बृहत्पाराशरहोराशास्त्रम् ९१-९७
Brihat Parashara Hora Shastram
अथ ग्रहणजातशान्त्यध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ९१॥
सूर्येन्दुग्रहणे काले येषां जन्म भवेद् द्विज ।
व्याधिः कष्टं च दारिद्र्यं तेषां मृत्युभयं भवेत् ॥ १॥
अतः शान्तिं प्रवक्ष्यामि जनानां हितकाङ्क्षया ।
सूर्यस्येन्दोश्च ग्रहेणं यस्मिनृक्षे प्रजायते ॥ २॥
तन्नक्षत्रपते रूपं सुवर्णेन प्रकल्पयेत् ।
सूर्यग्रहे सूर्यरूपं सुवर्णेन स्वशक्तितः ॥ ३॥
चन्द्रग्रहे चन्द्ररूपं रजतेन तथैव च ।
राहुरूपं प्रकुर्वीत सीसकेन विचक्षणः ॥ ४॥
शुचौ देशे समं स्थानं गोमयेन प्रलेपयेत् ।
तत्र च स्थापयेद् वस्त्रं नूतनं सुमनोहरम् ॥ ५॥
त्रयाणामेव रूपाणां स्थापनं तत्र कारयेत् ।
सूर्यग्रहे प्रदातव्यं सूर्यप्रीतिकरं च यत् ॥ ६॥
रक्ताक्षतं रक्तगन्धं रक्तमाल्याम्बरादिकम् ।
चन्द्रग्रहे प्रदातव्यं चन्द्रप्रीतिकरं च यत् ॥ ७॥
श्वेतगन्धं श्वेतपुष्पं श्वेतमाल्याम्बरादिकम् ।
राहवे च प्रदातव्यं कृष्णपुष्पाम्बरादिकम् ॥ ८॥
दद्यान्नक्षत्रनाथाय श्वेतगन्धादिकं तथा ।
सूर्यं सम्पूजयेद्धीमानाकृष्णेति च मन्त्रतः ॥ ९॥
अथा चन्द्रं इमे देवा इति मन्त्रेण भक्तितः ।
दूर्वाभि पूजयेद्राहुं कया न इति मन्त्रतः ॥ १०॥
सूर्येन्द्वोरर्कपालाशमिद्भिर्जुहुयात् क्रमात् ।
तथा च राहोः प्रीत्यर्थं दूर्वाभिर्द्विजसत्तम ॥ ११॥
ब्रह्मवृक्षसमिद्भिश्च भेशाय जुहुयात् पुनः ।
अभिषेकं ततः कुर्यात् जातस्य कलहोदकैः ॥ १२॥
आचार्यं पूजयेद्भक्त्या सुशान्तो विजितेन्द्रियः ।
ब्राह्मणान् भोजयेत्वा तु यथाशक्ति विसर्जयेत् ॥ १३॥
एवं ग्रहणजातस्य शान्तिं कृत्वा विधानतः ।
सर्वविघ्नं विनिर्जित्वा सौभाग्यं लभते नरः ॥ १४॥
अथ गण्डान्तजातशान्त्यध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ९२॥
तिथिनक्षत्रलग्नानां गण्डान्तं त्रिविधं स्मृतम् ।
जन्मयात्राविवाहादौ भवेत्तन्निधनप्रदम् ॥ १॥
पूर्णानन्दाख्ययोस्तिथ्योः सन्धौ नाडीचतुष्टयम् ।
अध ऊर्ध्वं च मैत्रेय तिथिगण्डान्तमुच्यते ॥ २॥
रेवतीदास्रयोः साप्रमघयोः शाक्रमूलयोः ।
सन्धौ नक्षत्रगण्डान्तमेवं नाडीचतुष्टयम् ॥ ३॥
मीनाजयोः कर्किहर्योर्लग्नयोरलिचापयोः ।
सन्धौ च लग्नगण्डान्तमधऊर्ध्व घटीमितम् ॥ ४॥
एषु चाभुक्तमूलाख्यं महाविघ्नपदं स्मृतम् ।
इन्द्रराक्षसयोः सन्धौ पञ्चाष्टघटिकाः क्रमात् ॥ ५॥
अथ गण्डान्तजातस्य शिशोः शान्तिविधिं ब्रुवे ।
गण्डान्तकालजातस्य सूतकान्त्यदिने पिता ॥ ६॥
शान्तिंशुभेऽह्नि वा कुर्यात् पश्येत् तावन्न तं शिशुम् ।
वृषभं तिथिगण्डान्ते नक्षत्रे धनुमेव च ॥ ७॥
काञ्चनं लग्नगण्डान्ते दद्यात्तद्दोषप्रशान्तये ।
आद्यभागे प्रजातस्य पितुश्चाप्यभिषेचनम् ॥ ८॥
द्वितीये तु शिशोर्मातुरभिषेकं च कारयेत् ।
सुवर्णेन तदर्धेण यथावित्तं द्विजोत्तम ।
तिथिभेषादिरूपं च कृत्वा वस्त्रसमन्वितम् ॥ ९॥
उपचारैर्यथाशक्ति कलहोपरि पूजयेत् ।
पूजान्ते समिदन्नज्यैर्होम। कुर्याद्यथाविधि ॥ १०॥
ब्राह्मणान् भोजयेत् पश्चादेवं दोषात्प्रमुच्यते ।
आयुरारोग्यमैश्वर्यं सम्प्राप्नोति दिने दिने ॥ ११॥
अथ अभुक्तमूलशान्त्यध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ९३॥
ज्येष्ठामूलमयोर्यस्मादधिपाविन्द्रराक्षसौ ।
महावैरात् तयोः सन्धिर्महादोषप्रदः स्मृतः ॥ १॥
अभुक्तमूलजं पुत्रं पुत्रीं वाऽपि परित्यजेत् ।
अथवाऽब्दाष्टकं तातस्तन्मुखं न विलोकयेत् ॥ २॥
तद्दोषपरिहारार्थमथ शान्तिविधिं ब्रुवे ।
तत्राऽदौ दोषबहुल्यान् मूलशान्तिर्निगद्यते ॥ ३॥
जन्मतो द्वादशाहे वा तदृक्षे वा शुभे दिने ।
जातस्य वाऽष्टमे वर्षे शान्तिं कुर्याद् विधानतः ॥ ४॥
सुसमे च शुभे स्थाने गोमयेनोपलेपिते ।
मण्डपं स्वगृहात् प्राच्यामुदीच्यां वा प्रकल्पयेत् ॥ ५॥
चतुर्द्वारसमायुक्तं तोरणाद्यैरलङ्कृतम् ।
कुण्डं ग्रहादियज्ञार्थं तद्बहिश्च प्रकल्पयेत् ॥ ६॥
सुवर्णेन तदर्धेन तदर्धार्धेन वा पुनः ।
नक्षत्रदेवतारूपं कुर्याद् वित्तानुसारतः ॥ ७॥
श्यामवर्णं महोग्रं च द्विशिरस्कं वृकाननम् ।
खड्गचर्मधरं तद्वद् ध्येयं कुणपवाहनम् ॥ ८॥
सुवर्णस्य च मूल्यं वा स्थापयित्वा प्रपूजयेत् ।
सुवर्णं सर्वदैवत्यं यतः शास्त्रेषु निश्चितम् ॥ ९॥
आचार्यं वरयेत् पश्चात् स्वस्तिवाचनुपूर्वकम् ।
कलशस्थापनं कुर्यात् स्वगृह्योक्तविधानतः ॥ १०॥
पञ्चगव्यादिकं क्षेप्यं कलशे तीर्थवारि च ।
शतौषध्यादिकं तत्र शतच्छिद्रघटे क्षिपेत् ॥ ११॥
वंशपात्रं च संस्थाप्य तत्र वै पश्चिमामुखम् ।
अर्चेयेन्निरृतिं देवं शुक्लवस्त्राक्षतादिभिः ॥ १२॥
इन्द्रं तदधिदेवं च जलं प्रत्यधिदैवतम् ।
स्वस्वशाखोक्तमन्त्रेण प्रधानादीन्प्रपूजयेत् ॥ १३॥
देवाधिदेवप्रीत्यर्थं होमं कुर्याद्यथाविधि ।
अष्टोत्तरं सहस्रं वा शतं वा नियतेन्द्रियः ॥ १४॥
मृत्युप्रशमनार्थं च मन्त्रं त्रयम्बकं जपेत् ।
प्रार्थयेच्च ततो देवमभिषेकार्थमादरात् ॥ १५॥
भद्रासनोपविष्टस्य सस्त्रीपुत्रस्य मन्त्रवित् ।
आचार्यो यजमानस्य कुर्यात् प्रीत्याभिषेचनम् ॥ १६॥
वस्त्रान्तरितकुम्भाभ्यां स्नापयेत्तदनन्तरम् ।
शुक्लाम्बरधरस्तद्वत् श्वेतगन्धानुलेपनः ॥ १७॥
धेनुं पयस्विनीं दद्यादाचार्याय च शक्तितः ।
ऋत्विग्भ्यो दक्षिणां दद्याद् ब्राह्मणांश्चापि भोजयेत् ॥ १८॥
यत्पापं यच्च मे दौःस्थ्यं सर्वगात्रेष्ववस्थितम् ।
तत्सर्वं भक्षयाज्य त्वं लक्ष्मीं पुष्टिं च वर्धय ॥ १९॥
अनेनैव तु मन्त्रेण सम्यगाज्यं विलोकयेत् ।
मूलगण्डोद्भवस्तैवं सर्पपापं प्रणश्यति ॥ २०॥
अथ ज्येष्ठादि गण्डशान्त्यध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ९४॥
ज्येष्ठागण्डान्तजातस्तु पितुः स्वस्य च नाशकः ।
तस्य शान्तिविधिं वक्ष्ये सर्वविघ्नोपशान्तये ॥ १॥
मूलशान्तिसमं सर्वमात्रापि मण्डपादिकम् ।
इन्द्रोऽत्र देवता तद्वदधिदेवोऽनलस्तथा ॥ २॥
विज्ञेयं च तथा विप्र रक्षः प्रत्यधिदैवतम् ।
यथाशक्ति सुवर्णेन कुर्यादिन्द्रस्वरूपकम् ॥ ३॥
वज्राङ्कुशधरं दिव्यं गजराजोपरिस्थितम् ।
शालितण्डुलसंयुक्तकुम्भस्योपरि पूजयेत् ॥ ४॥
स्वस्वगृह्योक्तमन्त्रेण गन्धपुष्पाक्षतादिभिः ।
अभिषेकं च होमं च कुर्याद् ब्राह्मणभोजनम् ॥ ५॥
इन्द्रसूक्तं जपेद् भक्त्या मन्त्रं मृत्युञ्जयं तथा ।
प्रार्थयेदिन्द्रदेवं च ततः शान्तिमवाप्नुयात् ॥ ६॥
अथ वा शक्त्यभावे तु कुर्याद् गोदानमेव हि ।
यतः समस्तभूदानाद् गोदानमतिरिच्यते ॥ ७॥
मूलेन्द्राहिमघागण्डजाते दद्याद् गवां त्रयम् ।
गोयुग्मं पौष्णदास्रोत्थे गण्डान्ते च द्विजन्मने ॥ ८॥
अन्यगण्डे च दुर्योगे गामेकां हि प्रदापयेत् ।
गोरभावे च विप्राय दद्यात् तन्मूल्यमेव हि ॥ ९॥
ज्येष्ठनक्षत्रजा कन्या विनिहन्ति धवाग्रजम् ।
विशाखान्त्यपदोत्पन्ना कन्या देवरघातिनी ॥ १०॥
तस्याः प्रदानकालेऽतो गोदानमपि कारयेत् ।
आश्लेषान्त्यत्रिपादोत्थौ मूलाद्यत्रिपदोद्भवौ ॥ ११॥
कन्यासुतौ हतः श्वश्रूं श्वशुरञ्च यथाक्रमम् ।
तयोर्विवाहकालेऽतः शान्तिं कुर्याद् विचक्षणः ॥ १२॥
तत्तदोषविनाशाय यथावित्तानुसारतः ।
धवाग्रजद्यभावे तु न दोषाय प्रजायते ॥ १३॥
अथ त्रीतरजन्मशान्त्यध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ९५॥
अथाऽन्यत् सम्प्रवक्ष्यामि जन्मदोषप्रदं द्विज ।
सुतत्र्ये सुताजन्म तत्त्रये सुतजन्म चेत् ॥ १॥
तदाऽरिष्टभयं ज्ञेयं पितृमातृकुलद्वये ।
तत्र शान्तिविधिं कुर्याद् वित्तशाठ्यविवर्जितः ॥ २॥
सूतकान्तेऽथ वा शुद्धे समये च शुभे दिने ।
आचार्यमृत्विजो वृत्वा ग्रहयज्ञपुरस्सरम् ॥ ३॥
ब्रह्मविष्णु महेशेन्द्रप्रतिमाः स्वर्णजाः शुभाः ।
पूजयेद् धान्यराशिस्थकलशोपरि भक्तितः ॥ ४॥
चत्वारि रुद्रसूक्तानि शान्तिसूक्तानि सर्वशः ।
विप्र एको जपेद् होमकाले च सुचिसंयतः ॥ ५॥
आचार्यो जुहुयात्तत्र समिदाज्यतिलांश्चरुम् ।
अष्टोत्तरं सहस्रं वा शतं वाऽष्टौ च विंशतिम् ॥ ६॥
ब्रह्मादिसर्वदेवेभ्यः स्वस्वगृह्योक्तमन्त्रतः ।
ततः स्विष्टकृतं हुत्वा बलिं पूर्णाहुतिं पुनः ॥ ७॥
अभिषेकं च जातस्य सकुटुम्बस्य कारयेत् ।
ऋत्विग्भ्यो दक्षिणां दद्याद् ब्राह्मणांश्चापि भोजयेत् ॥ ८॥
कांस्याज्यवीक्षणं कृत्वा दीनानाथांश्च तर्पयेत् ।
एवं शान्त्या च मैत्रेय सर्वारिष्टं विलीयते ॥ ९॥
अथ प्रसवविकारशान्त्यध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ९६॥
अथाऽहं सम्प्रवक्ष्यामि विकारं प्रसवोद्भवम् ।
येनाऽरिष्टं समस्तस्य ग्रामस्य च कुलस्य च ॥ १॥
अत्यल्पे वाऽधिके काले प्रसवो यदि जायते ।
हीनाङ्गोवाऽधिकाङ्गो वा विशिरा द्विशिरास्तथा ॥ २॥
नार्या पश्वाकृतिर्वापि पशुष्वपि नराकृतिः ।
प्रसवस्य विकारोऽयं विनाशायोपजायते ॥ ३॥
यस्य स्त्रियाः पशुनां वा विकाराः प्रसवोद्भवः ।
अनिष्टं भवने तस्य कुलेऽपि च महद् भवेत् ॥ ४॥
तद्दोषपरिहारार्थं शान्तिः कार्या प्रयत्नतः ।
स्त्री वा गौवंडवा वापि परित्याज्या हितार्थिना ॥ ५॥
नार्याः पञ्चदशे वर्षे जन्मतः षोडशोऽपि वा ।
गर्भो वा प्रसवो वाऽपि न शुभाय प्रजायते ॥ ६॥
सिंहराशिस्थितेऽर्क गौनक्रस्थे महिषी तथा ।
प्रसूता स्वामिनं हन्ति स्वयं चापि विनश्यति ॥ ७॥
ब्राह्मणाय प्रदद्यात् तां शान्तिं वापि समाचरेत् ।
ब्रह्मविष्णुमहेशानां ग्रहाणां चैव पूजनम् ॥ ८॥
सर्वं होमादिकं कर्म कुर्यात् त्रितरशान्तिवत् ।
ततो गृहो सुखी भूत्वा सर्वपापैः प्रमुच्यते ॥ ९॥
एवं त्वरिष्टे सम्प्राप्ते नरः शान्तिं करोति यः ।
सर्वान् कामानवाप्नोति चिरजीवी सुखी च सः ॥ १०॥
अथोपसंहाराध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ९७॥
यच्छास्त्रं ब्रह्मणा प्रोक्तं नारदाय महात्मने ।
तदेव शौनकादिभ्यो नारदः प्राह सादरम् ॥ १॥
ततो मया यथा ज्ञातं तुभ्यमुक्तं तथा द्विज ।
नासूयकाय दातव्यं परनिन्दारताय वा ॥ २॥
जडाय दुर्विनीताय नाज्ञाताय कदाचन ।
देयमेतत्सुरिलाय भक्ताय सत्यवादिने ॥ ३॥
मेधाविने विनीताय सम्यग् ज्ञातकुलाय च ।
पुण्यदं ज्यौतिषं शास्त्रमग्र्यं वेदाङ्गमुत्तमम् ॥ ४॥
जानाति कालमानं यो ग्रहर्क्षाणां च संस्थितिम् ।
होराशास्त्रमिदं सम्यक् स विजानाति नाऽपरः ॥ ५॥
होराशास्त्रार्थतत्त्वज्ञः सत्यवाग् विजितेन्द्रियः ।
शुभाऽशुभं फलं वक्ति सत्यं तद्वचनं भवेत् ॥ ६॥
ये सुशास्त्रं पठन्तीदं ये वा शृण्वन्ति भक्तितः ।
तेषांमायुर्बलं वित्तं वृद्धिमेति यशः सदा ॥ ७॥
इत्थं पराशरेणोक्तं होराशास्त्रं चमत्कृतम् ।
नवं नवजनप्रीत्यै विविधाध्यायसंयुतम् ॥ ८॥
श्रेष्ठं जगद्धितायेदं मैत्रेयाय द्विजन्मने ।
ततः प्रचरितं पृथ्व्यामादृतं सादरं जनैः ॥ ९॥
ग्रन्थेऽस्मिन् पृथगध्यायैर्विषया विनिवेशिताः ।
सृष्टिक्रमोऽवताराश्च गुणाः खेटस्य भस्य च ॥ १०॥
विशेषलग्नं वर्गाश्च तद्विवेकश्च राशिदृक् ।
अरिष्टं तद्विभङ्गश्च विवेको भावजस्तथा ॥ ११॥
भावानां च फलाध्यायो भावेशोत्थफलं तथा ।
अप्रकाशफलं स्पष्टखेटदृष्टिप्रसाधनम् ॥ १२॥
ततः स्पष्टबलाध्यायः - Vraja Loka Astro Spiritual Counselling इष्टकष्टप्रसाधनम् ।
पदं चोपपदं तद्वदर्गला त्वथ कारकाः ॥ १३॥
कारकांशफलं योगकारकाध्याय एव च ।
नाभसा विविधा योगाश्चन्द्रयोगोऽर्कयोगकः ॥ १४॥
राजयोगस्ततः प्रोक्तो राजसम्बन्धयोगकः ।
विशेषधनयोगाश्च योगा दारिद्र्यकारकाः ॥ १५॥
आयुर्मारकभेदाश्च ग्रहावस्थाः फलान्विताः ।
नानाविधदशाध्यायास्तत्फलाध्यायः - Vraja Loka Astro Spiritual Counselling संयुताः ॥ १६॥
अन्तःप्रत्यन्तरप्राणसूक्ष्मसंज्ञाश्च तद्भिदाः ।
सूर्याद्यष्टकवर्गश्च त्रिकोणपरिशोधनम् ॥ १७॥
एकाधिपत्यसंशुद्धिस्ततः पिण्डप्रसाधनम् ।
ततश्चाऽष्टकवर्गाणां प्रस्फुटानि फलानि च ॥ १८॥
ततोऽप्यष्टकवर्गायुःसाधनं च ततः परम् ।
समुदायाष्टवर्गोत्थफलाध्यायः - Vraja Loka Astro Spiritual Counselling परिस्फुटः ॥ १९॥
ग्रहरश्मिफलाध्यायः - Vraja Loka Astro Spiritual Counselling सुदर्शनफलं तथा ।
महापुरुषचिह्नानि महाभूतफलानि च ॥ २०॥
गुणत्रयफलाध्यायस्ततोऽप्यज्ञातजन्मनाम् ।
जन्मलग्नादिविज्ञानं प्रव्रज्यालक्षणानि च ॥ २१॥
स्त्रीणां च फलवैष्ट्यमङ्गलक्ष्मफलानि च ।
पूर्वपापोत्थशापोत्थयोगा वैपुत्र्यकारकाः ॥ २२॥
सत्पुत्रप्राप्त्युपायाश्च सहैव प्रतिपादिताः ।
जन्मन्यनिष्टलग्नर्क्षतिथ्यादिप्रतिपादनम् ॥ २३॥
तत्तच्छान्तिविधिश्चैव संक्षेपेण प्रदर्शितः ।
प्रसवस्य विकाराश्च कथिताः शान्तिसंयुताः ॥ २४॥
एवं जातकवर्येऽत्र निविष्टा विषयाः शतम् ।
विज्ञाय विबुधास्त्वेतान् प्राप्नुवन्तु यशः श्रियम् ॥ २५॥
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.