहस्राणां फलमाप्नोति निश्चितम् ।।
विष्णुयज्ञात्परो यज्ञो नास्ति वेदे फलप्रदः ।। 2.27.१३० ।।
बहुकल्पान्तजीवी च जीवन्मुक्तो भवेद्ध्रुवम् ।।
ज्ञानेन तेजसा चैव विष्णुतुल्यो भवेदिह ।।१३१।।
देवानां च यथा विष्णुर्वैष्णवानां यथा शिवः ।।
शास्त्राणां च यथा वेदा आश्रमाणां च ब्राह्मणाः ।।१३२।।
तीर्थानां च यथा गङ्गा पवित्राणां च वैष्णवाः ।।
एकादशी व्रतानां च पुष्पाणां तुलसी यथा ।। १३३।।
नक्षत्राणां यथा चन्द्रः पक्षिणां गरुडो यथा ।।
यथा स्त्रीणां च प्रकृतिराधाराणां वसुन्धरा।। ।। १३४ ।।
शीघ्रगानां चेन्द्रियाणां चञ्चलानां यथा मनः ।।
प्रजापतीनां ब्रह्मा च प्रजेशानां प्रजापतिः ।। १३९ ।।
वृन्दावनं वनानां च वर्षाणां भारतं यथा ।।
श्रीमतां च यथा श्रीश्च विदुषां च सरस्वती ।। १३६ ।।
पतिव्रतानां दुर्गा च सौभाग्यानां च राधिका ।।
विष्णुयज्ञस्तथा वत्से यज्ञेषु च महानिति ।।१३७।।
अश्वमेधशतेनैव शक्रत्वं लभते ध्रुवम् ।।
सहस्रेण विष्णुपदं संप्राप पृथुरेव च ।। ।। १३८ ।।
स्नानं च सर्वतीर्थेषु सर्वयज्ञेषु दक्षिणम् ।।
सर्वेषां च व्रतानां च तपसां फलमेव च ।। १३९ ।।
पाठश्चतुर्णां वेदानां प्रादक्षिण्यं भुवस्तथा ।।
फलं बीजमिदं सर्वं मुक्तिदं कृष्णसेवनम् ।। 2.27.१४० ।।
पुराणेषु च वेदेषु चेतिहासेषु सर्वतः ।।
निरूपितं सारभूतं कृष्णपादाम्बुजार्चनम् ।। १४१ ।।
तद्वर्णनं च तद्ध्यानं तन्नामगुणकीर्त्तनम् ।।
तत्स्तोत्रं स्मरणं चैव वन्दनं जप एव च ।। १४२ ।।
तत्पादोदकनैवेद्यभक्षणं नित्यमेव च ।।
सर्वसम्मतमित्येवं सर्वेप्सितमिदं सति ।। १४३ ।।
भज कृष्णं परं ब्रह्म निर्गुणं प्रकृतेः परम् ।।
गृहाण स्वामिनं वत्से सुखं गच्छ स्वमन्दिरम् ।। १४४ ।।
एतत्ते कथितं सर्वं विपाकं कर्मणां नृणाम् ।।
सर्वेप्सितं सर्वमतं परं तत्त्वप्रदं नृणाम् ।। १४५ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारद नारायणसंवादे सावित्रीयमसंवादे सावि्त्र्युपाख्याने शुभकर्मविपाकप्रकथनं नाम सप्तविंशोऽध्यायः ।। २७ ।।
श्रीनारायण उवाच।।
हरेरुत्कीर्त्तनं श्रुत्वा सावित्री यमवक्त्रतः ।।
साश्रुनेत्रा सपुलका यमं पुनरुवाच सा ।। १ ।।
सावित्र्युवाच ।।
हरेरुत्कीर्त्तनं धर्म स्वकुलोद्धारकारणम् ।।
श्रोतॄणां चैव वक्तॄणां जन्ममृत्युजराहरम् ।। २ ।।
दानानां च व्रतानां च सिद्धीनां तपसां परम् ।।
योगानां चैव वेदानां सेवनं कीर्त्तनं हरेः ।। ३ ।।
मुक्तत्वममरत्वं वा सर्वसिद्धित्वमेव वा ।।
श्रीकृष्णसेवनस्यैव कलां नार्हन्ति षोडशीम् ।।४।।
भजामि केन विधिना श्रीकृष्णं प्रकृतेः परम् ।।
मूढां मामबलां तात वद वेदविदांवर ।। ५ ।।
शुभकर्म्मविपाकं च श्रुतं नृणां मनोहरम् ।।
कर्म्माशुभविपाकं च तन्मे व्याख्यातुमर्हसि ।।६।।
इत्युक्त्वा सा सती ब्रह्मन्भक्तिनम्रात्मकन्धरा ।।
तुष्टाव धर्म्मराजं च वेदोक्तेन स्तवेन च ।। ७ ।।
सावित्र्युवाच ।।
तपसा धर्ममाराध्य पुष्करे भास्करः पुरा ।।
धर्मांशं यं सुतं प्राप धर्मराजं नमाम्यहम् ।। ८ ।।
समता सर्वभूतेषु यस्य सर्वस्य साक्षिणः ।।
अतो यन्नाम शमनमिति तं प्रणमाम्यहम् ।। ९ ।।
येनान्तश्च कृतो विश्वे सर्वेषां जीविनां परम् ।।
कर्मानुरूपकालेन तं कृतान्तं नमाम्यहम् ।। 2.28.१० ।।
बिभर्ति दण्डं दण्ड्याय पापिनां शुद्धिहेतवे। ।।
नमामि तं दण्डधरं यः शास्ता सर्वकर्मणाम् ।। ११ ।।
विश्वे यः कलयत्येव सर्वायुश्चापि सन्ततम् ।।
अतीव दुर्निवार्य्यञ्च तं कालं प्रणमाम्यहम् ।। १२ ।।
तपस्वी वैष्णवो धर्म्मी संयमी विजितेन्द्रियः ।।
जीविनां कर्म्मफलदं तं यमं प्रणमाम्यहम् ।। १३ ।।
स्वात्मारामञ्च सर्वज्ञो मित्रं पुण्यकृतां भवेत् ।।
पापिनां क्लेशदो यश्च पुण्यं मित्रं नमाम्यहम् ।। १४ ।।
यज्जन्म ब्रह्मणो वंशे ज्वलन्तं ब्रह्मतेजसा।।
यो ध्यायति परं ब्रह्म ब्रह्मवंशं नमाम्यहम् ।। १५ ।।
इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने ।।
यमस्तां विष्षुभजनं कर्म्मपाकमुवाच ह ।। १६ ।।
इदं यमाष्टकं नित्यं प्रातरुत्थाय यः पठेत् ।।
यमात्तस्य भयं नास्ति सर्वपापात्प्रमुच्यते ।। १७ ।।
महापापी यदि पठेन्नित्यं भक्त्या च नारद ।।
यमः करोति तं शुद्धं कायव्यूहेन निश्चितम्।।१८।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सावित्रीकृतयमस्तोत्रं नामाष्टाविंशोऽध्यायः ।।२८।।
श्रीनारायण उवाच ।।
यमस्तस्यै विष्णुमन्त्रं दत्त्वा च विधिपूर्वकम् ।।
कर्म्माशुभविपाकं च तामुवाच रवेः सुतः ।। १ ।।
यम उवाच ।।
शुभकर्मविपाकं च श्रुतं नानाविधं सति ।।
कर्माशुभविपाकं च कथयामि निशामय ।। २ ।।
नानाप्रकारं स्वर्गं च याति जीवः सुकर्मणा ।।
कुकर्मणा च नरकं याति नानाविधं नरः ।। ३ ।।
नरकाणां च कुण्डानि सन्ति नानाविधानि च ।।
नानापुराणभेदेन नामभेदानि तानि च ।।४।।
विस्तृतानि गभीराणि क्लेशदानि च जीविनाम् ।।
भयङ्कराणि घोराणि हे वत्से कुत्सितानि च ।। ५ ।।
षडशीतिश्च कुण्डानि संयमन्यां च सन्ति च ।।
निबोध तेषां नामानि प्रसिद्धानि श्रुतौ सति ।।६।।
वह्निकुण्डं तप्तकुण्डं क्षमकुण्डं भयानकम् ।।
विट्कुण्डं मूत्रकुण्डं च श्लेष्मकुण्डं च दुःसहम् ।। ७ ।।
गरकुण्डं दूषिकाकुण्डं वसाकुण्डं तथैव च ।।
शुक्रकुण्डमसृक्कुण्डमश्रुकुण्डं च कुत्सितम् ।। ८ ।।
कुण्डं गात्रमलानां च कर्णविट्कुण्डमेव च ।।
मज्जाकुण्डं मांसकुण्डं नखकुण्डं च दुस्तरम् ।। ९ ।।
लोम्नां कुण्डं केशकुण्डमस्थिकुण्डं च दुःखदम् ।।
ताम्रकुण्डं लौहकुण्डं प्रतप्तं क्लेशदं महत् ।।2.29.१०।।
तीक्ष्णकण्टककुण्डं च विषकुण्डं च विघ्नदम् ।।
धर्म्मकुण्डं तप्तसुराकुण्डं चापि प्रकीर्त्तितम् ।। ११ ।।
प्रतप्ततैलकुण्डं च दन्तकुण्डं च दुर्वहम् ।।
कृमिकुण्डं पूयकुण्डं सर्पकुण्डं दुरन्तकम् ।। १२ ।।
मशकुण्डं दंशकुण्डं भीमं गरलकुण्डकम् ।।
कुण्डं च वज्रदंष्ट्राणां वृश्चिकानां च सुव्रते ।। १३ ।।
शरकुण्डं शूलकुण्ड खड्गकुण्डं च भीषणम्।।
गोलकुण्डं नक्रकुण्डं काककुण्डं शुचास्पदम् ।। १४ ।।
सञ्चालकुण्डं वाजकुण्डं बन्धकुण्डं सुदुस्तरम् ।।
तप्तपाषाणकुण्डं च तीक्ष्ण पाषाणकुण्डकम् ।। १५ ।।
लालाकुण्डमसिकुण्डं चूर्णकुण्डं सुदारुणम् ।।
चक्रकुण्डं वज्रकुण्डं कूर्म्मकुण्डं महोल्बणम् ।। १६ ।।
ज्वालकुण्डं भस्मकुण्डं पूतिकुण्डं च सुन्दरि ।।
तप्तसूर्यमसीपत्रं क्षुरधारं सुचीमुखम् ।। १७ ।।
गोधामुखं नक्रमुखं गजदंशं च गोमुखम् ।।
कुम्भीपाकं कालसूत्रमवटोदमरुन्तुदम्।। १८ ।।
पांशुभोजं पाशवेष्टं शूलप्रोतं प्रकम्पनम् ।।
उल्कामुखमन्धकूपं वेधनं दण्डताडनम् ।। ।। १९ ।।
जालबन्धं देहचूर्णं दलनं शोषणङ्करम् ।।
सर्पज्वालामुखं जिह्मधूमान्धं नागवेष्टनम् ।।2.29.२०।।
कुण्डान्येतानि सावित्रि पापिनां क्लेशदानि च ।।
नियुक्तैः किङ्करगणै रक्षितानि च सन्ततम् ।। २१ ।।
दण्डहस्तैः शूलहस्तैः पाशहस्तैर्भयङ्करैः ।।
शक्तिहस्तैर्गदाहस्तैर्मदमत्तैश्च दारुणैः ।। २२ ।।
तमोयुक्तैर्दयाहीनैर्दुर्निवार्य्यं च सर्वतः ।।
तेजस्विभिश्च निःशङ्कैस्ताम्रपिङ्गललोचनैः ।।२३ ।।
योगयुक्तैः सिद्धयोगैर्नानारूपधरैर्वरैः ।।
आसन्नमृत्युभिर्दृष्टैः पापिभिः सर्वजीविभिः ।। २४ ।।
स्वकर्मनिरतैः शैवैः शाक्तैः सौरैश्च गाणपैः ।।
अदृष्टैः पुण्यकृद्भिश्च सिद्धयोगिभिरेव च ।। २५ ।।
स्वधर्म्मनिरतैर्वाऽपि विरतैर्वा स्वतन्त्रकैः ।।
बलवद्भिश्च निःशङ्कैः स्वप्नदृष्टैश्च वैष्णवैः ।। २६ ।।
एतत्ते कथितं साध्वि कुण्डसंख्यानिरूपणम् ।।
येषां निवासो यत्कुंडे निबोध कथयामि ते ।। २७ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे नारदनारायणसंवादे द्वितीये प्रकृतिखण्डे सावित्र्युपाख्याने यमसावित्रीसंवादे नरककुण्डसंख्यानं नामैकोनत्रिंशो ऽध्यायः ।। २९ ।।
यम उवाच ।।
हरिसेवारतः शुद्धो योगी सिद्धो व्रतो सति ।।
तपस्वी ब्रह्मचारी च न याति नरकं यतिः ।। १ ।।
कटुवाचा बान्धवांश्च खलत्वेन च यो नरः ।।
दग्धान्करोति बलवान्वह्निकुण्डं प्रयाति सः ।। २ ।।
गात्रलोमप्रमाणाब्दं तत्र स्थित्वा हुताशने ।।
पशुयोनिमवाप्नोति रौद्रे दग्धस्त्रिजन्मनि ।। ३ ।।
ब्राह्मणं तृषितं क्षुब्धं प्रतप्तं गृहमागतम् ।।
न भोजयति यो मूढस्तप्तकुण्डं प्रयाति सः ।। ४ ।।
तत्र लोमप्रमाणाब्दं स्थित्वा तत्र च दुःखितः ।।
तप्तस्थले वह्निकुण्डे पक्षी च सप्तजन्मसु ।। ५ ।।
रविवारार्कसंक्रान्त्याममायां श्राद्धवासरे ।।
वस्त्राणां क्षारसंयोगं करोति यो हि मानवः ।। ६ ।।
स याति क्षारकुण्डं च सूत्रमानाब्दमेव च ।।
स व्रजेद्राजकीं योनिं सप्तजन्मसु भारते ।। ७ ।।
स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः ।।
षष्टिवर्षसहस्राणि विट्कुण्डं च प्रयाति सः ।। ८ ।।
षष्टिवर्षसहस्राणि विड्भोजी तत्र तिष्ठति ।।
षष्टिवर्षसहस्राणि विट्कृमिश्च पुनर्भुवि ।।९।।
परकीयतडागे च तडागं यः करोति च ।।
उत्सृजेद्दैवदोषेण मूत्रकुण्डं प्रयाति सः ।। 2.30.१० ।।
तद्रेणुमानवर्षं च तद्भोजी तत्र तिष्ठति ।।
भारते गोधिका चैव स भवेत्सप्तजन्मसु ।। ११ ।।
एकाकी मिष्टमश्नाति श्लेष्मकुण्डं प्रयाति सः ।।
पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति ।। १२ ।।
पूर्णमब्दशतं चैव स प्रेतो भारते भवेत् ।।
श्लेष्ममूत्रगरं चैव पूयं भुङ्क्ते ततः शुचिः ।। १३ ।।
पितरं मातरं चैव गुरुं भार्य्यां सुतं सुताम् ।।
यो न पुष्णात्यनाथं च गरकुण्डं प्रयाति सः ।। १४ ।।
पूर्णमब्दसहस्रं च तद्भोजी तत्र तिष्ठति ।।
ततो व्रजेद्भूतयोनिं शतवर्षं ततः शुचिः ।। १५ ।।
दृष्ट्वातिथिं वक्रचक्षुः करोति यो हि मानवः ।।
पितृदेवास्तस्य जलं न गृह्णन्ति च पापिनः ।। १६ ।।
यानि कानि च पापानि ब्रह्महत्यादिकानि च ।।
इहैव लभते चान्ते दूषिकाकुण्डमाव्रजेत्।। १७ ।।
पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति ।।
ततो नरो भवेद्भूमौ दरिद्रः सप्तजन्मसु ।। १८ ।।
दत्त्वा द्रव्यं च विप्राय चान्यस्मै दीयते यदि।।
स तिष्ठति वसाकुण्डे तद्भोजी शतवत्सरम्।।१९।।
ततो भवेत्स चण्डालस्त्रिजन्मनि ततः शुचिः ।।
कृकलासो भवेत्सोऽपि भारते सप्तजन्मसु ।।
ततो भवेन्मानवश्च दरिद्रोऽल्पायुरेव च ।।2.30.२०।।
पुमांसं कामिनी वाऽपि कामिनीं वा पुमानथ ।।
यः शुक्रं पाययत्येव शुक्रकुण्डं प्रयाति सः ।। २१ ।।
पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति ।।
योनिकृमिः शताब्दं च भवेद्भुवि ततः शुचिः ।। २२ ।।
सन्ताड्य च गुरुं विप्रं रक्तपातं च कारयेत् ।।
स च तिष्ठत्यसृक्कुण्डे तद्भोजी शतवत्सरम्।।२३।।
ततो भवेद्व्याधजन्म सप्तजन्मसु भारते ।।
ततः शुद्धिमवाप्नोति मानवश्च क्रमेण च ।। २४ ।।
अश्रु स्रवन्तं गायन्तं भक्तं दृष्ट्वा च गद्गदम् ।।
श्रीकृष्णगुणसंगीते हसत्येव हि यो नरः ।। २५ ।।
स वसेदश्रुकुण्डे च तद्भोजी शतवत्सरम् ।।
ततो भवेत्स चण्डालस्त्रिजन्मनि ततः शुचिः ।। २६ ।।
करोति खलतां शश्वदशुद्धहृदयो नरः ।।
कुण्डं गात्रमलानां च स च याति दशाब्दकम् ।। २७ ।।
ततः स गार्दभीं योनिमवाप्नोति त्रिजन्मनि ।।
त्रिजन्मनि च शार्गालीं ततः शुद्धो भवेद्ध्रुवम् ।। २८ ।।
बधिरं यो हसत्येव निन्दत्येव हि मानवः ।।
स वसेत्कर्णविट्कुण्डे तद्भोजी शतवत्सरम् ।। २९ ।।
ततो भवेत्स बधिरो दरिद्रः सप्तजन्मसु ।।
सप्तजन्मस्वङ्गहीनस्ततः शुद्धिं लभेद्ध्रुवम् ।। ।। 2.30.३० ।।
लोभात्स्वपालनार्थाय जीविनं हन्ति यो नरः ।।
मज्जाकुण्डे वसेत्सोऽपि तद्भोजी लक्षवर्षकम् ।। ३१ ।।
ततो भवेत्स शशको मीनश्च सप्तजन्मसु ।।
एणादयश्च कर्म्मभ्यस्ततः शुद्धिं लभेद्ध्रुवम् ।।३२।।
स्वकन्यापालनं कृत्वा विक्रीणाति हि यो नरः ।।
अर्थलोभान्महामूढो मांसकुण्डं प्रयाति सः ।। ३३ ।।
कन्यालोमप्रमाणाब्दं तद्भोजी तत्र तिष्ठति ।।
तं च कुण्डे प्रहारं च करोति यमकिङ्करः ।। ३४ ।।
मांसभारं मूर्ध्नि कृत्वा रक्तधारां लिहेत्क्षुधा ।।
ततो हि भारते पापी कन्याविट्सु कृमिर्भवेत् ।। ३५ ।।
षष्टिवर्षसहस्राणि व्याधश्च सप्तजन्मसु ।।
त्रिजन्मनि वराहश्च कुक्कुरस्सप्तजन्मसु ।। ३६ ।।
सप्तजन्मसु मण्डूको जलौकाः सप्तजन्मसु ।।
सप्तजन्मसु काकश्च ततः शुद्धिं लभेद्ध्रुवम् ।। ३७ ।।
व्रतानामुपवासानां श्राद्धादीनां च संयमे ।।
न करोति क्षौरकर्म सोऽशुचिः सर्वकर्मसु ।। ३८ ।।
स च तिष्ठति कुण्डेषु नखादीनां च सुन्दरि ।।
तदेव दिनमानाब्दं तद्भोजी दण्डताडितः ।। ३९ ।।
सकेशं पार्थिवं लिङ्गं यो वाऽर्चयति भारते ।।
स तिष्ठति केशकुण्डे मृद्रेणुमानवर्षकम् ।। 2.30.४० ।।
तदन्ते यावनीं योनिं प्रयाति हरकोपतः ।।
शताब्दाच्छुद्धिमाप्नोति स्वकुलं लभते ध्रुवम् ।। ४१ ।।
पितॄणां यो विष्णुपदे पिण्डं नैव ददाति च ।।
स तिष्ठत्यस्थिकुण्डे च स्वलोमाब्दं महोल्बणे ।। ४२ ।।
ततः स्वयोनिं संप्राप्य खञ्जः सप्तसु जन्मसु ।।
भवेन्महादरिद्रश्च ततः शुद्धो हि दण्डतः ।। ४३ ।।
यः सेवते महामूढो गुर्विणीं च स्वकामिनीम् ।।
प्रतप्तताम्रकुण्डे च शतवर्षं स तिष्ठति।। ।। ४४ ।।
अवीरान्नं च यो भुङ्क्ते ऋतुस्नातान्नमेव च ।।
लौहकुण्डे शताब्दं च स च तिष्ठति तप्तके ।। ४९ ।।
स व्रजेद्राजकीं योनिं कर्मकारीं च सप्तसु ।।
महाव्रणी दरिद्रश्च ततः शुद्धो भवेन्नरः ।। ।। ४६ ।।
यो हि घर्माक्तहस्तेन देवद्रव्यमुपस्पृशेत् ।।
शतवर्षप्रमाणं च घर्मकुण्डे स तिष्ठति ।। ४७ ।।
यः शूद्रेणाभ्यनुज्ञातो भुङ्क्ते शूद्रान्नमेव च ।।
स च तप्तसुराकुण्डे शताब्दं तिष्ठति द्विजः ।। ४८।।
ततो भवेच्छ्रद्रयाजी ब्राह्मणः सप्तजन्मसु ।।
शूद्रश्राद्धान्नभोजी च ततः शुद्धो भवेद् ध्रुवम् ।। ।। ४९ ।।
वाग्दुष्टा कटुवाचा या ताडयेत्स्वामिनं सदा ।।
तीक्ष्णकण्टककुण्डे सा तद्भोजी तत्र तिष्ठति ।। 2.30.५० ।।
ताडिता यमदूतेन दण्डेन च चतुर्युगम् ।।
तत उच्चैःश्रवाः सप्तजन्मस्वेव ततः शुचिः ।।५१।।
विषेण जीविनं हन्ति निर्दयो यो हि पामरः ।।
विषकुंडे च तद्भोजी सहस्राब्दं च तिष्ठति।। ।।५२।।
ततो भवेन्नृघाती च व्रणी स्यात्सप्तजन्मसु ।।
सप्तजन्मसु कुष्ठी च ततः शुद्धो भवेद्ध्रुवम् ।।५३।।
दण्डेन ताडयेद्यो हि वृषं च वृषवाहकः ।।
भृत्यद्वारा स्वतन्त्रो वा पुण्यक्षेत्रे च भारते ।। ५४ ।।
प्रतप्ततैलकुण्डे च स तिष्ठति चतुर्युगम् ।।
गवां लोमप्रमाणाब्दं वृषो भवति तत्परम् ।। ५५ ।।
दन्तेन हन्ति जीवं यो लौहेन बडिशेन वा ।।
दन्तकुण्डे वसेत्सोऽपि वर्षाणामयुतं सति ।। ५६ ।।
ततः स्वयोनिं संप्राप्य चोदरव्याधिसंयुतः।।
क्लिष्टेन जन्मनैकेन ततः शुद्धो भवेन्नरः।।५७।।
यो भुंक्ते च वृथा मांसं मत्स्यभोजी च ब्राह्मणः ।।
हरेरनैवेद्यभोजी कृमिकुण्डं प्रयाति सः ।। ५८ ।।
स्वलोममानवर्षं च तद्भोजी तत्र तिष्ठति ।।
ततो भवेन्म्लेच्छजातिस्त्रिजन्मनि ततो द्विजः ।।५९।।
ब्राह्मणः शूद्रयाजी यः शूद्रश्राद्धान्नभोजकः ।।
शूद्राणां शवदाही च पूयकुण्डं व्रजेद्ध्रुवम् ।।2.30.६०।।
यावल्लोमप्रमाणाब्दं यजमानस्य सुव्रते ।।
ताडितो यमदूतेन तद्भोजी तत्र तिष्ठति ।। ६१ ।।
ततो भारतमागत्य स शूद्रः सप्तजन्मसु ।।
महाशूली दरिद्रश्च ततः शुद्धः पुनर्द्विजः ।। ६२ ।।
लघुं कूरं महान्तं वा सर्पं हन्ति च यो नरः ।।
स्वात्मलोमप्रमाणाब्दं सर्पकुण्डं प्रयाति सः ।। ६३ ।।
सर्पेण भक्षितः सोऽपि यमदूतेन ताडितः ।।
वसेच्च सर्पविट्जीवी ततः सर्पो भवेद्ध्रुवम् ।। ६४ ।।
ततो भवेन्मानवश्चाप्यल्पायुर्दद्रुसंयुतः ।।
महाक्लेशेन तन्मृत्युः सर्पेण भक्षणं ध्रुवम् ।। ६५ ।।
विधिं प्रकल्प्य जीवांश्च क्षुद्रजन्तूंश्च हन्ति यः ।।
सदंशमशके कुण्डे जन्ममानदिनाब्दकम् ।। ६६ ।।
दिवानिशं भक्षितस्तैरनाहारश्च शब्दकृत् ।।
बद्धहस्तपदादिश्च यमदूतेन ताडितः।। ६७ ।।
ततो भवेत्क्षुद्रजन्तुर्जातिर्वै यावती स्मृता ।।
ततो भवेन्मानवश्च सोऽङ्गहीनस्ततः शुचिः ।। ६८ ।।
यो मूढो मधु गृह्णाति हत्वा च मधुमक्षिकाः ।।
स एव गरले कुंडे जीवमानदिनाब्दकम् ।। ६९ ।।
भक्षितो गरलैर्दग्धो यमदूतेन ताडितः ।।
ततो हि मक्षिकाजातिस्ततः शुद्धो भवेन्नरः ।। 2.30.७० ।।
दण्डं करोत्यदंड्ये च विप्रे दण्डं करोति च ।।
स कुण्डं वज्रदंष्ट्राणां कीटानां वै प्रयाति च ।। ७१ ।।
तल्लोममानवर्षं च तत्र तिष्ठत्यहर्निशम् ।।
शब्दकृद्भक्षितस्तैश्च ततः शुद्धो भवेन्नरः ।। ७२ ।।
अर्थलोभेन यो भूपः प्रजादण्डं करोति च ।।
वृश्चिकानां च कुण्डेषु तल्लोमाब्दं वसेद्ध्रुवम् ।। ७३ ।।
ततो वृश्चिकजातिश्च सप्तजन्मसु जायते ।।
ततो नरश्चाङ्गहीनो व्याधियुक्तो भवेद्ध्रुवम् ।। ७४ ।।
ब्राह्मणः शस्त्रधारी यो ह्यन्येषां धावको भवेत् ।।
सन्ध्याहीनश्च मूढश्च हरिभक्तिविहीनकः ।। ७५ ।।
स तिष्ठति स्वलोमाब्दं कुण्डादिषु शरादिषु ।।
विद्धः शरादिभिः शश्वत्ततः शुद्धो भवेन्नरः ।। ७६ ।।
कारागारे सान्धकारे निबध्नाति प्रजाश्च यः ।।
प्रमत्तः स्वल्पदोषेण गोलकुण्डं प्रयाति सः ।। ।। ७७ ।।
तत्कुण्डं तप्ततोयाक्तं सान्धकारं भयङ्करम् ।।
तीक्ष्णदंष्ट्रैश्च कीटैश्च संयुक्तं गोलकुण्डकम् ।। १७८।।
कीटैर्विद्धो वसेत्तत्र प्रजालोमाब्दमेव च ।।
ततो भवेन्नीचभृत्यस्ततः शुद्धो नरो भुवि ।। ७९ ।।
सरोवरादुत्थितांश्च नक्रादीन्हन्ति यः सति ।।
नक्रकण्टकमानाब्दं नक्रकुण्डं प्रयाति सः १।। 2.30.८० ।।
ततो नक्रादिजातिश्च भवेन्नद्यादिषु ध्रुवम् ।।
ततः सद्यो विशुद्धो हि दण्डेनैव नरः पुनः ।। ८१ ।।
वक्षः श्रोणीस्तनास्यं च यः पश्यति परस्त्रियाः ।।
कामेन कामुको यो हि पुण्यक्षेत्रे च भारते ।।८२।।
स वसेत्काककुण्डं च काकैश्च क्षुण्णलोचनः ।।
ततः स्वलोममानाब्दं ततश्चान्धस्त्रिजन्मनि।।८३।।
सप्तजन्मदरिद्रश्च महाक्रूरश्च पातकी ।।
भारते स्वर्णकारश्च स च स्वर्णवणिक्ततः ।। ८४ ।।
यो भारते ताम्रचौरो लौहचौरश्च सुन्दरि ।।
स स्वलोमप्रमाणाब्दं वज्रकुण्डं प्रयाति वै ।। ८९ ।।
तत्रैव वज्रविड्भोजी वज्रैश्च क्षुण्णलोचनः ।।
ताडितो यमदूतेन ततः शुद्धो भवेन्नरः ।। ८६ ।।
भारते देवचौरश्च देवद्रव्यादिहारकः ।।
सुदुष्करे वज्रकुण्डे स्वलोमाब्दं वसेद्ध्रुवम् ।। ८७ ।।
देहदग्धो हि तद्वज्रैरनाहारश्च शब्दकृत् ।।
ताडितो यमदूतेन ततः शुद्धो भवेन्नरः ।। ।। ८८ ।।
रौप्यगव्यां शुकानां च यश्चौरः सुरविप्रयोः ।।
तप्तपाषाणकुण्डे च स्वलोमाब्दं वसेद्ध्रुवम् ।। ८९ ।।
त्रिजन्मनि बकः सोऽपि श्वेतहंसस्त्रिजन्मनि ।।
जन्मैकं शङ्खचिल्लश्च ततोऽन्ये श्वेतपक्षिणः ।। 2.30.९० ।।
ततो रक्तविकारी च शूली वै मानवो भवेत् ।।
सप्तजन्मसु चाल्पायुस्ततः शुद्धो भवेन्नरः ।। ९१ ।।
रैत्यकांस्यादिपात्रं च यो हरेत्सुरविप्रयोः ।।
तीक्ष्णपाषाणकुण्डे च स्वलोमाब्दं वसेद्ध्रुवम् ।। ९२ ।।
स भवेदश्वजातिश्च भारते सप्तजन्मसु ।।
ततोऽ धिकाङ्गयुक्तश्च पादरोगी ततः शुचिः ।। ९३ ।।
पुंश्चल्यन्नं च यो भुंक्ते पुंश्चलीजीव्यजीवनः ।।
स्वलोममानवर्षं च लालाकुण्डे वसेद्ध्रुवम् ।। ९४ ।।
ताडितो यमदूतेन तद्भोजी तत्र तिष्ठति ।।
ततश्चक्षुश्शूलरोगी ततः शुद्धः क्रमेण सः ।। ९५ ।। ।
म्लेच्छसेवी मषीजीवी यो विप्रो भारते भुवि ।।
स च तप्तमषीकुण्डे स्वलोमाब्दं वसेद्ध्रुवम् ।। ९६ ।।
ताडितो यमदूतेन तद्भोजी तत्र तिष्ठति ।।
ततस्त्रिजन्मनि भवेत्कृष्णवर्णः पशुः सति ।। ९७ ।।
त्रिजन्मनि भवेच्छागः कृष्णसर्पस्त्रिजन्मनि ।।
ततश्च तालवृक्षश्च ततः शुद्धो भवेन्नरः ।। ९८ ।।
धान्यादि सस्यं ताम्बूलं यो हरेत्सुरविप्रयोः ।।
आसनं च तथा तल्पं चूर्णकुण्डं प्रयाति सः ।। ९९ ।।
शताब्दं तत्र निवसेद्यमदूतेन ताडितः ।।
ततो भवेन्मेषजातिः कुक्कुटश्च त्रिजन्मनि ।। 2.30.१०० ।।
ततो भवेन्मानवश्च कासव्याधियुतो भुवि ।।
वंशहीनो दरिद्रश्चाप्यल्पायुश्च ततः शुचिः ।। १०१ ।।
चक्रं करोति विप्राणां हृत्वा द्रव्यं च यो नरः ।।
स वसेच्चक्रकुण्डे च शताब्दं दंडताडितः ।। १०२ ।।
ततो भवेन्मानवश्च तैलकारस्त्रिजन्मनि ।।
व्याधियुक्तो भवेद्रोगी वंशहीनस्ततः शुचिः ।। १०३ ।।
बान्धवेषु च विप्रेषु कुरुते वक्रतां नरः।।
प्रयाति वज्रकुण्डं च वसेत्तत्र युगं सति ।। १०४ ।।
ततो भवेत्स वक्रांगो हीनाङ्गः सप्तजन्मसु ।।
दरिद्रो वंशहीनश्च भार्य्याहीनस्ततः शुचिः ।। १०५ ।।
शयने कूर्ममांसं च ब्राह्मणो यो हि भक्षति ।।
कूर्म्मकुण्डे वसेत्सोऽपि शताब्दं कूर्म्मभक्षितः।।१०६।।
ततो भवेत्कूर्म्मजन्म त्रिजन्मनि च सूकरः।।
त्रिजन्मनि बिडालश्च मयूरश्च त्रिजन्मनि ।। १०७ ।।
घृततैलादिकं चैव यो हरेत्सुरविप्रयोः ।।
ज्वालकुण्डं स वै याति भस्मकुण्डं च पातकी ।। १०८।।
तत्र स्थित्वा शताब्दं च स भवेत्तैलपायिकः ।।
सप्तजन्मसु मत्स्यः स्यान्मूषकश्च ततः शुचिः ।। १०९ ।।
सुगन्धितैलं धात्रीं च गन्धद्रव्यं तथैव वा ।।
भारते पुण्यवर्षे च यो हरेत्सुरविप्रयोः ।। 2.30.११० ।।
वसेद्दुर्गन्धकुंडे च दुर्गन्धं च लभेत्सदा ।।
स्वलोममानवर्षं च ततो दुर्गन्धिको भवेत् ।। १११ ।।
दुर्गंधिकः सप्तजनौ मृगनाभिस्त्रिजन्मनि ।।
सप्तजन्म सुगंधिश्च ततो वै मानवो भवेत् ।। ११२ ।।
बलेनैव खलत्वेन हिंसारूपेण वा सति ।।
बली च यो हरेद्भूमिं भारते परपैतृकीम् ।। ११३ ।।
स वसेत्तप्तशूले च भवेत्ततो दिवानिशम् ।।
तप्ततैले यथा जीवो दग्धो भ्रमति सन्ततम् ।। ११४ ।।
भस्मसान्न भवत्येव भोगदेहो न नश्यति ।।
सप्तमन्वन्तरं पापी सन्तप्तस्तत्र तिष्ठति ।। ११५ ।।
शब्दं करोत्यनाहारो यमदूतेन ताडितः ।।
षष्टिवर्षसहस्राणि विट्कृमिर्भारते ततः ।। ११६ ।।
ततो भवेद्भूमिहीनो दरिद्रश्च ततः शुचिः ।।
ततः स्वयोनिं संप्राप्य शुभकर्मा भवेत्पुनः ।। ११७ ।।
छिनत्ति जीविनः खङ्गैर्दयाहीनः सुदारुणः ।।
नरघाती हन्ति नरमर्थलोभेन भारते ।। ११८ ।।
असिपत्रे च स वसेद्यावदिन्द्राश्चतुर्दश ।।
तेषु चेद्ब्राह्मणान्हन्ति शतमन्वन्तरं तदा ।।११९ ।।
छिन्नाङ्गश्च भवेत्पापी खङ्गधारेण सन्ततम् ।।
अनाहारः शब्दकृच्च यमदूतेन ताडितः ।। 2.30.१२० ।।
चण्डालः शतजन्मानि भारते सूकरो भवेत् ।।
कुक्कुरः शतजन्मानि सृगालः सप्तजन्मसु ।। १२१ ।।
व्याघ्रश्च सप्तजन्मानि वृकश्चैव त्रिजन्मनि ।।
जन्मसप्तसु गंडो स्यान्महिषश्च त्रिजन्मनि ।। १२२ ।।
ग्रामं वा नगरं वाऽपि दाहनं यः करोति च ।।
क्षुरधारे वसेत्सोऽपि च्छिन्नाङ्गस्त्रियुगं सति ।। ।। १२३ ।।
ततः प्रेतो भवेत्सद्यो वह्निवक्त्रो भ्रमेन्महीम् ।।
सप्तजन्मामेध्यभोजी खद्योतः सप्तजन्मसु ।। १२४ ।।
ततो भवेन्महाशूली मानवः सप्तजन्मसु ।।
सप्तजन्म गलत्कुष्ठी ततः शुद्धो भवेन्नरः ।। १२५ ।।
परकर्णोपजापेन परनिन्दां करोति यः ।।
परदोषे महातोषी देवब्राह्मणनिन्दकः ।।१२६।।
सूचीमुखे स च वसेत्सूचीविद्धो युगत्रयम् ।।
ततो भवेद्वृश्चिकश्च सर्पः स्यात्सप्तजन्मसु ।। १२७ ।।
वज्रकीटः सप्तजनौ भस्मकीटस्ततः परम् ।।
ततो भवेन्मानवश्च महाव्याधिस्ततः शुचिः ।। १२८ ।।
गृहिणां च गृहं भित्त्वा वस्तुतेयं करोति यः ।।
गाश्च च्छागांश्च मेषांश्च याति गोधामुखं च सः ।। १२९ ।।
ततो भवेत्सप्तजनौ गोजातिर्व्याधिसंयुतः ।।
त्रिजन्ममेषजातिश्च च्छागजातिस्त्रिजन्मनि ।। 2.30.१३० ।।
ततो भवेन्मानवश्च नित्यरोगी दरिद्रकः ।।
भार्य्याहीनो बन्धुहीनः सन्तापी च ततः शुचिः ।। १३१ ।।
सामान्यद्रव्यचौरश्च याति नक्रमुखं युगम् ।।
ततो भवेन्मानवश्च महारोगी ततः शुचिः ।। ।। १३२ ।।
हन्ति गाश्च गजांश्चैव तुरगांश्च नरांस्तथा ।।
स याति गजदंशं च महापापी युगत्रयम् ।। १३३ ।।
ताडितो यमदूतेन गजदन्तेन सन्ततम् ।।
स भवेद्गजजातिश्च तुरगश्च त्रिजन्मनि ।।
गोजातिम्लेच्छजातिश्च ततः शुद्धो भवेन्नरः ।। १३४ ।।
जलं पिबन्तीं तृषितां गां वारयति यो नरः ।।
तच्छुश्रूशाविहीनश्च गोमुखं याति मानवः ।। १३५ ।।
नरकं गोमुखाकारं कृमितप्तोदकान्वितम् ।।
तत्र तिष्ठति सन्तप्तो यावन्मन्वन्तरावधि ।। १३६ ।।
ततो नरोऽपि गोहीनो महारोगी दरिद्रकः ।।
सप्त जन्मन्यन्त्यजातिः ततः शुद्धो भवेन्नरः ।। १३७ ।।
गोहत्यां ब्रह्महत्यां च यः करोत्यतिदेशिकीम् ।।
यो हि गच्छेदगम्यां च सन्ध्याहीनोऽप्यदीक्षितः ।। १३८ ।।
प्रतिग्राही च तीर्थेषु ग्रामयाजी च देवलः ।।
शूद्राणां सूपकारश्च प्रमत्तो वृषलीपतिः ।। १३९ ।।
गोहत्यां ब्रह्महत्यां च स्त्रीहत्यां च करोति यः ।।
मित्रहत्यां भ्रूणहत्यां महापापी च भारते ।। 2.30.१४० ।।
कुम्भीपाके स च वसेद्यावदिन्द्राश्चतुर्दश ।।
ताडितो यमदूतेन चूर्ण्यमानश्च सन्ततम् ।। १४१ ।।
क्षणं पतति वह्नौ च क्षणं पतति कण्टके ।।
क्षणं च तप्ततैलेषु तप्ततोयेषु च क्षणम् ।। १४२ ।।
क्षणं च तप्तपाषाणे तप्तलोहे क्षणं ततः ।।
गृध्रकोटिस्रहस्राणि शतजन्मानि सूकरः ।। १४३ ।।
काकश्च सप्तजन्मानि सर्पस्स्यात्सप्तजन्मसु ।।
षष्टिवर्षसहस्राणि ततो वै विट्कृमिर्भवेत् ।। १४४ ।।
ततो भवेत्स वृषणो गलत्कुष्ठी दरिद्रकः ।।
यक्ष्मग्रस्तो वंशहीनो भार्य्याहीनस्ततः शुचिः ।। १४५ ।।
सावित्र्युवाच ।।
ब्रह्महत्या च गोहत्या किंविधा वाऽऽतिदेशिकी ।।
का वा नृणामगम्या वा को वा सन्ध्याविहीनकः ।। १४६ ।।
अदीक्षितः पुमान्को वा को वा तीर्थे प्रतिग्रही ।।
द्विजः को वा ग्रामयाजी को वा विप्रश्च देवलः ।। १४७ ।।
शूद्राणां सूपकारः कः प्रमत्तो वृषलीपतिः ।।
एतेषां लक्षणं सर्वं वद वेदविदां वर ।। १४८ ।।
यम उवाच ।।
श्रीकृष्णे च तदर्च्चायां मृन्मय्यां प्रकृतौ तथा ।।
शिवे च शिवलिङ्गे वा सूर्य्ये सूर्य्यमणौ तथा ।। १४९ ।।
गणेशे वा तदर्च्चायामेवं सर्वत्र सुन्दरि ।।
करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः।।2.30.१५०।।
स्वगुरौ स्वेष्टदेवे वा जन्मदातरि मातरि।।
करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः।।१५१।।
वैष्णवेष्वन्यभक्तेषु ब्राह्मणेष्वितरेषु च ।।
करोति समतां यो हि ब्रह्महत्यां लभेत्तु सः ।। १५२ ।।
यो मूढो विष्णुनैवेद्ये चान्यनैवेद्यके तथा ।।
हरेः पादोदकेष्वन्यदेवपादोदके तथा ।।
करोति समतां यो हि ब्रह्महत्यां लभेत्तु सः ।। १५३ ।।
सर्वेश्वरेश्वरे कृष्णे सर्वकारणकारणे ।।
सर्वाद्ये सर्वदेवानां सेव्ये सर्वान्तरात्मनि ।। १५४ ।।
माययाऽनेकरूपे वाऽप्येक एव हि निर्गुणे ।।
करोत्यन्येन समतां ब्रह्महत्यां लभेत्तु सः ।। १५५ ।।
पितृदेवार्चनां पौर्वापरां वेदविनिर्मिताम् ।।
यः करोति निषेधं च ब्रह्महत्यां लभेत्तु सः ।। १५६ ।।
ये निन्दन्ति हृषीकेशं तन्मन्त्रोपासकं तथा ।।
पवित्राणां पवित्रं च ब्रह्महत्यां लभन्ति ते ।। १५७ ।।
शिवं शिवस्वरूपं च कृष्णप्राणाधिकं प्रियम् ।।
पवित्राणां पवित्रं च ज्ञानानन्दं सनातनम् ।। १५८।।
प्रधानं वैष्णवानां च देवानां सव्यमीश्वरम्।।
ये नार्चयन्ति निन्दन्ति ब्रह्महत्यां लभंति ते ।। १५९ ।।
ये विष्णुमायां निन्दन्ति विष्णुभक्तिप्रदां सतीम् ।।
सर्वशक्तिस्वरूपां च प्रकृतिं सर्वमातरम् ।। 2.30.१६० ।।
सर्वदेवीस्वरूपां च सर्वाद्यां सर्ववन्दिताम् ।।
सर्वकारणरूपां च ब्रह्महत्यां लभन्ति ते ।। १६१ ।।
कृष्णजन्माष्टमीं रामनवमीं पुण्यदां पराम् ।।
शिवरात्रिं तथा चैकादशीं वारं रवेस्तथा ।। १६२ ।।
पञ्चपर्वाणि पुण्यानि ये न कुर्वन्ति मानवाः ।।
लभन्ते ब्रह्महत्यां ते चाण्डालाधिकपापिनः ।। १६३ ।।
अम्बुवीच्यांबुखनने जले शौचादिकं च ये ।।
कुर्वन्ति भारते वत्से ब्रह्महत्यां लभन्ति ते ।। १६४ ।।
गुरुं च मातरं तातं साध्वीं भार्य्यां सुतं सुताम् ।।
अनाथान्यो न पुष्णाति ब्रह्महत्यां लभेत्तु सः ।। १६५ ।।
विवाहो यस्य न भवेन्न पश्यति सुतं च यः ।।
हरिभक्तिविहीनो यो ब्रह्महत्यां लभेत्तु सः ।। १६६ ।।
हरेरनैवेद्यभोजी नित्यं विष्णुं न पूजयेत् ।।
पुण्यं पार्थिवलिंगं वा ब्रह्महत्यां लभेत्तु सः ।। १६७ ।।
आहारं कुर्वतीं गां च पिबन्तीं यो निवारयेत् ।।
याति गोविप्रयोर्म्मध्ये गोहत्यां च लभेत्तु सः ।। १६८ ।।
दण्डैर्गास्ताडयेन्मूढो यो विप्रो वृषवाहकः ।।
दिने दिने गवां हत्यां लभते नात्र संशयः ।। १६९ ।।
ददाति गोभ्य उच्छिष्टं योजयेद्वृषवाहकम् ।।
भोजयेद्वृषवाहान्नं स गोहत्यां लभेद्ध्रुवम्।। ।। 2.30.१७०।।
वृषलीपतिं याजयेद्यो भुंक्तेऽन्नं तस्य यो नरः ।।
गोहत्याशतकं सोऽपि लभते नात्र संशयः ।। १७१ ।।
पादं ददाति वह्नौ च गाश्च पादेन ताडयेत् ।।
गृहं विशेदधौतांघ्रिः स्नात्वा गोवधमाप्नुयात् ।। १७२ ।।
यो भुंक्ते स्निग्धपादेन शेते स्निग्धांघ्रिरेव च ।।
सूर्य्योदये च द्विर्भोजी स गोहत्यां लभेद्ध्रुवम् ।। १७३ ।।
अवीरान्नं च यो भुंक्ते योनिजीवी च वै द्विजः ।।
यस्त्रिसन्ध्याविहीनश्च स गोहत्यां लभेद् ध्रुवम् ।।१७४।।
पितॄंश्च पर्वकाले च तिथिकाले च देवताम् ।।
न सेवतेऽतिथिं यो हि गोहत्यां स लभेद्ध्रुवम् ।। १७५ ।।
स्वभर्तरि च कृष्णे च भेदबुद्धिं करोति या ।।
कटूक्त्या ताडयेत्कान्तं सा गोहत्यां लभेद्ध्रुवम् ।।१७६।।
गोमार्गखननं कृत्वा वपते सस्यमेव च ।।
तडागे वा तदूर्ध्वं वा स गोहत्यां लभेद्ध्रुवम् ।। १७७ ।।
प्रायश्चित्तं गोवधस्य यः करोति व्यतिक्रमम् ।।
अर्थलोभादथाज्ञानात्स गोहत्यां लभेद्ध्रुवम् ।। १७८ ।।
राजके दैवके यत्नाद्गोस्वामी गां न पातयेत् ।।
दुःखं ददाति यो मूढो गोहत्यां स लभेद्ध्रुवम् ।।१७९।।
प्राणिनं लंघयेद्यो हि देवार्चायां रतं जलम् ।।
नैवेद्यं पुष्पमन्नं च स गोहत्यां लभेद्ध्रुवम् ।। ।।2.30.१८०।।
शश्वन्नास्तीति वादी यो मिथ्यावादी प्रतारकः ।।
देवद्वेषी गुरुद्वेषी स गोहत्यां लभेद्ध्रुवम् ।। १८१ ।।
देवताप्रतिमां दृष्ट्वा गुरुं वा ब्राह्मणं सति ।।
सम्भ्रमान्न नमेद्यो हि स गोहत्यां लभेद्ध्रुवम् ।।१८२।।
न ददात्याशिषं कोपात्प्रणताय च यो द्विजः ।।
विद्यार्थिने च विद्यां वै स गोहत्यां लभेद्ध्रुवम् ।।१८३।।
गोहत्या ब्रह्महत्या च कथिता चातिदेशिकी ।।
यथा श्रुतं सूर्य्यवक्त्रात्किं भूयः श्रोतुमिच्छसि ।। १८४ ।।
सावित्र्युवाच ।।
वास्तवे चातिदेशे च सम्बन्धे पापपुण्ययोः ।।
न्यूनाधिके च को भेदस्तन्मां व्याख्यातुमर्हसि ।। १८५ ।।
यम उवाच ।।
कुत्रापि वास्तवः श्रेष्ठो न्यूनोऽतिदेशिकस्सदा ।।
कुत्रातिदेशिकः श्रेष्ठो वास्तवो न्यून एव च ।। १८६ ।।
कुत्र वा समता साध्वि तयोर्वेदप्रमाणतः ।।
करोति तत्र नास्थां यो गुरुहत्यां लभेत्तु सः ।। १८७ ।।
पुरा परिचिते विप्रे विद्यामन्त्रप्रदातरि ।।
गुरौ पितृत्वमारोपाद्वस्तुतश्श्रेष्ठ उच्यते।।१८८।।
पितुः शतगुणा माता मातुः शतगुणस्तथा।।
विद्या मन्त्रप्रदाता च गुरुः पूज्यः श्रुतेर्मतः ।। १८९ ।।
गुरुतो गुरुपत्नी च गौरवे च गरीयसी ।।
यथेष्टं देवपत्नी च पूज्या चाभीष्टदेवता।। ।। 2.30.१९० ।।
विप्रः शिवसमो यश्च विष्णुतुल्यपराक्रमः ।।
राजाऽऽतिदेशिकाच्छ्रेष्ठो वास्तवो गुणलक्षतः ।। १९१ ।।
सर्वं गङ्गासमं तोयं सर्वे व्याससमा द्विजाः ।।
ग्रहणे सृर्य्यशशिनोश्चात्रैव समता तयोः ।। १९२ ।।
आतिदेशिकहत्याया वास्तवश्च चतुर्गुणः ।।
सम्मतः सर्ववेदानामित्याह कमलोद्भवः ।। १९३ ।।
आतिदेशिकहत्याया भेदश्च कथितः सति ।।
या याऽगम्या नृणामेव निबोध कथयामि ते ।। १९४ ।।
स्वस्त्री गम्या च सर्वेषामिति वेदे निरूपिता ।।
अगम्या च तदन्या या चेति वेदवेदो विदुः ।। १९५ ।।
सामान्यं कथितं सर्वं विशेषं शृणु सुन्दरि ।।
अत्यगम्याश्च या या वै निबोध कथयामि ते ।। १९६ ।।
शूद्राणां विप्रपत्नी च विप्राणां शूद्रकामिनी ।।
अत्यगम्याऽतिनिन्द्या च लोके वेदे पतिव्रते ।। १९७ ।।
शूद्रश्चेद्ब्राह्मणीं गच्छेद्ब्रह्महत्याशतं लभेत् ।।
तत्समं ब्राह्मणी चापि कुम्भीपाकं व्रजेद्ध्रुवम् ।। १९८ ।।
यदि शूद्रां व्रजेद्विप्रो वृषलीपतिरेव सः ।।
स भ्रष्टो विप्रजातेश्च चण्डालात्सो ऽधमः स्मृतः ।। १९९ ।।
विष्ठासमश्च तत्पिंडो मूत्रतुल्यं च तर्पणम् ।।
तत्पितॄणां सुराणां च पूजने तत्समं सति ।। 2.30.२०० ।।
कोटिजन्मार्जितं पुण्यं सन्ध्यार्चातपसाऽर्जितम् ।।
द्विजस्य वृषलीभोगान्नश्यत्येव न संशयः ।। २०१ ।।
ब्राह्मणश्च सुरापीती विड्भोजी वृषलीपतिः ।।
हरिवासरभोजी च कुम्भीपाकं व्रजेद्ध्रुवम् ।। २०२ ।।
गुरुपत्नीं राजपत्नीं सपत्नीमातरं प्रसूम् ।।
सुतां पुत्रवधूं श्वश्रूं सगर्भां भगिनीं सति ।। २०३ ।।
सोदरभ्रातृजायां च मातुलानीं पितृप्रसूम् ।।
मातुः प्रसूं तत्त्वसारं भगिनीं भ्रातृकन्यकाम् ।। ।। २०४ ।।
शिष्यां च शिष्यपत्नीं च भगिनेयस्य कामिनीम् ।।
भ्रातुः पुत्रप्रियां चैवाप्यगम्यामाह पद्मजः ।। २०५ ।।
एतास्वेकामनेकां वा यो व्रजेन्मानवोऽधमः ।।
स्वमातृगामी वेदेषु ब्रह्महत्याशतं लभेत् ।। २०६ ।।
अकर्म्मार्होऽपि सोऽस्पृश्यो लोके वेदेऽति निन्दितः ।।
स याति कुम्भीपाकं च महापापी सुदुस्तरम्।।२०७।।
करोत्यशुद्धां सन्ध्यां च सन्ध्यां वा न करोति यः।।
त्रिसन्ध्यां वर्जयेद्यो वा सन्ध्याहीनश्च स द्विजः ।।२०८।।
वैष्णवं च तथा शैवं शाक्तं सौरं च गाणपम् ।।
योऽहङ्कारान्न गृह्णाति मन्त्रं सोऽदीक्षितः स्मृतः ।।२०९।।
प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम् ।।
तत्र नारायणः स्वामी गङ्गागर्भान्तरे वरे ।। 2.30.२१० ।।
तत्र नारायणक्षेत्रे कुरुक्षेत्रे हरेः पदे।।
वाराणस्यां बदर्य्यां च गङ्गासागरसंगमे ।। २११ ।।
पुष्करे भास्करक्षेत्रे प्रभासे रासमण्डले ।।
हरिद्वारे च केदारे सोमे बदरपावने ।। २१२ ।।
सरस्वतीनदीतीरे पुण्ये वृन्दावने वने ।।
गोदावर्यां च कौशिक्यां त्रिवेण्यां च हिमालये ।। २१३ ।।
एष्वन्यत्र च यो दानं प्रतिगृह्णाति कामतः ।।
स च तीर्थप्रतिग्राही कुम्भीपाकं प्रयाति च ।। २१४ ।।
शूद्रातिरिक्तयाजी यो ग्रामयाजी च कीर्त्तितः ।।
तथा देवोपजीवी यो देवलः परिकीर्त्तितः ।। २१५ ।।
शूद्रपाकोपजीवी यः सूपकार इति स्मृतः ।।
सन्ध्यापूजाविहीनश्च प्रमत्तः पतितः स्मृतः ।। २१६ ।।
उक्तं पूर्वप्रकरणे लक्षणं वृषलीपतेः ।।
एते महापातकिनः कुम्भीपाकं प्रयान्ति ते ।। २१७ ।।
कुंडान्यन्यानि ते यान्ति निबोध कथयामि ते ।। २१८ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सावित्र्युपाख्याने यमसावित्रीसंवादे कर्मविपाके पापिनरकनिरूपणं शिवप्राशस्त्यं ब्रह्महत्यादिपदार्थपरिभाषानिरूपणं नाम त्रिंशत्तमोऽध्यायः ।। ३० ।।
यम उवाच ।।
हरिसेवां विना साध्वि न लभेत्कर्मखण्डनम् ।।
शुभकर्म्म स्वर्गबीजं नरकं च कुकर्म्मतः ।। १ ।।
पुंश्चल्यन्नं च यो भुंक्ते वेश्यान्नं च पतिव्रते ।।
तां व्रजेत्तु द्विजो यो हि कालसूत्रं प्रयाति सः ।। २ ।।
शतवर्षं कालसूत्रे स्थित्वा शूद्रो भवेद्ध्रुवम् ।।
तत्र जन्मनि रोगी च ततः शुद्धो भवेद्द्विजः ।। ।। ३ ।।
पतिव्रता चैकपत्नी द्वितीये कुलटा स्मृता ।।
तृतीये धर्षिणी ज्ञेया चतुर्थे पुंश्चली स्मृता ।। ४ ।।
वेश्या च पञ्चमे षष्ठे युग्मी च परिकीर्तिता ।।
अत ऊर्ध्वं महावेश्या साऽस्पृश्या सर्वजातिषु ।। ५ ।।
यो द्विजः कुलटां गच्छेद्धर्षिणीं पुंश्चलीमपि ।।
वेश्य युग्मीं महावेश्यामवटोदं प्रयाति सः ।। ६ ।।
शताब्दं कुलटागामी धृष्टागामी चतुर्गुणम् ।।
षड्गुणं पुंश्चलीगामी वेश्यागामी गुणाष्टकम् ।। ७ ।।
युग्मीगामी दशगुणं वसेत्तत्र न संशयः ।।
महावेश्याकामुकश्च ततः शतगुणं वसेत् ।। ८ ।।
तदा हि सर्वगामी चेत्येवमाह पितामहः ।।
तत्रैव यातनां भुङ्क्ते यमदूतेन ताडितः ।।९।।
तित्तिरिः कुलटागामी धृष्टागामी च वायसः।।
कोकिलः पुंश्चलीगामी वेश्यागामी वृकस्तथा ।। 2.31.१० ।।
युग्मीगामी सूकरश्च सप्तजन्मसु भारते ।।
महावेश्याकामुकश्च श्मशाने शाल्मलिस्तरुः ।। ११ ।।
यो भुंक्ते ज्ञानहीनश्च ग्रहणे चन्द्रसूय्यर्योः ।।
अरुन्तुदं स यात्येव चन्द्रमानाब्दमेव च ।। १२ ।।
ततो भवेन्मानवस्स्यादुदरव्याधिसंयुतः ।।
गुल्मयुक्तश्च काणश्च दन्तहीनस्ततः शुचिः ।। १३ ।।
वाक्प्रदत्तां हि कन्यां च यश्चान्यस्मै ददाति च ।।
स वसेत्पांशुभोगे च तद्भोजी च शताब्दकम् ।।१४।।
दत्तापहारी यः साध्वि पाशवेष्टं शताब्दकम् ।।
निवसेच्छरशय्यायां यमदूतेन ताडितः।।१५।।
न पूजयेद्यो हि भक्त्या शिवलिङ्गं च पार्थिवम् ।।
स याति शूलिनः कोपाच्छूलप्रोतं सुदारुणम् ।। १६ ।।
स्थित्वा शताब्दं तत्रैव श्वापदः सप्तजन्मसु ।।
ततो भवेद्देवलश्च सप्तजन्मस्वतः शुचिः ।। १७ ।।
करोति दण्डं यो विप्रे यद्भयात्कम्पते द्विजः ।।
प्रकम्पने वसेत्सोऽपि विप्रलोमाब्दमेव च ।।१८।।
प्रकोपवदना कोपात्स्वामिनं या च पश्यति ।।
कटूक्तिं तं च वदति याति चोल्कामुखं च सा ।। १९ ।।
उल्कां ददाति वक्त्रे च सततं यमकिङ्करः ।।
दण्डेन ताडयेन्मूर्ध्नि तल्लोमाब्दप्रमाणकम् ।। 2.31.२० ।।
ततो भवेन्मानवी च विधवा सप्तजन्मसु ।।
भुक्त्वा दुःखं च वैधव्यं व्याधिं भुक्त्वा ततः शुचिः ।।२१।।
या ब्राह्मणी शूद्रभोग्या साऽन्धकूपं प्रयाति च।।
तप्तशौचोदके ध्वान्ते तदाहारा दिवानिशम् ।। २२ ।।
निवसेदतिसन्तप्ता यमदूतेन ताडिता ।।
शौचोदके निमग्ना च यावदिन्द्राश्चतुर्दश ।। २३ ।।
काकी जन्मसहस्राणि शतजन्मानि सूकरी ।।
कुक्कुटी शतजन्मानि शृगाली सप्तजन्मसु ।।२४।।
पारावती सप्तजनौ वानरी सप्तजन्मसु ।।
ततो भवेत्सा चण्डाली सर्वभोग्या च भारते।।२५।।
ततो भवेच्च रजकी यक्ष्मग्रस्ता च पुंश्चली।।
ततः कुष्ठयुता तैलकारी शुद्धा भवेत्ततः ।। २६ ।।
वेश्या वसेद्वेधने च युग्मी वै दण्डताडने ।।
जालबन्धे महावेश्या कुलटा देहचूर्णके ।। २७ ।।
स्वैरिणी दलने चैव धृष्टा वै शोषणे तथा ।।
निवसेद्यातनायुक्ता यमदूतेन ताडिता ।। २८ ।।
विण्मूत्रभक्षणं तत्र यावन्मन्वन्तरं सति।।
ततो भवेद्विट्कृमिश्च वर्षलक्षं ततः शुचिः ।। २९ ।।
ब्राह्मणो ब्राह्मणीं गच्छेत्क्षत्त्रियामपि क्षत्रियः ।।
वैश्यो वैश्यां च शूद्रां च शूद्रो वाऽपि व्रजेद्यदि ।। 2.31.३० ।।
स्ववर्णपरदारी च कषं याति तया सह ।।
भुक्त्वा कषायतप्तोदं निवसेद्द्वादशाब्दकम् ।। ३१ ।।
ततो विप्रो भवेच्छुद्धश्चैवं च क्षत्रियादयः ।।
योषितश्चापि शुध्यन्तीत्येवमाह पितामहः ।। ३२ ।।
क्षत्रियो ब्राह्मणीं गच्छेद्वैश्यो वाऽपि पतिव्रते ।।
मातृगामी भवेत्सोऽपि शूर्पं च नरकं व्रजेत् ।। ३३ ।।
शूर्पाकारैश्च कृमिभिर्ब्राह्मण्या सह भक्षितः ।।
प्रतप्तमूत्रभोजी च यमदूतेन ताडितः ।। ३४ ।।
तत्रैव यातनां भुंक्ते यावदिन्द्राश्चतुर्दश ।।
सप्तजन्मसु वाराहश्छागलश्च ततः शुचिः ।। ३९ ।।
करे धृत्वा च तुलसीं प्रतिज्ञां यो न पालयेत् ।।
मिथ्या वा शपथं कुर्य्यात्स च ज्वालामुखं व्रजेत् ।। ३६ ।।
गङ्गातोयं करे धृत्वा प्रतिज्ञां यो न पालयेत् ।।
शिलां च देवप्रतिमां स च ज्वालामुखं व्रजेत् ।। ३७ ।।
दत्त्वा च दक्षिणं हस्तं प्रतिज्ञां यो न पालयेत् ।।
स्थित्वा देवगृहे वाऽपि स च ज्वालामुखं व्रजेत् ।। ३८ ।।
स्पृष्ट्वा च ब्राह्मणं गां च वह्निं विष्णुसमं सति ।।
न पालयेत्प्रतिज्ञां च स च ज्वालामुखं व्रजेत् ।। ३९ ।।
मित्रद्रोही कृतघ्नश्च यो हि विश्वासघातकः ।।
मिथ्यासाक्ष्यप्रदश्चैव स च ज्वालामुखं व्रजेत् ।। 2.31.४० ।।
एते तत्र वसन्त्येव यावदिन्द्राश्चतुर्दश ।।
यथाऽङ्गारप्रदग्धाश्च यमदूतैश्च ताडिताः ।। ४१ ।।
चण्डालस्तुलसीस्पर्शी सप्तजन्मस्वतः शुचिः ।।
म्लेच्छो गंगाजलस्पर्शी पञ्चजन्मस्वतः शुचिः ।। ४२।।
शिलास्पर्शी विट्कृमिश्च सप्तजन्मसु सुन्दरि ।।
अर्च्चास्पर्शी व्रणकृमिस्सप्तजन्मस्वतः शुचिः ।। ४३ ।।
दक्षहस्तप्रधाता च सर्पस्स्यात्सप्तजन्मसु ।।
ततो भवेद्धस्तहीनो मानवश्च ततः शुचिः ।। ४४ ।।
मिथ्यावादी देवगृहे देवलः सप्तजन्मसु ।।
विप्रादिस्पर्शकारी च सोऽग्रदानी भवेद्ध्रुवम् ।। ४५ ।।
ततो भवन्ति मूकास्ते बधिराश्च त्रिजन्मसु ।।
भार्य्याहीना वंशहीना बुद्धिहीनास्ततः शुचिः ।। ४६ ।।
मित्रद्रोही च न कुलः कृतघ्नश्चापि गण्डकः ।।
विश्वासघाती व्याघ्रश्च सप्तजन्मसु भारते ।। ४७ ।।
मिथ्यासाक्ष्यप्रदश्चैव भल्लूकः सप्तजन्मसु ।।
पूर्वान्सप्त परान्सप्त पुरुषान्हन्ति चात्मनः ।। '४८ ।।
नित्यक्रियाविहीनश्च जडत्वेन युतो द्विजः ।।
यस्यानास्था वेदवाक्ये मन्दं हसति संतमम्।। ।। ४९ ।।
व्रतोपवासहीनश्च सद्वाक्यपरिनिंदकः ।।
जिह्मे जिह्मो वसेत्सोऽपि शताब्दं च हिमोदके ।। 2.31.५० ।।
जलजंतुर्भवेत्सोऽपि शतजन्मक्रमेण च ।।
ततो नानाप्रकारा च मत्स्यजातिस्ततः शुचिः ।। ५१ ।।
यो वा धनस्यापहारं देवाब्रह्मणयोश्चरेत् ।।
पातयित्वा स्वपुरुषान्दश पूर्वान्दशापरान् ।। ५२ ।।
स्वयं याति च धूमांधं धूमध्वांतसमन्वितम् ।।
धूमक्लिष्टो धूमभोजी वसेत्तत्र चतुर्युगम् ।। ।। ५३ ।।
ततो मूषकजातिश्च शतजन्मानि भारते ।।
ततो नानाविधाः पक्षिजातयः कृमिजातयः ।। ५४ ।।
ततो नानाविधा वृक्षजातयश्च ततो नरः ।।
भार्याहीनो वंशहीनः शबरो व्याधिसंयुतः।। ५५ ।।
ततो भवेत्स्वर्णकारः सुवर्णस्य वणिक्तथा ।।
ततो यवनसेवी च ब्राह्मणो गणकस्ततः ।। ५६ ।।
विप्रो दैवज्ञोपजीवी वैद्यजीवी चिकित्सकः ।।
व्यापारी लोहलाक्षादे रसादेर्विक्रयी च यः ।। ।। ५७ ।।
स याति नागवेष्टं च नागैर्वेष्टित एव च ।।
वसेत्स्वलोममानाब्दं तत्र वै नागदंशितः ।। ५८ ।।
ततो भवेत्स गणको वैद्यो वै सप्तजन्मसु ।।
गोपश्च कर्म्मकारश्च शङ्खकारस्ततः शुचिः ।। ५९ ।।
प्रसिद्धानि च कुण्डानि कथितानि पतिव्रते ।।
अन्यानि चाप्रसिद्धानि तत्र क्षुद्राणि सन्ति वै ।। 2.31.६० ।।
सन्ति पातकिनस्तेषु स्वकर्मफलभोगिनः ।।
भ्रमंति तावत्संसारे किं भूयः श्रोतुमिच्छसि ।।६१।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सावित्र्युपाख्याने कर्मविपाके पापिनां कुण्डनिर्णयो नामैकत्रिंशत्तमोऽध्यायः ।। ३१ ।।
सावित्र्युवाच ।।
धर्मराज महाभाग वेदवेदाङ्गपारग ।।
नानापुराणेतिहासपाञ्चरात्रप्रदर्शकः ।।१।।
सर्वेषु सारभूतं यत्सर्वेष्टं सर्वसम्मतम् ।।
कर्मच्छेदे बीजरूपं प्रशंस्यं सुखदं नृणाम् ।। २ ।।
यशःप्रदं धर्मदं च सर्वमंगलमंगलम् ।।
येन यामीं न ते यांति यातनां भवदुःखदाम् ।। ३ ।।
कुण्डानि च न पश्यन्ति तत्र नैव पतंति च ।।
न भवेद्येन जन्मादि तत्कर्म वद सुव्रत ।। ४ ।।
किमाकाराणि कुण्डानि कानि तेषां मतानि च ।।
केन रूपेण तत्रैव सदा तिष्ठंति पापिनः ।। ५ ।।
स्वदेहे भस्मसाद्भूते यांति लोकान्तरं नराः ।।
केन देहेन वा भोगं भुञ्जते वा शुभाशुभम् ।। ६ ।।
सुचिरं क्लेशभोगेन कथं देहो न नश्यति ।।
देहो वा किंविधो ब्रह्मंस्तन्मे व्याख्यातुमर्हसि ।।७।।
नारायण उवाच ।। सावित्रीवचनं श्रुत्वा धर्मराजो हरिं स्मरन् ।।
कथां कथितुमारेभे गुरुं नत्वा च नारद।। ८ ।।
यम उवाच ।।
वत्से चतुर्षु वेदेषु धर्मो वै संहितासु च ।।
पुराणेष्वितिहासेषु पाञ्चरात्रादिकेषु च ।। ९ ।।
अन्येषु सर्वशास्त्रेषु वेदांगेषु च सुव्रते ।।
सर्वेष्टं सारभूतं च मंगलं कृष्णसेवनम् ।। 2.32.१० ।।
जन्ममृत्युजरारोगशोकसन्तापतारणम् ।।
सर्वमङ्गलरूपं च परमानन्दकारणम् ।। ११ ।।
कारणं सर्वसिद्धीनां नरकार्णवतारणम् ।।
भक्तिवृक्षांकुरकरं कर्मवृक्षनिकृन्तनम् ।।१२ ।।
गोलोकमार्गसोपानमविनाशिपदप्रदम्।।
सालोक्यसार्ष्टिसारूप्यसामीप्यादिप्रदं शुभे।।१३।।
कुण्डानि यमदूतं च यमं च यमकिङ्करान् ।।
स्वप्नेऽपि नहि पश्यन्ति सति श्रीकृष्णकिङ्कराः ।। १४ ।।
हरिव्रतं ये कुर्वंति गृहिणः कर्मभोगिनः ।।
ये स्नांति हरितीर्थे च नाश्नन्ति हरिवासरे ।। १५ ।।
प्रणमंति हरिं नित्यं हर्य्यर्चां पूजयन्ति च ।।
न यान्ति ते च घोरां च मम संयमनीं पुरीम् ।। १६ ।।
त्रिसन्ध्यपूता विप्राश्च शुद्धाचारसमन्विताः ।।
स्वधर्मनिरताः शान्ता न यान्ति यममन्दिरम् ।। १७ ।।
ते स्वर्गभोगिनोऽन्ये च शुद्धा देवान्यकिंकराः ।।
यान्त्यायान्ति च मर्त्यं च स्वर्गं च नहि निर्वृताः ।।
निवृत्तिं न हि लिप्सन्ति कृष्णसेवां विना नराः ।। १८ ।।
स्वधर्म्मनिरताश्चापि स्वधर्मविरतास्तथा ।।
गच्छन्तो मर्त्यलोकं च दुर्द्धर्षा यमकिङ्कराः ।। १९ ।।
भीताः कृष्णोपासकाच्च वैनतेयादिवोरगाः ।।
स्वदूतं पाशहस्तं च गच्छन्तं तं वदाम्यहम् ।। 2.32.२० ।।
यास्यसीति च सर्वत्र हरिभक्ताश्रमं विना ।।
कृष्णमन्त्रोपासकानां नामानि च निकृन्तनम् ।। २१ ।।
करोति नखराञ्जल्या चित्रगुप्तश्च भीतवत् ।।
मधुपर्कादिकं ब्रह्मा तेषां च कुरुते पुनः ।। २२ ।।
विलंघ्य ब्रह्मलोकं च गोलोके गच्छतां सताम् ।।
दुरितानि च नश्यन्ति तेषां संस्पर्शमात्रतः ।। २३ ।।
यथा सुप्रज्वलद्वह्नौ काष्ठानि च तृणानि च ।।
प्राप्नोति मोहः संमोहं तांश्च दृष्ट्वाऽतिभीतवत् ।। २४ ।।
कामश्च कामिनं याति लोभ क्रोधौ ततः सति ।।
मृत्युः पलायते रोगो जरा शोको भयं तथा ।। २५ ।।
कालः शुभाशुभं कर्म्म हर्षो भोगस्तथैव च ।।
ये ये न यान्ति यामीं च कथितास्ते मया सति ।। २६ ।।
शृणु देहस्य विवृतिं कथयामि यथागमम् ।।
पृथिवी वायुराकाशं तेजस्तोयमिति स्फुटम् ।। २७ ।।
देहिनां देहबीजं च स्रष्टुः सृष्टिविधौ परम् ।।
पृथ्व्यादिपञ्चभूतैश्च यो देहो निर्मितो भवेत् ।। २८ ।।
स कृत्रिमो नश्वरश्च भस्मसाच्च भवेदिह ।।
वृद्धाङ्गुष्ठप्रमाणेन यो जीवः पुरुषाकृतिः ।। २९ ।।
बिभर्ति सूक्ष्मदेहं च तद्रूपं भोगहेतवे ।।
स देहो न भवेद्भस्म ज्वलदग्नौ ममालये ।। 2.32.३० ।।
जलेन नष्टो देहो वा प्रहारे सुचिरं कृते ।।
न शस्त्रे च न चास्त्रे च सुतीक्ष्णे कण्टके तथा ।। ३१ ।।
तप्तद्रवे तप्तलौहे तप्तपाषाण एव च ।।
प्रतप्तप्रतिमाश्लेषेऽप्यत्यूर्ध्वनेऽपि च ।। ।। ३२ ।।
न च दग्धो न भग्नश्च भुंक्ते संतापमेव च ।।
कथितं देवि वृत्तान्तं कारणं च यथागमम् ।।
कुण्डानां लक्षणं सर्वं निबोध कथयामि ते ।। ।। ३३ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सावित्र्युपाख्याने द्वात्रिंशत्तमोऽध्यायः ।। ३२ ।।
यम उवाच ।।
पूर्णेन्दुमण्डलाकारं सर्वकुण्डं च वर्तुलम् ।।
अतीव निम्नं पाषाणभेदैश्च खचितं सति ।। १ ।।
न नश्वरं चाप्रलयं निर्मितं चेश्वरेच्छया ।।
क्लेशदं वै पातकिनां नानारूपं तदालयम् ।। २ ।।
ज्वलदङ्गाररूपं च शतहस्तशिखान्वितम् ।।
परितः क्रोशमानं च वह्निकुण्डं प्रकीर्त्तितम् ।। ३ ।।
महच्छब्दं प्रकुर्वद्भिः पापिभिः परिपूरितम् ।।
रक्षितं मम दूतैश्च ताडितैश्चापि सन्ततम् ।। ४ ।।
प्रतप्तोदकपूर्णं च हिंस्रजन्तुसमन्वितम् ।।
महाघोरान्धकारं च पापिसंघेन संकुलम् ।। ९ ।।
प्रकुर्वता काकुशब्दं प्रहारैर्वर्णितेन च।।
क्रोशार्द्धमानं मद्दूतस्ताडितेन च रक्षितम् ।। ६ ।।
तत्तक्षारोदकैः पूर्णं नक्रैश्च परिवेष्टितम् ।।
सङ्कुलं पापिभिश्चैव क्रोशमानं भयानकम् ।। ७ ।।
त्राहीति शब्दं कुर्वद्भिर्मम दूतैश्च ताडितैः ।।
प्रचलद्भिरनाहारैः शुष्ककण्ठौष्ठतालुकैः ।। ८ ।।
विण्मूत्रैरेव पूर्णं च क्रोशमानं च कुत्सितम् ।।
अतिदुर्गन्धिसंयुक्तं व्याप्तं पापिभिरेव च ।। ९ ।।
ताडितैर्मम दूतैश्चाप्यनाहारैरुपद्रवैः ।।
रक्षेति शब्दं कुर्वद्भिस्तत्कीटैरेव भक्षितम्।। ।। 2.33.१० ।।
तप्तमूत्रद्रवैः पूर्णं मूत्रकीटैश्च संकुलम् ।।
युक्तं महापापिभिश्च तत्कीटैर्दंशितं सदा ।। ११ ।।
गव्यूतिमानं ध्वान्ताक्तं शब्दकृद्भिश्च सन्ततम्।।
मद्दूतैस्ताडितैर्घोरैः शुष्ककण्ठौष्ठतालुकैः ।।१२।।
श्लैष्मपूर्णं क्रोशमितं वेष्टितं चेष्टितैः सदा ।।
तद्भोजिभिः पापिभिश्च तत्कीटैर्भक्षितैः सदा ।। १३ ।।
क्रोशार्द्धं गरपूर्णं च गरभोजिभिरन्वितम् ।।
गरकीटैर्भक्षितैश्च पापिभिः पूर्णमेव च।। १४।।
ताडितैर्मम दूतैश्च शब्दकृद्भिश्च कम्पितैः ।।
सर्पाकारैर्वज्रदंष्ट्रैः शुष्ककण्ठैः सुदारुणैः।।१५।।
नेत्रयोर्मलपूर्णं च क्रोशार्द्धं कीटसंयुतम् ।।
पापिभिः संकुलं शश्वद्द्रवद्भिः कीटभक्षितैः ।। १६ ।।
वसारसेन पूर्णं च क्रोशतुर्य्यं सुदुस्सहम् ।।
तद्भोजिभिः पातकिभिर्व्याप्तं दूतैश्च ताडितैः ।।१७।।
शुक्रपूर्णं क्रोशतुर्य्यं शुक्रकीटैश्च भक्षितैः ।।
क्रन्दद्भिः पापिभिः शश्वत्संकुलं व्याकुलैर्भिया।। ।। १८ ।।
दुर्गन्धिरक्तपूर्णं च वापीमानं गभीरकम् ।।
तद्भोजिभिः पापिभिश्च संकुलं कीटभक्षितैः ।। १९ ।।
पूर्णं नेत्राश्रुभिर्नृणां वाप्यर्द्धं पापिभिर्युतम् ।।
ताडितैर्मम दूतैश्च तद्भक्ष्यैः कीटभक्षितैः ।। 2.33.२० ।।
नृणां गात्रमलैः पूर्णं तद्भक्ष्यैः पापिभिर्युतम् ।।
ताडितैर्मम दूतैश्च व्यग्रैश्च कीटभक्षितैः।।२१।।
कर्णविट्परिपूर्णं च तद्भक्ष्यैः पापिभिर्युतम् ।।
वापीतुर्य्यप्रमाणं च रुदद्भिः कीटभक्षितै।।२२।।
मज्जापूर्णं नराणां च महादुर्गन्धिसंयुतम् ।।
महापातकिभिर्युक्तं वापीतुर्य्यप्रमाणकम् ।। २३ ।।
परिपूर्णं स्निग्धमांसैर्मम दूतैश्च ताडितैः।।
पापिभिः सङ्कुलं चैव वापीमानं भयानकम् ।। २४ ।।
कन्याविक्रयिभिश्चैव तद्भक्ष्यैः कीटभक्षितैः ।।
त्राहीति शब्दं कुर्वद्भिस्त्रासितैश्च भयानकम् ।। २५ ।।
वापीतुर्य्यप्रमाणं च नखादिकचतुष्टयम् ।।
पापिभिः संकुलं शश्वन्मम दूतैश्च ताडितैः ।। २६ ।!
प्रतप्तताम्रकुंडं च ताम्रपर्य्युन्मुखान्वितम् ।।
ताम्राणां प्रतिमालक्षैः प्रतप्तैरावृतं सदा ।। २७ ।।
प्रत्येकं प्रतिमाश्लिष्टै रुदद्भिः पापिभिर्युतम् ।।
गव्यूतिमानं विस्तीर्णं मम दूतैश्च ताडितैः ।। २८ ।।
प्रतप्तलोहधारं च ज्वलदङ्गारसंयुतम् ।।
लोहानां प्रतिमालक्षैः प्रतप्तैरावृतं सदा ।। २९ ।।
प्रत्येकं सर्वसंश्लिष्टैः शश्वद्विचलितैर्भिया ।।
रक्ष रक्षेति शब्दं च कुर्वद्भिर्दूतताडितैः ।। 2.33.३० ।।
महापातकिभिर्युक्तं द्विगव्यूतिप्रमाणकम् ।।
भयानकं ध्वान्तयुक्तं लौहकुण्डं प्रकीर्तितम् ।। ३१ ।।
धर्मकुण्डं तप्तसुराकुण्डं वाप्यर्द्धमेव च ।।
तद्भोजिभिः पापिभिश्च व्याप्तं मद्दूतताडितैः ।।३२।।
अधः शाल्मलिवृक्षस्य तीक्ष्णकण्टककुण्डकम् ।।
लक्षपौरुषमानं च क्रोशमानं च दुःखदम् ।। ३३ ।।
धनुर्माने कण्टकैश्च सुतीक्ष्णैः परिवेष्टितम् ।। ३४ ।।
प्रत्येकं कंटकैर्विद्धं महापातकिभिर्युतम् ।।
वृक्षाग्रान्निपतद्भिश्च मम दूतैश्च ताडितैः ।। ३५ ।।
जलं देहीति शब्दं च कुर्वद्भिः शुष्कतालुकैः ।।
महाभयाऽतिव्यग्रैश्च दण्डसंभिन्नमस्तकैः ।।
प्रचलद्भिर्यथा तप्ततैले जीविभिरेव च ।।३६।।
विषौघैस्तक्षकादीनां पूर्णं च क्रोशमानकम्।।
तद्भक्ष्यैः पापिभिर्युक्तं मम दूतैश्च ताडितैः ।। ३७ ।।
प्रतप्ततैलपूर्णं च कीटादिपरिवर्जितम् ।।
तद्भक्ष्यैः पापिभिर्युक्तं स्निग्धगात्रैश्च वेष्टितैः ।। ३८ ।।
काकुशब्दं प्रकुर्वद्भिश्चलद्भिर्दूतताडितैः ।।
महापातकिभिर्युक्तं द्विगव्यूतिप्रमाणकम् ।। ३९ ।।
शस्त्रकुण्डं ध्वान्तयुक्तं क्रोशमानं भयानकम् ।।
शूलाकारैः सुतीक्ष्णाग्रैर्लौहशस्त्रैश्च वेष्टितम् ।। 2.33.४० ।।
शस्त्रतल्पस्वरूपं च क्रोशतुर्य्यप्रमाणकम् ।।
पातकिभिर्वेष्टितं च कुन्तविद्धैश्च वेष्टितम् ।। ४१ ।।
ताडितैर्मम दूतैश्च शुष्ककण्ठौष्ठतालकैः ।।
कीटैः संपीड्यमानैश्च सर्पयानैर्भयङ्करैः ।।४२।।
तीक्ष्णदन्तैश्च विकृतैर्व्याप्तं ध्वान्तयुतं सति ।।
महापातकिभिर्युक्तं भीतैर्वा कीटभक्षितैः ।।
रुदद्भिः क्रोशमानं च मम दूतैश्च ताडितैः ।। ४३ ।।
अतिदुर्गन्धिसंयुक्तं क्रोशार्द्धं पूयसंयुतम् ।।
तद्भक्ष्यैः पापिभिर्युक्तं मम दूतैश्च ताडितैः ।। ४४ ।।
द्विगव्यूति प्रमाणं च हिमतोयप्रपूरितम् ।।
तालवृक्षप्रमाणैश्च सर्पकोटिभिरावृतम् ।। ४९' ।।
सर्पवेष्टितगात्रैश्च पापिभिः सर्पभक्षितैः ।।
संकुलं शब्दकृद्भिश्च मम दूतैश्च ताडितैः ।। ४६ ।।
कुण्डत्रयं मशादीनां पूर्णं च मशकादिभिः ।।
सर्वं कोशार्द्धमानं च महापातकिभिर्युतम् ।। ४७ ।।
हस्तपादादिभिर्बद्धैः क्षत्रैः क्षतजलौहितैः ।।
हाहेति शब्दं कुर्वद्भिः प्रचलद्भिश्च सन्ततम्।।४८।।
वज्रवृश्चिकयोः कुण्डं ताभ्यां च परिपूरितम् ।।
वाप्यर्द्धं पापिभिर्युक्तं वज्रवृश्चिकदंशितैः ।। ४९ ।।
कुण्डत्रयं शरादीनां तैरेव परिपूरितम् ।।
तैर्विद्धैः पापिभिर्युक्तं वाप्यर्द्धं रक्तलोहितैः ।।2.33.५०।।
तप्तपङ्कोदकैः पूर्णं सध्वान्तं गोलकुण्डकम् ।।
कीटैः संपीड्यमानैश्च भक्षितैः पापिभिर्युतम् ।। ५१ ।।
वाप्यर्द्धं परिपूर्णं च जलस्थैर्नक्रकोटिभिः ।।
दारुणैर्विकृताकारैर्भक्षितैः पापिभिर्युतम् ।। ५२ ।।
विण्मूत्रश्लेष्मभक्ष्यैश्च संयुक्तं शतकोटिभिः ।।
काकैश्च विकृताकारैर्धनुर्लक्षं च पापिभिः ।। ५३ ।।
सञ्चालवाजयोः कुण्डं ताभ्यां च परिपूरितम् ।।
भक्षितैः पापिभिर्युक्तं शब्दकृद्भिश्च सन्ततम् ।। ५४ ।।
धनुःशतं वज्रयुक्तं पापिभिः सङ्कुलं सदा ।।
शब्दकृद्भिर्वज्रदग्धैरन्तर्ध्वान्तमयं सदा।। ।। ५५ ।।
वापीद्विगुणयानं च तप्तप्रस्तरनिर्मितम् ।।
ज्वलदङ्गारसदृशं चलद्भिः पापिभिर्युतम् ।। ५६ ।।
क्षुरधारोपमैस्तीक्ष्णैः पाषाणे र्निर्मितं परम् ।।
महापातकिभिर्युक्तं क्षतं क्षतजलोहितैः ।। ५७ ।।
दुर्गन्धिलालापूर्णं च तद्भक्ष्यैः पापिभिर्युतम् ।।
क्रोशमानं गभीरं च मम दूतैश्च ताडितैः ।।५८।।
तप्ततोयेऽञ्जनाकारैः परिपूर्णं धनुश्शतम् ।।
चलद्भिः पापिभिर्युक्तं मम दूतेन ताडितैः।।५९।।
पूर्णं चूर्णद्रवैः क्रोशमानं पापिभिरन्वितम् ।।
तद्भोजिभिः प्रदग्धैश्च मम दूतैश्च ताडितैः ।। 2.33.६० ।।
कुण्डं कुलालचक्राभं घूर्ण्यमानं च सन्ततम् ।।
सुतीक्ष्णषोडशारं च घूर्णितैः पापिभिर्युतम् ।। ६१ ।।
अतीव वक्रं निम्नं च द्विगव्यूतिप्रमाणकम् ।।
कन्दराकारनिर्माणं तप्तोदकसमन्वितम् ।।६२।।
महापातकिभिर्युक्तं भक्षितैर्जलजन्तुभिः ।।
प्रचलद्भिः शब्दकृद्भिर्ध्वान्तयुक्तं भयानकम् ।। ६३ ।।
कोटिभिर्विकृताकारैः कच्छपैश्च सुदारुणैः ।।
जलस्थैः संयुतं तैश्च भक्षितैः पापिभिर्युतम्।।६४।।
ज्वालाकलापैस्तेजोभिनिर्मितं क्रोशमानकम् ।।
शब्दकृद्भिः पापिभिश्च चलद्भिः संयुतं सदा ।। ६५ ।।
क्रोशमानं गभीरं च तप्तभस्मभिरन्वितम् ।।
शश्वच्चलद्भिः संयुक्तं पापिभिर्भस्मभक्षितैः ।। ६६ ।।
तप्तपाषाणलोष्टानां समूहैः परिपूरितम् ।।
प्राणिभिर्दग्धगात्रैश्च युक्तं वै शुष्कतालुकैः ।। ६७ ।।
क्रोशमानं ध्वान्तमयं गभीरमतिदारुणैः ।।
ताडितैर्मम दूतैश्च दग्धकुण्डं प्रकीर्तितम् ।। ६८ ।।
अप्यूर्मियुक्ततोयं च प्रतप्तक्षारसंयुतम् ।।
नानाप्रकार विकृतं जलजन्तुसमन्वितम् ।। ६९ ।।
द्विगव्यूतिप्रमाणं च गभीरं ध्वान्तसंयुतम् ।।
तद्भक्ष्यैः पापिभिर्युक्तं दंशितैर्जलजन्तुभिः।।2.33.७०।।
चलद्भिः क्रन्दमानैश्च न पश्यद्भिः परस्परम् ।।
उत्तप्तसूर्मिकुण्डं च कीर्तितं च भयानकम् ।। ७१ ।।
असिपत्रवनस्यैवाप्युच्चैस्ताल तरोरधः ।।
क्रोशार्द्धमानकुण्डं च पतत्पत्रसमन्वितम् ।। ७२ ।।
पापिनां रक्तपूर्णं च वृक्षाग्रात्पततां परम् ।।
परित्राहीति शब्दं च कुर्वतामसतामपि ।। ७३ ।।
गभीरं ध्वान्तसंयुक्तं रक्तकीटसमन्वितम् ।।
तदसीपत्रकुण्डं च कीर्तितं च भयानकम् ।। ७४ ।।
धनुश्शतप्रमाणं च क्षुराकारास्त्रसंकुलम्।।
पापिनां रक्तपूर्णं च क्षुरधारं भयानकम्।।७५।।
सूचीवाश्यास्त्रसंयुक्तं पापिरक्तौघपूरितम्।।
पञ्चाशद्धनुरायामं क्लेशदं सूचीकामुखम् ।। ७६ ।।
गोधाह्वजन्तुभेदस्य मुखाकृति भयानकम् ।।
कूपरूपं गभीरं च धनुर्विंशतिमानकम् ।। ७७ ।।
महापातकिना चैव महाक्लेशकरं परम् ।।
तत्कीटभक्षितानां च नम्रास्यानां च सन्ततम् ।। ७८ ।।
कुण्डं नरमुखाकारं धनुष्षोडशमानकम् ।।
गभीरं कूपरूपं च पापिष्ठैः संकुलं सदा ।। ७९ ।।
गजेन्द्राणां समूहेन व्याप्तं कुण्डाकृति स्थलम्।।
गजदन्तहतानां च पापिनां रक्तपूरितम् ।। 2.33.८० ।।
तत्कीटभक्षितानां च दीनशब्दकृतां सदा ।।
धनुश्शतप्रमाणं च कीर्त्तितं गजदंशनम् ।। ८१ ।।
धनुस्त्रिंशत्प्रमाणं च कुण्डं वै गोमुखाकृति ।।
पापिनां दुःखदं चैव गोमुखं परिकीर्त्तितम् ।। ८२ ।।
भ्रमितं कालचक्रेण सन्ततं च भयानकम् ।।
कुम्भाकारं ध्वान्तयुक्तं द्विगव्यूतिप्रमाणकम् ।। ८३ ।।
लक्षमानवमानं च गभीरमतिविस्तृतम् ।।
कुत्रचित्तप्ततैलं च कुण्डाभ्यन्तरमन्तिके ।।८४।।
कुत्रचित्तप्तलौहादिकुण्डं ताम्रादिकं तथा ।।
कुत्रचित्तप्तपाषाणकुण्डाभ्यन्तरमन्तिके ।। ८५ ।।
पापिनां च प्रधानैश्च महापातकिभिर्युतम् ।।
परस्परं न पश्यद्भिः शब्दकृद्भिश्च सन्ततम् ।। ८६ ।।
ताडितैर्मम दूतैश्च दण्डैश्च मुसलैस्तथा ।। ८७ ।।
घूर्णमानं पतद्भिश्च मूर्च्छितैश्च मुहुर्मुहुः ।।
पातितैर्मम दूतैश्चाप्यत्यूर्ध्वात्पतितैः क्षणम् ।। ८८ ।।
यावन्तः पापिनः सन्ति सर्वकुण्डेषु सुन्दरि ।।
चतुर्गुणाः सन्ति तत्र कुम्भीपाके च दुस्तरे ।। ८९ ।।
सुचिरं पतिताश्चैव भोगदेहविवर्जिताः ।।
सर्वकुण्डप्रधानं च कुम्भीपाकं प्रकीर्तितम् ।। 2.33.९० ।।
कालनिर्मितसूत्रेण निबद्धा यत्र पापिनः ।।
उत्थापिताश्च मद्दूतैः क्षणमेव निमज्जिताः ।। ९१ ।।
निश्वासबन्धाः सुचिरं कुण्डानामन्तरे तथा ।।
अतीवक्लेशयुक्ताश्च भोगदेहा अनश्वराः ।। ९२ ।।
दण्डेन मुसलेनैव मम दूतैश्च ताडिताः ।।
प्रतप्ततोययुक्तं च कालसूत्रं प्रकीर्तितम् ।। ९३ ।।
अवटः कूपभेदश्च यत्रोदं च तदाकृति ।।
प्रतप्ततोयपूर्णं च धनुर्विंशत्प्रमाणकम् ।। ९४ ।।
व्याप्तं महापापिभिश्च दग्धगात्रैश्च सन्ततम् ।।
मद्दूतैस्ताडितैः शश्वदवटोदं प्रकीर्तितम् ।। ९५ ।।
यत्तोयस्पर्शमात्रेण सर्व व्याधिश्च पापिनाम् ।।
भवेदकस्मात्पततां यत्र कुण्डे धनुश्शते ।। ९६ ।।
सर्वे रुद्धाः पापिनश्च व्यथन्ते यत्र सन्ततम् ।।
हाहेति शब्दं कुर्वन्तस्तदेवारुन्तुदं विदुः ।।।९७।।
तप्तपांसुभिराकीर्णं ज्वलद्भिस्तु सुदग्धकैः ।।
तद्भक्ष्यैः पापिभिर्युक्तं पांसुभोजं धनुश्शतम् ।।९८।।
पततां पापिनां यत्र भवेदेव प्रकम्पनम् ।।
पातमात्रेण पापी वै भवेत्पाशेन वेष्टितः ।। ९९ ।।
क्रोशमाने च कुण्डे वै विदुस्तत्पाशवेष्टनम् ।।
धनुर्विंशतिमानं च शूलप्रोतं प्रकीर्तितम् ।। 2.33.१०० ।।
पातमात्रेण पापी च शूलेन ग्रथितो भवेत् ।।
पततां पापिनां यत्र भवेदेव प्रकम्पनम् ।। १०१ ।।
अतीव हिमतोये च क्रोशार्द्धं च प्रकम्पनम् ।।
ददत्येव हि मद्दूता यत्रोल्काः पापिनां मुखे ।। १०२ ।।
धनुर्विंशतिमानं च तदुल्काभिश्च संकुलम् ।।
लक्षमानवमानं च गभीरं च धनुश्शतम् ।। १०३ ।।
नानाप्रकारक्रिमिभिः संयुक्तं च भयानकैः ।।
अत्यन्धकारख्याप्तं यत्कूपाकारं च वर्त्तुलम् ।। १०४ ।।
तद्भक्ष्यैः पापिभिर्युक्तं न पश्यद्भिः परस्परम्।।
तप्ततोयप्रदग्धैश्च चलद्भिः कीटभक्षितैः ।।
ध्वान्तेन चक्षुषा चान्धैरन्धकूपं प्रकीर्तितम् ।। १०५ ।।
नानाप्रकारशस्त्रौघैर्यत्र विद्धाश्च पापिनः ।।
धनुर्विंशतिमानं च वेधनं तत्प्रकीर्तितम् ।। १०६ ।।
दण्डेन ताडिता यत्र मम दूतैश्च पापिनः ।।
धनुःषोडशमानं च तत्कुण्डं दण्डताडनम् ।। १०७ ।।
निबद्धाश्च महाजालैर्यथा मीनाश्च पापिनः ।।
धनुस्त्रिंशत्प्रमाणं च जालबद्धप्रकीर्तितम् ।। १०८ ।।
पततां पापिनां कुण्डे देहाश्चूर्णीभवन्ति च ।।
लौहवेदिनिबद्धान्तः कोटिमानवमानकम् ।।१०९।।
गभीरं ध्वान्तयुक्तं च धनुर्विंशतिमानकम् ।।
मूर्च्छितानां जडानां तद्देहचूर्णं प्रकीर्तितम् ।। 2.33.११० ।।
दलिताः पापिनो यत्र मद्दूतैर्मुसलैः सदा ।।
धनुष्षोडशमानं च तत्कुण्डं दलनं स्मृत म् ।। १११ ।।
पातमात्रे यत्र पापी शुष्ककण्ठौष्ठतालुकः ।।
वालुकासु च तप्तासु धनुस्त्रिंशत्प्रमाणकम् ।। ११२ ।।
शतमानवमानं च गभीरं ध्वान्तसंयुतम्।।
जलाहारैर्विरहितं शोषणं तत्प्रकीर्तितम्।।११३।।
नानाचर्मकषायोदैः परिपूर्णं धनुःशतम्।।
दुर्गन्धियुक्तं तद्भक्ष्यैः पापिभिः संकुलं महत् ।।११४।।
शूर्पाकारमुखं कुण्डं धनुर्द्वादशमानकम्।।
तप्तलौहीवालुकाभिः पूर्णं पातकिभिर्युतम्।।११५।।
अन्तरा ऽग्निशिखानां च ज्वालाव्यात्तमुखं सदा ।।
धनुर्विंशतिमानं च यस्य कुण्डस्य सुन्दरि ।। ११६ ।।
ज्वालाभिर्दग्धगात्रैश्च पापिभिर्व्याप्तमेव यत् ।।
तन्महत्क्लेशदं शश्वत्कुण्डं ज्वालामुखं स्मृतम् ।। ११७ ।।
पातमात्राद्यत्र पापी मूर्छितो व्यथितो भवेत्।।
तप्तेष्टकाभ्यन्तरितं वाप्यर्द्धं जिह्मकुण्डकम् ।। ११८ ।।
धूमान्धकारयुक्तं च धूमान्धैः पापिभिर्युतम् ।।
धनुःशतं श्वासबद्धैर्धूमान्धं परिकीर्तितम् ।। ११९ ।।
पातमात्राद्यत्र पापी नागैस्संवेष्टितो भवेत् ।।
धनुःशतं नागपूर्णं नागवेष्टनकुण्डकम् ।। 2.33.१२० ।।
षडशीतिश्च कुण्डानि मयोक्तानि निशामय ।।
लक्षणं चापि तेषां च किं भूयः श्रोतुमिच्छसि ।। १२१ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सावित्र्युपाख्याने यमलोकस्थनरककुण्डलक्षणप्रकथनं नाम त्रयस्त्रिंशोऽध्यायः ।। ३३ ।।
सावित्र्युवाच ।।
हरिभक्तिं देहि मह्यं सारभूतां सुदुर्लभाम् ।।
त्वत्तः सर्वं श्रुतं देव नावशिष्टोऽधुना मम ।। १ ।।
किंचित्कथय मे धर्मं श्रीकृष्णगुणकीर्त्तगम् ।।
पुंसां लक्षोद्धारबीजं नरकार्णवतारकम् ।। २ ।।
कारणं मुक्तिकार्याणां सर्वाशुभनिवारणम् ।।
दारणं कर्मवृक्षाणां कृत पापौघहारकम् ।। ३ ।।
मुक्तयः कतिधा सन्ति किं वा तासां च लक्षणम् ।।
हरिभक्तेर्मूर्तिभेदं निषेकस्यापि लक्षणम् ।। ४ ।।
तत्त्वज्ञानविहीना च स्त्रीजातिर्विधिनिर्मिता ।।
किं तज्ज्ञानं सारभूतं वद वेदविदां वर ।। ५ ।।
सर्वदानं ह्यनशनं तीर्थस्नानं व्रतं तपः ।।
अज्ञाने ज्ञानदानस्य कलां नार्हन्ति षोडशीम् ।। ६ ।।
पितुः शतगुणा माता गौरवेणातिरिच्यते ।।
मातुः शतगुणैः पूज्यो ज्ञानदाता गुरुः प्रभो ।। ७ ।।
यम उवाच ।।
पूर्वं सर्वो वरो दत्तो यस्ते मनसि वाञ्छितः ।।
अधुना हरिभक्तिस्ते वत्से भवतु मद्वरात् ।। ८ ।।
श्रोतुमिच्छसि कल्याणि श्रीकृष्णगुणकीर्त्तनम् ।।
वक्तॄणां प्रश्नकर्तॄणां श्रोतॄणां कुलतारकम् ।। ९ ।।
शेषो वक्त्रसहस्रेण नहि यद्वक्तु मीश्वरः ।।
मृत्युञ्जयो न क्षमश्च वक्तुं पञ्चमुखेन च ।। 2.34.१० ।।
धाता चतुर्णां वेदानां विधाता जगतामपि ।।
ब्रह्मा चतुर्मुखेनैव नालं विष्णुश्च सर्ववित् ।। ११ ।।
कार्तिकेयः षण्मुखेन नापि वक्तुमलं ध्रुवम् ।।
न गणेशः समर्थश्च योगीन्द्राणां गुरोर्गुरुः ।। १२ ।।
सारभूताश्च शास्त्राणां वेदाश्चत्वार एव च ।।
कलामात्रं यद्गणानां न विदन्ति बुधाश्च ये ।। १३ ।।
सरस्वती च यत्नेन नालं यद्गुणवर्णने ।।
सनत्कुमारो धर्मश्च सनकश्च सनातनः ।।१४।।
सनन्दः कपिलः सूर्य्यो ये चान्ये ब्रह्मणः सुताः ।।
विचक्षणा न यद्वक्तुं के वाऽन्ये जडबुद्धयः।।१९।।
न यद्वक्तुं क्षमाः सिद्धा मुनीन्द्रा योगिनस्तथा ।।
के वाऽन्ये च वयं के वा भगवद्गुणवर्णने।।१६।।
ध्यायन्ति यत्पदाम्भोजं ब्रह्मविष्णुशिवादयः ।।
अतिसाध्यं स्वभक्तानां तदन्येषां सुदुर्लभम् ।। १७ ।।
कश्चित्किंचिद्विजानाति तद्गुणोत्कीर्त्तनं महत् ।।
अतिरिक्तं विजानाति ब्रह्मा ब्रह्मसुतादयः ।। १८ ।।
ततोऽतिरिक्तं जानाति गणेशो ज्ञानिनां गुरुः ।।
सर्वातिरिक्तं जानाति सर्वज्ञः शम्भुरेव च ।।१९।।
तस्मै दत्तं पुरा ज्ञानं कृष्णेन परमात्मना।।
अतीव निर्जने रम्ये गोलोके रासमण्डले।।2.34.२०।।
तत्रैव कथितं किंचिद्यद्गुणोत्कीर्त्तनं पुनः ।।
धर्माय कथयायास शिवलोके शिवः स्वयम् ।। २१ ।।
धर्मस्तत्कथयामास पुष्करे भास्कराय च ।।
पिता मम यमाराध्य गां प्राप तपसा सति ।। २२ ।।
पूर्वं स्वविषयं चाहं न गृह्णामि प्रयत्नतः ।।
वैराग्ययुक्तस्तपसे गन्तुमिच्छामि सुव्रते ।। २३ ।।
तदा मां कथयामास पिता तद्गुणकीर्त्तनम् ।।
यथागमं तद्वदामि निबोधातीव दुर्गमम् ।। २४ ।।
तद्गुणं स न जानाति तदन्यस्य च का कथा ।।
यथाऽऽकाशं न जानाति स्वान्तमेव वरानने ।। २५ ।।
सर्वान्तरात्मा भगवान्सर्वकारणकारणम्।।
सर्वेश्वरश्च सर्वाद्यः सर्ववित्सर्वरूपधृक् ।। २६ ।।
नित्यरूपी नित्यदेही नित्यानन्दो निराकृतिः ।।
निरंकुशश्च निश्शृङ्गो निर्गुणश्च निराश्रयः ।। २७ ।।
निर्लिप्तः सर्वसाक्षी च सर्वाधारः परात्परः ।।
प्रकृतिस्तद्विकारा च प्राकृतास्तद्विकारजाः ।। २८ ।।
स्वयं पुमांश्च प्रकृतिः स्वयं च प्रकृतेः परः ।।
रूपं विधत्तेऽरूपश्च भक्तानुग्रहहेतवे ।। २९ ।।
अतीव कमनीयं च सुन्दरं सुमनोहरम् ।।
नवीननीरदश्यामं किशोरं गोपवेषकम् ।। 2.34.३० ।।
कन्दर्पकोटिलावण्यलीलाधाम मनोहरम् ।।
शरन्मध्याह्नपद्मानां शोभामोषकलोचनम् ।। ३१ ।।
शरत्पार्वणकोटीन्दुशोभासंशोभिताननम् ।।
अमूल्यरत्नखचितरत्नाभरणभूषितम् ।। ३२ ।।
सस्मितं शोभितं शश्वदमूल्याऽऽपीतवाससा ।।
परं ब्रह्मस्वरूपं च ज्वलन्तं ब्रह्मतेजसा ।। ३३ ।।
सुखदृश्यं च शान्तं च राधाकान्तमनन्तकम् ।।
गोपीभिर्वीक्ष्यमाणं च सस्मिताभिः समन्ततः ।। ३४ ।।
रासमण्डलमध्यस्थं रत्नसिंहासनस्थितम्।।
वंशीं क्वणन्तं द्विभुजं वनमालाविभूषितम् ।। ३५ ।।
कौस्तुभेन मणीन्द्रेण सुन्दरं वक्षसोज्ज्वलम् ।।
कुङ्कुमागरुकस्तूरीचन्दनार्चितविग्रहम् ।। ३६ ।।
चारुचम्पकमालाब्जमालतीमाल्यमण्डितम् ।।
चारुचम्पकशोभाढ्यचूडावक्त्रिमराजितम् ।। ३७ ।।
ध्यायन्ति चैवम्भूतं वै भक्ता भक्तिपरिप्लुताः।।
यद्भयाज्जगतां धाता विधत्ते सृष्टिमेव च ।। ३८ ।।
करोति लेखनं कर्मानुरूपं सर्वदेहिनाम् ।।
तपसां फलदाता च कर्मणां च यदाज्ञया ।। ३९ ।।
विष्णुः पाता च सर्वेषां यद्भयात्पाति सन्ततम् ।।
कालाग्निरुद्रः संहर्त्ता सर्वविश्वेषु यद्भयात् ।। 2.34.४० ।।
शिवो मृत्युञ्जयश्चैव ज्ञानिनां च गुरोर्गुरुः ।।
यज्ज्ञानदानात्सिद्धेशो योगीशः सर्ववित्स्वयम् ।।४१ ।।
परमानन्द युक्तश्च भक्तिवैराग्यसंयुतः ।।
यत्प्रसादाद्वाति वातः प्रवरः शीघ्रगामिनाम् ।। ४२ ।।
तपनश्च प्रतपति यद्भयात्सन्ततं सति ।।
यदाज्ञया वर्षतीन्द्रो मृत्युश्चरति जन्तुषु ।। ४३ ।।
यदाज्ञया दहेद्वह्निर्जलमेव सुशीतलम् ।।
दिशो रक्षन्ति दिक्पाला महाभीता यदाज्ञया ।। ४४ ।।
भ्रमन्ति राशिचक्राणि ग्रहा वै यद्भयेन च ।।
भयात्फलन्ति वृक्षाश्च पुष्पन्त्यपि च यद्भयात् ।। ४५ ।।
भयात्फलानि पक्वानि निष्फलास्तरवो भयात् ।।
यदाज्ञया स्थलस्थाश्च न जीवन्ति जलेषु च ।। ४६ ।।
तथा स्थले जलस्थाश्च न जीवन्ति यदाज्ञया ।।
अहं नियमकर्त्ता च धर्माधर्मं च यद्भयात् ।। ४७ ।।
कालश्च कलयेत्सर्वं भ्रमत्येव यदाज्ञया ।।
अकाले हरेत्कालो मृत्युर्वै यद्भयेन च ।। ४८ ।।
ज्वलदग्नौ पतन्तं च गभीरे च जलार्णवे ।।
वृक्षाग्रात्तीक्ष्णखड्गे च सर्पादीनां मुखेषु च।।४९।।
नानाशस्त्रास्त्रविद्धं च रणेषु विषमेषु च ।।
पुष्पचन्दनतल्पे च बन्धुवर्गैश्च रक्षितम् ।। 2.34.५० ।।
शयानं तन्त्रमन्त्रैश्च काले कालो हरेद्भयात् ।।
धत्ते वायुस्तोयराशिं तोयं कूर्मं यदाज्ञया ।। ५१ ।।
कूर्मोऽनन्तं स च क्षोणीं समुद्रान्सप्तपर्वतान् ।।
सर्वांश्चैव क्षमारूपो नानारूपं बिभर्त्ति सः ।। ५२ ।।
यतः सर्वाणि भूतानि लीयन्तेऽन्ते च तत्र वै ।।
इन्द्रायुश्चैव दिव्यानां युगानामेकसप्ततिः ।।५३।। ।
अष्टाविंशच्छक्रपाते ब्रह्मणस्स्यादहर्निशम् ।।
षष्ट्याधिके पञ्चशते सहस्रे पञ्चविंशतौ ।। ५४ ।।
युगे नराणां शक्रायुरेवं संख्याविदो विदुः ।।
एवं त्रिंशद्दिनैर्मासो द्वाभ्यां ताभ्यामृतुः स्मृतः ।। ५५ ।।
ऋतुभिः षड्भिरेवाब्दं शताब्दं ब्रह्मणो वयः ।।
ब्रह्मणश्च निपाते वै चक्षुरुन्मीलनं हरेः ।। ५६ ।।
चक्षुर्निमीलने तस्य लयं प्राकृतिकं विदुः ।।
प्रलये प्राकृताः सर्वे देवाद्याश्च चराचराः ।। ५७ ।।
लीना धातरि धाता च श्रीकृष्णे नाभिपङ्कजे ।।
विष्णुः क्षीरोदशायी च वैकुण्ठे यश्चतुर्भुजः ।। ५८ ।।
विलीना वामपार्श्वे च कृष्णस्य परमात्मनः ।।
रुद्राद्या भैरवाद्याश्च यावन्तश्च शिवानुगाः ।। ५९ ।।
शिवाधारे शिवे लीना ज्ञानानन्दे सनातने ।।
ज्ञानाधिदेवः कृष्णस्य महादेवस्य चात्मनः ।। 2.34.६० ।।
तस्य ज्ञाने विलीनश्च बभूवाथ क्षणं हरेः ।।
दुर्गायां विष्णुमायायां विलीनाः सर्व शक्तयः ।। ६१ ।।
सा च कृष्णस्य बुद्धौ च बुद्ध्यधिष्ठातृदेवता ।।
नारायणांशः स्कन्दश्च लीनो वक्षसि तस्य च ।। ६२ ।।
श्रीकृष्णांशश्च तद्बाहौ देवाधीशो गणेश्वरः ।।
पद्मांशभूता पद्मायां सा राधायां च सुव्रते ।।६३।।
गोप्यश्चापि च तस्यां च सर्वा वै देवयोषितः।।
कृष्णप्राणाधिदेवी सा तस्य प्राणेषु सा स्थिता ।।६४।।
सावित्री च सरस्वत्यां वेदशास्त्राणि यानि च ।।
स्थिता वाणी च जिह्वायां तस्यैव परमात्मनः ।। ६५ ।।
गोलोकस्थस्य गोपाश्च विलीनास्तस्य लोमसु ।।
तत्प्राणेषु च सर्वेषां प्राणा वाता हुताशनः ।। ६६ ।।
जठराग्नौ विलीनश्च जलं तद्रसनाग्रतः।।
वैष्णवाश्चरणाम्भोजे परमानन्दसंयुताः ।। ६७ ।।
सारात्सारतरा भक्तिरसपीयूषपायिनः ।।
विराट् क्षुद्रश्च महति लीनः कृष्णे महान्विराट् ।। ६८ ।।
यस्यैव लोमकूपेषु विश्वानि निखिलानि च ।।
यस्य चक्षु निमेषेण महांश्च प्रलयो भवेत् ।।६९।।
चक्षुरुन्मीलने सृष्टिर्यस्यैव परमात्मनः ।।
यावन्निमेषे सृष्टिस्स्यात्तावदुन्मीलने व्ययः ।।2.34.७०।।
ब्रह्मणश्च शताब्देन सृष्टिस्तत्र लयः पुनः।।
ब्रह्मसृष्टिलयानां च संख्या नास्त्येव सुव्रते ।।७१।।
यथा भूरजसां चैव संख्यानं च निशामय ।।
चक्षुर्निमेषे प्रलयो यस्य सर्वान्तरात्मनः ।। ७२ ।।
उन्मीलने पुनः सृष्टिर्भवेदेवेश्वरेच्छया ।।
तद्गुणोत्कीर्त्तनं वक्तुं ब्रह्माण्डेषु च कः क्षमः ।। ७३ ।।
यथा श्रुतं तातवक्त्रात्तथोक्तं च यथागमम् ।।
मुक्तयश्च चतुर्वेदैर्निरुक्ताश्च चतुर्विधाः ।। ७४ ।।
तत्प्रधाना हरेर्भक्तिर्मुक्तेरपि गरीयसी।।
सालोक्यदा हरेरेका चान्या सारूप्यदा परा ।।७५।।
सामीप्यदा च निर्वाणदात्री चैवमिति स्मृतिः।।
भक्तास्ता नहि वाञ्छन्ति विना तत्सेवनादिकम् ।। ७३ ।।
सिद्धत्वममरत्वं च ब्रह्मत्वं चावहेलया ।।
जन्ममृत्युजराव्याधिभयशोकादिखण्डनम्।।७७।।
धारणं दिव्यरूपस्य विदुर्निर्वाणमोक्षदम् ।।
मुक्तिश्च सेवारहिता भक्तिः सेवाविवर्द्धिनी।।७८।।
भक्तिमुक्त्योरयं भेदो निषेके लक्षणं शृणु ।।
विदुर्बुधा निषेकं च भोगं च कृतकर्मणाम् ।। ७९ ।।
तत्खण्डनं च शुभदं परं श्रीकृष्णसेवनम् ।।
तत्त्वज्ञानमिदं साध्वि सारं वै लोकवेदयोः ।। 2.34.८० ।।
विघ्नघ्नं शुभदं चोक्तं गच्छ वत्से यथासुखम् ।।
इत्युक्त्वा सूर्य्यपुत्रश्च जीवयित्वा च तत्पतिम् ।। ८१।।
तस्यै शुभाशिषं दत्त्वा गमनं कर्तुमुद्यतः ।।
दृष्ट्वा यमं च गच्छन्तं सावित्री तं प्रणम्य च ।। ८२ ।।
रुरोद चरणे धृत्वा सद्विच्छेदोऽतिदुःखदः ।।
सावित्रीरोदनं दृष्ट्वा यमस्सोऽयं कृपानिधिः ।। ८३ ।।
तामित्युवाच सन्तुष्टस्त्वरोदीच्चापि नारद ।। ८४ ।।
यम उवाच ।।
लक्षवर्षं सुखं भुक्त्वा पुण्यक्षेत्रे च भारते ।।
अन्ते यास्यसि गोलोके श्रीकृष्णभवनं शुभे ।। ८५ ।।
गत्वा च स्वगृहं भद्रे सावित्र्याश्च व्रतं कुरु ।।
द्द्विसप्तवर्षपर्य्यन्तं नारीणां मोक्षकारणम् ।। ८६ ।।
ज्येष्ठे शुक्लचतुर्दश्यां सावित्र्याश्च व्रतं शुभम्।।
शुक्लाष्टम्यां भाद्रपदे महालक्ष्म्या व्रतं शुभम् ।। ८७ ।।
द्व्यष्टवर्षव्रतं चेदं प्रत्यब्दं पक्षमेव च ।।
करोति परया भक्त्या सा याति च हरेः पदम् ।। ८८ ।।
प्रतिमङ्गलवारे च देवीं मङ्गलचण्डिकाम् ।।
प्रतिमासं शुक्लषष्ठ्यां षष्ठीं मङ्गलदायिकाम् ।।८९।।
तथा चाषाढसंक्रान्त्यां मनसा सर्वसिद्धिदाम् ।।
राधां रासे च कार्तिक्यां कृष्णप्राणाधिकां प्रियाम् ।। 2.34.९० ।।
उपोष्य शुक्लाष्टम्यां च प्रतिमासे वरप्रदाम् ।।
विष्णुमायां भगवतीं दुर्गां दुर्गार्तिनाशिनीम् ।। ९१ ।।
प्रकृतिं जगदम्बां च पतिपुत्रवतीं सतीम् ।।
पतिव्रतासु शुद्धासु यन्त्रेषु प्रतिमासु च ।। ९२ ।।
या नारी पूजयेद्भक्त्या धनसन्तानहेतवे ।।
इह लोके सुखं भुक्त्वा यात्यन्ते श्रीहरेः पदम् ।। ९३ ।।
इत्युक्त्वा तां धर्मराजो जगाम निजमन्दिरम्।।
गृहीत्वा स्वामिनं सा च सावित्री च निजालयम्।।९४।।
सावित्री सत्यवन्तं च वृत्तान्तं च यथाक्रमम्।।
अन्यांश्च कथयामास बान्धवांश्चैव नारद ।। ९५ ।।
सावित्रीजनकः पुत्रान्स प्रापद्वै क्रमेण च ।।
श्वशुरश्चक्षुषी राज्यं सा च पुत्रान्वरेण च ।। ९६ ।।
लक्षवर्षं सुखं भुक्त्वा पुण्यक्षेत्रे च भारते ।।
जगाम स्वामिना सार्द्धं गोलोकं सा पतिव्रता ।। ९७ ।।
सवितुश्चाधिदेवी या मन्त्राधिष्ठातृदेवता ।।
सावित्री चापि वेदानां सावित्री तेन कीर्त्तिता ।। ९८ ।।
इत्येवं कथितं वत्स सावित्र्याख्यानमुत्तमम् ।।
जीवकर्मविपाकं च किं पुनः श्रोतुमिच्छसि ।। ९९ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सावित्र्युपाख्याने सावित्र्या यमोपदेशसमाप्तिर्नाम चतुस्त्रिंशत्तमोऽध्यायः ।। ३४ ।।
इति सावित्र्युपाख्यानम् ।।
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.