The greatness of Krishna Devotees - Vraja Loka Astro Spiritual Center

The greatness of Krishna Devotees  As described in Srimad Bhagavatham  Vraja Loka Astro SPiitual Center     .. Shri Ganeshaya Namah.. .. ॐ S...

Thursday, November 19, 2009

बृहत्पाराशरहोराशास्त्रम् ४६-५० Brihat Parashara Hora Shastram

 

 

 

बृहत्पाराशरहोराशास्त्रम् ४६-५०

Brihat Parashara Hora Shastram

 

 


 

 

             अथ दशाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ४६॥

 

सर्वज्ञोऽसि महर्षे त्वं कृपया दीनवत्सल ।

दशाः कतिविधाः सन्ति तन्मे कथय तत्त्वतः ॥ १॥

 

साधु पृष्टं स्वया विप्र लोकानुग्रहकारिणा ।

कथयामि तवाग्रेऽहं दशभेदाननेकशः ॥ २॥

 

दशाबहुविधास्तासु मुख्या विंशोत्तरी मता ।

कैश्चिदष्टोत्तरी कैश्चित् कथिता षोडशोत्तरी ॥ ३॥

 

द्वादशाब्दोत्तरी विप्र दशा पञ्चोत्तरी तथा ।

दशा शतसमा तद्वत् चतुराशीतिवत्सरा ॥ ४॥

 

द्विसप्ततिसमा षष्टिसमा षड्त्रिंशवत्सरा ।

नक्षत्राधारिकाश्चेताः कथिताः पूर्वसूरिभिः ॥ ५॥

 

अथा कालदशा चक्रदशा प्रोक्ता मुनीश्वरैः ।

कालचक्रदशा चाऽया मान्यासर्वदशासु या ॥ ६॥

 

दशाऽथ चरपर्याया स्थिराख्या च दशा द्विज ।

केन्द्राद्य च दशा ज्ञेया कारकादिग्रहोद्भवा ॥ ७॥

 

ब्रह्मग्रहाश्रितर्क्षाद्या दशा प्रोक्ता तु केनचित् ।

माण्डूकी च दशा नाम तथा स्थूलदशा स्मृता ॥ ८॥

 

योगार्धजदशा विप्र दृग्दशा च ततः परम् ।

त्रिकोणाख्या दशा नाम तथा राशिदशा स्मृता ॥ ९॥

 

पञ्चस्वरदशा विप्र विज्ञेया योगिनीदशा ।

दशा पैण्डी तथांशी च नैसर्गिकदशा तथा ॥ १०॥

 

अष्टवर्गदश सन्ध्यादसा पाचकसंज्ञिका ।

अन्यास्तारादशाद्याश्च न स्वर्गाः सर्वसम्मताः ॥ ११॥

 

कृत्तिकातः समारभ्य त्रिरावृत्य दशाधिपाः ।

आचंकुरागुशबुकेशुपूर्वा विहगाः क्रमात् ॥ १२॥

 

वह्निभाज्जन्मभं यावद् या संख्या नवतष्टिता ।

शेषाद्दशाधिपो ज्ञेयस्तमारभ्य दशां नयेत् ॥ १३॥

 

विंशोत्तरशतं पूर्णमायुः पूर्वमुदाहृतम् ।

कलै विंशोत्तरी तस्माद् दशा मुख्या द्विजोत्तम ॥ १४॥

 

दशासमाः क्रमादेषां षड् दशाऽश्वा गजेन्दवः ।

नृपाला नवचन्द्राश्च नवचन्द्रा नगा नखाः ॥ १५॥

 

दशामनां भयातघ्नं भभोगेन हृतं फलम् ।

दशाया भुक्तवर्षाद्य भोग्यं मानाद् विशोधितम् ॥ १६॥

 

लग्नेशात् केन्द्रकोणस्थे राहौ लग्नं विना स्थिते ।

अष्टोत्तरी दशा विप्र विज्ञेया रौद्रभादितः ॥ १७॥

 

चतुष्कं त्रितयं तस्मात् चतुष्कं त्रितयं पुनः ।

एवं स्वजन्मभं यावद् विगणय्य यथाक्रमम् ॥ १८॥

 

सूर्यश्चन्द्रः कुजः सौम्यः शनिर्जीवस्तमो भृगुः ।

एते दशाधिपा विप्र ज्ञेयाः केतुं विना ग्रहाः ॥ १९॥

 

रसाः पञ्चेन्दवो नागाः सप्तचन्द्राश्च खेन्दवः ।

गोऽब्जाः सूर्याः कुनेत्राश्च रव्यादीनां दशासमाः ॥ २०॥

 

दशाब्दांघ्रिश्च पापानां शुभानां त्र्यंश एव हि ।

एकैकभे दशामानं विज्ञेयं द्विजसत्तम ॥ २१॥

 

ततस्तद्यातभोगाध्यां भुक्तं भोग्यं च साधयेत् ।

विंशोत्तरीवदेवात्र ततस्तत्फलमादिशेत् ॥ २२॥

 

कृष्णपक्षे दिवा जन्म शुक्लपक्षे तथा निशि ।

तदा ह्यष्टोत्तरी चिन्त्या फलार्थञ्च विशेषतः ॥ २३॥

 

चन्द्रहोरागते कृष्णे सूर्यहोरागते सिती ।

लग्ने नृणां फलज्ञप्त्यै विचिन्त्या षोडशोत्तरी ॥ २४॥

 

पुष्यभाज्जन्मभं यावद् या संख्या गजतष्टिता ।

रविर्भौमो गुरुर्मन्दः केतुश्चन्द्रो बुधो भृगुः ॥ २५॥

 

इति क्रमाद् दशाधीशाः ज्ञेया राहुं विना ग्रहाः ।

रुद्राद्येकोत्तराः संख्या धृत्यन्तं वत्सराः क्रमात् ॥ २६॥

 

शुक्रांशके प्रजातस्य विचिन्त्या द्वादशोत्तरी ।

जन्मभात् पौष्णभं यावत् संख्या हि वसुतष्टिता ॥ २७॥

 

सूर्यो गुरुः शिखी ज्ञोऽगुः कुजो मन्दो निशाकरः ।

विना शुक्रं दशाधीशा द्विचयात् सप्ततः समाः ॥ २८॥

 

अर्कांश कर्कलग्ने पञ्चोत्तरी मता ।

मित्रर्क्षाज्जन्मभं यावत् संख्या सप्तविभाजिता ॥ २९॥

 

एकादिशेषे विज्ञ्याः क्रमात्सप्तदशाधिपाः ।

रविर्ज्ञोऽर्कसुतो भौमः शुक्रश्चन्द्रो बृहस्पतिः ॥ ३०॥

 

एकोत्तराच्च विज्ञेया द्वादशाद्याः क्रमात्समाः ।

धृत्यन्ताः सप्तखेटानां राहुकेतू विना द्विज ॥ ३१॥

 

वर्गोत्तमगते लग्ने दशा चिन्त्या शताब्दिका ।

पौष्ण्भाज्जन्मपर्यन्तं गणयेत् सप्तभिर्भजेत् ॥ ३२॥

 

शेषाङ्के रवितो ज्ञेया दशा शतसमाह्वया ।

रविश्चन्द्रो भृगुर्ज्ञश्च जीवो भौमः शनिस्तथा ॥ ३३॥

 

क्रमदेते दशाधीशा बाणा बाणा दिशो दश ।

नखा नखाः खरामाश्च समाज्ञेया द्विजोत्तम ॥ ३४॥

 

कर्मेशे कर्मगे ज्ञेया चतुराशीतिका दशा ।

पवनाज्जन्मभं यावद् या सङ्ख्या सप्तभाजिता ॥ ३५॥

 

शेषे रवीन्दुभौमज्ञा गुरुशुक्रशनैश्चराः ।

दशाधीशाः क्रमादेषां ज्ञेया द्वादशवत्सराः ॥ ३६॥

 

मूलाज्जन्मर्क्षपर्यन्तं गणयेदष्टभिर्भजेत् ।

शेषाद्दशाधीपा ज्न्`एया अष्टौ रव्यादयः क्रमात् ॥ ३७॥

 

नव वर्षाणि सर्वेषां विकेतूनां नभःसदाम् ।

लग्नेशे सप्तमे यस्य लग्ने वा सप्तमाधिपे ॥ ३८॥

 

चिन्तनीया दशा तस्य द्विसप्ततिसमाह्वया ।

विंशोत्तरीवदत्राऽपि भुक्तं भोग्यं च साधयेत् ॥ ३९॥

 

यदार्को लग्नराशिस्थश्चिन्त्या षष्टिसमा तदा ।

दास्रात् त्रयं चतुष्कं च त्रयं चेति पुनः पुनः ॥ ४०॥

 

गुर्वर्कभूसुतानां च दशा दश दशाब्दकाः ।

ततः शशिज्ञशुक्रार्कपुत्रागूनां रसाब्दकाः ॥ ४१॥

 

श्रवणाज्जन्मभं यावत् संख्या वसुविभाजिता ।

शेषे चन्द्ररवीज्यारबुधार्किभृगुराहवः ॥ ४२॥

 

क्रमाद्दशाधिपास्तेषामेकाद्येकोत्तराः समा ।

लग्ने दिनेऽर्कहोरायां चन्द्रहोरागते निशि ॥ ४३॥

 

सूर्यस्याऽर्धास्तयः पूर्वं परस्तादूदयादपि ।

पञ्च पञ्च घटी सन्ध्या दशनाडी प्रकीर्तिता ॥ ४४॥

 

सन्ध्याद्वयञ्च विंशत्या नाडिकाभिः प्रकीर्तितम् ।

दिनस्य विंशतिर्घट्यः पूर्णसंज्ञा उदाहृताः ॥ ४५॥

 

निशायाः मुग्धसंज्ञाश्च घटिका विंशतिश्च याः ।

सूर्योदये च या सन्ध्या खण्डाख्या द/सनाडिका ॥ ४६॥

 

अस्तकाले च या सन्ध्या सुधाख्या दशनाडिका ।

पूर्णमुग्धघटीमाने द्विगुणे तिथिभिर्भजेत् ॥ ४७॥

 

तथा खण्डसुधाघट्यौ चतुर्घ्ने तिथिभिर्भजेत् ।

लब्धं वर्षादिकं मानं सूर्यादीनां खचारिणाम् ॥ ४८॥

 

एकादिसंख्यया निघ्नं दशामानं पृथक् क्रमात् ।

राहुकेतुयुतानां च नवानां कालसंज्ञकम् ॥ ४९॥

 

रात्रौ लग्नाश्रिताद्राशेर्दिने लग्नेश्वराश्रिताम् ।

सन्ध्यायां वित्तभावस्थान्नेया चक्रदशा बुधैः ॥ ५०॥

 

दशा वर्षाणि राशीनामेकैकस्य दशामितिः ।

क्रमाच्चक्रस्थितानाञ्च विज्ञातव्या द्विजोत्तम ॥ ५१॥

 

अथाऽहं शङ्करं नत्वा कालचक्रदशां ब्रुवे ।

पार्वत्यै कथिता पूर्वं सादरं या पिनाकिना ॥ ५२॥

 

तस्याः सारं समुद्धृत्य तवाग्रे द्विजमन्दन ।

शुभाऽशुभं मनुष्याणां यथा जानन्ति पण्डिताः ॥ ५३॥

 

द्वादशारं लिखेच्चक्रं तिर्यगूर्घ्वसमानकम् ।

गृहा द्वादश जायन्ते सव्येऽसव्ये द्विधा द्विज ॥ ५४॥

 

द्वितीयादिषु कोष्ठेषु राशीन् मेषादिकान् लिखेत् ।

एवं द्वादशराश्याख्यं कालचक्रमुदीरितम् ॥ ५५॥

 

अश्विन्यादित्रयं सव्यमार्गे चक्रे व्यवस्थितम् ।

रोहिण्यादित्रयं चैवमपसव्ये व्यविस्थितम् ॥ ५६॥

 

एवमृक्षविभागं हि कृत्वा चक्रं समुद्धरेत् ।

अश्विन्यदितिहस्तक्षेमूलप्रोष्ठपदाभिधाः ॥ ५७॥

 

वह्निवातादिविश्वर्क्षरेवत्यः सव्यतारकाः ।

एतद्दशोषुपादानामश्विन्यादौ च वीक्षयेत् ॥ ५८॥

 

देहजीवौ कथं वीक्ष्यौ नक्षत्राणां पदेषु च ।

विशदं तत्प्रकारं च मैत्रेय कथयामयहम् ॥ ५९॥

 

देहजीवौ मेषचापौ दास्राद्यचरणस्य च ।

मेषाद्याश्चापपर्यन्तं राशिपाश्च दशाधिपाः ॥ ६०॥

 

मृगयुग्मे देहजीवौ द्वितीयचरणे स्मृतौ ।

क्रमात् मिथुनपर्यन्तं राशिपाश्च दशाधिपाः ॥ ६१॥

 

दास्रादिदशताराणां तृतीयचरणे द्विज ।

गौर्देहो मिथुनं जीवो द्व्येकार्केशदशाङ्कपाः ॥ ६२॥

 

क्वक्षिरामर्क्षनाथाश्च दशाधिपतयः क्रमात् ।

अश्विन्यादिदशौडूनां चतुर्थचरणे तथा ॥ ६३॥

 

कर्कमीनौ देहजीवौ कर्कादिनवराशिपाः ।

दशाधीशाश्च विज्ञेया नवैते द्विजसत्तम ॥ ६४॥

 

यमेज्यचित्रातोयर्क्षाऽहीर्बुध्न्याः सव्यतारकाः ।

एतत्पञ्चोडुपादानां भरण्यादौ विचिन्तयेत् ॥ ६५॥

 

याम्यप्रथमपादस्य देहजीवावलिर्झषः ।

नागागर्तुपयोधीषुरामाक्षीन्द्वर्कभेश्वराः ॥ ६६॥

 

याम्यद्वितीयपादस्य देहजीवौ घटाङ्गने ।

रुद्रदिङ्नन्दचन्द्राक्षिरामाब्धीष्वङ्गभेश्वराः ॥ ६७॥

 

याम्यतृतीयपादस्य देहजीवौ तुलाङ्गने ।

सप्ताष्टाङ्कदिगीशार्कगजाद्रिरमभेश्वराः ॥ ६८॥

 

कर्को देहो धनुर्जीवो याम्यतुर्यपदे द्विज ।

वेदबाणाग्निनेत्रेन्दुसूर्येशाशाङ्कभेश्वराः ॥ ६९॥

 

सप्तमेवं विजानीयादसव्यं कथयाम्यहम् ।

द्वादशारां लिखेच्चकं पूर्ववद् द्विजसत्तम ॥ ७०॥

 

द्वितीयादिषु कोष्ठेषु वृश्चिकाद् व्यस्तमालिखीत् ।

रोहिणी च मघा द्वीशः कर्णश्चेति चतुष्टयम् ॥ ७१॥

 

उक्तं चाऽसव्यनाक्षत्रं पूर्वाचार्यैर्द्विजोत्तम ।

एतद्वेदोडुपादानां रोहिनीवन्निरीक्षयेत् ॥ ७२॥

 

रोहिण्यादिपदे देहजीवौ कर्किधनुर्धरौ ।

नवदिग्रुद्रसूर्येन्दुनेत्राग्नोष्वब्धिभेश्वराः ॥ ७३॥

 

धातृद्वितीचरणे देहजीवौ तुलस्त्रियौ ।

अङ्कागवसुसूर्येशदिगङ्कवसुजूकपाः ॥ ७४॥

 

तृतीयचरणे ब्राह्म दीहजीवौ घटाङ्गने ।

षड्बाणब्धिगुणक्षीन्दुनन्ददिग्रुद्रभेश्वराः ॥ ७५॥

 

रोहिण्यन्तपदे देहजीवावलिजषौ स्मृतौ ।

सूर्येन्दुद्विगुणेष्वब्धितर्कशैलाष्टभेश्वराः ॥ ७६॥

 

चान्द्ररौद्रभगार्यम्णमित्रेन्दुवसुवारुणम् ।

एतत्ताराष्टकं विज्ञैर्विज्ञेयं चान्द्रवत् क्रमात् ॥ ७७॥

 

कर्को देहो झषो जीवो मृगाद्यचरणे द्विज ।

व्यस्तान्मीनादिकर्कान्तराशिपाश्च दशाधिपाः ॥ ७८॥

 

गौर्देहो मिथुनं जीवो द्वितीयचरणे मृगे ।

त्रिद्व्येकाङ्कदिशीशार्कचन्द्राक्षिभवनाधिपाः ॥ ७९॥

 

देहजीवौ नक्रयुग्मे तृतीयचरणे मृगे ।

त्रिबाणाब्धिरसागाष्टसूर्येशदशभेश्वराः ॥ ८०॥

 

मेषो देहो धनुर्जीवो चतुर्थचरणे मृगे ।

व्यस्ताच्चापादिमेषान्तराशिपाश्च दशाधिपाः ॥ ८१॥

 

अपसव्यगणे त्वेवं देहजीवदशादिकम् ।

पार्वत्यै शम्भुना प्रोक्तमिदावींकथितं मया ॥ ८२॥

 

केषां च कति वर्षाणि दशेशानां महामुने ।

दशाया भुक्तभोग्याद्यं तदारम्भ प्रचक्ष्व मे ॥ ८३॥

 

भूतैकविंशगिरयो नवदिक्षोडशाब्धयः ।

सूर्यादीनां दशाब्धाः स्यू राशीनां स्वामिनो वशात् ॥ ८४॥

 

नरस्य जन्मकाले वा प्रश्नकाले यदंशकः ।

तदादिनवराशिनामब्दास्तस्यायुरुच्यते ॥ ८५॥

 

सम्पूर्णायुर्भवेदादावर्धमंशस्य मध्यके ।

अंशान्ते परमं कष्टमित्याहुरपरे बुधाः ॥ ८६॥

 

ज्ञात्वैवं स्फुटसिद्धान्तं राश्यंशं गणयेद् बुधः ।

अनुपातेन वक्ष्यामि तदुपायमतः परम् ॥ ८७॥

 

गततारास्त्रिभिर्भक्ताः शेषं चैव चतुर्गुणम् ।

वर्तमानपदेनाढ्यं राशीनामंशको भवेत् ॥ ८८॥

 

मेषे शतं वृषेऽक्षाष्टौ मिथुने त्रिगजाः समाः ।

कर्कटेऽङ्गगजाः प्रोक्तास्तावन्तस्तत्त्रिकोणयोः ॥ ८९॥

 

जनो यत्रांशके जातो गतनाडीपलादिभिः ।

तदांशस्य हताः स्वाब्दाः पञ्चभूमिविभाजिताः ॥ ९०॥

 

एवं महादशारम्भो भवेदंशाद्यथा क्रमात् ।

गणयेन्नवपर्यन्तं तत्तदायुः प्रकीर्तितम् ॥ ९१॥

 

पदस्य भुक्तघट्याद्यैः स्वाब्दमानं हतं ततः ।

भभोगांघ्रिहृतं भुक्तं भोग्यं मानाद् विशोधितम् ॥ ९२॥

 

चन्द्राङ्कांशकला भुक्ताः स्वाब्दमानहता हृताः ।

द्विशत्या भुक्तवर्षाद्यं ज्ञेयं भोग्यं ततो बुधैः ॥ ९३॥

 

सव्याख्ये प्रथमांशो यः स देह इति कथ्यते ।

अन्त्यांशो जीवसंज्ञः स्याद् विलोममपसव्यके ॥ ९४॥

 

देहादिं गणयेत् सव्ये जीवादिमपसव्यके ।

एवं विज्ञाय दैवज्ञस्ततस्तत्फलमादिशेत् ॥ ९५॥

 

कालचक्रगतिः प्रोक्ता त्रिधा पूर्वमहर्षिभिः ।

मण्डूकाख्या गतिश्चैका मर्कटीसंज्ञकाऽपरा ॥ ९६॥

 

सिंहावलोकनाख्या च तृतीया परिकीर्तिता ।

उत्प्लुत्य गमनं विज्ञा मण्डूकाख्यं प्रचक्षते ॥ ९७॥

 

पृष्ठतो गमनं नाम मर्कटीसंज्ञकं तथा ।

वाणाच्च नवपर्यन्तं गतिः सिंहावलोकनम् ॥ ९८॥

 

कन्याकर्कटयोः सिंहयुग्मयोर्मण्डूय्की गतिः ।

कर्ककेसरिणोरेवं कथ्यते मर्कटीं गतिः ॥ ९९॥

 

मीनवृश्चिकयोश्चापमेषयोः सैंहिकी गतिः ।

इति सञ्चिन्त्य विज्ञेयं कालचक्रदशाफलम् ॥ १००॥

 

मण्डूकगतिकाले हि सव्ये बन्धुजने भयम् ।

पित्रोर्वा विषशस्त्राग्निज्वरचोरादिजं भयम् ॥ १०१॥

 

केसरीयुग्ममण्डूके मातुर्मरण्मादिशेत् ।

स्वमृतिं राजभितिं वा सन्निपातभयं भवेत् ॥ १०२॥

 

मर्कटीगमने सव्ये धनधान्यपशुक्षयः ।

पितुर्मरणमालस्यं तत्समानां च व मृतिः ॥ १०३॥

 

सव्ये सिंहावलोके तु पशुभीतिर्भवेन्नृणाम् ।

सुहृत्स्नेहादिनाशश्च समानजनपीडनम् ॥ १०४॥

 

पतनं वापि कूपादौ विषशस्र्ताग्निजं भयम् ।

वाहनात् पतनं वापि ज्वरार्तिः स्थाननाशनम् ॥ १०५॥

 

मण्डूकगमने वामे स्त्रीसुतादिप्रपीडनम् ।

ज्वरं च श्वापदाद् भीतिं वदेद् विज्ञः पदच्युतिम् ॥ १०६॥

 

मर्कटीगमने वाऽपि जलभीतिं पदच्युतिम् ।

पितुर्नाशं नृपक्रोधं दुर्गारण्याटनं वदेत् ॥ १०७॥

 

सिंहावलोकने वामे पदभ्रंशः पितुर्मृतिः ।

तत्समानमृतिर्वाऽपि फलमेवं विचिन्तयेत् ॥ १०८॥

 

मीनात् तु वृश्चिके याते ज्वरो भवति निश्चितः ।

कन्यातः कर्कटे याते भ्रातृबन्धुविनाशनम् ॥ १०९॥

 

सिंहात्तु मिथुने याते स्त्रिया व्याधिर्भवेद् ध्रुवम् ।

कर्कटाच्च हरौ याते वधो भवति देहिनाम् ॥ ११०॥

 

पितृबन्धुमृतिं विद्याच्चापान्मेषे गते पुनः ।

भयं पापखगैर्युक्ते शुभखेटयुते शुभम् ॥ १११॥

 

शुभं वाऽप्यशुभं वाऽपि कालचक्रदशाफलम् ।

राशिदिक्भागतो वापि पूर्वादिदिग्तभश्चरात् ॥ ११२॥

 

तद्दिगावभागे वक्तव्यं तद्दशासमये नृणाम् ।

यथोपदेशमार्गेण सर्वेषां द्विजसत्तम ॥ ११३॥

 

कन्यातः कर्कटे याते पूर्वभागे महत्फलम् ।

उत्तरं देशमाश्रित्य शुभा यात्रा भविष्यति ॥ ११४॥

 

सिंहात्तु मिथुने याते पूर्वभागं विवर्जयेत् ।

कार्यान्तेऽपि च नैरृत्यां सुखं यात्रा भविष्यति ॥ ११५॥

 

कर्कटात् सिंहभे याते कार्यहानिश्च दक्षिणे ।

दक्षिणां दिशमाश्रित्य प्रत्यगागमनं भवेत् ॥ ११६॥

 

मीनात्तु वृश्चिके याते उदग् गच्छति सङ्कटम् ।

चापाच्च मकरे याते सङ्कटं जायते ध्रुवम् ॥ ११७॥

 

चापान्मेषे तु यात्रायां व्याधिर्बन्धो मृतिर्भवेत् ।

वृश्चिके तु सुखं सम्पत् स्त्रीप्राप्तिश्च द्विजोत्तम ॥ ११८॥

 

सिंहाच्च कर्कटे याते पस्चिमां वर्जयेद्दिशम् ।

शुभयोगे शुभं ब्रूयादशुभे त्वशुभं फलम् ॥ ११९॥

 

शूरश्चौरश्च मेषांशे लक्ष्मीवांश्च वृषांशके ।

मिथुनांशे भवेज्ज्ञानी कर्कांशे नृपतिर्भवेत् ॥ १२०॥

 

सिंहांशे राजमान्यश्च कन्यांशे पण्डितो भवेत् ।

तुलांशे राजमन्त्री स्याद् वृश्चिकांशे च निर्धनः ॥ १२१॥

 

चापांशे ज्ञानसम्पन्नो मरकांशे च पापकृत् ।

कुम्भांशे च वणिक्कर्मा मीनांशे धनधान्यवान् ॥ १२२॥

 

देहो जीवोऽथवा युक्तो रविभौमार्किराहुभिः ।

एकैकयोगे मृत्युः स्याद् बहुयोगे तु का कथा ॥ १२३॥

 

क्रूरैर्युक्ते तनौ रोगं जीवे युक्ते महद् भयम् ।

आधी रोगो भवेद् द्वाभ्यांअपमृत्युस्र्तिभिर्भवेत् ॥ १२४॥

 

चतुर्भिर्मृतिमापन्नो देहे जीवेऽशुभैर्युते ।

युगपद्देहजीवौ च क्रूरग्रहयुतौ तदा ॥ १२५॥

 

राजचोरादिभीतिश्च मृतिश्चापि न संशयः ।

वह्निवाधा रवौ ज्ञेया क्षीणेन्दौ च जलाद् भयम् ॥ १२६॥

 

कुजे शस्त्रकृता पीडा वायुवाधा बुधे भवेत् ।

गुल्मवाधा शनौ ज्ञेया राहौ केतौ विषाद् भयम् ॥ १२७॥

 

देहजीवगृहे यातो बुधो जीवोऽथवा भृगुः ।

सुखस्म्पत्कराः सर्वे रोगशोकविनाशनाः ॥ १२८॥

 

मिश्रगृहैश्च संयुक्ते मिश्रं फलमवाप्नुयात् ।

पापक्षेत्रदशाकाले देहजीवौ तु दुःखितौ ।

शुभक्षेत्रदशाकाले शुभं भवति निश्चितम् ॥ १२९॥

 

शुभयुक्ताशुभक्षेत्रदशा मिश्रफला स्मृता ।

क्रूरयुक्तशुभक्षेत्रदशा मिश्रफला तथा ॥ १३०॥

 

जनानां जन्मकाले तु यो राशिस्तनुभावगः ।

तस्य चक्रदशाकाले देहारोग्यं सुखं महत् ॥ १३१॥

 

शुभे पूर्णसुखं पापे देहे रोगादिसम्भवः ।

स्वोच्चादिगतखेटाढ्ये राज्यमानधनाप्तयः ॥ १३२॥

 

धनभावे च यो राशिस्तस्य चक्रदशा यदा ।

तदा सुभोजनं पुत्रस्त्रिसुखं च धनाप्तयः ॥ १३३॥

 

विद्याप्तिर्वाक्पटुत्वं च सुगोष्ठ्या कालयापनम् ।

शुभर्क्षे फलमेवं स्यात् पापभे फलमन्यथा ॥ १३४॥

 

तृतीयभावराशेस्तु कालचक्रदशा यदा ।

तदा भ्रातृसुखं शौर्यं धैर्यं चापि महत्सुखम् ॥ १३५॥

 

स्वर्णाभरणवस्त्राप्तिः सम्मानं राजसंसदि ।

शुभर्क्षे फलमेवं स्यात् पापर्क्षे फलमन्यथा ॥ १३६॥

 

सुखभावगतर्क्षस्य कालचक्रदशा यदा ।

तदा बन्धुसुखं भूमिगृहराज्यसुखाप्तयः ॥ १३७॥

 

आरोग्यमर्थलाभश्च वस्त्रवाहनजं सुखम् ।

शुभर्क्षे शोभनं ज्ञेयं पापभे फलमन्यथा ॥ १३८॥

 

सुतभावगतर्क्षस्य कालचक्रदशा यदा ।

सुतस्त्रीराज्यसौख्याप्तिरारोग्यं मित्रसंगमः ॥ १३९॥

 

विद्याबुद्धियशोलाभो धैर्यं च विक्रमोदयः ।

शुभराशौ शुभं पूर्णं पापर्क्षे फलमन्यथा ॥ १४०॥

 

रिपुभावगतर्क्षस्य कालचक्रदशा यदा ।

तदा चोरादिभूपाग्निविषशस्त्रभयं महत् ॥ १४१॥

 

प्रमेहगुल्मपण्ड्वादिरोगाणामपि संभवः ।

पापर्क्षे फलमेवं स्यात् शुभर्क्षे मिश्रमादिशेत् ॥ १४२॥

 

जायाभावगतर्क्षस्य कालचक्रदशा यदा ।

तदा पाणिग्रहः पत्नीपुत्रलाभादिकं सुखम् ॥ १४३॥

 

कृषियोधनवस्त्राप्तिर्नृपपूजा महद्यशः ।

शुभराशौ फलं पूर्णं पापराशौ च तद्दलम् ॥ १४४॥

 

मृत्युभावस्थितर्क्षस्य कालचक्रदशा तदा ।

स्थाननाशं महद् दुःखं बन्धुनाशं धनक्षयम् ॥ १४५॥

 

दारिद्र्यमन्नविद्वोपमरिभीतिं च निर्दिशेत् ।

पापराशौ फलं पूर्णं शुभराशौ च तद्दलम् ॥ १४६॥

 

धर्मभावगतर्क्षस्य कालचक्रदशा यदा ।

तदा पुत्रकलत्रार्थकृषिगेहसुखं वदेत् ॥ १४७॥

 

सत्कर्मधर्मसंसिद्धिं महज्जनपरिग्रहम् ।

शुभराशौ शुभं पूर्णं पापराशौ च तद्दलम् ॥ १४८॥

 

कर्मभावगतर्क्षस्य कालचक्रदशा यदा ।

राज्याप्तिर्भूपसम्मानं पुत्रदारादिजं सुखम् ॥ १४९॥

 

सत्कर्मफलमैश्वर्यं सद्गोष्ठ्या कालयापनम् ।

शुभराशौ फलं पूर्णं पापराशौ च मिश्रितम् ॥ १५०॥

 

लाभभावस्थितर्क्षस्य कालचक्रदशा यदा ।

पुत्रस्त्रीबन्धुसौख्याप्तिर्भूपप्रीतिर्महत्सुखम् ॥ १५१॥

 

धनवस्त्राप्तिरारोग्यं सतां सङ्गश्च जायते ।

शुभराशौ फलं पूर्णं पापराशौ च खण्डितम् ॥ १५२॥

 

व्ययभावगतर्क्षस्य कालचक्रदशा तदा ।

उद्योगभङ्गमालस्यं देहपीडां पदच्युतिम् ॥ १५३॥

 

दारिद्यं कर्मवैफल्यं तथा व्यर्थव्ययं वदेत् ।

पापराशौ फलं त्वेवं शुभराशौ च तद्दलम् ॥ १५४॥

 

लग्नादिव्ययपर्यन्तं भानां चरदशां ब्रुवे ।

तस्मात् तदीशपर्यन्तं संख्यामत्र दशां विदुः ॥ १५५॥

 

मेषादित्रित्रिभैर्ज्ञेयं पदमोजपदे क्रमात् ।

दशाब्दानयने कार्या गणना व्युत्क्रमात् समे ॥ १५६॥

 

वृश्चिकाधिपती द्वौ च केतुभौमौ स्मृतौ द्विज ।

शनिराहु च कुम्भस्य स्वामिनौ परिकीर्तितो ॥ १५७॥

 

द्विनाथक्षेत्रयोरत्र क्रियते निर्णयोऽधुना ।

द्वावेवाधिपती विप्र युक्तौ स्वर्क्षे स्थितौ यदि ॥ १५८॥

 

वर्ष द्वादशकं तत्र न चेदेकादि चिन्तयेत् ।

एकः स्वक्षेत्रयोऽन्यस्तु परत्र यदि संस्थितः ॥ १५९॥

 

तदाऽन्यत्र स्थितं नाथं परिगृह्य दशां नयेत् ।

द्वावप्यन्यर्क्षगौ तौ चेत् तमोर्मध्ये च यो बली ॥ १६०॥

 

तत एव दशा ग्राह्या क्रमाद् वोत्क्रमतो द्विजः ।

बलस्याऽत्र विचारे स्यादग्रहात् सग्रहो बली ॥ १६१॥

 

द्वावेव सग्रहौ तौ चेत् बली तत्राधिकग्रहः ।

ग्रहयोगसमानत्वे ज्ञेयं राशिबलाद् बलम् ॥ १६२॥

 

ज्ञेयाश्चरस्थिरद्वन्द्वाः क्रमतो बलशालिनः ।

राशिसत्त्वसमानत्वे बहुवर्षो बली भवेद् ॥ १६३॥

 

एकः स्वोच्चगतश्चाऽन्यः परत्र यदि संस्थितः ।

गृह्णीयादुच्चखेटस्थं राशिमन्यं विहाय वै ॥ १६४॥

 

उच्चखेटस्य सद्भावे वर्षमेकं च निक्षिपेत् ।

तथैव नीचखेटस्य वर्षमेकं विशोधयेत् ॥ १६५॥

 

एवं सर्वं समालोच्य जातकस्य फलं वदेत् ॥ १६६॥

 

क्रमादुत्क्रमतो वाऽपि धर्मभावपदक्रमात् ।

लग्नराशिं समारभ्य विज्ञश्चरदशां नयेत् ॥ १६७॥

 

अथाऽहं सम्प्रवक्ष्यामि स्थिरसंज्ञां दशां द्विज ।

चरे सप्त स्थिरे चाऽष्टौ द्वन्द्वे नव समाः स्मृताः ॥ १६८॥

 

स्थिरत्वाच्च दशाब्दानां स्थिराख्येति निगद्यते ।

ब्रह्मखेटाश्रितर्क्षादिर्दशेयं परिवर्तते ॥ १६९॥

 

योऽसौ ब्रह्मग्रहः प्रोक्तः कथं स ज्ञायते मुने ।

इति स्पष्टतरं ब्रूहि कृपाऽस्ति यदि ते मयि ॥ १७०॥

 

षष्ठाष्टव्ययनाथेषु यो बली विषमर्क्षगः ।

पृष्ठस्थितो भवेद् ब्रह्मां बलिनो लग्नजाययोः ॥ १७१॥

 

कारकादष्टमेशो वा ब्रह्माऽप्यष्टभावगः ।

शनौ पाते च ब्रह्मत्त्वे ब्रह्मा तत्षष्ठखेचरः ॥ १७२॥

 

बहवो लक्षणक्रान्ता ज्ञेयस्तेष्वधिकांशकः ।

अंशसाम्ये बलाधिक्याद् विज्ञेयो ब्रह्मखेचरः ॥ १७३॥

 

योगार्धे च दशामानं द्वयोर्योगार्धसम्मितम् ।

लग्नसप्तमप्राण्यादिर्दशेयं च प्रवर्तते ॥ १७४॥

 

लग्नसप्तमयोर्मध्ये यो राशिर्बलवान् भवेत् ।

ततः केन्द्रादिसंस्थानां राशीनाञ्च बलक्रमात् ॥ १७५॥

 

कारकादपि राशीनां खेटानां चैवमेव हि ।

दशाब्दाश्चरवज्ज्ञेयाः खेटानां च स्वभावधि ॥ १७६॥

 

द्विराश्यधिपक्षेटस्य गण्येदुभयावधि ।

उभयोर्धिक संख्या कारकस्य दशा समाः ॥ १७७॥

 

आत्मकारकमारभ्य कारकाख्यदशा क्रमात् ।

लग्नात् कारकपर्यन्तं संख्यामत्र दशां विदुः ॥ १७८॥

 

मण्डूकापरपर्याया त्रिकूटाख्यदशा द्विज ।

लग्नसप्तमयोर्मध्ये यो राशिर्बलवान् भवेत् ॥ १७९॥

 

ततः क्रमेणौजराशौ समे नेया तथोऽत्क्रमात् ।

त्रिकूटानां च विज्ञेयाः स्थिरवच्च दशा समाः ॥ १८०॥

 

निर्याणस्य विचारार्थं कैश्चिछूलदशा स्मृता ।

लग्नसप्तमतो मृत्युभयोर्यो बलवान् भवेत् ॥ १८१॥

 

तदादिर्विषमे विप्र क्रमादुत्क्रमतः समे ।

दशाब्दाः स्थिरवत्तत्र बलिमारकभे मृतिः ॥ १८२॥

 

जन्मलग्नत्रिकोणेषु यो राशिर्बलवान् भवेत् ।

तमार्भ्य नयेद् धीमान् चरिपर्यायवद् दशाम् ॥ १८३॥

 

क्रमादुत्क्रमतो ग्राह्यं त्रिकोणं विषमे समे ।

त्रिकोणाख्यदशा प्रोक्ता समा नाथावसानकाः ॥ १८४॥

 

लग्नाद् धर्मस्य तद्दृष्टराशीनां च दशास्ततः ।

दशमस्य च तद्दृष्टराशीनां च नयेत् पुनः ॥ १८५॥

 

एकादशस्य तद्दृष्टराशीनां स्थिरवत् समाः ।

प्रवृत्ता दृग् वशाद्यस्माद् दृग्दशेयं ततः स्मृता ॥ १८६॥

 

चरे व्युत्क्रमतो ग्राह्या दृग्योग्याः स्थिरभे क्रमात् ।

विषमे क्रमतो द्वन्द्वे राशयो व्युत्क्रमात् समे ॥ १८७॥

 

ऋक्षे लग्नादिराशीनां दशा राशिदशा स्मृता ।

भयातं रविभिर्निघ्नं भभोगविहृतं फलम् ॥ १८८॥

 

राश्याद्यं लग्नराश्यादौ योज्यं द्वादशशेषितम् ।

तदारभ्य क्रमादोजे दशा ज्ञेयोत्क्रमात् समे ॥ १८९॥

 

दशाब्दा भुक्तभागघ्ना त्रिंशता विहृताह् फलम् ।

भुक्तं वर्षादिकं ज्ञेयं भोग्यं मानाद् विशोधितम् ॥ १९०॥

 

अकारादीन् स्वरान् पञ्च प्रथमं विन्यसेत् क्रमात् ।

कादिहान्तांल्लिखेद् वर्णान् स्वराधो ङञणोज्झितान् ॥ १९१॥

 

तिर्यक् पंक्तिक्रमेणैव पञ्चपञ्चविभागतः ।

न प्रोक्ता ङञणा वर्णा नामादौ सन्ति ते नहि ॥ १९२॥

 

चेद् भवन्ति तदा ज्ञेया गजडास्ते यथाक्रमात् ।

यत्र स्वरे स्वनामाद्यवर्णः स्यात् तत्स्वरादयः ॥ १९३॥

 

क्रमात् पंच दशाधीशाः द्वादशद्वादशाब्दकाः ।

स्वराणां च क्रमाज्ज्ञेयाः दशास्वन्तर्दशादयः ॥ १९४॥

 

पूर्वमेव मया प्रोक्ता वर्णदाख्या दशा द्विज ।

इदानीं शम्भुना प्रोक्ता कथ्यते योगिनी दशा ॥ १९५॥

 

मङ्गला पिङ्गला धन्या भ्रामरी भद्रिका तथा ।

उल्का सिद्धा संकटा च योगिन्योऽष्टौ प्रकीर्तिताः ॥ १९६॥

 

मङ्गलातोऽभवच्चन्द्रः पिङ्गलातो दिवाकरः ।

धन्यातो देवपूज्योऽभूद् भ्रामरीतोऽभवत् कुजः ॥ १९७॥

 

भर्दिकातो बुधो जातस्तथोल्कातः शनैश्चरः ।

सिद्धातो भार्गवि जातः संकटातस्तमोऽभवद् ॥ १९८॥

 

जन्मर्क्ष च त्रिभिर्युक्तं वसुभिर्भागमाहरेत् ।

एकादिशेषे विज्ञेया योगिन्योः मङ्गलादिकाः ॥ १९९॥

 

एकाद्येकोत्तरा ज्ञेयाः क्रमादासां दशासमाः ।

नक्षत्रयातभोगाभ्यां भुक्तं भोग्यं च साधयेत् ॥ २००॥

 

येषां यदायुः सम्प्रोक्तं पैण्डमांशं निसर्गजम् ।

तक्षत् तेषां दशा ज्ञेया पैण्डी चांशी निसर्गजा ॥ २०१॥

 

बली लग्नार्कचन्द्राणां यत्तस्य प्रथमा दशा ।

तत्केन्द्रादिगतानां च ज्ञेया बलवशात्ततः ॥ २०२॥

 

अष्टवर्गबलेनैषां फलानि परिचिन्तयेत् ।

अष्टवर्गदशाश्चैताः कथिताः पूर्वसूरिभिः ॥ २०३॥

 

परायुर्द्वादशो भागस्तस्य सन्ध्या प्रकीर्तिता ।

तन्मिता लग्नभादीनां क्रमात् सन्ध्यादशा स्मृता ॥ २०४॥

 

सन्ध्या रसगुणा कार्या चन्द्रवह्निहृता फलम् ।

संस्थाप्यं प्रथमे कोष्ठे तदर्धं त्रिषु विन्यसेत् ॥ २०५॥

 

त्रिभागं वसुकोष्ठेषु विन्यस्य तत्फलं वदेत् ।

एवं द्वादशभावेषु पाचकानि प्रकल्पयेत् ॥ २०६॥

 

विंशत्तरिदशेवाऽत्र कैश्चित् तारादशा स्मृता ।

आशंकुरागुशबुकेश्वादिस्थानेषु तारकाः ॥ २०७॥

 

अन्मसम्पत्विपत्क्षेमप्रत्यरिः साधको बधः ।

मैत्रं परममैत्रं च केन्द्रस्थबलिनो ग्रहात् ॥ २०८॥

 

ज्ञेया तारादशा विप्र नामतुल्यफलप्रदा ।

यस्य केन्द्रे स्थितः खेटो दशेयं तस्य कीर्तिता ॥ २०९॥

 

इति ते कथिता विप्र दश भेदा अनेकधा ।

एतदन्तर्दशाभेदान् कथयिष्यामि चाग्रतः ॥ २१०॥

 


 

 

            अथ दशाफलाद्यायः ॥ ४७॥

 

श्रुताश्च बहुधा भेदा दशानां च मया मुने ।

फलं च कीदृशं तासां कृपया मे तदुच्यताम् ॥ १॥

 

साधारणं विशिष्टञ्च दशानां द्विविधं फलम् ।

ग्रहाणां च स्वभावेन स्थानस्थितिवशेन च ॥ २॥

 

ग्रहवीर्यानुसारेण फलं ज्ञेयं दशासु च ।

आद्यद्रेष्काणगे खेटे दशारम्भे फलं वदेत् ॥ ३॥

 

दशामध्ये फलं वाच्यं मध्यद्रेष्काणगे खगे ।

अन्ते फलं तृतीयस्थे व्यस्तं खेटे च वक्रगे ॥ ४॥

 

दशारम्भे दशादीशे लग्नगे शुभदृग्युते ।

स्वोच्चे स्वभे स्वमैत्रे वा शुभं तस्य दशाफलम् ॥ ५॥

 

षष्ठाऽष्टमव्ययस्थे च नीचास्तरिपुभस्थिते ।

अशुभं तत्फलं चाऽथ ब्रुवे सर्वदशाफलम् ॥ ६॥

 

मूलत्रिकोणे स्वक्षेत्रे स्वोच्चे वा परमोच्चगे ।

केन्द्रत्रिकोणलाभस्थे भाग्यकर्माधिपैर्युते ॥ ७॥

 

सूर्ये बलसमायुक्ते निजवर्गबलैर्युते ।

तस्मिन्दाये महत् सौख्यं धनलाभादिकं शुभम् ॥ ८॥

 

अत्यन्तं राजसन्मानमश्वांदोल्यादिकं शुभम् ।

सुताधिपसमायुक्ते पुत्रलाभं च विन्दति ॥ ९॥

 

धनेशस्य च सम्बन्धे गजान्तैश्वर्यमादिशेत् ।

वाहनाधिपसम्बन्धे वाहनात्रयलाभकृत् ॥ १०॥

 

नृपलतुष्टिर्वित्ताढ्यः सेनाधीशः सुखी नरः ।

वस्त्रवाहनलाभश्च दशायां बलिनो रवेः ॥ ११॥

 

नीचे षडष्टके  रिःफे दुर्बले पापसंयुते ।

राहुकेतुसमायुक्ते दुह्स्थानाधिपसंयुते ॥ १२॥

 

तस्मिन्दाये महापीडा धनधान्यविनाशकृत ।

राजकोपः प्रवासश्च राजदण्डो धनक्षयः ॥ १३॥

 

ज्वरपीडा यशोहानिर्बन्धुमित्रविरोधकृत ।

पितृक्षयभयं चैव गृहे त्वशुभमेव च ॥ १४॥

 

पितृवर्गे मनस्तापं जन्द्वेषं च विन्दति ।

शुभदृष्टियुते सूर्ये मध्ये तस्मिन् क्वचित्सुखम् ।

पापग्र्हेण सन्दृष्टे वदेत्पापफलं बुधः ॥ १५॥

 

एवं सूर्यफलं विप्र संक्षेपादुदितं मया ।

विंशोत्तरीमतेनाथ ब्रुवे चन्द्रदशाफलम् ॥ १६॥

 

स्वोच्चे स्वक्षेत्रगे चैव केन्द्रे लाभत्रिकोणगे ।

शुभग्रहेण संयुक्ते पूर्णे चन्द्रेबलैर्युते ॥ १७॥

 

कर्मभाग्याधिपैर्युक्ते वाहनेशबलैर्युते ।

आद्यन्तैश्वर्यसौभाग्यधनधान्यादिलाभकृत ॥ १८॥

 

गृहे तु शुभकार्याणि वाहनं राजदर्शनम् ।

यत्नकार्यार्थसिद्धिः स्याद् गृहे लक्ष्मीकटाक्षकृत् ॥ १९॥

 

मित्रप्रभुवशाद्भाग्यं राज्यलाभं महत्सुखम् ।

अश्वान्दोल्यादिलाभं च श्वेतवस्त्रादिकं लभेत् ॥ २०॥

 

पुत्रलाभादिसन्तोषं गृहगोधनसंकुलम् ।

धनस्थानगते चन्द्रे तुङ्गे स्वक्षेत्रगेऽपि वा ॥ २१॥

 

अनेकधनलाभं च भाग्यवृद्धिर्महत्सुखम् ।

निक्षेपराजसन्मानं विद्यालाभं च विन्दति ॥ २२॥

 

नीचे वा क्षीणचन्द्रे वा धनहानिर्भविष्यति ।

दुश्चिक्ये बलसंयुक्ते क्वचित्सौख्यं क्वचिद्धनम् ॥ २३॥

 

दुर्बले पापसंयुक्ते देहजाड्यं मनोरुजम् ।

भृत्यपीडा वित्तहानिर्मातृवर्गजनाद्वधः ॥ २४॥

 

षष्ठाष्टमव्यये चन्द्रे दुर्बले पापसंयुते ।

राजद्वेषो मनोदुःखं धनधान्यादिनाशनम् ॥ २५॥

 

मातृक्लेषं मनस्तापं देहजाड्यं मनोरुजम् ।

दुःस्थे चन्द्रे बलैर्युक्ते क्वचिल्लाभं क्वचित्सुखम् ।

देहजाड्यं क्वचिच्चैव शान्त्या तत्र शुभं दिशेत् ॥ २६॥

 

स्वभोच्चादिगतस्यैवं नीचशत्रुभगस्य च ।

ब्रवीमि भूमिपुर्तस्य शुभाऽशुभदशाफलम् ॥ २७॥

 

परमोच्चगते भौमे स्वोच्चे मूलत्रिकोणगे ।

स्वर्क्षे केन्द्रत्रिकोणे वा लाभे वा धनगेऽपि वा ॥ २८॥

 

सम्पूर्णबलसंयुक्ते शुभदृष्टे शुभांशके ।

राज्यलाभं भूमिलाभं धनधान्यादिलाभकृत् ॥ २९॥

 

आधिक्यं राजसम्मानं वाहनाम्बरभूषणम् ।

विदेशे स्थानलाभं च सोदराणां सुखं लभेत् ॥ ३०॥

 

केन्द्रे गते सदा भौमे दुश्चिक्ये बलसंयुते ।

पराक्रमाद्वित्तलाभो युद्धे शत्रुजयो भवेत् ॥ ३१॥

 

कलत्रपुत्रविभवं राजसम्मानमेव च ।

दशादौ सुखमाप्नोति दशान्ते कष्टमादिशेत् ॥ ३२॥

 

नीचादिदुष्टभावस्थे भौमे बलविवर्जिते ।

पापयुक्ते पापदृष्टे सा दशा नेष्टदायिका ॥ ३३॥

 

एवं राहोश्च केतोश्च कथयामि गृहादिकम् ।

तयोर्दशाफलज्ञप्त्यै तवाऽग्रे द्विजनन्दन ॥ ३४॥

 

राहोस्तु वृषभं केतोर्वृश्चिकं तुङ्गसंज्ञकम् ।

मूलत्रिकोणकं ज्ञेयं युग्मं चापं क्रमेण च ॥ ३५॥

 

कुम्भाली च गृहौ प्रोक्तौ कन्यामीनौ च केनचित् ।

तद्दाये बहुसौख्यं च धनधान्यादिसम्पदाम् ॥ ३६॥

 

मित्र्प्रभुवशादिष्टं वाहनं पुत्रसम्भवः ।

नवीनगृहनिर्माणं धर्मचिन्ता महोत्सवः ॥ ३७॥

 

विदेशराजसन्मानं वस्त्रालङ्कारभूषणम् ।

शुभयुक्ते शुभैर्दृष्टे योगकारकसंयुते ॥ ३८॥

 

केन्द्रत्रिकूणलाभे वा दुश्चिक्ये शुभराशिगे ।

महाराजप्रसादेन सर्वसम्पत्सुखावहम् ॥ ३९॥

 

यवनप्रभुसन्मानं ग्र्हे कल्याणसम्भवम् ।

रन्ध्रे वा व्ययगे राहौ तद्दाये कष्टमादिशेत् ॥ ४०॥

 

पापग्रहेण सम्बन्धे मारकग्र्हसंयुते ।

नीचराशिगते वापि स्थानभ्रंशो मनोव्यथा ॥ ४१॥

 

विनाशो दारपुत्राणां कुत्सितान्नं च भोजनम् ।

दशादौ देहपीडा च धनधान्यपरिच्युतिः ॥ ४२॥

 

दशामध्ये तु सौख्यं स्यात् स्वदेशे धनलाभकृत् ।

दशान्ते कष्टमाप्नोति स्थानभ्रंशो मनोव्यथा ॥ ४३॥

 

यः सर्वेषु नाभोगेषु बुधैरतिशुभः स्मृतः ।

तस्य देवेन्द्रपूज्यस्य कथयामि दशाफलम् ॥ ४४॥

 

स्वोच्चे स्वक्षेत्रगे जीवे केन्द्रे लाभत्रिकोणगे ।

मूलत्रिकोणलाभे वा तुंगांशे स्वांशगेऽपि वा ॥ ४५॥

 

राज्यलाभं महापौरुषं राजसन्मानकीर्तनम् ।

गजवाजिसमायुक्तं देवब्राह्मणपूजनम् ॥ ४६॥

 

दारपुत्रादिसौख्यं च वाहनांबरलाभजम् ।

यज्ञादिकर्मसिद्धिः स्याद्वेदान्तश्रवणादिकम् ॥ ४७॥

 

महाराजप्रसादेनाऽभीष्टसिद्धिः सुखावहा ।

आन्दोलिकादिलाभश्च कल्याणं च महत्सुखम् ॥ ४८॥

 

पुत्रदारादिलाभश्च अन्नदानं महत्प्रियम् ।

नीचास्तपापसंयुक्ते जीवै रिष्फाष्टसंयुते ॥ ४९॥

 

स्थानभ्रंशं मनस्तापं पुत्रपीडामहद्भयम् ।

पश्वादिधनहानिश्च तीर्थयात्रादिकं लभेत् ॥ ५०॥

 

आदौ कष्टफलं चैव चतुष्पाज्जीवलाभकृत् ।

मध्यान्ते सुखमाप्नोति राजसम्मानवैभवम् ॥ ५१॥

 

अथ सर्वेषु खेटेषु योऽतिहीनः प्रकीर्तितः ।

तस्य भास्करपुत्रस्य कथयामि दशाफलम् ॥ ५२॥

 

स्वोच्चे स्वक्षेत्रगे मन्दे मित्रक्षेत्रेऽथ वा यदि ।

मूलत्रिकोणे भाग्ये वा तुंगांशे स्वांशगेऽपि वा ॥ ५३॥

 

दुश्चिक्ये लाभगे चैव राजसम्मानवैभवम् ।

सत्कीर्तिर्धनलाभश्च विद्यावादविनोदकृत् ॥ ५४॥

 

महाराजप्रसादेन गजवाहनभूषणम् ।

राजयोगं प्रकुर्वीत सेनाधीशान्महत्सुखम् ॥ ५५॥

 

लक्ष्मीकटाक्षचिह्नानि राज्यलाभं करोति च ।

गृहे कल्याणसम्पत्तिर्दारपुत्रादिलाभकृत् ॥ ५६॥

 

षष्ठाष्टमव्यये मन्दे नीचे वाऽस्तङ्गतेऽपि वा ।

विषशस्त्रादिपीडा च स्थाभ्रंशं महद्भयम् ॥ ५७॥

 

पितृमातृवियोगं च दारपुत्रादिपीडनम् ।

राजवैस्ःअम्यकार्याणि ह्यनिष्टं बन्धनं तथा ॥ ५८॥

 

शुभयुक्तेक्षिते मन्दे योगकारकसंयुते ।

केन्द्रत्रिकोणलाभे वा मीनगे कार्मुके शनौ ॥ ५९॥

 

राज्यलाभं महोत्साहं गजश्वाम्बरसंकुलम् ॥ ६०॥

 

अथ सर्वनभोगेषु यः कुमारः प्रकीर्तितः ।

तस्य तारेशपुत्रस्य कथयामि दशाफलम्  ॥ ६१॥

 

स्वोच्चे स्वक्षेत्रसंयुक्ते केन्द्रलाभत्रिकोणगे ।

मित्रक्षेत्रसमायुक्ते सौम्ये दाये महत्सुखम् ॥ ६२॥

 

धनधान्यादिलाभं च सत्कीर्तिधनसम्पदाम् ।

ज्ञानाधिक्यं नृपप्रीतिं सत्कर्मगुणवर्द्धनम् ॥ ६३॥

 

पुत्रदारादिसौख्यं च देहारोग्यं महत्सुखम् ।

क्षीरेण भोजनं सौख्यं व्यापाराल्लभते धनम् ॥ ६४॥

 

शुभदृष्टियुते सौम्ये भाग्ये कर्माधिपे दशा ।

आधिपत्ये बलवती सम्पूर्ण्फलदादिका ॥ ६५॥

 

पापग्रहयुते दृष्टे राजद्वेषं मनोरुजम् ।

बन्धुजनविरोधं च विदेशगमनं लभेत् ॥ ६६॥

 

परप्रेष्यं च कलहं मूर्तकृर्च्छान्महन्भयम् ।

षष्ठाष्टमव्यये सौम्ये लाभभोगार्थनाशनम् ॥ ६७॥

 

वातपीडां धनं चैवं पाण्डुरोगं विनिर्दिशेत् ।

नृपचौराग्निभीतिं च कृषिगोभूमिनाशनम् ॥ ६८॥

 

दशादौ धनधान्यं च विद्यालाभं महत्सुखम् ।

पुत्रकल्याणसम्पत्तिः सन्मार्गे धनलाभकृत् ॥ ६९॥

 

मध्ये नरेन्द्रसन्मानमन्ते दुःखं भविष्यति ॥ ७०॥

 

यस्तमोग्रहयोर्मध्ये कबन्धः कथ्यते बुधैः ।

तस्य केतोरिदानीं ते कथेयामि दशाफलम् ॥ ७१॥

 

केन्द्रे लाभे त्रिकोणे व शुभराशौ शुभेक्षिते ।

स्वोच्चे वा शुभवर्गे वा राजप्रीतिं मनोनुगम् ॥ ७२॥

 

देशाग्रामाधिपत्यं च वाहनं पुत्रसम्भवम् ।

देशान्तरप्रयाणं च निर्दिशेत् तत् सुखावहम् ॥ ७३॥

 

पुत्रदारसुखं चैव चतुष्पाज्जीवलाभकृत् ।

दुश्चिक्ये षष्ठलाभे वा केतुर्दाये सुखं दिशेत् ॥ ७४॥

 

राज्यं करोति मित्रांशं गजवाजिसमन्वितम् ।

दशदौ राजयोगश्च दशामध्ये महद्भयम् ॥ ७५॥

 

अन्ते दूराटनं चैव देहविश्रमणं तथा ।

धने रन्ध्रे व्यये केतौ पापदृष्टियुतेक्षिते ॥ ७६॥

 

निगडं बन्धुनाशं च स्थानभ्रंशं मनोरुजम् ।

शूद्रसङ्गादिलाभं च कुरुते रोगसंकुलम् ॥ ७७॥

 

अथ भूतेषु यः शुक्रा मदरूपेण तिष्ठति ।

तस्य दैत्यगुरोर्विप्र कथयामि दशाफलम् ॥ ७८॥

 

परमोच्चगते शुक्रे स्वोच्चे स्वक्षेत्रकेन्द्रगे ।

नृपाऽभिषेकसम्प्राप्तिर्वाहनाऽम्बरभूषणम् ॥ ७९॥

 

गजाश्वपशुलाभं च नित्यं मिष्ठान्नभोजनम् ।

अखण्डमण्डलाधीशाराजसन्मानवैभवम् ॥ ८०॥

 

मृदङ्गवाद्यघोषं च गृहे लक्ष्मीकटाक्षकृत् ।

त्रिकोणस्थे निजे तस्मिन् राज्यार्थगृहहसम्पदः ॥ ८१॥

 

विवाहोत्सवकार्याणि पुत्रकल्याणवैभवम् ।

सेनाधिपत्यं कुरुते इष्टबन्धुसमागनम् ॥ ८२॥

 

नष्टराज्याद्धनप्राप्तिं गृहे गोधनसङ्ग्रहम् ।

षष्ठाष्टमव्यये शुक्रे नीचे वा व्ययराशिगे ॥ ८३॥

 

आत्मबन्धुजनद्वेषं दारवर्गादिपीडनम् ।

व्यवसायात्फ्लं नष्टं गोमहिष्यादिहानिकृत् ॥ ८४॥

 

दारपुत्रादिपीडा वा आत्मबन्धुवियोगकृत् ।

भाग्यकर्माधिपत्येन लग्नवाहनराशिगे ॥ ८५॥

 

तद्दशायां महत्सौख्यं देशग्रामाधिपालता ।

देवालयतडागादिपुण्यकर्मसु संग्रहः ॥ ८६॥

 

अन्नदाने महत्सौख्यं नित्यं मिष्ठान्नभोजनम् ।

उत्साहः कीर्तिसम्पत्ती स्त्रीपुत्रधनसम्पदः ॥ ८७॥

 

स्वभुक्तौ फलमेवं स्याद्बलान्यन्यानि भुक्तिषु ।

द्वितीयद्यूननाथे तु देहपीडा भविष्यति ॥ ८८॥

 

तद्दोषपरिहारार्थं रुद्रं वा त्र्यम्बकं जपेत् ।

स्वेतां गां महिषीं दव्यादारोग्यं च ततो भवेत् ॥ ८९॥

 


 

 

        अथ विशेषनक्षत्रदशाफलाध्यायः ॥ ४८॥

 

स्थानस्थितिवशेनैवं फलं प्रोक्तं पुरातनैः ।

मिथो भावेशसम्बन्धात्फलानि कथयाम्यहम् ॥ १॥

 

लग्नेशस्य गशाकाले सत्कीतिर्देहजं सुखम् ।

धनेशस्य दशायां तु क्लेशो वा मृत्युतो भयम् ॥ २॥

 

सहजेशदशाकाले ज्ञेयं पापफलं नृणाम् ।

सुखाधीशदशायां तु गृहभूमिसुखं भवेत् ॥ ३॥

 

पञ्चमेशस्य पाके च विद्याप्तिः पुत्रजं सुखम् ।

रोगेशस्य दशाकाले देहपीडा रिपोर्भयम् ॥ ४॥

 

सप्तमेशस्य पाके तु स्त्रीपीडा मृत्युतो भयम् ।

अष्टमेशदशाकाले मृत्युभीतिर्धनक्षतिः ॥ ५॥

 

धर्मशस्य दशायां च भूरिल्लाभो यशःसुखम् ।

दशमेशदशाकाले सम्मानं नृपसंसदि ॥ ६॥

 

लाभेशस्य दशाकाले लाभे बाधा रुजोभयम् ।

व्ययेशस्य दशा नृणां बहुकष्टप्रदा द्विज ॥ ७॥

 

दशारम्भे शुभस्थाने स्थितस्यापि शुभं फलम् ।

अशुभस्थानगस्यैवं शुभस्यापि न शोभनम् ॥ ८॥

 

पञ्चमेशेन युक्तस्य कर्मेशस्य दशा शुभा ।

नवमेशेन युक्तस्य कर्मेशस्यातिशभना ॥ ९॥

 

पञ्चमेशेन युक्तस्य ग्रहस्यापि दशा शुभा ।

तथा धर्मपयुक्तस्य दशा परमशोभना ॥ १०॥

 

सुखेशसहितस्यापि धर्मेशस्य दशा शुभा ।

पञ्चमस्थानगस्यापि मानेशस्य दशाशुभा ॥ ११॥

 

एवं त्रिकोणनाथानां केन्द्रस्थानां दशाः शुभाः ।

तथा कोणस्थितानां च केन्द्रेशानां दशाः शुभाः ॥ १२॥

 

केन्द्रेशः कोणभावस्थः कोणेशः केन्द्रगो यदि ।

तयोर्दशां शुभां प्राहुर्ज्योतिःशास्त्रविदो जनाः ॥ १३॥

 

षष्ठाष्टमव्ययाधीशा अपि कोणेशसंयुता ।

तेषां दशाऽपि शुभदा कथिता कालकोविदैः ॥ १४॥

 

कोणेशो यदि केम्द्रस्थः केन्द्रेशो यदि कोणगः ।

ताभ्यां युक्तस्य खेटस्य दृष्टियुक्तस्य चैतयोः ॥ १५॥

 

दशां शुभप्रदां प्राहुर्विद्वांसो दैवचिन्तकाः ।

लग्नेशो धर्मभावस्थो धर्मेशो लग्नगो यदि ॥ १६॥

 

एतयोस्तु दशाकाले सुखधर्मसमुद्भवः ।

कर्मेशो लग्नराशिस्थो लग्नेशः कर्मभावगः ॥ १७॥

 

तयोर्दशाविपाके तु राज्यलाभो भवेद्ध्रुवम् ।

त्रिषडायगतानां च त्रिषडायाधिपैर्युजम् ॥ १८॥

 

शुभानामपि खेटानां दशा पापफलप्रदा ।

मारकस्थानगानां च मारकेशयुजामपि ॥ १९॥

 

रन्ध्रस्थानगतानां च दशाऽनिष्टफलप्रदा ।

एवं भावेशसम्बन्धादूरनीयं दशाफलम् ॥ २०॥

 


 

 

        अथ कालचक्रदशाफलाध्यायः ॥ ४९॥

 

कथयाम्यथ विप्रेन्द्र कालचक्रदशाफलम् ।

तत्रादौ राशिनाथानां सूर्यादीनां फलं ब्रुवे ॥ १॥

 

रक्तपित्तादितो व्याधिं नृणामर्कफलं वदेत् ।

धनकीर्तिप्रजावृद्धिवस्त्राभरणदः शशी ॥ २॥

 

ज्वरमाशु दिशेत् पैत्त्यं ग्रन्थिस्फोटं कुजस्तथा ।

प्रजानां च धनानां च सदा वृद्धिं बुधो दिशेत् ॥ ३॥

 

धनं कीर्तिं प्रजावृद्धिं नानाभोगं बृहस्पतिः ।

विद्यावृद्धिर्विवाहश्च गृहं धान्यं भृगोः फलम् ॥ ४॥

 

तापाधिक्यं महद्दुःखं बन्धुनाशः शनेः फलम् ।

एवमर्कादियोगेन वदेद्राशिदशाफलम् ॥ ५॥

 

मेषे तु रक्तपीडा च वृषभे धान्यवर्द्धनम् ।

मिथुने ज्ञानसम्पान्नश्चान्द्रे धनपतिर्भवेत् ॥ ६॥

 

सूर्यक्षे शत्रुबाधा च कन्या स्त्रीणां च नाशनम् ।

तालिके राजमन्त्रित्वं वृश्चिके मरणं भवेत् ॥ ७॥

 

अर्थलाभो भवेच्चापे मेषस्य नवभागके ।

मकरे पापकर्माणि कुम्भे वाणिज्यमेव च ॥ ८॥

 

मीने सर्वार्थसिद्धिश्च वृश्चिकेष्वग्नितो भयम् ।

तौलिके राजपूज्यश्च कन्यायां शत्रुवर्धनम् ॥ ९॥

 

शशिभे दारसम्बाधा सिंहे च त्वक्षिरोगकृत् ।

मिथुने वृत्तिबाधा स्याद्वृषभस्य नवांशके ॥ १०॥

 

वृषभे त्वर्थलाभाश्च मेषे तु ज्वररोगकृत् ।

मीने तु मातुलप्रीतिः कुम्भे शत्रुप्रवर्द्धनम् ॥ ११॥

 

मृगे चौरस्य सम्बाधा धनुषि शस्त्रवर्धनम् ।

मेषे तु शस्त्रसंघातो वृषभे कलहो भवेत् ॥ १२॥

 

मिथुने सुखमाप्नोति मिथुनस्य नवांशके ।

कर्कटे सङ्कटप्राप्तिः सिंहे राजप्रकोपकृत् ॥ १३॥

 

कन्यायां भ्रातृपूजा व तौलिके प्रियकृन्नरः ।

वृश्चिके पितृबाधा स्यात् चापे ज्ञानधनोदयः ॥ १४॥

 

मकरे जलभीतिः स्यात् कुम्भे धान्यविवर्धनम् ।

मीने च सुखसम्पत्तिः कर्कटस्य नवांशके ॥ १५॥

 

वृश्चिके कलः पीडा तौलिके ह्यधिकं फलम् ।

कन्यायामतिलाभश्च शशांके मृगबाधिका ॥ १६॥

 

सिंहे च पुत्रलाभश्च मिथुने शत्रुवर्द्धनम् ।

वृषेः चतुष्पदाल्लाभो मेषांशे पशुतो भयम् ।

मीने तु दीर्घयात्रा स्यात् सिंहस्य नवभागके ॥ १७॥

 

कुम्भे तु धनलाभश्च मकरे द्रव्यलाभकृत् ।

धनुषि भ्रातृसंसर्गो मेषे मातृविवर्द्धनम् ॥ १८॥

 

वृषभे पुत्रवृद्धिः स्यान्मिथुने शत्रुवर्द्धनम् ।

शशिभे तु स्त्रियां प्रीतिः सिंहे व्याधिविवर्द्धनम् ॥ १९॥

 

कन्यायां पुत्रवृद्धिः स्यात्कन्याया नवमांशके ।

तुलायामर्थलाभश्च वृश्चिके भ्रातृवर्द्धनम् ॥ २०॥

 

चापे च तातसौख्यं च मृगे मातृविरोधिता ।

कुम्भे पुत्रार्थलाभश्च मीने शत्रुविरोधिता ॥ २१॥

 

अलौ जायाविरोधश्च तुले च जलबाधता ।

कन्यायां धनवृद्धिः स्यात् तुलाया नवभागके ॥ २२॥

 

कर्कटे ह्यर्थनाशश्च सिंहे राजविरोधिता ।

मिथुने भूमिलाभश्च वृषभे चाऽर्थलाभकृत् ॥ २३॥

 

मेषे सर्पादिभीतिः स्यान्मीने चैव जलाद् भयम् ।

कुम्भे व्यापारतो लाभो मकरेऽपि रुजो भयम् ॥ २४॥

 

चापे तु धनलाभः स्याद् वृश्चिकस्य नवांशके ।

मेषे तु धनलाभः स्याद् वृषे भूमिविवर्द्धनम् ॥ २५॥

 

मिथुने सर्वसिद्धिः स्यात्कर्कटे सर्वसिद्धिकृत् ।

सिंहे तु पूर्ववृद्धिः स्यात्कन्यायां कलहो भवेत् ॥ २६॥

 

तौलिके चार्थलाभः स्याद् वृश्चिके रूगमाप्नुयात् ।

चापे तु सुतवृद्धिः स्याच्चापस्य नवमांशके ॥ २७॥

 

मकरे पुत्रलाभः स्यात्कुम्भे धान्यविवर्द्धनम् ।

मीने कल्याणमाप्नोति वृश्चिके विषबाधिता ॥ २८॥

 

तौलिके त्वर्थलाभश्च कन्यायां शत्रुवर्द्धनम् ।

शशिभे स्र्/इयमाप्नोति सिंहे तु मृगबाधिता ॥ २९॥

 

मिथुने वृक्षबाधा च मृगस्य नवभागके ।

वृषभे त्वर्थलाभश्च मेषभे त्वक्षिरोगकृत् ॥ ३०॥

 

मीने तु दीर्घयात्रा स्यात्कुम्भे धनविवर्द्धनम् ।

मकरे सर्वसिद्धिः स्याच्चापे शत्रुविवर्द्धनम् ॥ ३१॥

 

मेषे सौख्यविनाशश्च वृषभे मरणं भवेत् ।

युग्मे कल्याणमाप्नोति कुम्भस्य नवमांशके ॥ ३२॥

 

कर्कटे धनवृद्दिः स्यात् सिंहे तु राजपूजनम् ।

कन्यायामर्थलाभस्तु तुलायां लाभमाप्नुयात् ॥ ३३॥

 

वृश्चिके ज्वरमाप्नोति चापे शत्रुविवर्द्धनम् ।

मृगे जायाविरोधश्च कुम्भे जलविरोधता ॥ ३४॥

 

मीने तु सर्वसौभाग्यं मीनस्य नवभागके ।

दशांशक्रमेणैवं ज्ञात्वा सर्वफलं वदेत् ॥ ३५॥

 

क्रूरग्रहदशाकाले शान्तिं कुर्याद्विचक्षणः ।

यत् प्रोक्तं राजयोगादौ संज्ञाध्याये च यत् फलम् ॥ ३६॥

 

तत्सर्वं चत्रकाले हि सुबुद्ध्या योजयेद् बुधः ।

इति संक्षेपतः प्रोक्तं कालचक्रदशाफलम् ॥ ३७॥

 


 

 

         अथ चरादिदशाफलाध्यायः ॥ ५०॥

 

चरस्थिरादिसंज्ञा या दशाः प्रोक्ताः पुरा द्विज ।

शुभाऽशुभफलं तासां कथयामि तवाऽग्रतः ॥ १॥

 

लग्नादिद्वादशान्तानां भावानां फलकीर्तने ।

तत्तद्राशीशवीर्येण यथायोग्यं प्रयोजयेत् ॥ २॥

 

बलयुक्ते च राशीशे पूर्णं तस्य तदा फलम् ।

फलं मध्य्बले मध्यं बलहीने विपर्ययः ॥ ३॥

 

यो यो दशाप्रदो राशिस्तस्य रन्ध्रत्रिकोणके ।

पापखेटयुते विप्र तद्दशा दुःखदायिका ॥ ४॥

 

तृतीयषष्ठगे पापे ज्यादिः परिकीर्तितः ।

शुभखेटयुते तत्र जायते च पराजयः ॥ ५॥

 

लाभस्थे च शुभे पापे लाभो भवति निश्चितः ।

यदा दशाप्रदो राशिः शुभखेटयुतो द्विज ॥ ६॥

 

शुभक्षेत्रे हि तद्राशेः शुभं ज्ञेयं दशाफलम् ।

पापयुक्ते शुभक्षेत्रे पूर्वं शुभमसत्परे ॥ ७॥

 

पापर्क्षे शुभसंयुक्ते पूर्वं सौख्यं ततोऽशुभम् ।

पापक्षेत्रे पापयुक्ते सा दशा सर्वदुखदा ॥ ८॥

 

शुभक्षेत्रदशा राशौ युक्ते पापशुभैर्द्विज ॥ ९॥

 

पूर्वं कष्टं सुखं पश्चान्निर्विशङ्कं प्रजायते ।

शुभक्षेत्रे शुभं वाच्यं पापर्क्षे त्वशुभं फलम् ॥ १०॥

 

द्वितीये पञ्चमे सौम्ये राजप्रीतिर्जयो ध्रुवम् ।

पापे तत्र गते ज्ञेयमशुभं तद्दशाफलम् ॥ ११॥

 

चतुर्थे तु शुभं सौख्यमारोग्यं त्वष्टमे शुभे ।

धर्मवृद्धिर्गुरुजनात्सौख्यं च नवमे शुभे ॥ १२॥

 

विपरीते विपर्यासो मिश्रे मिश्रं प्रकीर्तितम् ।

पाके भोगे च पापाढ्ये देहपीडा मनोव्यथा ॥ १३॥

 

सप्तमे पाकभोगाभ्यां पापे दारार्तिरीरिता ।

चतुर्थे स्थानहानिः स्यात्पञ्चमे पुत्रपीडनम् ॥ १४॥

 

दशमे कीर्तिहानिः स्यान्नवमे पितृपीडनम् ।

पाकाद्रुद्रागते पापे पीडा सर्वाप्यबाधिका ॥ १५॥

 

उक्तस्थानगते सौम्ये ततः सौख्यं विनिर्दिशेत् ।

केन्द्रस्थानगते सौम्ये लाभः शत्रुजपप्रदः ॥ १६॥

 

जन्मकालग्रहस्थित्या सगोचगग्रहैरपि ।

विचारितैः प्रवक्तव्यं तत्तद्राशिद/साफलम् ॥ १७॥

 

यश्च राशिः शुभाकान्तो यस्य पश्चाच्छुभग्रहाः ।

तद्दशा शुभदा प्रोक्ता विपरीते विपर्ययः ॥ १८॥

 

त्रिकोणरन्ध्ररिष्फस्थैः शुभपापैः शुभाऽशुभम् ।

तद्दशायां च वक्तव्यं फलं दैवविदा सदा ॥ १९॥

 

मेषकर्कतुलानक्रराशीनां च यथाक्रमम् ।

बाधा स्तानानि सम्प्रोक्ता कुभगोसिंहवृश्चिकाः ॥ २०॥

 

पाकेशाक्रान्तराशौ वा बाधास्थाने शुभेतरे ।

स्थिते सति महाशोको बन्धनव्यसनामयाः ॥ २१॥

 

उच्चस्वर्क्षग्र्हे तस्मिञ्छुभं सौख्यं धनागमः ।

तच्छून्यं चेदसौख्यं स्यात्तद्दशा न फलप्रदा ॥ २२॥

 

बाधकव्ययषडरन्ध्रे राहुयुक्ते महद्भयम् ।

प्रस्थाने बन्धनप्राप्ती राजपीडा रिपोभयम् ॥ २३॥

 

रव्यारराहुशनयो भुक्तिराशौ स्थिता यदि ।

तद्राशिभिक्तौ पतनं राजकोपान् महद्भयम् ॥ २४॥

 

भुक्तिराशित्रिकोणे तु नीचखेटः स्थितो यदि ।

तद्राशौ वा युते नीचे पापे मृत्युभयं वदेत् ॥ २५॥

 

भुक्तिराशौ स्वतुङ्गस्थे त्रिकोणे वापि खेचरे ।

यदा भुक्तिदशा प्राप्ता तदा सौख्यं लभेन्नरः ॥ २६॥

 

नगरग्रामनाथत्वं पुत्रलाभं धनागमम् ।

कल्याणं भूरिभाग्यं च सेनपत्यं महोन्नतम् ॥ २७॥

 

पाकेश्वरो जीवदृष्टः शुभराशिस्थितो यदि ।

तद्दशायां धनप्राप्तिर्मङ्गलं पुत्रसम्भवम् ॥ २८॥

 

सितासितभयुग्माश्च सूर्यस्य रिपुराशयः ।

कौर्पितौलिघटाश्चेन्द्रोर्भौमस्य रिपुराशयः ॥ २९॥

 

घटमीननृयुल्तौलिकन्या ज्ञस्य ततः परम् ।

कर्कमीनालिकुम्भाश्च राशयो रिपवः स्मृताः ॥ ३०॥

 

वृषतौलिनृयुक्कन्याराशयो रिपवो गुरोः ।

सिंहालिकर्कचापाश्च शुकस्य रिपुराशयः ॥ ३१॥

 

मेषसिंहधनुःकौर्पिकर्कटा शनिशत्रवः ।

एवं ग्राहन्तरदाशां चिन्तयेत्कोविदो द्विज ॥ ३२॥

 

ये राजयोगदा ये च शुभमध्यमता ग्रहाः ।

यस्माद्वा द्वित्रितुर्यस्थाः ग्रहाः शुभफलप्रदाः ॥ ३३॥

 

तद्दशानां शुभं ब्रूयाद्राजयोगादिसम्भवम् ।

शुभद्वयान्तरगतः पापोऽपि शुभदः स्मृतः ॥ ३४॥

 

गता शुभदशामध्यं दशा सौम्यस्य शोभना ।

शुभा यस्य त्रिकोणस्थस्तद्दशापि शुभप्रदा ॥ ३५॥

 

आरम्भान्तो मित्रशुभराश्योर्यदि फलं शुभम् ।

प्रतिराश्यैवमव्दाद्यं विभज्य तत्फलं वदेत् ॥ ३६॥

 

आरम्भात्तत्त्रिकोणे तु सौम्ये तु शुभभावहेत् ।

शुभराशौ शुभारम्भे दशा स्यादतिशोभना ॥ ३७॥

 

शुभादिराशौ पापश्चेद्दशारम्भे शुभा स्मृता ।

शुभारम्भे कथा केति प्रारम्भस्य फलं वदेत् ॥ ३८॥

 

आरम्भे पापराशौ वा यदीशो दुर्बलो द्विज ।

नीचादौ तद्दशाद्यन्ते वदेद्भाग्यविपर्ययम् ॥ ३९॥

 

यत्र स्थितो नीचखेटस्त्रिकोणे वाऽथ नीचगः ।

तथा राशीश्वरे नीचे सम्बन्धो नीचखेटकैः ॥ ४०॥

 

भाग्यस्य विपरीतत्वं करोत्येव द्विजोत्तम ।

धनधान्यादिहानिश्च देहे रोगभयं तथा ॥ ४१॥

 

राहोः केतोश्च कुम्भादि वृश्चिकादि चतुष्टयम् ।

स्वभं तत्र समारम्भस्तद्दशायां शुभं भवेत् ॥ ४२॥

 

यद्दशायां शुभं ब्रूयात्स चेन्मारकसंस्थितः ।

यस्मिन् राशौदशान्तःस्यात्तस्मिन् दृष्टे युतेऽपि वा ॥ ४३॥

 

शुक्रेण विधुना वा स्याद्राजकोपाद्धनक्षयः ।

दशान्तश्चेदरिक्षेत्रे राहुदृष्टयुतेऽपि वा ॥ ४४॥

 

इदं फलं शनेः पाके न विचिन्त्यं द्विजोत्तम ।

दशाप्रदे नक्रराशौ न विचिन्त्यमिदं फलम् ॥ ४५॥

 

राहुर्दशान्ते सर्वस्वनाशो मरणबन्धने ।

दशान्निर्वासनं वा स्यात्कष्टं वा महदश्नुते ॥ ४६॥

 

तत्त्रिकोणगते पापे निश्चयाद्दुःखमादिशेत् ।

एवं शुभाशुभं सर्वं निश्चयेन वदेद् बुधः ॥ ४७॥

 

राह्वाद्याश्रितराशिस्तु भवेद्यदि दशाप्रदः ।

तत्र कालेऽपि पूर्वोक्तं चिन्तनीयं प्रयत्नतः ॥ ४८॥

 

द/सारम्भो दशान्तो वा मारके चेन्न शोभनम् ।

तस्मिन्नेव च राहुश्चन्नरोधो द्रव्यनाशनः ॥ ४९॥

 

यत्र क्वापि च भे राहौ दशारम्भे विनाशनम् ।

गृहभ्रंशः समुद्दिष्टो धने राहुधनार्तिकृत् ॥ ५०॥

 

चन्द्र्शुक्रौ द्वादश चेद्राजकोपो भवेद्ध्रुवम् ।

भौमकेतू तत्र यदि वधोऽग्नेर्महती व्यथा ॥ ५१॥

 

चेन्द्रशुक्रौ धने विप्र यदि राज्यं प्रयच्छतः ।

दशारम्भे दशान्ते च द्वितीयस्थमिदं फलम् ॥ ५२॥

 

एवमर्गलभावानां फलं विज्ञैः प्रदर्शितम् ।

यस्य पापः शुभो वाऽपि ग्रहस्तिष्ठेच्छुभार्गले ॥ ५३॥

 

तेन द्रष्ट्रेक्षिते लग्नं पाबल्यायोपकल्प्यते ।

यदि पश्येद्ग्रहस्तन्न विपरीतार्गलस्थितः ॥ ५४॥

 

तद्भावस्य दशायास्तु विपरीतफलं भवेत् ।

सद्दृष्टेऽपि शुभं ब्रूयान्निर्विशंकं द्विजोत्तम ॥ ५५॥

 

यस्मिन्भावे शुभस्वामिसम्बन्धस्तुङ्गखेचरः ।

स्यात्तद्भावदशायां तु अन्त्यैश्वर्यमखण्डितम् ॥ ५६॥

 

यद्भावेशः स्वार्थराशिमधितिष्ठति पश्यति ।

स्यातद्भावदशाकाले धनलाभो महत्तरः ॥ ५७॥

 

यस्माद्व्ययगतो यस्तु तद्दशायां धनक्षयः ।

यस्मात्त्रिकोणगाः पापास्तत्रात्मशुभनाशनम् ॥ ५८॥

 

पुत्रहानिः पितुः पीडा मनस्तापो महान् भवेत् ।

यस्मात्त्रिकोङ्गा रिःफरन्ध्रेशार्कारसूर्यजाः ॥ ५९॥

 

पुत्रपीडा द्रव्यहानिस्तत्र केत्वहिसङ्गमे ।

विदेशभ्रमणं क्लेशो भयं चैव पदे पदे ॥ ६०॥

 

तस्मात्षष्ठाष्टमे क्रूरनीचखेटादयः स्थिताः ।

रोगशत्रुनृपालेभ्यो मुहुः पीडा सुदुःसहा ॥ ६१॥

 

यस्माच्चतुर्थः क्रूरः स्याद्भूगृहक्षेत्रनाशनम् ।

पशुहानिस्तत्र भौमे गृहदाहः प्रमादकृत् ॥ ६२॥

 

शनौ हृदयशूलं स्यात्सूर्ये राजप्रकोपनम् ।

सर्वस्वहरणं राहौ विषचौरादिजं भयम् ॥ ६३॥

 

यस्माद् दशमभे राहुः पुण्यतीर्थाटनं भवेत् ।

यस्मात्कर्मायभाग्यर्क्षगतः शोभनखेचराः ॥ ६४॥

 

विद्यार्थधर्मसत्कर्मख्यातिपौरुषसिद्धयः ।

यतः पञ्चमकामारिगताः स्वोच्चशुभग्रहाः ॥ ६५॥

 

पुत्रदारादिसम्प्राप्तिर्नृपपूजा मह्त्तरा ।

यस्मान्पुत्रायकर्माम्बुनवलग्नाधिपाः स्थिताः ॥ ६६॥

 

तत्तद्भावार्थसिद्धिः स्याच्छ्रेयो योगानुसारतः ।

यस्मिन् गुरुर्वा शुक्रोवा शुभेशो वापि संस्थितः ॥ ६७॥

 

कल्याणं सर्वसम्पत्तिर् देवब्राह्मणतर्पनम् ।

यत्चतुर्थे तुङ्गखेटाः शुभस्वामी ग्रहश्च वा ॥ ६८॥

 

वाहनग्रामलाभश्च पशुवृद्धिश्च भूयसी ।

तत्र चन्द्रे च लाभः स्याद्बहुधान्यरसान्वितः ॥ ६९॥

 

पूर्णे विधौ निधिप्राप्तिर्लभेद्वा मणिसञ्जयम् ।

तत्र सुक्रे भृदङ्गादिवाद्यगानपुरस्कृतः ॥ ७०॥

 

आन्दोलिकाप्तिर्जीवे तु कनकांदोलिका ध्रुवम् ।

लग्नकर्मेशभाग्येशतुङ्गस्थशुभयोगतः ॥ ७१॥

 

सर्वोत्कर्षमहैश्वर्यसाम्राज्यादिमहत्फलम् ।

एवं तत्तद्भावदायफलं यत्स्याद्विचिन्तयेत् ॥ ७२॥

 

एकैकोडुदशा स्वीयैर्गुणैरष्टादशात्मभि ।

भिन्नं फलविपाकं तु कुर्याद्वै चित्रसंयुतम् ॥ ७३॥

 

परमोच्चे तुङ्गमात्रे तदर्वाक्तदुपर्यपि ।

मूलत्रिकोणभे स्वर्क्षे स्वाधिमित्रग्रहस्य भे ॥ ७४॥

 

तत्कालसुहृदो गेहे उदासीनस्य भे तथा ।

शर्तोर्भेऽधिरिपोर्भे च नीचान्तादूर्ध्वदेशभे ॥ ७५॥

 

तस्मादर्वाङ् नीचमात्र नीचान्ते परमांशके ।

नीचारिवर्गे सखले स्ववर्गे केन्द्रकोणभे ॥ ७६॥

 

व्यवस्थितस्य खेटस्य समरे पीडितस्य च ।

गाढपूढस्य च दशापचितिः स्वगुणैः फलम् ॥ ७७॥

 

परमोच्चगतो यस्तु योऽतिवीर्यसमन्वितः ।

सम्पूर्णाख्या दशा तस्य राज्यभूग्यशुभप्रदा ॥ ७८॥

 

लक्ष्मीकटाक्षचिह्नानां चिरवासगृहप्रदा ।

तुङ्गमात्रगतस्यापि तथा वीर्याधिकस्य च ॥ ७९॥

 

पूर्णाख्या बहुलैश्वर्यदायिन्यापि रुजप्रदा ।

अतिनीचगतस्यापि दुर्बलस्य ग्रहस्य तु ॥ ८०॥

 

रिक्ता त्वनिष्टफलदा व्याध्यनर्थमृतिप्रदा ।

अत्युच्चेऽप्यतिनीचस्थे मध्यगस्यावरोहिणी ॥ ८१॥

 

मित्रोच्चभावप्राप्तस्य मध्याख्या ह्यर्थदा दशा ।

नीचांतादुच्चभागान्तं भषट्के मध्यगस्य च ॥ ८२॥

 

दशा चारोहिणी नीचरिपुभांशगतस्य च ।

अधमाख्या भयक्लेशव्याधिदुःखविवर्धिनी ॥ ८३॥

 

नामानुरूपफलदाः पाककाले दशा इमाः ।

भाग्येशगुरुसम्बन्धो योगदृक्केन्द्रभादिभिः ॥ ८४॥

 

परेषामपि दायेषु भग्योपक्रममुन्नयेत् ।

जातको यस्तु फलदो भग्ययोगप्रदोऽथ यः ॥ ८५॥

 

सफलो वक्रिमादूर्ध्वमन्यानपि च खेचरान् ।

दुर्बलानसमर्थांश्च फलदानेषु यागतः ॥ ८६॥

 

तारतम्यात्सुसम्बन्धा दशा ह्येताः फलप्रदाः ।

स्वकेन्द्रादिजुषां तेषां पूर्णार्द्धांघ्रिव्यवस्थया ॥ ८७॥

 

शीर्षोदयभगाः स्वस्वदशादौ स्वफलप्रदाः ।

उभयोदयराशिस्थदशा मध्यफलप्रदा ॥ ८८॥

 

पृष्ठोदयर्क्षगाः खेटाः स्वदशान्ते फलप्रदाः ।

निसर्गतश्च तत्काले सुहृदां हरणे शुभम् ॥ ८९॥

 

सम्पादयेत्तदा कष्टं तद्विपर्ययगामिनाम् ।

दशेशाक्रांतभावर्क्षादारभ्य द्वादशर्क्षकम् ॥ ९०॥

 

भक्त्वा द्वादशराशीनां दशाभुक्ति प्रकल्पयेत् ।

एकैकराशेर्या तत्र सुहृत्स्वक्षेत्रगामिनी ॥ ९१॥

 

तस्यां राज्यादिसम्पत्तिपूर्वकं शुभमीरयेत् ।

दुःस्थानरिपुगेहस्थनीचक्रूरयुता च या ॥ ९२॥

 

तस्यामनर्थकलहं रोगमृत्युभयादिकम् ।

बिन्दुभूयस्त्वशून्यत्ववशात् स्वीयाष्टवर्गके ॥ ९३॥

 

वृद्धिं हानिं च तद्राशिभावस्य स्वगृहात्क्रमात् ।

भावयोजनया विद्यात्सुतस्त्र्यादिशुभाऽशुभम् ॥ ९४॥

 

धात्वादिराशिभेदाच्च धात्वादिग्रहयोगतः ।

शुभपापनशाभेदाच्छुभपापयुतैरपि ॥ ९५॥

 

इष्टानिष्टस्थानभेदात् फलभेदात् समुन्नयेत् ।

एवं सर्वग्रहाणां च स्वां स्वामन्तर्दशामपि ॥ ९६॥

 

स्वराशितो राशिभुक्तिं प्रकल्प्य फलमीरयेत् ।

अन्तरन्तर्दशां स्वीयां विभज्यैवं पुनः पुनः ॥ ९७॥

 

 

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.