The greatness of Krishna Devotees - Vraja Loka Astro Spiritual Center

The greatness of Krishna Devotees  As described in Srimad Bhagavatham  Vraja Loka Astro SPiitual Center     .. Shri Ganeshaya Namah.. .. ॐ S...

Thursday, November 19, 2009

ईशोपनिषत् - The Ishopanishad

 

 

 

ईशोपनिषत्

 

   Vraja Loka Astro SPiritual Counselling   ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

 

          Vraja Loka Astro SPiritual Counselling   ॐ शान्तिः शान्तिः शान्तिः ॥

 

       ॥ अथ ईशोपनिषत् ॥

 

   Vraja Loka Astro SPiritual Counselling   ॐ ईशा वास्यमिद सर्वं यत्किञ्च जगत्यां जगत्

तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥ १॥

 

कुर्वन्नेवेह कर्माणि जिजीविषेच्छत समाः

एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २॥

 

असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः ।

तास्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ३॥

 

अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् ।

तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥ ४॥

 

तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।

तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ५॥

 

यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।

सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६॥

 

यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।

तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ ७॥

 

स पर्यगाच्छुक्रमकायमव्रण-

     मस्नाविर शुद्धमपापविद्धम्

कविर्मनीषी परिभूः स्वयम्भू-

     र्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ ८॥

 

अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।

ततो भूय इव ते तमो य उ विद्याया रताः ९॥

 

अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ।

इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १०॥

 

विद्यां चाविद्यां च यस्तद्वेदोभय सह

अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥ ११॥

 

अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते ।

ततो भूय इव ते तमो य उ सम्भूत्या रताः १२॥

 

अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् ।

इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १३॥

 

सम्भूतिं च विनाशं च यस्तद्वेदोभय सह

विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते ॥ १४॥

 

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।

तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५॥

 

पूषन्नेकर्षे यम सूर्य प्राजापत्य

     व्यूह रश्मीन् समूह तेजः ।

यत्ते रूपं कल्याणतमं तत्ते पश्यामि

     योऽसावसौ पुरुषः सोऽहमस्मि ॥ १६॥

 

वायुरनिलममृतमथेदं भस्मान्त शरीरम्

   Vraja Loka Astro SPiritual Counselling   ॐ क्रतो स्मर कृत स्मर क्रतो स्मर कृत स्मर १७॥

 

अग्ने नय सुपथा राये अस्मान्

     विश्वानि देव वयुनानि विद्वान् ।

युयोध्यस्मज्जुहुराणमेनो

     भूयिष्ठां ते नमौक्तिं विधेम ॥ १८॥

 

      ॥ इति ईशोपनिषत् ॥

 

   Vraja Loka Astro SPiritual Counselling   ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

 

         Vraja Loka Astro SPiritual Counselling   ॐ शान्तिः शान्तिः शान्तिः ॥

 

 

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.