बृहत्पाराशरहोराशास्त्रम् ५१-६०
Brihat Parashara Hora Shastram
अथाऽन्तर्दशाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ५१॥
दशाब्दाः स्वस्वमानघ्नाः सर्वायुर्योगभाजिताः ।
पृथगन्तर्दशा एवं प्रत्यन्तरदशादिकाः ॥ १॥
आदावन्तर्दशा पाकपतेस्तत्क्रमतोऽपराः ।
एवं प्रत्यन्तरादौ च क्रमो ज्ञेयो विचक्षणैः ॥ २॥
भुक्तिर्नवानां तुल्या स्याद् विभाज्या नवधा दशा ।
आदौ दशापतेर्भुक्तिस्तत्केन्द्रादियुजां ततः ॥ ३॥
विद्यात् क्रमेण भुक्त्यंशानेवं सूक्ष्मदशादिकम् ।
बलक्रमात् फलं विज्ञैर्वक्तव्यं पूर्वरीतितः ॥ ४॥
कृत्वाऽर्कधा राशिदशां राशेर्भुक्तिं क्रमाद् वदेत् ।
प्रत्यन्तर्दशाद्येवं कृत्वा तत्तत्फलं वदेत् ॥ ५॥
आद्यसप्तमयोर्मध्ये यो राशिर्बलवांस्ततः ।
ओजे दशाश्रये गण्याः क्रमादुत्क्रमतः समे ॥ ६॥
अत्राऽपरो विशेषोऽस्ति ब्रवीमि तमहं द्विज ।
चरेऽनुज्झितमार्गः स्यात् षष्ठषष्ठादिकाः स्थिरे ॥ ७॥
उभये कण्टकाज् ज्ञेया लग्नपञ्चमभाग्यतः ।
चरस्थिरद्विस्वभावेष्वोजेषुः प्राक् क्रमो मतः ॥ ८॥
तेष्वेव त्रिषु युग्मेषु ग्राह्यं व्युत्क्रमतोऽखिलम् ।
एवमुल्लिखितो राशि पाकराशिरुदीर्युते ॥ ९॥
स एव भोगराशिः स्यात् पर्याये प्रथमे स्मृतः ।
आद्याद् यावतिथः पाकः पर्याये यत्र दृश्यते ॥ १०॥
तस्मात् तावतिथो भोगः पर्याये तत्र गृह्यताम् ।
तदिदं चरपर्यायस्थिरपर्याययोर्द्वयोः ॥ ११॥
त्रिकोणाख्यदशायां च पाकभोगप्रकल्पनम् ।
पाके भोगे च पापाढ्ये देपपीडा नमोव्यथा ॥ १२॥
पिण्डत्रिकदशायां तु ब्रविम्यन्तर्दशाविधिम् ।
पूर्ण दशापतिर्दद्यात् तदर्धं तेन संयुतः ॥ १३॥
त्रिकोणगस्तृतीयांशं तुर्यांशश्चतुरस्रगः ।
स्मरगः सप्तमं भागं बहुष्वेको बली ग्रहः ॥ १४॥
एवं सलग्नकाः खेटाः पाचयन्ति मिथः स्थिताः ।
समच्छेदीकृताः प्राप्ता अंसाश्छेदविवर्जिताः ॥ १५॥
दशाब्दाः पृथगंशघ्ना अंशयोगविभाजिताः ।
अन्तर्दशा भवन्त्येवं तत्प्रत्यन्तर्दशादिकाः ॥ १६॥
अथ विंशोत्तरीमतेन सूर्यदशान्तर्दशाफलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ५२॥
स्वोच्चे स्व्भे स्थितः सूर्यो लाभे केन्द्रे त्रिकोणके ।
स्वदशायां स्वभुक्तौ च धनधान्यादिलाभकृत् ॥ १॥
नीचाद्यशुभराशिस्थो विपरीतं फलं दिशेत् ।
द्वितीयद्यूननाथेऽर्के त्वपमृत्युभयं वदेत् ॥ २॥
तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ।
सूर्यप्रीतिकरीं शान्तिं कुर्यादारोग्यलब्धये ॥ ३॥
सूर्यस्याऽन्तर्गते चन्द्रे लग्नात्केन्द्रत्रिकोणगे ।
विवाहं शुभकार्यं च धनधान्यसमृद्धिकृत् ॥ ४॥
गृहक्षेत्राभिवृद्धिं च पशुवाहनसम्पदाम् ।
तुङ्गे वा स्वर्क्षगे वाऽपि दारसौख्यं धनागमम् ॥ ५॥
पुत्रलाभसुखं चैव सौख्यं राजसमागमम् ।
महाराजप्रसादेन इष्टसिद्धिसुखवाहम् ॥ ६॥
क्षीणे वा पापसंयुक्ते दारपुत्रादिपोडनम् ।
वैषम्यं जनसंवादं भृत्यवर्गविनाशनम् ॥ ७॥
विरोधं राजकलहं धनधान्यपशुक्षयम् ।
षष्ठाष्टमव्यये चन्द्रे जलभीतिं मनोरुजम् ॥ ८॥
बन्धनं रोगपीडां च स्थानविच्युतिकारकम् ।
दुःस्थानं चापि चित्तेन दायादजनविग्रहम् ॥ ९॥
निर्दिशेत् कुत्सितान्नं च चौरादिनृपपीडनम् ।
मूत्रकृच्छादिरोगश्च देहपीडा तथा भवेत् ॥ १०॥
दायेशाल्लभभाग्ये च केन्द्रे वा शुभसंयुते ।
भोगभाग्यादिसन्तोषदारपुत्रादिवर्द्धनम् ॥ ११॥
राज्यप्राप्तिं महत्सौख्यं स्थानप्राप्तिं च शाश्वर्ताम् ।
विविआहं यज्ञदीक्षां च सुमाल्यामबरभूषणम् ॥ १२॥
वाहनं पुत्रपौत्रादि लभते सुखवर्द्धनम् ।
दायेशाद्रिपुरन्ध्रस्थे व्यये वा बलवर्जिते ॥ १३॥
अकाले भोजनं चैव देशाद्देशं गमिष्यति ।
द्वितीयद्यूननाथे च ह्यपमृत्युर्भविष्यति ।
श्वेतां गां महिषीं गद्याच्छान्ति कुर्यात्सुखाप्तये ॥ १४॥
सूर्यस्यान्तर्गते भौमे स्वोच्चे स्वक्षेत्रलाभगे ।
लग्नात्केन्द्रत्रिकोणे वा शुभकार्यं समादिशेत् ॥ १५॥
भूलाभं कृषिलाभं च धनधान्यविवर्धनम् ।
गृहक्षेत्रादि लाभं च रक्तवस्त्रादिलाभकृत् ॥ १६॥
लग्नाधिपेन संयुक्ते सौख्यं राजप्रियं वदेत् ।
भाग्यलाभाधिपैर्युक्ते लाभश्चैव भविष्यति ॥ १७॥
बहुसेनाधिपत्यं च शत्रुनाशं मनोदृढम् ।
आत्मबन्धुसुखम् चैव भ्रातृवर्द्धनकं तथा ॥ १८॥
दायेशाद्व्ययरन्ध्रस्थे पापैर्युक्ते च वीक्षिते ।
आधिपत्यबलैर्हीने क्रूरबुद्धिं मनोरुजम् ॥ १९॥
कारागृहे प्रवेशं च कथयेद् बन्धुनाशनम् ।
भ्राऋवगविरोधं च कर्मनाशमथापि वा ॥ २०॥
नीचे वा दुर्बले भौमे राजमूलाद्धनक्षयः ।
द्वितीयद्यूननाथे तु देहे जाड्यं मनोरुजम् ॥ २१॥
सुब्रह्मजपदानं च वृषोत्सर्गं तथैव च ।
शान्तिं कुर्वीत विद्यिवदायुरारोग्यसिद्धिदाम् ॥ २२॥
सूर्यस्यान्तर्गते राहौ लग्नात्केन्द्रत्रिकोणगे ।
आदौ द्विमासपर्यन्तं धननाशो महद्भयम् ॥ २३॥
चौरादिव्रणभीतिश्च दारपुत्रादिपीडनम् ।
तत्परं सुखमाप्नोति शुभयुक्ते शुभांशके ॥ २४॥
देहारोग्यं मनस्तुष्टि राजप्रीतिकरं सुखम् ।
लग्नादुपचये राहौ योगकारकसंयुते ॥ २५॥
दायेशाच्छुभराशिस्थे राजसन्मानमादिशेत् ।
भाग्यवृद्धिं यशोलाभं दारपुत्रादिपीडनम् ॥ २६॥
पुत्रोत्सवादिसन्तोषं गृहे कल्याणशोभनम् ।
दायेशादथ रिष्फस्थे रन्ध्रे वा बलवर्जिते ॥ २७॥
बन्धनं स्थाननाशश्च कारागृहनिवेशनम् ।
चौरादिव्रणभीतिश्च दारपुत्रादिवर्द्धनम् ॥ २८॥
चतुष्पाज्जीवनाशश्च गृहक्षेत्रादिनाशनम् ।
गुल्मक्षयादिरोगश्च ह्यतिसारादिपीडनम् ॥ २९॥
द्विस्फस्थे तथा राहौ तत्स्थानाधिपसंयुते ।
अपमृत्युभयं चैव सर्पभीतिश्च सम्भवेत् ॥ ३०॥
दुर्गाजपं च कुर्वीत् छागदानं समाचरेत् ।
कृष्णां गां महिषीं दद्यच्छान्तिमाप्नोत्यसंशयम् ॥ ३१॥
सूर्यस्यान्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे ।
स्वोच्चे मित्रस्य वर्गस्थे विवाहं राजदर्शनम् ॥ ३२॥
धनधान्यादिलाभ च पुत्रलाभं महत्सुखम् ।
महाराजप्रसादेन इष्टकार्यार्थलाभकृत् ॥ ३३॥
ब्राह्मण्प्रियसन्मानं प्रियवस्त्रादिलाभकृत् ।
भाग्यकर्माधिपवशाद्राज्यलाभं वदेद् द्विज ॥ ३४॥
नरवाहनयोगश्च स्थानाधिक्यं महत्सुखम् ।
दायेशाच्छुभराशिस्थे भाग्यवृद्धिः सुखावहा ॥ ३५॥
दीनधर्मक्रियायुक्तो देवताराधनप्रियः ।
गुरुभक्तिर्मनःसिद्धिः पुण्युकर्मादिसंग्रहः ॥ ३६॥
राशेशाद्रिपुरन्ध्रस्थे नीचे वा पापसंयुते ।
दारपुत्रादिपीडा च देहपीडा महद्भयम् ॥ ३७॥
राजकोपं प्रकुरुतेऽभीष्टवस्तुविनाश्नम् ।
पापमूलद्द्रव्यनाशं देहभ्रष्टं मनोरुजम् ॥ ३८॥
स्वर्णदानं प्रकुर्वीत स्वेष्टजाप्यं च कारयेत् ।
गवां कपिलवर्णानां दानेनारोग्यमादिशेत् ॥ ३९॥
सूर्यस्यान्तर्गते मन्दे लग्नात्केन्द्रत्रिकोणगे ।
शत्रुनाशो महत्सौख्यं स्वल्पधान्यार्थलाभकृत् ॥ ४०॥
विवाहादिसुकार्यञ्च गृहे तस्य शुभावहम् ।
स्वोच्चे स्वक्षेत्रगे मन्दे सुहृद्ग्रहसमन्विते ॥ ४१॥
गृहे कल्याणसम्पत्तिर्विवाहादिषु सत्क्रिया ।
राजसन्मानकीर्तिश्च नानावस्त्रधनागमम् ॥ ४२॥
दायेशादथ रन्ध्रस्थे व्यये वा पापसंयुते ।
वातशूलमहाव्याधिज्वरातीसारपीडनम् ॥ ४३॥
बन्धनं कार्यहानिश्च वित्तनाशो महद्भयम् ।
अकश्मात्कलहश्चैव दायादजनविग्रहः ॥ ४४॥
भुक्त्यादौ मित्रहानिःस्यान्मध्ये किञ्चित्सुखावहम् ।
अन्ते क्लेशकरं चैव नीचे तेषां तथैव च ॥ ४५॥
पितृमातृवियोगश्च गमनागममं तथा ।
द्वितीयद्यूननाथे तु अपमृत्युभयं भवेत् ॥ ४६॥
कृष्णां गां महिषीं दद्यान्मृत्युञ्जयजपं चरेत् ।
छागदानं प्रकुर्वीत सर्वसम्पत्प्रदायकम् ॥ ४७॥
सूर्यास्यान्तर्गते सौम्ये स्वोच्चे वा स्वर्क्षगेऽपि वा ।
केन्द्रत्रिकोणलाभस्थे बुधे वर्गबलैर्युते ॥ ४८॥
राज्यलाभो महोत्साहो दारपुत्रादिसौख्यकृत् ।
महारजप्रसादेन वाहनाम्बरभूषणम् ॥ ४९॥
पुण्यतीर्थफलावाप्तिर्गृहे गोधनसंकुलम् ।
भाग्यलाभाधिपैर्युक्ते लाभवृद्धिकोरो भवेत् ॥ ५०॥
भाग्यपंचमकर्मस्थे सन्मानो भवति ध्रुवम् ।
सुकर्मधर्मबुद्धिश्च गुरुदेवद्विजार्जनम् ॥ ५१॥
धनधान्यादिसंयुक्तो विवाहः पुत्रसम्भवः ।
दायेशाच्छुभराशिस्थे सौम्ययुक्ते महत्सुखम् ॥ ५२॥
वैवाहिकं यज्ञकर्म दानधर्मजपादिकम् ।
स्वनामाङ्कितपद्यानि नामद्वयमथाऽपि वा ॥ ५३॥
भोजनाम्बरभूषाप्तिरमरेशो भवेन्नरः ।
दायेशाद्रिपुरन्ध्रस्थे रिष्फगे नीचगेऽपि वा ॥ ५४॥
देहपीडा मनस्तापो दारपुत्रादिपीडनम् ।
भुक्त्यादौ दुःखमाप्नोति मध्ये किञ्चित्सुखावहम् ॥ ५५॥
अन्ते तु राजभीतिश्च गमनागमनं तथा ।
द्वितीये द्यूननाथे तु देहजाड्यं ज्वरादिकम् ॥ ५६॥
विष्णुनामसहस्रं च ह्यन्नदानं च कारयेत् ।
रजतप्रतिमादानं कुर्यादारोग्यसिद्धये ॥ ५७॥
सूर्यस्यान्तर्गते केतौ देहपीडा मनोव्यथा ।
अर्थव्ययं राजकोपं स्वजनादेरुपद्रवम् ॥ ५८॥
लग्नाधिपेन संयुक्ते आदौ सौख्यं धनागमम् ।
मध्ये तत्क्लेशमाप्नोति मृतवार्तागमं वदेत् ॥ ५९॥
अथाष्टमव्यये चैवं दायेशात्पापसंयुते ।
कपोलदन्तरोगश्च मूत्रकृर्च्छस्य सम्भवः ॥ ६०॥
स्थानविच्युतिरर्थस्य मित्रहानिः पितुर्मृतिः ।
विदेशगमनं चैव शत्रुपीडा महद्भयम् ॥ ६१॥
लग्नादुपचये केतौ योगकारकसंयुते ।
शुभांशे शुभवर्गे च शुभकर्मफलोदयः ॥ ६२॥
पुत्रदारादिसौख्यं च सन्तोषं प्रियवर्द्धनम् ।
विचित्रवस्त्रलाभश्च यशोवृद्धिः सुखावहा ॥ ६३॥
द्वितीयाद्यूननाथे वा ह्यपमृत्युभयं वदेत् ।
दुर्गाजपं च कुर्वीत छागदानं सुखाप्तये ॥ ६४॥
सूर्यस्यान्तर्गते शुक्रे त्रिकोणे केन्द्रगेऽपि वा ।
स्वोच्चे मित्रस्ववर्गस्थेऽभीष्टस्त्रीभोग्यसम्पदः ॥ ६५॥
ग्रामान्तरप्रयाणं च भाह्मणप्रभुदर्शनम् ।
राज्यलाभो महोत्साहश्छत्रचामरवैभवम् ॥ ६६॥
गृहे कल्याणसम्पत्तिर्नित्यं मिष्ठान्नभोजनम् ।
विद्रुमादिरत्नलाभो मुक्तावस्त्रादि लाभकृत् ॥ ६७॥
चतुष्पाज्जीवलाभः स्याद्बहुधान्यधनादिकम् ।
उत्साहः कीर्तिसम्पत्तिर्नरवाहनसम्पदः ॥ ६८॥
षष्ठाष्टमव्यये शुक्रे दायेशाद्बलवर्जिते ।
राजकोपो मनःक्लेशः पुत्रस्त्रीधननाशनम् ॥ ६९॥
भुक्त्यादौ मध्यमं मध्ये लाभः शुभकरो भवेत् ।
अन्ते यशोनाशनं च स्थानभ्रंशमथापि वा ॥ ७०॥
बन्धुद्वेषं वदेद् वापि स्वकुलाद्भोगनाशनम् ।
भार्गवे द्यूननाथे तु देहे जाड्यं रुजोभयम् ॥ ७१॥
रन्ध्ररिष्फसमायुक्ते ह्यपमृत्युर्भविष्यति ।
तद्दोषपरिहारार्थं मृत्युर्जयजपं चरेत् ॥ ७२॥
श्वेतां गां महिषीं दद्याद्रुद्रजाप्यं च कारयेत् ।
ततः शान्तिभवाप्नोति शङ्करस्य प्रसादतः ॥ ७३॥
अथ चन्द्रान्तर्दशाफलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ५३॥
स्वोच्चे स्वक्षेत्रगे चन्द्रे त्रिकोणे लाभगेऽपि वा ।
भाग्यकर्माधिपैर्युक्ते गजाश्वाम्बरसंकुलम् ॥ १॥
देवतागुरुभक्तिश्च पुण्यश्लोकादिकीर्तनम् ।
राज्यलाभो महत्सौख्यं यशोवृद्धिः सुखावहा ॥ २॥
पूर्णे चन्द्रे बलं पूर्णं सेनापत्यं महत्सुखम् ।
पापयुक्तेऽथवा चन्द्रे नीचे वा रिष्फषष्ठगे ॥ ३॥
अतकाले धननाशः स्यात्स्थानच्युतिरथापि वा ।
देहलस्यं मनस्तपो राजमन्त्रिविरोधकृत् ॥ ४॥
मातृक्लेशो मनोदुःखं निगडं बन्धुनाशनम् ।
द्वितीयद्यूननाथे तु रन्ध्ररिष्फेशसंयुते ॥ ५॥
देहजाड्यं महाभङ्गमपमृत्योभयं वदेत् ।
श्वेतां गां महिषीं दद्यात् स्वदशान्तर्गते विधौ ॥ ६॥
चन्द्रस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे ।
सौभाग्यं राजसन्मानं वस्त्रभरणभूषणम् ॥ ७॥
यत्नात् कार्यार्थसिद्धिस्तु भविष्यति न संशयः ।
गृहक्षेत्राभिवृद्धिश्च व्यवहारे जयो भवेत् ॥ ८॥
कार्यलाभो महत्सौख्यं स्वोच्चे स्वक्षेत्रगे फलम् ।
तथाऽष्टमव्यये भौमे पापयुक्तेऽथ वा यदि ॥ ९॥
दायशादशुभस्थाने देहार्तिः परवीक्षिते ।
गृहक्षेत्रादिहानिश्च व्यवहारे तथा क्षतिः ॥ १०॥
मृत्युवर्गेषु कलहो भूपालस्य विरोधनम् ।
आत्मबन्धुवियोगश्च नित्यं निष्ठुरभाषणम् ॥ ११॥
द्वितीये द्यूननाथे तु रन्ध्रे रन्ध्राधिपो यदा ।
तत्तोषपरिहारार्थं ब्राह्मणस्याऽर्चनं चरेत् ॥ १२॥
चन्द्रस्यान्तर्गते राहौ लग्नात्केन्द्रत्रिकोणगे ।
आदौ स्वल्फलं ज्ञेयं शत्रुपीडा महद्भयम् ॥ १३॥
चौराहिराजभीतिश्च चतुष्पाज्जिवपीडनम् ।
बन्धुनाशो मित्रहानिर्मानहानिर्मनोव्यथा ॥ १४॥
शुभयुक्ते शुभैर्दृष्टे लग्नादुपचयेऽपि वा ।
योगकारकसम्बन्धे सर्वकार्यार्थसिद्धिकृत् ॥ १५॥
नैरृत्ये पश्चिमे भावे क्वचित्प्रभुसमागमः ।
वाहनामबरलाभश्च स्वेष्टकार्यार्थसिद्धिकृत् ॥ १६॥
दायेशादथ रन्ध्रथे व्यये वा बलवर्जिते ।
स्थानभ्रंशो मनोदुखं पुत्रक्लेशो महद्भयम् ॥ १७॥
दारपीडा क्वचिज्ज्ञेया क्वचित्स्वाङ्गे रुजोभयम् ।
वृश्चिकादिविषाद्भीतिश्चौराहिनृपपीडनम् ॥ १८॥
दायेशात्केन्द्रकोणे व दुश्चिक्ये लाभगेऽपि वा ।
पुण्यतीर्थफलावाप्तिर्देवतादर्शनं महत् ॥ १९॥
परोपकारकर्मादिपुण्यकर्मादिसम्प्रहः ।
द्वितीयद्यूनराशिअथे देहबाधा भविष्यति ॥ २०॥
तद्दोषपरिहारार्थं रुद्रजाप्यं समाचरेत् ।
छागदानं प्रकुर्वीत देहारोग्यं प्रजायते ॥ २१॥
चन्द्रस्यान्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे ।
स्वगेहे लाभगे स्वोच्चे राज्यलाभो महोत्सवः ॥ २२॥
वस्त्राऽलङ्कारभूषाप्ती राजप्रीतिर्धनागमः ।
इष्टदेवप्रसादेन गर्भाधानादिकं फलम् ॥ २३॥
तथा शोभनकार्याणि गृहे लक्ष्मीः कटाक्षकृत् ।
राजाश्रयं धनं भूमिगजवाजिसमन्वितम् ॥ २४॥
महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा ।
ष।ष्ठाष्टमव्यये जीवे नीच वास्तङ्गते यदि ॥ २५॥
पापयुक्तेऽशुभं कर्म गुरुपुत्रादिनाशनम् ।
स्थानभ्रंशो मनोदुःखमकस्मात्कलहो ध्रुवम् ॥ २६॥
गृहक्षेत्रादिनाशश्च वाहनाम्बरनाशनम् ।
दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ॥ २७॥
भोजनाम्बरपरवादि=लाभं सौख्यं करोति च ।
ब्र्हात्रादिसुखसम्पत्तिं धैर्यं वीर्यपराक्रमम् ॥ २८॥
यज्ञव्रतविवाहादिराज्यश्रीधनसम्पदः ।
दायेशाद्रिपुरन्ध्रस्थे व्यये वा बलवर्जिते ॥ २९॥
करोति कुत्सिनान्नं च विदेशगमनं तथा ।
भुक्त्यादौ शोभनं प्रोक्तमन्ते क्लेशकरं भवेत् ॥ ३०॥
द्वितीयद्यूननाथे च ह्यपमृत्युर्भविष्यति ।
तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् ।
स्वर्णदानमिति प्रोक्तं सर्वकष्टनिवारकम् ॥ ३१॥
चन्द्रस्यान्तर्गते मन्दे लग्नात्केन्द्रत्रिकोणगे ।
स्वक्षेत्रे स्वांशगे चैव मन्दे तुङ्गांशसंयुते ॥ ३२॥
शुभदृष्टयुते वाऽपि लाभे वा बलसंयुते ।
पुत्रमित्रार्थसम्पत्तिः शूद्रप्रभुसमागमात् ॥ ३३॥
व्ययसायात्फलाधिक्यं गृहे क्षेत्रादिवृद्धिदम् ।
पुत्रलाभश्च कल्याणं राजानुग्रहवैभवम् ॥ ३४॥
षष्ठाष्टमव्यये मन्दे नीचे वा धनगेऽपि वा ।
तद्भुक्त्यादौ पुण्यतीर्थे स्नानं चैव तु दर्शनम् ॥ ३५॥
अनेकजनत्रासश्च शस्त्रपीडा भविष्यति ।
दायेशात्केन्द्रराशिस्थे त्रिकोणे बलगेऽपि वा ॥ ३६॥
क्वचित्सौख्यं धनाप्तिश्च दारपुत्रविरोधकृत् ।
द्वितीयद्यूनरन्ध्रस्थे देहबाधा भविष्यति ॥ ३७॥
तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ।
कृष्णां गां महिषीं दद्याद्दानेमारोग्यमादिशेत् ॥ ३८॥
चन्द्रस्यान्तर्गते सौम्ये केन्द्रलाभत्रिकोणगे ।
स्वर्क्षे निजांशके सौम्ये तुङ्गे वा बलसंयुते ॥ ३९॥
धनागमो राजमानप्रियवस्त्रादिलाभकृत् ।
विद्याविनोदसद्गोष्ठी ज्ञानवृद्धिः सुखावहा ॥ ४०॥
सन्तानप्राप्तिः सन्तोषो वाणिज्याद्धनलाभ्कृत् ।
वाहनच्छत्रसंयुक्तनानालङ्कारलाभकृत् ॥ ४१॥
दायेशात्केन्द्रकोणे वा लाभे वा धनगेऽपि वा ।
विवाहो यज्ञदीक्षा च दानधर्मशुभादिकम् ॥ ४२॥
राजप्रीतिकरश्चैव विद्वज्जनसमागमः ।
मुक्तामणिप्रवालानि वाहनाम्बरभूषणम् ॥ ४३॥
आरोग्यप्रीतिसौख्यं च सोमपानादिकं सुखम् ।
दायेशाद्रिपुरन्ध्रस्थे व्यये वा नीचगेऽपि वा ॥ ४४॥
तद्भुक्तौ देहबाधा च कृर्षिगोभूमिनाशनम् ।
कारागृहप्रवेशाश्च दारपुत्रादिपीडनम् ॥ ४५॥
द्वितीयद्यूननाथे तु ज्वरपीडा महद्भयम् ।
छागदानं प्रकुर्वीत विष्णुसाहस्रकं जपेत् ॥ ४६॥
चन्द्रस्यान्तर्गते केतौ केन्द्रलाभत्रिकोणगे ।
दुश्चिक्ये बलसंयुक्ते धनलाभं महत्सुखम् ॥ ४७॥
पुत्रदारादिसौख्यं च विधिकर्म करोति च ।
भुक्त्यादौ धनहानिः स्यान्मध्यगे सुखमाप्नुयात् ॥ ४८॥
दायेशात्केन्द्रलाभे वा त्रिकोणे बलसंयुते ।
क्वचित्फलं दशादौ तु दद्यात् सौख्यं धनागमम् ॥ ४९॥
गोमहिष्यादिलाभं च भुक्त्यन्ते चार्थनाशनम् ।
पापयुक्तेऽथवा दृष्टे दायेशाद्रन्ध्ररिःफगे ॥ ५०॥
शत्रुतः कार्यहानिः स्यादकस्मात्कलहो ध्रुवम् ।
द्वितीयद्यूनराशिस्त्य्हे ह्यनारोग्यं महद्भयम् ॥ ५१॥
मृत्युञ्जयजपं कुर्यात् सर्वसम्पत्प्रदायकम् ।
ततः शान्तिमवाप्नोति शङ्करस्य प्रसादतः ॥ ५२॥
चन्द्रस्यान्तर्गते शुक्रे केन्द्रलाभत्रिकोणगे ।
स्वोच्चे स्वक्षेत्रगे वापि राज्यलाभं करोति च ॥ ५३॥
महाराजप्रसादेन वाहनाम्बरभूषणम् ।
चतुष्पाज्जिवलाभः स्याद्दारपुत्रादिवर्धनम् ॥ ५४॥
नूतनागारनिर्माणं नित्यं मिष्ठान्नभोजनम् ।
सुगन्धपुष्पमाल्यादिरम्यस्त्र्यारोग्यसम्पदम् ॥ ५५॥
दशाधिपेन संयुक्ते देहसौख्यं महत्सुखम् ।
सत्कीर्तिसुखसम्पत्तिगृहक्षेत्रादिवृद्धिकृत् ॥ ५६॥
नीचे वाऽस्तङ्गते शुक्रे पापग्रहयुतेक्षिते ।
भूनाशः पुत्रमित्रादिनाशनं पत्निनाशनम् ॥ ५७॥
चतुष्पाज्जिवहानिः स्याद्राजद्वारे विरोधकृत् ।
धनस्थानगते शुक्रे स्वच्चे स्वक्षेत्रसंयुते ॥ ५८॥
निधिलाभं महत्सौख्यं भू लाभं पुत्रसम्भवम् ।
भाग्यलाभादिपैर्युक्ते भाग्यवृद्धिः करोत्यसौ ॥ ५९॥
महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा ।
देवब्राह्मणभक्तिश्च मुक्तविद्रुमलाभकृत् ॥ ६०॥
दायशाल्लाभगे शुक्रे त्रिकोणे केन्द्रगेऽपि वा ।
गृहक्षेत्राभिवृद्धिश्च वित्तलाभो महत्सुखम् ॥ ६१॥
दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते ।
विदेशवासदुःखार्तिमृत्युचौरादिपीडनम् ॥ ६२॥
द्वितीयद्यूननाथे तु अपमृत्युभयं भवेत् ।
तद्दोषविनिवृत्त्यर्थं रुद्रजाप्यं च कारयेत् ॥ ६३॥
श्वेतां गां रजतं दद्याच्छन्तिमाप्नोत्यसंशयः ।
शङ्करस्य प्रसादेन नाऽत्र कार्या विचारणा ॥ ६४॥
चन्द्रस्यान्तर्गते भानौ स्वोच्चे स्वक्षेत्रसंयुते ।
केन्द्रे त्रिकोणे लाभे वा धने वा सोदरालये ॥ ६५॥
नष्टराज्यधनप्राप्तिर्गृहे कल्याणशोभनम् ।
मित्रराजप्रसादेन ग्रामभूम्यादिलाभ्कृत् ॥ ६६॥
गर्भाधानफलप्राप्तिर्गृहे लक्ष्मीः कटाक्षकृत् ।
भुक्त्यन्ते देह आलस्यं ज्वरपीडा भविष्यति ॥ ६७॥
दायेशादपि रन्ध्रस्थे व्यये वा पापसंयुते ।
नृपचौराहिभीतिश्च ज्वररोगादिसम्भवः ॥ ६८॥
विदेशगमने चार्ति लभते न संशयः ।
द्वितीयद्यूननाथे तु ज्वरपीडा भविष्यति ॥ ६९॥
तद्दोषपरिहारार्थं शिवपूजां च कारयेत् ।
ततः शान्तिभवाप्नोति शाङ्करस्य प्रसादतः ॥ ७०॥
अथ कुजदशान्तर्दशाफलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ५४॥
कुजे स्वान्तर्गते विप्र लग्नात्केन्द्रत्रिकोणगे ।
लाभे वा शुभसंयुक्ते दुष्चिक्ये धनसंयुते ॥ १॥
लग्नाधिपेन संयुक्ते राजाऽनुग्रहवैभवम् ।
लक्ष्मीकटोक्षचिह्नानि नष्टराज्यार्थलाभकृत् ॥ २॥
पुत्रोत्सवादिसन्तोषो गृहे गोक्षीरसङ्कलम् ।
स्वोच्चे वा स्वर्क्षगे भौमे स्वांशे वा बलसंयुते ॥ ३॥
गृहक्षेत्राभिवृद्धिश्च गोमहिष्यादिलाभकृत् ।
महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा ॥ ४॥
अथाऽष्टमव्यये भौमे पापदृग्योगसंयुते ।
मूत्रकृर्च्छादिरोगश्च कष्टाधिक्यं व्रणाद्भयम् ॥ ५॥
चौराहिराजपीडा च धनधान्यपरुक्षयः ।
द्वितीये द्यूननाथे तु देहजाड्यं मनोव्यथा ॥ ६॥
तद्दोषपरिहारार्थं रुद्रजाप्यं च कारयेत् ।
अनड्वाहं प्रदद्वाच्च कुजदोषनिवृत्तये ॥ ७॥
तेन तुष्टो भवेद् भौमः शङ्करस्य प्रसादतः ।
आरोग्यं कुरुते तस्य सर्वसम्पत्तिदायकम् ॥ ८॥
कुजस्यान्तर्गते राहौ स्वोच्चे मूलत्रिकोणगे ।
शुभैर्युक्ते शुभैर्दृष्टे केन्द्रलाभतृकोणगे ॥ ९॥
तत्काले राजसम्मानं गृहभूम्यादिलाभकृत् ।
कलत्रपुत्रलाभः स्याद्व्यवसायात्फलाधिकम् ॥ १०॥
गङ्गास्नानफलावाप्तिं विदेशगमनं तथा ।
तथाऽष्टमव्यये राहौ पापयुक्तेऽथ वीक्षिते ॥ ११॥
चौराहिव्रणभीतिश्च चतुष्पाज्जीवनशनम् ।
वातपित्तरुजोभीतिः कारागृहनिवेशनम् ॥ १२॥
धनस्थानगते राहौ धननासं महद्भयम् ।
सप्तमस्थानगे वाऽपि ह्यपमृत्युभयं महत् ॥ १३॥
नागपूजां प्रकुर्वीत देवब्राह्मणभोजनम् ।
मृत्युञ्जयजपं कुर्यादायुरारोग्यलब्धये ॥ १४॥
कुजस्यान्तर्गते जीवे त्रिकोणे केन्द्रगेऽपि वा ।
लाभे वा धनसंयुक्ते तुङ्गांशे स्वांशगेपि वा ॥ १५॥
सत्कीर्ती राजसम्मानं धनधान्यस्य वृद्धिकृत् ।
गृहे कल्याणसम्पत्तिर्दारपुत्रादिलाभकृत् ॥ १६॥
दायेशात्केन्द्रराशिस्थे त्रिकोणे लाभगेऽपि वा ।
भाग्यकर्माधिपैर्युक्ते वाहनाधिपसंयुते ॥ १७॥
लग्नाधिपसमायुक्ते शुभांशे शुभवर्गगे ।
गृहक्षेत्राभिवृद्धिश्च गृहे कल्याणसम्पदः ॥ १८॥
देहारोग्यं महत्कीर्तिगृहे गोकुलसंग्रहः ।
चतुष्पाज्जीवलाभः स्याद्व्यवसायात्फलाधिकम् ॥ १९॥
कलपुत्रसौख्यं च राजसम्मानवैभवम् ।
षष्ठाष्टमव्यये जीवे नीचे वास्तंगते सति ॥ २०॥
पापग्रहेण संयुक्ते दृष्टे वा दुर्बले सति ।
चौराहिनृपभीतिश्च पित्तरोगादिसम्भवम् ॥ २१॥
प्रेतबाधा भृत्यनाशः सोदराणां विनाशनम् ।
द्वितीयद्यूननाथे तु ह्यपमृत्युज्वरादिकम् ।
तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् ॥ २२॥
कुजस्यान्तर्गते मन्दे स्वर्क्षे केन्द्रत्रिकोणगे ।
मूलत्रिकोणकेन्द्रे वा तुङ्गांशे स्वांशगे सति ॥ २३॥
लग्नाधिपतिना वापि शुभदृष्टियुतेऽसिते ।
राज्यसौख्यं यशोवृद्धिः स्वग्रामे धान्यवृद्धिकृत् ॥ २४॥
पुत्रपौत्रसमायुक्तो गृहे गोधनसंग्रहः ।
स्ववारे राजसम्मानं स्वमासे पुत्रवृद्धिकृत् ॥ २५॥
नीचादिक्षेत्रगे मन्दे तथाऽष्टव्ययराशिगे ।
म्लेच्छवर्गप्रभुभयं धनधन्यादिनाशनम् ॥ २६॥
निगडे बन्धनं व्याधिरन्ते क्षेत्रनाशकृत् ।
द्वितीयद्यूननाथे तु पापयुक्ते महद्भयम् ॥ २७॥
धननाशश्च सञ्चारे राजद्वेषो मनोव्यथा ।
चौराग्निनृपपीडा च सहोदरविनाशनम् ॥ २८॥
बन्धुद्वेषः प्रमाद्यैश्च जीवहानिश्च जायते ।
अकस्माच्च मृतेर्भीतिः पुत्रदारादिपीडनम् ॥ २९॥
कारागृहादिभीदिश्च राजदण्डो महद्भयम् ।
दायेशात्केन्द्रराशिस्थे लाभस्थे वा त्रिकोणगे ॥ ३०॥
विदेशयानं लभते दुष्कीर्तिर्विविधा तथा ।
पापकर्मरतो नित्यं बहुजीवादिहिंसकः ॥ ३१॥
विक्रयः क्षेत्रहानिश्च स्थानभ्रंशो मनोव्यथा ।
रणे पराजयश्चैव मूत्रकृर्च्छान्महद्भयम् ॥ ३२॥
दायेशादथ रन्ध्रे वा व्यये वा पापसंयुते ।
तद्भुक्तौ मरणं ज्ञेयं नृपचौरादिपीडनम् ॥ ३३॥
वातपीडा च शूलादिज्ञातिश्त्रुभयं भवेत् ॥ ३४॥
तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ।
ततः सुखमवाप्नोति शङ्करस्य प्रसादतः ॥ ३५॥
कुजस्यान्तर्गते सौम्ये लग्नात्केन्द्रत्रिकोणगे ।
सत्कथाश्चाऽजपादानं धर्मबुद्धिर्महद्यशः ॥ ३६॥
नीतिमार्गप्रसङ्गश्च नित्यं मिष्टान्नभोजनम् ।
वाहनाम्बरपश्वादिर्राजकर्म सुखानि च ॥ ३७॥
कृषिकर्मफले सिद्धिर्वारणाम्बरभूषणम् ।
नीचे वास्तङ्गते वापि षष्ठाष्टव्ययगेऽपि वा ॥ ३८॥
हृद्रोगं मानहानिश्च निगडं बन्धुनाशनम् ।
दारपुत्रार्थनाशः स्याच्चतुष्पाज्जीवनाशनम् ॥ ३९॥
दशाधिपेन संयुक्ते शत्रुवृद्धिर्महद्भयम् ।
विदेशगमनं चैव नानारोगास्तथैव च ॥ ४०॥
राजद्वारे विरोधश्च कलहः स्वजनैरपि ।
दायेशात्केन्द्रत्रिकोणे वा स्वोच्चे युक्तार्थलाभकृत् ॥ ४१॥
अनेकधननाथत्वं राजसम्मनमेव च ।
भूपालयोगं कुरुते धनम्बरविभूषणम् ॥ ४२॥
भूरवाद्यमृदंगादि सेनापत्यं महत्सुखम् ।
विद्याविनोदविमला वस्त्रवाहनभूषणम् ॥ ४३॥
दारपुत्रादिविभवं गृहे लक्ष्मीः कटाक्षकृत् ।
दायेशात्षष्ठरिःफस्थे रन्ध्रे वा पापसंयुते ॥ ४४॥
तद्दाये मानोहानिः स्यात्क्रूरबुद्धिस्तु क्रूरवाक् ।
चौराग्निनृपपीडा च मार्गे दस्युभयादिकम् ॥ ४५॥
अकस्मात्कलहश्चैव बुधमुक्तौ न संशयः ।
द्वितीयद्यूननाथे तु महाव्याधिर्भयङ्करः ॥ ४६॥
अश्वदानं प्रकुर्वीत विष्णोर्नामसहस्रकम् ।
सर्वसम्पत्प्रदं विप्र सर्वारिष्टप्रशान्तये ॥ ४७॥
कुजस्यान्तर्गते केतौ त्रिकोणे केन्द्रगेऽपि वा ।
दिश्चिक्ये लाभगे वाऽपि शुभयुक्ते शुभेक्षिते ॥ ४८॥
राजानुग्रहशान्तिश्च बहुसौख्यं धनागमः ।
किञ्चित्फलं दशादौ तु भूलाभः पुत्रलाभकृत् ॥ ४९॥
राजसंलाभकार्याणि चतुष्पाज्जीवलाभकृत् ।
योगकारकसंस्थाने बलवीर्यसमन्विते ॥ ५०॥
पुत्रलाभो यशोवृद्धिर्गृहे लक्ष्मीः कटाक्षकृत् ।
भृत्यवर्गधनप्राप्तिः सेनापत्यं महत्सुखम् ॥ ५१॥
भूपालमित्रं कुरुते यागाम्बरादिभूषणम् ।
दायेशात्षष्ठरिःफस्थे रन्ध्रे वा पापसंयुते ॥ ५२॥
कलहो दन्तरोगश्च चौरव्याघ्रादिपीडनम् ।
ज्वरातिसारकुष्ठादिदारपुत्रादिपीडनम् ॥ ५३॥
द्वितीयसप्तमस्थाने देहे व्याधिर्भविष्यति ।
अपमानमनस्तापो धनधान्यादिप्रच्युतिम् ॥ ५४॥
कुजस्यान्तर्गते शुक्रे केन्द्रलाभत्रिकोणगे ।
स्वोच्चे वा स्वर्क्षगे वाऽपिशुभस्थानाधिपेऽथवा ॥ ५५॥
राज्यलाभो महत्सौख्यं गजाश्वाम्बरभूषणम् ।
लग्नाधिपेन सम्बन्धे पुत्रदारादिवर्धनम् ॥ ५६॥
आयुषो वृद्धिरैश्वर्यं भाग्यवृद्धिसुखं भवेत् ।
दायेशात्केन्द्रकोणस्थे लाभे वा धनगेऽपि वा ॥ ५७॥
तत्काले श्रियमाप्नोति पुत्रलाभं महत्सुखम् ।
स्वप्रभोश्च महत्सौख्यं धनवस्त्रादिलाभकृत् ॥ ५८॥
महारजप्रसादेन ग्रामभूम्यादिलाभदम् ।
भुक्त्यन्ते फलमाप्नोति गीतनृत्यादिलाभकृत् ॥ ५९॥
पुण्यतीर्थस्नानलाभं कर्माधिपसमन्विते ।
पुण्यधर्मदयाकूपतडागं कारयिष्यति ॥ ६०॥
दायेशाद्रन्ध्ररिष्फस्थे षष्ठे वा पापसंयुते ।
करोति दुःखबाहुल्यं देहपीडां धनक्षयम् ॥ ६१॥
राजचौरादिभीतिञ्च गृहे कलहमेव च ।
दारपुत्रादिपीडां च गोमहिष्यादिनाशकृत् ॥ ६२॥
द्वितीयद्यूननाथे तु देहबाधा भविष्यति ।
श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धये ॥ ६३॥
कुजस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रकेन्द्रगे ।
मूलत्रिकोणलाभे वा भाग्यकर्मेशसंयुते ॥ ६४॥
तद्भुक्तौ वाहनं कीर्तिं पुत्रलाभं च विन्दति ।
धनधान्यसमृद्धिः स्याद् गृहे कल्याणसम्पदः ॥ ६५॥
क्षेमारोग्यं महद्धैर्यं राजपूज्यं महत्सुखम् ।
व्यवसायात्फलाधिक्यं विदेशे राजदर्शनम् ॥ ६६॥
दायेशात्षष्ठरिष्फे वा व्यये वा पापसंयुते ।
देहपीडा मनस्तापः कार्यहानिर्महद्भयम् ॥ ६७॥
शिरोरोगो ज्वरादिश्च अतिसारमथापि वा ।
द्वितीयद्यूननाथे तु सर्पज्वरविषाद्भयम् ॥ ६८॥
सुतपीडाभयं चैव शान्ति कुर्याद्यथाविधि ।
देहारोग्यं प्रकुरुते धनधान्यचयं तथा ॥ ६९॥
कुजस्यान्तर्गते चन्द्रे स्वोच्चे स्वक्षेत्रकेन्द्रगे ।
भार्यवाहनकर्मेशलग्नाधिपसमन्विते ॥ ७०॥
करोति विपुलं राज्यं गन्धमाल्याम्बरादिकम् ।
तडागं गोपुरादीनां पुण्यधर्मादिसंग्रहम् ॥ ७१॥
विवाहोत्सवकर्माणि दारपुत्रादिसौख्यकृत् ।
पितृमातृसुखावाप्तिं गृहे लक्ष्मीः कटाक्षकृत् ॥ ७२॥
महारजप्रसादेन स्वेष्टसिद्धिसुखादिकम् ।
पूर्णे चन्द्रे पूर्णफलं क्षीणे स्वल्पफल्ं भवेत् ॥ ७३॥
नीचारिस्थऽष्टमे षष्ठे दायेशाद्रिपुरन्ध्रके ।
मरणं दारपुत्राणां कष्टं भूमिविनाशनम् ॥ ७४॥
पशुधान्यक्षयश्चैव चौरादिरणभीतिकृत् ।
द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥ ७५॥
देहजाड्यं मनोदुःखं दुर्गा लक्ष्मीजपं चरेत् ।
श्वेतां गां महिषीं दद्यादनेमारोग्यमादिशेत् ॥ ७६॥
अथ रह्वन्तर्दशाफलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ५५॥
कुलीरे वृश्चिके राहौ कन्यत्यां चापगेऽपि वा ।
तद्भुक्तो राजसम्मानं वस्त्रवाहनभूषणम् ॥ १॥
व्यवसायात्फलाधिक्यं चतुष्पाज्जीवलाभकृत् ।
प्रयाणं पश्चिमे भागे वाहनाम्बरलाभकृत् ॥ २॥
लग्नादुपचये राहौ शुभग्रहयुतेक्षिते ।
मित्रांशे तुङ्गभागांशे योगकारकसंयुते ॥ ३॥
राज्यलाभं महोत्साहं राजप्रीतिं शुभावहम् ।
करोति सुखसम्पत्तिं दारपुत्रादिवर्द्धनम् ॥ ४॥
लग्नाष्ट्मे व्यये राहौ पापयुक्तेऽथ वीक्षिते ।
चौरादिव्रणपीडा च सर्वत्रैवं भवेद्द्विज ॥ ५॥
राजद्वारजनद्वेष इष्टबन्धुविनाशनम् ।
दारपुत्रादिपीडा च भवत्येव न संशयः ॥ ६॥
द्वितीयद्यूननाथे वा सप्तमस्थानमाश्रिते ।
सदा रोगो महाकष्टं शान्तिं कुर्याद्यथाविधि ।
आरोग्यं सम्पदश्चैव भविष्यन्ति तदा द्विज ॥ ७॥
राहुरन्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे ।
स्वोच्चे स्वक्षेत्रगे वापि तुङ्गस्वर्क्षांशगेऽपि वा ॥ ८॥
स्थानलाभं मनोधैर्यं शत्रुनाशं महत्सुखम् ।
राजप्रीतिकरं सौख्यं जनोऽतीव समश्नुते ॥ ९॥
दिनेदिने वृद्धिरपि सितपक्षे शशी यथा ।
वाहनादिधनं भूरि गृहे गोधनसंकुलम् ॥ १०॥
नैरृत्ये पश्चिमे भागे प्रयाणं राजदर्शनम् ।
युक्तकार्यार्थसिद्धिः स्यात्स्वदेशे पुनरेष्यति ॥ ११॥
उपकारो ब्राह्मणानां तीर्थयात्रादिकर्मणाम् ।
वाहनग्रामलाभश्च देवब्राह्मणपूजनम् ॥ १२॥
पुत्रोत्सवादिसन्तोषो नित्यं मिष्ठान्नभोजनम् ।
नीचे वाऽस्तङ्गते वापि षष्ठाष्टव्ययराशिगे ॥ १३॥
शत्रुक्षेत्रे पापयुक्ते धनहानिर्भविष्यति ।
कर्मविघ्नो भवेत्तस्य मानहानिश्च जायते ॥ १४॥
कलत्रपुत्रपीडा च हृद्रोगो राजकारकृत् ।
दायेशात्केन्द्रकोणे वा लाभे वा धनगेऽपि वा ॥ १५॥
दुश्चिक्ये बलसम्पूर्णे गृहक्षेत्रादिवृद्धिकृत् ।
भोजनाम्बरपश्वादिदानधर्मजपादिकम् ॥ १६॥
भुक्त्यन्ते राजकोपाच्च द्विमासं देहपीडनम् ।
ज्येष्ठभ्रातुर्विनाशश्च मातृपित्रादिपीडनम् ॥ १७॥
दायेशात्षष्ठरन्ध्रे वा रिःफे वा पापसंयुते ।
तद्भुक्तौ धनहानिः स्याद्देहपीडा भविष्यति ॥ १८॥
द्वितीयद्यूननाथे वा ह्यपमृत्युर्भविष्यति ।
स्वर्णस्य प्र्तिमादानं शिवपूजं च कार्यते ॥ १९॥
स्र्/ईशम्भोश्च प्रसादेन ग्रहस्तुष्टो द्विजोत्तम ।
देहारोग्यं प्रकुरुते शान्तिं कुर्याद्विचक्षणम् ॥ २०॥
राहोरन्तर्गते मन्दे लग्नात्केन्द्रत्रिकोणगे ।
स्वोच्चे मूलत्रिकोणे वा दुश्चिक्ये लाभराशिगे ॥ २१॥
तद्भुक्तौ नृपतेः सेवा राजप्रीतिकरी शुभा ।
विवाहोत्सवकार्याणि कृत्वा पुण्यानि भूरिशः ॥ २२॥
आरामकरणे युक्तो तडागं कारयिष्यति ।
शूद्रप्रभुवशादिष्टलाभो गोधनसंग्रहः ॥ २३॥
प्रयाणं पश्चिमे भागे प्रभुमूलाद्धनक्षयः ।
देहालस्यं फलाल्पत्वं स्वदेशे पुनरेष्यति ॥ २४॥
नीचारिक्षेत्रगे मन्दे रन्ध्रे वा व्ययगेऽपि वा ।
नीचारिराजभीतिश्च दारपुत्रादिपीडनम् ॥ २५॥
आत्मबन्धुमनस्तापं दायादजनविग्रहम् ।
व्यवहारे च कलहमकस्माद्भूषणं लभेत् ॥ २६॥
दायेशात्षष्ठरिष्फे वा रन्ध्रे वा पापसंयुते ।
हृद्रोगो मानहानिश्च विवादः शत्रुपीडनम् ॥ २७॥
अन्यदेशादिसञ्चारो गुल्मवद्वयाधिभाग्भवेत् ।
कुभोजनं कोद्रवादि जातिदुःखाद्भयं भवेत् ॥ २८॥
द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ।
कृष्णां गां महिषीं दद्याद्दानेमारोग्यमादिशेत् ॥ २९॥
राहोरन्तर्गते सौम्ये भाग्ये वा स्वर्क्षगेऽपि वा ।
तुङ्गे वा केन्द्रराशिस्थे पुत्रे वा बलगेऽपि वा ॥ ३०॥
राजयोगं प्रकुरुते गृहे कल्याणवर्द्धनम् ।
व्यापारेण धनप्राप्तिविद्यावाहनमुत्तमम् ॥ ३१॥
विवाहोत्सवकार्याणि चतुष्पाज्जीवलाभकृत् ।
सौम्यमासे महत्सौख्यं स्ववारे राजदर्शनम् ॥ ३२॥
सुगन्धपुष्पशय्यादि स्त्रीसौख्यं चातिरोभनम् ।
महाराजप्रसादेन धनलाभो महद्यशः ॥ ३३॥
दायेशात्केन्द्रलाभे वा दुश्चिक्ये भाग्यकर्मगे ।
देहारोग्यं हृदुत्साह इष्टसिद्धिः सुखावहा ॥ ३४॥
पुण्यश्लोकादिकीर्तिश्च पुराणश्रवणादिकम् ।
विवाहो यज्ञदीक्षा च दानधर्मदयादिकम् ॥ ३५॥
षष्ठाष्टमव्यये सौम्ये मन्देनापि युतेक्षिते ।
दायेशात्षष्ठरिःफे वा रन्ध्रे वा पापसंयुते ॥ ३६॥
देवभाह्मणनिन्दा च भोगभाग्यविवर्जितः ।
सत्यहीनश्च दुर्बुद्धिश्चौराहिनृपपीडनम् ॥ ३७॥
अकस्मात्कलहश्चैव गुरुपुत्रादिनाशनम् ।
अर्थव्ययो राजकोपो दारपुत्रादिपीडनम् ॥ ३८॥
द्वितीयद्यूननाथे वा ह्यपमृत्युभयं वदेत् ।
तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ॥ ३९॥
राहोरन्तर्गते केतौ भ्रमणं राजतो भयम् ।
वातज्वरादिरोगश्च चतुष्पाज्जीवहानिकृत् ॥ ४०॥
अष्टमाधिसंयुक्ते देहजाड्यं मनोव्यथा ।
शुभयुक्ते शुभैर्दृष्टे देहसौख्यं धनागमः ।
राजसम्मानभूषाप्तिर्गृहे शुभकरो भवेत् ॥ ४१॥
लग्नाधिपेन सम्बन्धे इष्टसिद्धिः सुखावहा ।
लग्नाधिपसमायुक्ते लाभो वा भवति ध्रुवम् ॥ ४२॥
चतुष्पाज्जिवलाभः स्यात्केन्द्रे वाथ त्रिकोणगे ।
रन्ध्रस्थानगते केतौ व्यये वा बलवर्जिते ॥ ४३॥
तद्भुक्तौ बहुरोगः स्याच्चोराहिव्रणपीडनम् ।
पितृमातृवियोगश्च भातृद्वेषो मनोरुजा ॥ ४४॥
द्वितीयद्यूननाथे तु देहबाधा भविष्यति ।
तद्दोषपरिहारार्थं छागदानं च कारयेत् ॥ ४५॥
राहोरन्तर्गते शुक्रे कग्नात्केन्द्गत्रिकोणगे ।
लाभे वा बलसंयुक्ते योगप्राबल्यमादिशेत् ॥ ४६॥
विप्रमूलाद्धनप्राप्तिर्गोमहिष्यादिलाभकृत् ।
पुत्रोत्सवादिसन्तोषो गृहे कल्याणसम्भवः ॥ ४७॥
सम्मानं राजसम्मनं राज्यलाभो महत्सुखम् ।
स्वोच्चे वा स्वर्क्षगे वापि तुङ्गांशे स्वांशगेऽपि वा ॥ ४८॥
नूतनं गृहनिर्माणं नित्यं मिष्ठान्नभोजनम् ।
कलत्रपुत्रविभवं मित्रसंगः सुभोजनम् ॥ ४९॥
अन्नदानं प्रियं नित्यं दानधर्मादिसंग्रहः ।
महाराजप्रसादेन वाहनाम्बरभूषणम् ॥ ५०॥
व्यवसायात्फलाधिक्यं विवाहो मौञ्जिबन्धनम् ।
षष्ठाष्टमव्यये शुक्रे नीचे शत्रुगृहे स्थिते ॥ ५१॥
मन्दारफणिसंयुक्ते तद्भुक्तौ रोगमादिशेत् ।
अकस्मात्कलहं चैव पितृपुत्रवियोगकृत् ॥ ५२॥
स्वबन्धुजनहानिश्च सर्वत्र जनपीडनम् ।
दायादकलहश्चैव स्वप्रभोः स्वस्य मृत्युकृत् ॥ ५३॥
कलत्रपुत्रपीडा च शूलरोगादिसम्भवः ।
दायेशात्केन्द्रराशिस्थे त्रिकोणे वा समन्विते ॥ ५४॥
लाभे वा कर्मराशिस्थे क्षेत्रपालमहत्सुखम् ।
सुगन्धवस्त्रशय्यादि गानवाद्यसुखं भवेत् ॥ ५५॥
छत्रचामरभूषाप्तिः प्रियवस्तुसमन्विता ।
दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते ॥ ५६॥
विप्राहिनृपचौरादिमूत्रकृच्छ्रान्महद्भयम् ।
प्रमेहाद्रौधिरो रोगः कुत्सितान्नं शिरोव्यथा ॥ ५७॥
कारागृहप्रवेशश्च राजदण्डाद्धनक्षयः ।
द्वितीयद्यूननाथे वा दारपुत्रादिनाशनम् ॥ ५८॥
आत्मपीडा भयं चैव ह्यपमृत्युभयं भवेत् ।
दुर्गालक्ष्मीजपं कुर्यात् ततःसुखमवाप्नुयात् ॥ ५९॥
राहोरन्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रकेन्द्रगे ।
त्रिकोणे लाभगे वाऽपि तुङ्गांशे स्वांशगेऽपि वा ॥ ६०॥
शुभग्रहेण सन्दृष्टे राजप्रीतिकरं शुभम् ।
धनधान्यसमृद्धिश्च ह्यल्पमान सुखवाहम् ॥ ६१॥
अल्पग्रामाधिपत्यं च स्वल्पलाभो भविष्यति ।
भाग्यलग्नेशसंयुक्ते कर्मेशेन निरीक्षिते ॥ ६२॥
राजाश्रयो महाकीर्तिर्विदेशगमनं तथा ।
देशाधिपत्ययोगश्च गजश्वाम्बरभूषणम् ॥ ६३॥
मनोऽभिष्टप्रदानं च पुत्रकल्याणसम्भवम् ।
दयेशाद्रिःफरन्ध्रस्थे षष्ठे वा नीचगेऽपि वा ॥ ६४॥
ज्वरातिसाररोगश्च कलहो राजविग्रहः ।
प्रयाणं शत्रुवृद्धिश्च न्रिपचौराग्निपीडनम् ॥ ६५॥
दायेशात्केन्द्रकोणे वा दश्चिक्ये लाभगेऽपि वा ।
विदेशे राजसम्मानं कल्याणं च शुभावहम् ॥ ६६॥
द्वितीयद्यूननाथे तु महारोगो भविष्यति ।
सूर्यप्रणामं शान्तिं च कुर्यादारोग्यसम्भवाम् ॥ ६७॥
राहोरन्तर्गते चन्द्रे स्वक्षेत्रे स्वोच्चगेऽपि वा ।
केन्द्रत्रिकोणलाभे वा मित्रर्क्षे शुभसंयुते ॥ ६८॥
राजत्वं राजपूज्यत्वं धनार्थं धनलाभकृत् ।
आरोग्यं भूषण्ं चैव मित्रस्त्रीपुत्रसम्पदः ॥ ६९॥
पूर्णे चन्द्रे फलं पूर्णं राजप्रीत्या शुभावहम् ।
अश्ववाहनलाभः स्यद्गृहक्षेत्रादिवृद्धिकृत् ॥ ७०॥
दायेशात्सुखभाग्यस्थे केन्द्रे वा लाभगेऽपि वा ।
लक्ष्मीकटाक्षचिह्नानि गृहे कल्याणसम्भवः ॥ ७१॥
सर्वकार्यसिद्धिः स्याद्धनधान्यसुखावहा ।
सत्कीर्तिलाभसम्मानं देव्याराधनमाचरेत् ॥ ७२॥
दायेशात्षष्ठरन्ध्रस्थे व्यये वा बलवर्जिते ।
पिशाचक्षुद्रव्याघ्राद्य्सिर्गृहक्षेत्रार्थनाशनम् ॥ ७३॥
मार्गे चौरभयं चैव व्रणाधिक्य महोदयम् ।
द्वितीयद्यूननाथे तु अपमृत्युस्तदा भवेत् ॥ ७४॥
श्वेतां गां महिषीं दद्याद् विप्रायारोग्यसिद्धये ।
ततः सौख्यमवाप्नोति चन्द्रग्रहप्रसादतः ॥ ७५॥
राहोरन्तर्गते भौमे लग्नाल्लाभत्रिकोणगे ।
केन्द्रे वा शुभसंयुक्ते स्वोच्चे स्वक्षेत्रगेऽपि वा ॥ ७६॥
नष्टराज्यधन्प्राप्तिर्गृहक्षेत्राभिवृद्धिकृत् ।
इष्टदेवप्रसादेन सन्तानसुखभाग्भवेत् ॥ ७७॥
क्षिप्रभोज्यान्महत्सौख्यं भूषणश्वाम्बरादिकृत् ।
दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ॥ ७८॥
रक्तवस्त्रादिलाभः स्यात्प्रयाणं राजदर्शनम् ।
पुत्रवर्गेषु कल्याणं स्वप्रभोश्च महत्सुखम् ॥ ७९॥
सेनपत्यं महोत्साहो भ्रातृवर्गधनागमः ।
दायेशाद्रन्ध्ररिःफे वा षष्ठे पापसमन्विते ॥ ८०॥
पुत्रदारादिहानिश्च सूदराणां च पीडनम् ।
स्थानभ्रंशो बन्धुवर्गदारपुत्रविरोधनम् ॥ ८१॥
चौराहिव्रणभीतिश्च स्वदेहस्य च पीडनम् ।
आदौ क्लेशकरं चैव मध्यान्ते सौखमाप्नुयात् ॥ ८२॥
द्वितीयद्यूननाथे तु देहालस्यं महद्भयम् ।
अनड्वाहं च गां दद्यादारोग्यसुखलब्धये ॥ ८३॥
अथ जीवान्तर्दशाफलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ५६॥
स्वोच्चे स्वक्षेत्रगे जीवे लग्नात्केन्द्रत्रिकोणगे ।
अनेकराजधीशो वा सम्पन्नो राजपूजितः ॥ १॥
मोमहिष्यादिलाभश्च वस्त्रवाहनभूषणम् ।
नूतनस्थाननिर्माणं हर्म्यप्राकारसंयुतम् ॥ २॥
गजान्तैश्वर्यसम्पत्तिर्भाग्यकर्मफलओदयः ।
ब्राह्मणप्रभुसम्मानं समानं प्रभुदर्शनम् ॥ ३॥
स्वप्रभोः स्वफलाधिक्य दारपुत्रादिलाभकृत् ।
नीचांशे नीचराशिस्थे षष्ठाष्टमव्ययराशिगे ॥ ४॥
नीचसङ्गो महादुःखं दायादजनविग्रहः ।
कलहो न विचारोस्य स्वप्रभुष्वपमृत्युकृत् ॥ ५॥
पुत्रदारवियोगश्च धनधान्यार्थहानिकृत् ।
सप्तमाधिपदोषेण देववाधा भविष्यति ॥ ६॥
तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् ।
रुद्रजाप्यं च गोदानं कुर्यात् स्वाऽभीष्टलब्धये ॥ ७॥
जीवस्यान्तर्गते मन्दे स्वोच्चे स्वक्षेत्रमित्रभे ।
लग्नात्केन्द्रत्रिकोणस्थे लाभे वा बलसंयुते ॥ ८॥
राज्यलाभो महत्सौख्यं वस्त्राभरणसंयुतम् ।
धनधान्यादिलाभश्च स्त्रीलाभो बहुसौख्यकृत् ॥ ९॥
वाहनाम्बरपश्वादिभूलाभः स्थानलाभकृत् ।
पुत्रमित्रादिसौख्यं च नरवाहनयोगकृत् ॥ १०॥
नीलवस्त्रादिलाभश्च नीलाश्वं लभते च सः ।
पश्चिमां दिशमाश्रित्य प्रयाणं राजदर्शनम् ॥ ११॥
अनेकयानलाभं च निर्दिशेन्मन्दभुक्तिषु ।
लग्नात्षष्ठाष्टमे मन्दे व्यये नीचेऽस्तगेऽप्यरौ ॥ १२॥
धनधान्यादिनाशश्च ज्वरपीडा मनोरुजः ।
स्त्रीपुत्रादिषु पीडा वाव्रणार्त्यादिकमुद्भवेत् ॥ १३॥
गृहे त्वशुभकार्याणि भ्र्त्यवर्गादिपीडनम् ।
गोमहिष्यादिहानिश्च बन्धुद्वेषी भविष्यति ॥ १४॥
दायेशात्केन्द्रकोणस्थे लाभे वा धनगेऽपि वा ।
भूराभश्चार्थलाभश्च पुत्रलाभसुखं भवेत् ॥ १५॥
गोमहिष्यादिलाभश्च शूद्रमूलाद्धनं तथा ।
दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते ॥ १६॥
धनधान्यादिनाशश्च बन्धुमित्रविरोधकृत् ।
उद्योगभङ्गो देहार्तिः स्वजनानां महद्भयम् ॥ १७॥
द्विसप्तमाधिपे मन्दे ह्यपमृत्युर्भविष्यति ।
तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ॥ १८॥
कृष्णां गां महिषीं दद्यादनेनारोग्यमादिशेत् ।
मन्दग्रहप्रसादेन सत्यं सत्यं द्विजोत्तम ॥ १९॥
जीवस्यान्तर्गते सौम्ये केन्द्रलाभत्रिकोणगे ।
स्वोच्चे वा स्वर्क्षगे वापि दशाधिपसमन्विते ॥ २०॥
अर्थलाभो देहसौख्यं राज्यलाभो महत्सुखम् ।
महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा ॥ २१॥
वाहनाम्बरपश्वादिगोधनैस्संकुलं गृहम् ।
महीसुतेन संदृष्टे शत्रुवृद्धिः सुखक्षयः ॥ २२॥
व्यवसायात्फलं निष्टं ज्वरातीमारपीडनम् ।
दायेशाद्भाग्यकोणे वा केन्द्रे वा तुङ्गराशिगे ॥ २३॥
स्वदेशे धनलाभश्च पितृमातृसुखावहा ।
गजवाजिसमायुक्तो राजमित्रप्रसादतः ॥ २४॥
दायेशात्षष्ठरन्ध्रस्थे व्यये वा पापसंयुते ।
शुभदृष्टिविहीने च धन्धान्यपरिच्युतिः ॥ २५॥
विदेशगमनं चैव मार्गे चौरभयं तथा ।
व्रणदाहाक्षिरोगश्च नानादेशपरिभ्रमः ॥ २६॥
लग्नात्षष्ठाष्टमभावे वा व्यये वा पापसंयुते ।
अक्समात्कलहश्चैव गृहे मिष्ठुरभावणम् ॥ २७॥
चतुष्पाज्जीवहानिश्च व्यवहारे तथैव च ।
अपमृत्युभयं चैव शत्रूणां कलहो भवेत् ॥ २८॥
शुभदृष्टे शुभैर्युक्ते दारसौख्यं धनागमः ।
आदौ शुभं देहसौख्यं वाहनाम्बरलाभकृत् ॥ २९॥
अन्ते तु धनहानिश्चेत्स्वात्मसौख्यं न जायते ।
द्वितीयद्यूननाथे वा ह्यपमृत्युर्भविष्यति ॥ ३०॥
तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ।
आयुर्वृद्धिकरं चैव सर्वसौभाग्यदायकम् ॥ ३१॥
जीवस्यान्तर्गते केतौ शुभग्रहसमन्विते ।
अल्पसौख्यधनव्याप्तिः कुत्सितान्नस्य भोजनम् ॥ ३२॥
परान्नं चैव श्राद्धान्नं पापमूलाद्धनानि च ।
दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते ॥ ३३॥
राजकोपो धनच्छेदो बन्धनं रोगपीडनम् ।
बलाहानिः पितृद्वेषो भ्रातृद्वेषो मनोरुजम् ॥ ३४॥
दायेशात्सुतभाग्यस्थे वाहने कर्मगेऽपि वा ।
नरवाहनयोगश्च गजाश्वाम्बरसङ्कुलम् ॥ ३५॥
महाराजप्रसादेन स्वेष्टकार्यार्थलाभकृत् ।
व्यवसायात्फलाधिक्यं गोमहिष्यादिलाभकृत् ॥ ३६॥
यवनप्रभुमूलाद्वा धनवस्त्रादिलाभकृत् ।
द्वितीयद्यूननाथे तु देहवाधा भविष्यति ॥ ३७॥
छागदानं प्रकुर्वीत मृत्युञ्जयजपं चरेत् ।
सर्वदोषोपशमनीं शान्तिं कुर्याद्विधानतः ॥ ३८॥
जीवस्यान्तर्गते शुक्रे भाग्यकेन्द्रेशसंयुते ।
लाभे वा सुतराशिस्थे स्वक्षेत्रे शुभसंयुते ॥ ३९॥
नरवाहनयोगश्च गजाश्वाम्बरसंयुतः ।
महारजप्रसादेन लाभाधिक्यं महत्सुखम् ।
नीलाम्बराणां रक्तानां लाभश्चैव भविष्यति ॥ ४०॥
पूर्वस्यां दिशि विप्रेन्द्र प्रयाणं धन्लाभदम् ।
कल्याणं च महाप्रीतिः पितृमातृसुखावहा ॥ ४१॥
देवतागुरुभक्तिश्च अन्नदानं महत्तथा ।
तडागगोपुरादीनि दिशेत् पुण्यानि भूरिशः ॥ ४२॥
षष्ठाष्टमव्यये नीचे दायेशाद्वा तथैव च ।
कल्हो बन्धुवैषम्यं दारपुत्रादिपीडनम् ॥ ४३॥
मन्दारराहुसंयुक्ते कलहो राजतो भयम् ।
स्त्रीमूलात्कलहश्चैव श्वसुरात्कलहस्तथा ॥ ४४॥
सोदरेण विवादः स्याद्धनधान्यपरिच्युतिः ।
दायेशात्केन्द्रराशिस्थे धने वा भाग्यगेऽपि वा ॥ ४५॥
धनधान्यादिलाभश्च स्र्/ईलाभो राजदर्शनम् ॥ ४६॥
वाहनं पुत्रलाभश्च पशुवृद्धिर्महत्सुखम् ।
गीतावाद्यप्रसङ्गादिर्विद्वज्जनसमागमः ॥ ४७॥
दिव्यान्नभोजनं सौख्यं स्वबन्धुजनपोषकम् ।
द्विसप्तमाधिपे शुक्रे तद्दशानां धनक्षतिः ॥ ४८॥
अपमृत्युभयं तस्य स्त्रीमूलादौषधादितः ।
तस्य रोगस्य शान्त्यर्थं शान्तिकर्म समाचरेत् ॥ ४९॥
श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धये ।
शुक्रग्रहप्रसादेन ततः सुखमवाप्नुयात् ॥ ५०॥
जीवस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रगेऽपि वा ।
केन्द्रे वाऽथत्रिकोणे च दुश्चिक्ये लाभगेऽपि वा ॥ ५१॥
धने वा बलसंयुते दायेशाद्वा तथैव च ।
तत्काले धनलाभः स्याद्राजसम्मानवैभवम् ॥ ५२॥
वाहनाम्बरपश्वादिभूषणं पुत्रसम्भवः ।
मित्रप्रभुवशादिष्टं सर्वकार्ये शुभावहम् ॥ ५३॥
लग्नादष्टमव्यये सूर्ये दायेशाद्वा तथैव च ।
शिरोरोगादिपीडा च ज्वरपीडा तथैव च ॥ ५४॥
सत्कर्मसु तदा हीनः पापकर्मचयस्तथा ।
सर्वत्र जनविद्वेषो ह्यात्मबन्धुवियोगकृत् ॥ ५५॥
अकस्मात्कलहश्चैव जीवस्यान्तर्गते रवौ ।
द्वितीयद्यूननाथे तु देहपीडा भविष्यति ॥ ५६॥
तद्दोषपरिहारार्थमादित्यहृदयं जपेत् ।
सर्वपीडोपशमनं श्रीसूर्यस्य प्रसादतः ॥ ५७॥
जीवस्यान्तर्गते चन्द्रे केन्द्रे लाभत्रिकोणगे ।
स्वोच्चे वा स्वर्क्षराशिस्थे पूर्णे चैव बलैर्युते ॥ ५८॥
दायेशाच्छुभराशिस्थे राजसम्मानवैभवम् ।
दारपुत्रादिसौख्यं च क्षीराणं भोजनं तथा ॥ ५९॥
सत्कर्म च तथा कीर्तिः पुत्रपौत्रादिवृद्धिदा ।
महाराजप्रसादेन सर्वसौख्यं धनागमः ॥ ६०॥
अनेकजनसौख्यं च दानधर्मादिसंग्रहः ।
षष्ठाष्टमव्यये चन्द्रे स्थिते वा पापसंयुते ॥ ६१॥
दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते ।
मानार्थबन्धुहानिश्च विदेशपरिविच्युतिः ॥ ६२॥
नृपचौरादिपीडा च दायादजनविग्रहः ।
मातुलादिवियोगश्च मातृपीडा तथैव च ॥ ६३॥
द्वितीयषष्ठयोरीशे देहपीडा भविष्यति ।
तद्दोषपरिहारार्थं दुर्गापाठं च कारयेत् ॥ ६४॥
जीवस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे ।
स्वोच्चे वा स्वर्क्षगे वापि तुङ्गांशे स्वांशगेऽपि वा ॥ ६५॥
विद्याविवाहकार्याणि ग्रामभूम्यादिलाभकृत् ।
जनसामर्थ्यमाप्नोति सर्वकार्यार्थसिद्धिदम् ॥ ६६॥
दायेशात्केन्द्रकोणस्थे लाभे वा धनगेऽपि वा ।
शुभयुक्ते शुभैर्दृष्टे धनधान्यादिसम्पदः ॥ ६७॥
मिष्ठान्नदानविभवं राजप्रीतिकरं शुभम् ।
स्त्रीसौख्यं च सुतवाप्तिः पुण्यतीर्थफलं तथा ॥ ६८॥
दायेशाद्रन्ध्रभावे वा व्यये वा नीचगेऽपि वा ।
पापयुतेक्षिते वापि धान्यार्थगृहनाशनम् ॥ ६९॥
नानरोगभयं दुःखं नेत्ररोगादिसम्भवः ।
पूर्वार्द्धे कष्टमधिकमपरार्द्धे महत्सुखम् ॥ ७०॥
द्वितीयद्यूननाथे तु देहजाड्यं मनोरुजः ।
वृषभस्य प्रदानं तु सर्वसम्पत्प्रदायकम् ॥ ७१॥
जीवस्यान्तर्गते राहौ स्वोच्चे वा केन्द्रगेऽपि वा ।
मूलत्रिकोणे भाग्ये च केन्द्राधिपसमन्विते ॥ ७२॥
शुभयुतेक्षिते वापि योगप्रीतिं समादिशेत् ।
भुक्त्यादौ पञ्चमासांश्च धनधान्यादिकं लभेत् ॥ ७३॥
देशग्रामाधिकं च यवनप्रभुदर्शनम् ।
गृहे कल्याणसम्पत्तिर्बहुसेनाधिपत्यकम् ॥ ७४॥
दूरयात्रादिगमनं पुण्यधर्मादिसंग्रहः ।
सेतुस्नानफलावाप्तिरिष्टसिद्धिः सुखावहा ॥ ७५॥
दायेषाद्रन्ध्रभावे वा व्यये वा पापसंयुते ।
चौराहिव्रणभीतिश्च राजवैषम्यमेव च ॥ ७६॥
गृहे कर्मकलापेन व्याकुलो भवति ध्रुवम् ।
सोदरेण विरोधः स्याद्दायादजनविग्रहः ॥ ७७॥
गृहे त्वशुभकार्याणि दुःस्वप्नादिभयं ध्रुवम् ।
अकस्मात्कलहश्चैव क्षूद्रशून्यादिरोगकृत् ॥ ७८॥
द्विसप्तमस्थिते राहौ देहवाधां विनिर्दिशेत् ।
तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ॥ ७९॥
छागदानं प्रकुर्वीत सर्वसौख्यमवाप्नुयात् ।
देवपूयप्रसादेन राहुतुष्ट्या द्विजोत्तम ॥ ८०॥
अथ शन्यन्तर्दशाफलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ५७॥
मूलत्रिकोणे स्वर्क्षे वा तुलायामुच्चगेऽपि वा ।
केन्द्रत्रिकोणलाभे वा राजयोगादिसंयुते ॥ १॥
राज्यलाभो महत्सौख्यं दारपुत्रादिवर्धनम् ।
वाहनत्रयसंयुक्तं गजाश्वाम्बरसङ्कुलम् ॥ २॥
महाराजप्रसादेन सेनापत्यादिलाभकृत् ।
चतुष्पाज्जीवलाभः स्याद्ग्रामभूम्यादिलाभकृत् ॥ ३॥
तथाऽष्टमे व्यये मन्दे नीचे वा पापसंयुते ।
तद्भुक्त्यादौ राजभीतिर्विषशस्त्रादिपीडनम् ॥ ४॥
रक्तस्त्रावो गुल्मरोगो ह्यतिमारादिपीडनम् ।
मध्ये चौरादि भीतिश्च देशत्यागो मनोरुजः ॥ ५॥
अन्ते शुभकरी चैव शनेरन्तर्दशा द्विज ।
द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥ ६॥
तद्दोषपरिहारार्थं म्र्ट्युञ्जयजपं चरेत् ।
ततः शान्तिमवाप्नोति शङ्करस्य प्रसादतः ॥ ७॥
मन्दस्यान्तर्गते सौम्ये त्रिकोणे केन्द्रगेऽपि वा ।
सम्मानं च यशः कीर्तिं विद्यालाभं धनागमम् ॥ ८॥
स्वदेशे सुखमाप्नोति वाहनादिफलैर्युतम् ।
यज्ञादिकर्मसिद्धिश्च राजयोगादिसम्भवम् ॥ ९॥
देहसौख्यं हृदुत्साहं गृहे कल्याणसम्भवम् ।
सेतुस्नानफलावाप्तिस्तीर्थयात्रादिकर्मणा ॥ १०॥
वाणिज्याद्धनलाभश्च पुराणश्रवणादिकम् ।
अन्नदानफलं चैव नित्यं मिष्ठान्नभोजनम् ॥ ११॥
षष्ठाष्टमव्यये सौम्ये नीचे वास्तंगते सति ।
रव्यारफणिसंयुक्ते दायेशाद्वा तथैव च ॥ १२॥
नृपाभिषेकमर्थाप्तिर्देशग्रामाधिपत्यता ।
फलमीदृशमादौ तु मध्यान्ते रोगपीडनम् ॥ १३॥
नष्टानि सर्वकार्याणि व्याकुलत्वं महद्भयम् ।
द्वितीयसप्तमाधिशे देहबाधा भविष्यति ॥ १४॥
तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ।
अन्नदानं प्रकुर्वीत सर्वसम्पत्प्रदायकम् ॥ १५॥
मन्दस्यान्तर्गते केतौ शुभदृष्टियुतेक्षिते ।
स्वोच्चे वा शुभराशिस्थे योगकारकसंयुते ॥ १६॥
केन्द्रकोणगते वापि स्थानभ्रंशो महद्भयम् ।
दरिद्रबन्धनं भीतिः पुत्रदारादिनाशनम् ॥ १७॥
स्वप्रभोश्च महाकष्टं विदेशगमनं तथा ।
लग्नाधिपेन संयुक्ते आदौ सौख्यं धनागमः ॥ १८॥
गङ्गादिसर्वतीर्भेषु स्नानं दैवतदर्शनम् ।
दायेशात्केन्द्रकोणे वा तृतीयभवराशिगे ॥ १९॥
समर्थो धर्मबुद्धिश्च सौख्यं नृपसमागमः ।
तथाऽष्टमे व्यये केतौ दायेशाद्वा तथैव च ॥ २०॥
अपमृत्युभयं चैव कुत्सितान्नस्य भोजनम् ।
शीतज्वरातिसारश्च व्रणचौरादिपीडनम् ॥ २१॥
दारपुत्रवियोगश्च संसारे भवति ध्रुवम् ।
द्वितियद्यूनराशिस्थे देह पीडा भविष्यति ॥ २२॥
छागदानं प्रकुर्वीत ह्यपमृत्युनिवारणम् ।
केतुग्रहप्रसादेन सुखशान्तिमवाप्नुयात् ॥ २३॥
मन्दस्यान्तर्गते शुक्रे स्वोच्चे स्वक्षेत्रगेऽपि वा ।
केन्द्रे वा शुभसंयुक्ते त्रिओकोणे लाभगेऽपि वा ॥ २४॥
दारपुत्रधनप्राप्तिर्देहारोग्यं महोत्सवः ।
गृहे कल्याण्सम्पत्ति राज्यलाभं महत्सुखम् ॥ २५॥
महाराजप्रसादेन हीष्टसिद्धिः सुखावहा ।
स्सम्मानं प्रभुसम्मानं प्रियवस्त्रादिलाभकृत् ॥ २६॥
द्विपान्तराद्वस्त्रलाभः श्वेताश्वो महिषी तथा ।
गुरुचारवशाद्भाग्यं सौख्यं च धनसम्पदः ॥ २७॥
शनिचारान्मनुष्योऽसौ योगमाप्नोत्यसंशयम् ।
शत्रुनीचास्तगे शुक्रे षष्ठाष्टमव्ययराशिगे ॥ २८॥
दारनाशो मनःक्लेशः स्थाननाशो मनोरुजः ।
दारानां स्वजनक्लेशः सन्तापो जनविग्रहः ॥ २९॥
दायेशाद्भाग्यगे चैव केन्द्रे वा लाभसंयुते ।
राजप्रीतिकरं चैव मनोऽभीष्टप्रदायकम् ॥ ३०॥
दानधर्मदयायुक्तं तीर्थयात्रादिकं फलम् ।
सास्र्तार्थकाव्यरचनां वेदान्तश्रवणादिकम् ॥ ३१॥
दारपुत्रादिसौख्यं च लभते नाऽत्र संशयः ।
दायेशाद्व्ययगे शुक्रे षष्ठे वा ह्यष्टमेऽपि वा ॥ ३२॥
नेत्रपीडा ज्वरभयं स्वकुलाचारवर्जितः ।
कपोले दन्तशूलादि हृदि गुह्ये च पीडनम् ॥ ३३॥
जलभीतिर्मनस्तापो वृक्षात्पतनसम्भवः ।
राजद्वारे जनद्वेषः सोधरेण विरोधनम् ॥ ३४॥
द्वितीयसप्तमाधीशे आत्मक्लेशो भविष्यति ।
तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् ॥ ३५॥
श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धिदाम् ।
जगदम्बाप्रसादेन ततः सुखमवाप्नुयात् ॥ ३६॥
मन्दस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रगेऽपि वा ।
भाग्याधिपेन संयुक्ते केन्द्रलाभत्रिकोणगे ॥ ३७॥
शुभदृष्टियुते वापि स्वप्रभोश्च महत्सुखम् ।
गृहे कल्याणसम्पत्तिः पुत्रादिसुखवर्द्धनम् ॥ ३८॥
वाहनाम्बरपश्वादिगोक्षीरैस्संकुलं गृहम् ।
लग्नाष्टमव्यये सूर्ये दायेशाद्वा तथैव च ॥ ३९॥
हृद्रोगो मानहानिश्च स्थानभ्रंशो मनोरुजा ।
इष्ट्बन्धुवियोगश्च उद्योगस्य विनाशनम् ॥ ४०॥
तापज्वरादिपीडा च व्याकुलत्वं भयं तथा ।
आत्मसम्बन्धिमरणमिष्टवस्तुवियोगकृत् ॥ ४१॥
द्वितीयद्यूननाथे तु देहबाधा भविष्यति ।
तद्दोषपरिहारार्थं सूर्यपूजां च कारयेत् ॥ ४२॥
मन्दस्यान्तर्गते चन्द्रे जीवदृष्टिसमन्विते ।
स्वोच्चे स्वक्षेत्रकेन्द्रस्थे त्रिकोणे लाभगेऽपि वा ॥ ४३॥
पूर्णे शुभग्रहैर्युक्ते राजप्रीतिसमागमः ।
महाराजप्रसादेन वाहनाम्बरभूषणम् ॥ ४४॥
सौभाग्यं सुखवृद्धिं च भृत्यानां परिपालनम् ।
पितृमातृकुले सौख्यं पशुवृद्धिः सुखावहा ॥ ४५॥
क्षीणे वा पापसंयुक्ते पापदृष्टे वा नीचगे ।
क्रूरांशकगते वापि क्रूरक्षेत्रगतेऽपि वा ॥ ४६॥
जातकस्य महत्कष्टं राजकोपो धनक्षयः ।
पितृमातृवियोगश्च पुत्रीपुत्रादिरोगकृत् ॥ ४७॥
व्यवसायात्फलं नेष्टं नानामार्गे धनव्ययः ।
अकाले भोजनं चैव मौषधस्य च भक्षणम् ॥ ४८॥
फलमेतद्विजानीयादादौ सौख्यं धनागमः ।
दायेशात्केन्द्रराशिस्थे त्रिकोणे लाभगेऽपि वा ॥ ४९॥
वाहनाम्बरपश्वादिभ्रातृवृद्धिः सुखावहा ।
पितृमातृसुखावाप्तिः स्त्रीसौख्यं च धनागमः ॥ ५०॥
मित्रप्रभुवशादिष्टं सर्वसौख्यं शुभावहम् ।
दायेशाद्द्वादश भावे रन्ध्रे वा बलवर्जिते ॥ ५१॥
शयनं रोगमालस्यं स्थानभ्रष्टं सुखापहम् ।
शत्रुवृद्धिविरोधं च बन्धुद्वेषमवाप्नुयात् ॥ ५२॥
द्वितीयद्यूननाथे तु देहालस्य भविष्यति ।
तद्दोषशमनार्थं च तिलहोमादिकं चरेत् ॥ ५३॥
गुडं घृतं च दध्नाक्तं तण्डुलं च यथाविधि ।
श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धये ॥ ५४॥
मन्दस्यान्तर्गते भौमे केन्द्रलाभत्रिकोणगे ।
तुङ्गे स्वक्षेत्रगे वापि दशाधिपसमन्विते ॥ ५५॥
लग्नाधिपेन संयुक्ते आदौ सौख्यं धनागमः ।
राजप्रीतिकरं सौख्यं वाहनाम्बरभूषणम् ॥ ५६॥
सेनापत्यं नृपप्रीतिः कृषिगोधान्यसम्पदः ।
नूतनस्थाननिर्माणं भ्रातृवर्गेष्टसौख्यकृत् ॥ ५७॥
नीचे चास्तङ्गते भौमे लग्नादष्टव्ययस्थिते ।
पापदृष्टियुते वापि धनहानिर्भविष्यति ॥ ५८॥
चौराहिव्रणशस्त्रादिग्रन्थिरोगादिपीडनम् ।
भ्रातृपित्रादिपीडा च दायादजनविग्रहः ॥ ५९॥
चतुष्पाज्जीवहानिश्च कुत्सितान्नस्य भोजनम् ।
विदेशगमनं चैव नानमार्गे धनव्ययः ॥ ६०॥
अष्टमद्यूननाथे तु द्वितीयस्थेऽथ वा यदि ।
अपमृत्युभयं चैव नानाकष्टं पराभवः ॥ ६१॥
तद्दोषपरिहारार्थं शान्तिहोमं च कारयेत् ।
वृषदानं प्रकुर्वीत सर्वारिष्टनिवारणम् ॥ ६२॥
मन्दस्यान्तर्गते राहौ कलहश्च मनोव्यथा ।
देहपीडा मनस्तापः पुत्रद्वेषो रुजोभयम् ॥ ६३॥
अर्थव्ययो राजभयं स्वजनादिविरोधिता ।
विदेशगमनं चैव गृहक्षेत्रादिनाशनम् ॥ ६४॥
लग्नाधिपेन संयुक्ते योगकारकसंयुते ।
स्वोच्चे स्वक्षेत्रगे केन्द्रे दायेशाल्लाभराशिगे ॥ ६५॥
आदौ सौख्यं धनावाप्तिं गृहक्षेत्रादिसम्पदम् ।
देवब्राह्मणभक्तिं च तीर्थयात्रादिकं लभेत् ॥ ६६॥
चतुष्पाज्जीवलाभः स्याद्गृहे कल्याण्वर्द्धनम् ।
मध्ये तु राजभीतिश्च पुत्रमित्रविरोधनम् ॥ ६७॥
मेषे कन्यागते वापि कुलीरे वृषभे तथा ।
मीनकोदण्डसिंहेषु गजान्तैश्वर्यमादिशेत् ॥ ६८॥
राजसम्मनभूषाप्तिं मृदुलाभरसौख्यकृत् ।
द्विसप्तमाधिपैर्युक्ते देहबाधा भविष्यति ॥ ६९॥
मृत्युञ्जयं प्रकुर्वीत छागदानं च कारयेत् ।
वृषदानं प्रकुर्वीत सर्वसम्पत्सुखावहम् ॥ ७०॥
मन्दस्यान्तर्गते जीवे केन्द्रे लाभत्रिकोणगे ।
लग्नाधिपेन संयुक्ते स्वोच्चे स्वक्षेत्रगेऽपि वा ॥ ७१॥
सर्वकार्यार्थसिद्धिः स्याच्छोभनं भवति ध्रुवम् ।
महाराजप्रसादेन धनवाहनभूषणम् ॥ ७२॥
सन्मानं प्रभुसम्मानं प्रियवस्त्रार्थलाभकृत् ।
देवतागुरुभक्तिश्च विद्वज्जनसमागमः ॥ ७३॥
दारपुत्रादिलाभश्च पुत्रकल्याणवैभवम् ।
षष्ठाष्टमव्यये जीवे नीचे वा पापसंयुते ॥ ७४॥
निजसम्बन्धिमरणं धनधान्यविनाशनम् ।
राजस्थाने जनद्वेषः कर्यहानिर्भविष्यति ॥ ७५॥
विदेशगमनं चैव कुष्ठरोगादिसम्भवः ।
दायेशात्केन्द्रकोणे वा धने वा लाभगेऽपि वा ॥ ७६॥
विभवं दारसौभाग्यं राजश्रीधनसम्पदः ।
भोजनाम्बरसौख्यं च दानधर्मादिकं भवेत् ॥ ७७॥
ब्रह्मप्र्तिष्ठासिद्धिश्च क्रतुकर्मफलं तथा ।
अन्नदानं महाकीर्तिर्वेदान्तश्रवणादिकम् ॥ ७८॥
दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते ।
बन्धुद्वेषो मनोदुःखं कलहः पदविच्युति ॥ ७९॥
कुभोजनं कर्महानी राजदण्डाद्धनव्यय ।
कारागृहप्रवेशश्च पुत्रदारादिपीडनम् ॥ ८०॥
द्वितीयद्यूननाथे तु देहवाधा मनोरुजः ।
आत्मसम्बन्धमरणं भविष्यति न संशयः ॥ ८१॥
तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् ।
स्वर्णदानं प्र्कुर्वीत ह्यारोग्यं भवति ध्रुवम् ॥ ८२॥
अथ बुधान्तर्दशाफलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ५८॥
मुक्ताविद्रुमलाभश्च ज्ञानकर्मसुखादिकम् ।
विद्यामहत्त्वं कीर्तिश्च नूतनप्रभुदर्शनम् ॥ १॥
विभवं दारपुत्रादि पितृमातृसुखावहम् ।
स्वोच्चादिस्थेऽथ नीचेऽस्ते षष्ठाष्टमव्ययराशिगे ॥ २॥
पापयुक्तेऽथवा दृष्टे धनधान्यपशुक्षयः ।
आत्मबन्धुविरोधश्च शूलरूगादिसम्भवः ॥ ३॥
राजकार्यकलापेन व्याकुलो भव्ति ध्रुवम् ।
द्वितीयद्यूननाथे तु दारक्लेशो भविष्यति ॥ ४॥
आत्मसम्बन्धिमरणं वातशूलादिसम्भवः ।
तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ॥ ५॥
बुधस्यान्तर्गते केतौ लग्नात्केन्द्रत्रिकोणगे ।
शुभयुक्ते शुभैर्दृष्टे लग्नाधिपसमन्विते ॥ ६॥
योगकारकसम्बन्धे दायेशात्केन्द्रलाभगे ।
देहसौख्यं धनाल्पत्वं बन्धुस्नेहमथादिशेत् ॥ ७॥
चतुष्पाज्जीवलाभः स्यात्संचारेण धनागमः ।
विद्याकीर्तिर्प्रसङ्गश्च समानप्रभुदर्शनम् ॥ ८॥
भोजनाम्बरसौख्यं च ह्यादौ मध्ये सुखावहम् ।
दायेशाद्यदि रन्ध्रस्थे व्यये वा पापसंयुते ॥ ९॥
वाहनात्पतनं चैव पुत्रक्लेशादिसम्भवः ।
चौरादिराजभीतिश्च पापकर्मरतः सदा ॥ १०॥
वृश्चिकादिविषाद्भीतिर्नीचैः कलहसंभवः ।
शोकरोगादिदुःखं च नीचसङ्गादिकं भवेत् ॥ ११॥
द्वितीयद्यूननाथे तु देहजाड्यं भविष्यति ।
तद्दोषपरिहाराय छागदानं तु कारयेत् ॥ १२॥
सौम्यस्यान्तर्गते शुक्रे केन्द्रे लाभे त्रिकोणगे ।
सत्कथापुण्यधर्मादिसंग्रहः पुण्यकर्मकृत् ॥ १३॥
मित्रप्रभुवशादिष्टं क्षेत्रलाभः सुखं भवेत् ।
दशाधिपात्केन्द्रगते त्रिकोणे लाभगेऽपि वा ॥ १४॥
तत्काले श्रियमाप्नोति राजश्रीधनसम्पदः ।
वापीकूपतडागदिदानधर्मादिसंग्रहः ॥ १५॥
व्यवसायात्फलाधिक्यं धनधान्यसमृद्धिकृत् ।
दायेशात्षष्ठरन्ध्रस्थे व्यये वा बलवर्जिते ॥ १६॥
हृद्रोगो मानहानिश्च ज्वरातीसारपीडनम् ।
आत्मबन्धुवियोगश्च संसारे भवति ध्रुवम् ॥ १७॥
आत्मकष्टं मनस्तापदायकं द्विजसत्तम ।
द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥ १८॥
तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् ।
जगदम्बाप्रसादेन ततः शान्तिमवाप्नुयात् ॥ १९॥
सौम्यस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रकेन्द्रगे ।
त्रिकोणे धनलाभे तु तुङ्गांशे स्वांशगेऽपि वा ॥ २०॥
राजप्रसादसुभाग्यं मित्रप्रभुवशात्सुखम् ।
भूम्यात्मजेन संदृष्टे आदौ भूलाभमादिशेत् ॥ २१॥
लग्नाधिपेन संदृष्टे बहुसौख्यं धनागमम् ।
ग्रामभूम्यादिलाभं च भोजनाम्बरसौख्यकृत् ॥ २२॥
लग्नाष्टमव्यये वापि शन्यारफणिसंयुते ।
दायेशाद्रिपुरन्ध्रस्थे व्यये वा बलवर्जिते ॥ २३॥
चौरादिशस्त्रपीडा च पित्ताधिक्यं भविष्यति ।
शिरोरुङ्मनसस्ताप इष्टबन्धुवियोगकृत् ॥ २४॥
द्वितीयसप्तमाधीशे ह्यपमृत्युर्भविश्यति ।
तद्दोषपरिहारार्थं शान्तिं कुर्याद्यथाविधि ॥ २५॥
सौम्यस्यान्तर्गते चन्द्रे लग्नात्केन्द्रत्रिकोणगे ।
स्वोच्चे वा स्वर्क्षगे वापि गुरुदृष्टिसमन्विते ॥ २६॥
योगस्थानाधिपत्येन योगप्राबल्यमादिशेत् ।
स्त्रीलाभं पुत्रलाभं च वस्त्रवाहनभूषणम् ॥ २७॥
नूतनालयलाभं च नित्यं मिष्ठान्नभोजनम् ।
गीतवाद्यप्रसंगं च शास्त्रविद्यापरिश्रमम् ॥ २८॥
दक्षिणां दिशमाश्रित्य प्रयाणं च भविष्यति ।
द्वीपान्तरादिवस्त्राणां लाभश्चैव भविष्यति ॥ २९॥
मुक्ताविद्रुमरत्नानि धौतवस्त्रादिकं लभेत् ।
नीचारिक्षेत्रसंयुक्ते देहबाधा भविष्यति ॥ ३०॥
दायेशात्केन्द्रकोणस्थे दुश्चिक्ये लाभगेऽपि वा ।
तद्भुक्त्यादौ पुण्यतीर्थस्थानदैवतदर्शनम् ॥ ३१॥
मनोधैर्यं हृदुत्साहो विदेशधनलाभकृत् ।
दायेशात्षष्ठरन्ध्रे वा व्यये वा पापसंयुते ॥ ३२॥
चोराग्निनृपभीतिश्च स्त्रीसमागमतो भवेत् ।
दुष्कृतिर्धनहानिश्च कृषिगोश्वादिनाशकृत् ॥ ३३॥
द्वितीयद्यूननाथे तु देहबाधा भविष्यति ।
तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् ॥ ३४॥
वस्त्रदानं प्रकुर्वीत आयुर्वृद्धिसुखावहम् ।
जगदम्बाप्रसादेन ततः सुखमवाप्नुयात् ॥ ३५॥
सौम्यस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे ।
स्वोच्चे वा स्वर्क्षगे वापि लग्नाधिपसमन्विते ॥ ३६॥
राजानुग्रहशान्तिं च गृहे कल्याणसम्भवम् ।
लक्ष्मीकटाक्षचिह्नानि नष्टराज्यार्थमाप्नुयात् ॥ ३७॥
पुत्रोत्सवादिसन्तोषं गृहे गोधनसंकुलम् ।
गृहक्षेत्रादिलाभं च गजवाजिसमन्वितम् ॥ ३८॥
राजप्रीतिकरं चैव स्त्रीसौख्यं चातिशोभनम् ।
नीचक्षेत्रसमायुक्ते ह्यष्टमे वा व्ययेऽपि वा ॥ ३९॥
पापदृष्टियुते वापि देहपीडा मनोव्यथा ।
उद्योगभङ्गो दशादौ स्वग्रामे धान्यनशनम् ॥ ४०॥
ग्रंथिशस्त्रव्रणादीनां भयं तापज्वरादिकम् ।
दायेशात्केन्द्रगे भौमे त्रिकोणे लाभगेऽपि वा ॥ ४१॥
शुभदृष्टे धनप्राप्तिर्देहसौख्यं भवेनृणाम् ।
पुत्रलाभो यशोवृद्धिर्भ्रातृवर्गो महाप्रियः ॥ ४२॥
दायेशादथ रन्ध्रस्थे व्यये वा पापसंयुते ।
तद्भुक्त्यादौ महाक्लेशो भ्रातृवर्गे महद्भयम् ॥ ४३॥
नृपाग्निचौरभीतिश्च पुत्रमित्रविरोधनम् ।
स्थानभ्रंशो भवेदादौ मध्ये सौख्यं धनागमः ॥ ४४॥
अन्ते तु राजभीतिः स्यात्स्थानभ्रंशोह्यथापिवा ।
द्वितीयद्यूननाथे तु ह्यपमृत्युभयं भवेत् ॥ ४५॥
गोदानं च प्रकुर्वीत मृत्युञ्जयजपं चरेत् ।
शङ्करस्य प्रसादेन ततः सुकह्मवाप्नुयात् ॥ ४६॥
बुधस्यान्तर्गते राहौ केन्द्रलाभत्रिकोणगे ।
कुलीरे कुम्भगे वापि कन्यायां वृषभेपि वा ॥ ४७॥
राजसम्मानकीर्तिं च धनं च प्रभविष्यति ।
पुण्यतीर्थस्थानलाभो देवतादर्शनं तथा ॥ ४८॥
इष्तापूर्ते च महतो मानश्चाम्बरलाभकृत् ।
भुक्त्यादौ देहपीडा च त्वन्ते सौख्यं विनिर्दिशेत् ॥ ४९॥
लग्नाष्टव्ययराशिस्थे तद्भुक्तौ धननाशनम् ।
भुक्त्यादौ देहनाशश्च वातज्वरमजीर्णकृत् ॥ ५०॥
लग्नादुपचये राहौ शुभग्रहसमन्विते ।
राजसंलापसन्तोषो नूतनप्रभुदर्शनम् ॥ ५१॥
दायेशाद्द्वादशे वापि ह्यष्टमे पापसंयुते ।
निष्ठुरं राजकार्याणि स्थानभ्रंशो महद्भयम् ॥ ५२॥
बन्धनं रोगपीडा च निजबन्धुमनोव्यथा ।
हृद्रोगो मानहानिश्च धनहानिर्भविष्यति ॥ ५३॥
द्वितीयसप्तमस्थे वा ह्यपमृत्युर्भविष्यति ।
तद्दोषपरिहारार्थं दुर्गालक्ष्मीजपं चरेत् ॥ ५४॥
श्वेतां गां महिषीं दद्यादायुआरोग्यदायिनीम् ।
जगदम्बाप्रसादेन ततः सुखमवाप्नुयात् ॥ ५५॥
बुधस्यान्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे ।
स्वोच्चे वा स्वर्क्षगे वापि लाभे वा धनराशिगे ॥ ५६॥
देहसौख्यं धनावाप्ती राजप्रीतिस्तथैव च ।
विवाहोत्सवकार्याणि नित्यं मिष्ठान्नभोजनम् ॥ ५७॥
गोमहिष्यादिलाभश्च पुराणस्र्/अवणादिकम् ।
देवतागुरुभक्तिश्च दानधर्ममखादिकम् ॥ ५८॥
यज्ञकर्मप्रवृद्धिश्च शिवपूजाफलं तथा ।
नीचे वास्तंगते वापि षष्ठाष्टव्ययगेऽपि वा ॥ ५९॥
शन्यारदृष्टसंयुक्ते कलहो राजविग्रहः ।
चौरादिदेहपीडा च पितृमातृविनाश्नम् ॥ ६०॥
मानहानि राजदण्डो धनहानिर्भविष्यति ।
विषाहिज्वरपीडा च कृषिभूमिविनाशनम् ॥ ६१॥
दयेशात्केन्द्रकोणे वा लाभे वा बलसंयुते ।
बन्धुपुत्रहृदुत्साहो शुभं च धनसंयुतम् ॥ ६२॥
पशुवृद्धिर्यशोवृद्धिरन्नदानादिकं फलम् ।
दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते ॥ ६३॥
अङ्गतापश्च वैकल्यं देहबाधा भ्विष्यति ।
कलत्रबन्धुवैषम्यं राजकोपो धनक्षयः ॥ ६४॥
अकस्मात्कलहाद्भीतिः प्रमादो द्विजतो भयम् ।
द्वितीयसप्तमस्थे वा देहबाधा भविष्यति ॥ ६५॥
तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् ।
गोभूरिरण्यदानेन सर्वारिष्टं व्यपोहति ॥ ६६॥
सौम्यस्यान्तर्गते मन्दे स्वोच्चे स्वक्षेत्रकेन्द्रगे ।
त्रिकोणलाभगे वापि गृहे कल्याणवर्द्धनम् ॥ ६७॥
राज्यलाभं महोत्साहं गृहं गोधनसंकुलम् ॥ ६८॥
शुभस्थानफलवाप्तिं तीर्थवासं तथादिशेत् ।
अष्टमे वा व्यये मन्दे दायेशाद्वा तथैव च ॥ ६९॥
अरातिदुःखबाहुल्यं दारपुत्रादिपीडनम् ।
बुद्धिभ्रंशो बन्धुनाशः कर्मनाशो मनोरुजः ॥ ७०॥
विदेशगमनं चैव दुःस्वप्नादिप्रदर्शनम् ।
द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥ ७१॥
तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ।
कृष्णां गां महिषीं दद्यादायुरारोग्यवृद्धये ॥ ७२॥
अथ केत्वन्तर्दशाफलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ५९॥
केन्द्रे त्रिकोणलाभे वा केतौ लग्नेशसंयुते ।
भाग्यकर्मसुसम्बन्धे वाहनेशसमन्विते ॥ १॥
तद्भुक्तौ धनधान्यादि चतुष्पाज्जीवलाभकृत् ।
पुत्रदारादिसौख्यं च राजप्रीतिमनोरुजः ॥ २॥
ग्रामभूम्यादिलाभश्च गृहं गोधनसंकुलम् ।
नीचास्तखेटसंयुक्ते ह्यष्टमे व्ययगेऽपि वा ॥ ३॥
हृद्रोगो मानहानिश्च धनधान्यपशुक्षयः ।
दारपुत्रादिपीडा च मनश्चांचल्यमेव च ॥ ४॥
द्वितीयद्यूननाथेन सम्बन्धे तत्र संस्थिते ।
अनारोग्यं महत्कष्टमात्मबन्धुवियोगकृत् ॥ ५॥
दुर्गादेवीजपं कुर्यान्मृत्युञ्जयजपं चरेत् ।
एवं स्वान्तर्गते केतौ ततः सुखमवाप्नुयात् ॥ ६॥
केतोरन्तर्गते शुक्रे स्वोच्चे स्वक्षेत्रसंयुते ।
केन्द्रत्रिकोणलाभे वा राज्यनाथेन संयुते ॥ ७॥
राजप्रीतिं च सौभाग्यं दिशात्स्वाम्बरसंकुलम् ।
तत्काले श्रियमाप्नोति भाग्यकर्मेशसंयुते ॥ ८॥
नष्टराज्यधनप्राप्तिं सुखवाहनसुत्तमम् ।
सेतुस्नानादिकं चैव देवतादर्शनं महत् ॥ ९॥
महाराजप्रसादेन ग्रामभूम्यादिलाभकृत् ।
दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ॥ १०॥
देहारोग्यं शुभं चैव गृहे कल्याणशोभनम् ।
भोजनाम्बरभूषाप्तिरथदोलादिलाभकृत् ॥ ११॥
दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते ।
अकस्मात्कलहं चैव पशुधान्यादिपीडनम् ॥ १२॥
नीचस्थे खेटसंयुक्ते लग्नात्षष्ठाष्टराशिगे ।
स्वबन्धुजनवैषम्यं शिरोक्षिव्रणपीडनम् ॥ १३॥
हृद्रोगं मानहानिं च धनधान्यपशुक्षयम् ।
कलत्रपुत्रपीडायाः सञ्चारं च समादिशेत् ॥ १४॥
द्वितीयद्यूननाथे तु देहजाड्यं मनोरुजम् ।
तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् ।
श्वेतां गां महिषीं दद्यादायुआरोग्यवृद्धये ॥ १५॥
केतोरन्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रगेऽपि वा ।
केन्द्रत्रिकोणलाभे वा शुभयुक्तनिरीक्षिते ॥ १६॥
धनधान्यादिलाभश्च राजानुग्रहवैभवम् ।
अनेकशुभकार्याणि चेष्टसिद्धिः सुखावहा ॥ १७॥
अष्टमव्ययराशिस्थे पापग्रहसमन्विते ।
तद्भुक्तौ राजभीतिश्च पितृमातृवियोगकृत् ॥ १८॥
विदेशगमनं चैव चौराहिविषपीडनम् ।
राजमित्रविरोधश्च राजदण्डाद्धनक्षयः ॥ १९॥
शोकरोगभयं चैव उष्णाधिक्यं ज्वरो भवेत् ।
दायेशात्लेन्द्रकोणे वा लाभे वा धनसंस्थिते ॥ २०॥
देहसौख्यं चार्थलाभ० पुत्रलाभो मनोदृढम् ।
सर्वकार्यार्थसिद्धिः स्यात्स्वल्पग्रामाधिपत्ययुक् ॥ २१॥
दायेशाद्रन्ध्ररिःफे वा स्थिते वा पापसंयुते ।
अन्नविघ्नो मनोबीतिर्धनधान्यपशुक्षयः ॥ २२॥
आदौ मध्ये महाक्लेशानन्ते सौख्यं विनिर्दिशेत् ।
द्वितीयसप्तमाधीशे ह्यपमृत्युर्भविष्यति ॥ २३॥
तस्य शान्तिं प्रकुर्वीत स्वर्णं धेनुं प्रदापयेत् ।
भास्करस्य प्रसादेन ततः सुखमवाप्नुयात् ॥ २४॥
केतोरन्तर्गते चन्द्रे स्वोच्चे स्वक्षेत्रगेऽपि वा ।
केन्द्रत्रिकोणलाभे वा धने शुभसमन्विते ॥ २५॥
राजप्रीतिर्महोत्साहः कल्याणं च महत्सुखम् ।
महाराजप्रसादेन गृहभूम्यादिलाभकृत् ॥ २६॥
भोजनाम्बरपश्वादिव्यवसायेऽधिकं फलम् ।
अश्ववाहनलाभश्च वस्त्रभरणभूषणम् ॥ २७॥
देवालयतडागादिपुण्यधर्मादिसङ्ग्रहम् ।
पुत्रदारादिसौख्यं च पूर्णचन्द्रः प्रयच्छति ॥ २८॥
क्षीणे वा नीचगे चन्द्रे षष्ठाष्टमव्ययराशिगे ।
आत्मसौख्यं मनस्तापं कार्यविघ्नं महद्भयम् ॥ २९॥
पितृमातृवियोगं च देहजाड्यं मनोव्यथाम् ।
व्यवसायात्फलं कष्टं पशुनाशं भयं वदेत् ॥ ३०॥
दायेशात्केन्द्रकोणे वा लाभे वा बलसंयुते ।
कृषिगोभूमिलाभं च इष्टबन्धुसमागमम् ॥ ३१॥
तस्मात्स्वकार्यसिद्धिं च गृहे गोक्षीरमेव च ।
भुक्त्यादौ शुभमारोग्यं मध्ये राजप्रियं शुभम् ॥ ३२॥
अन्ते तु राजभीतिं च विदेशगमनं तथा ।
दूरयात्रादिसञ्चारं सम्बन्धिजनपूजनम् ॥ ३३॥
दायेशात्षष्ठरिःफे वा रन्ध्रे वा बलवर्जिते ।
धनधान्यादिहानिश्च मनोव्यात्कुलमेव च ॥ ३४॥
स्वबन्धुजनवैरं च भ्रातृपीडा तथैव च ।
निधनाधिपदोषेण द्विसप्तपतिसंयुते ॥ ३५॥
अपमृत्युभयं तस्य शान्तिं कुर्याद्यथाविधि ।
चन्द्रप्रीतिकरीं चैव ह्यायुरारोग्यसिद्धये ॥ ३६॥
केतोरन्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे ।
स्वोच्चे स्वक्षेत्रगे वाऽपि शुभग्रहयुतेक्षिते ॥ ३७॥
आदौ शुभफलं चैव ग्रामभूम्यादिलाभकृत् ।
धनधान्यादिलाभश्च चतुष्पाज्जीवलाभकृत् ॥ ३८॥
गृगारामक्षेत्रलाभो राजानुग्रहवैभवम् ।
भाग्ये कर्मेशसम्बन्धे भूलाभः सौख्यमेव च ॥ ३९॥
दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ।
राजप्रीतियशोलाभः पुत्रमित्रादिसौख्यकृत् ॥ ४०॥
तथाऽष्टमव्यये भौमे दायेशाद्धनगेऽपि वा ।
द्रुतं करोति मरणं विदेशे चापदं भ्रमम् ॥ ४१॥
प्रमेहमूत्रकृच्छ्रादिचौरादिनृपपीडनम् ।
कलहादि व्यथायुक्तं किञ्चित्सुखविवर्द्धनम् ॥ ४२॥
द्वितीयद्यूननाथे तु तापज्वरविषाद्भयम् ।
दारपीडा मनःक्लेशमपमृत्युभयं भवेत् ॥ ४३॥
अण्ड्वाहं प्रदद्यात्तु सर्वसम्पत्सुखावहम् ।
ततः शान्तिमवाप्नोति भौमग्रहप्रसादतः ॥ ४४॥
केतोरन्तर्गते राहौ स्वोच्चे मित्रस्वराशिगे ।
केन्द्रत्रिकोणे लाभे वा दुश्चिक्ये धनसंज्ञके ॥ ४५॥
तत्काले धनलाभः स्यात्सञ्चारो भवति ध्रुवम् ।
म्लेच्छप्रभुवशात्सौख्यं धन्धान्यफलादिकम् ॥ ४६॥
चतुष्पाज्जीवलाभः स्याद्ग्रामभूम्यादिलाभकृत् ।
भुक्त्यादौ क्लेशमाप्नोति मध्यान्ते सौख्यमाप्नुयात् ॥ ४७॥
रन्ध्रे वा व्ययगे राहौ पापसंदृष्टसंयुते ।
बहुमूत्रं कृशं दीहं शीतज्वरविषाद्भयम् ॥ ४८॥
चातुर्थिकज्वरं चैव क्षुद्रोपद्रवपीडनम् ।
अकस्मात्कलहं चैव प्रमेहं शूलमादिशेत् ॥ ४९॥
द्वितीयसप्तमस्थे वा तदा क्लेशं महद्भयम् ।
तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् ॥ ५०॥
केतोरन्तर्गते जीवे कन्द्रे लाभे त्रिकोणगे ।
स्वोच्चे स्वक्षेत्रगे वापि लग्नाधिपसमन्विते ॥ ५१॥
कर्मभाग्याधिपैर्युक्ते धनधान्यार्थसम्पदम् ।
राजप्रीतिं तदोत्साहमश्वांदोल्यादिकं दिशेत् ॥ ५२॥
गृहे कल्याणसम्पत्तिं पुत्रलाभं महोत्सवहम् ।
पुण्यतीर्थं महोत्साहं सत्कर्म च सुखावहम् ॥ ५३॥
इष्टदेवप्रसादेन विजयं कार्यलाभकृत् ।
राजसंल्लापकार्याणि नूतनप्रभुदर्शनम् ॥ ५४॥
षष्ठाष्टमव्यये जीवे दायेशान्नीचगेऽपि वा ।
चौराहिव्रणभीतिं च धनधान्यादिनाशनम् ॥ ५५॥
पुत्रदारावियोगं च त्वतीवक्लेशसम्भवम् ।
आदौ सुभफलं चैव अन्ते क्लेशकरं वदेत् ॥ ५६॥
दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ।
शुभयुक्ते नृपप्रीतिर्विचित्राम्बरभूषणम् ॥ ५७॥
दूरदेशप्रयाणं च स्वबन्धुजनपोषणम् ।
भोजनाम्बरपश्वादि भुक्त्यादौ देहपीडनम् ॥ ५८॥
अन्ते तु स्थानचलनमकस्मात्कलहो भवेत् ।
द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥ ५९॥
तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् ।
महामृत्युञ्जयं जाप्यं सर्वोपद्रवनाशनम् ॥ ६०॥
केतोरन्तर्गते मन्दे स्वदशायां तु पीडनम् ।
बन्धोः क्लेशो मनस्तापश्चतुष्पाज्जीवलाभकृत् ॥ ६१॥
राजकार्यकलापेन धननाशो महद्भयम् ।
स्थानाच्च्युतिः प्रवासश्च मार्गे चौरभयं भवेत् ॥ ६२॥
आलस्यं मनसो हानिश्चाष्टमे व्ययराशिगे ।
मीनत्रिकोणगे मन्दे तुलायां स्वर्क्षगेऽपि वा ॥ ६३॥
केन्द्रत्रिकोणलाभे वा दुश्चिक्ये वा शुभांशके ।
शुभदृष्टयुते चैव सर्वकार्यार्थसाधनम् ॥ ६४॥
स्वप्रभोश्च महत्सौख्यं भ्रमणं च सुखावहम् ।
स्वग्रामे सुखसम्पत्तिः स्ववर्गे राजदर्शनम् ॥ ६५॥
दायेशात्षष्ठरिःफे वा अष्टमे पापसंयुते ।
देहतापो मनस्तापः कार्ये विघ्नो महद्भयम् ॥ ६६॥
आलस्यं मानहानिश्च पितृमात्रोर्विनाशनम् ।
द्वितीयद्यूननाथे तु ह्यपमृत्युभयं भवेत् ॥ ६७॥
तद्दोषपैर्हारार्थं तिलहोमं च कारयेत् ।
कृष्णां गां महिषीं दद्यादायुरारोग्यवृद्धये ॥ ६८॥
केतोरन्तर्गते सौम्ये केन्द्रलाभत्रिकोणगे ।
स्वोच्चे स्वक्षेत्रसंयुक्ते राज्यलाभो महत्सुखम् ॥ ६९॥
सत्कथाश्रवणं दानं धर्मसिद्धिः सुखावहा ।
भूलाभः पुत्रलाभश्च शुभगोष्ठीधनागमः ॥ ७०॥
अयत्नाद्धर्मलब्धिश्च विवाहश्च भविष्यति ।
गृहे शुभकरं कर्म वस्त्राभरणभूषणम् ॥ ७१॥
भाग्यकर्माधिपैर्युक्ते भाग्यवृद्धिः सुखावहा ।
विद्वद्गोष्ठीकथाभिश्च कालक्षेपो भविष्यति ॥ ७२॥
षष्ठाष्टमव्यये सौम्ये मन्दाराहियुतेक्षिते ।
विरोधो राजवर्गैश्च परगेहनिवासनम् ॥ ७३॥
वाहनाम्बरपश्वादिधनधान्यादिनाशकृत् ।
भुक्त्यादौ शोभनं प्रोक्तं मध्ये सौख्यं धनागमः ॥ ७४॥
अन्ते क्लेशकरं चैव दारपुत्रादिपीडनम् ।
दायेशात्केन्द्रगे सौम्ये त्रिकोणे लाभगेऽपि वा ॥ ७५॥
देहारोग्यं महांल्लाभः पुत्रकल्याणवैभवम् ।
भोजनाम्बरपश्वादिव्यवसायेऽधिकं फलम् ॥ ७६॥
दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते ।
तद्भुक्त्यादौ महाक्लेशो दारपुत्रादिपीडनम् ॥ ७७॥
राजभीतिकरश्चैव मध्ये तीर्थकरो भवेत् ।
द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥ ७८॥
तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ।
ततः सुखमवाप्नोति श्रीहरेश्च प्रसादतः ॥ ७९॥
अथ शुक्रान्तर्दशाफलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ६०॥
अथ स्वान्तर्गते शुक्रे लग्नात्केन्द्रत्रिकोणगे ।
लाभे वा बलसंयुक्ते तद्भुक्तौ च शुभं फलम् ॥ १॥
विप्रमूलाद्धनप्राप्तिर्गोमहिष्यादिलाभकृत् ।
पुत्रोत्सवादिसन्तोषो गृहे कल्याणसम्भवः ॥ २॥
सन्मानं राजसम्मानं राज्यलाभो महत्सुखम् ।
स्वोच्चे वा स्वर्क्षगे वापि तुङ्गांशे वांशगेऽपि वा ॥ ३॥
नूतनालयनिर्माणं नित्यं मिष्ठान्नभोजनम् ।
कलत्रपुत्रविभवं मित्रसंयुक्तभोजनम् ॥ ४॥
अन्नदानं प्रियं नित्यं दनधर्मादिसङ्ग्रहः ।
महाराजप्रसादेन वाहनाम्बरभूषणम् ॥ ५॥
व्यवसायात्फलाधिक्यं चतुष्पाज्जीवलाभकृत् ।
प्रयाणं पश्चिमे भागे वाहनाम्बरलाभकृत् ॥ ६॥
लग्नाद्युपचये शुक्रे शुभग्रहयुतेक्षिते ।
मित्रांशे तुङ्गलाभेशयोगलारकसंयुते ॥ ७॥
राज्यलाभो महोत्साहो राजप्रीतिः शुभावहा ।
गृहे कल्याणसम्पत्तिर्दारपुत्रादिवर्द्धनम् ॥ ८॥
षष्ठाष्टमव्यये शुक्रे पापयुक्तेऽथ वीक्षिते ।
चौरादिव्रणभीतिश्च सर्वत्र जनपीडनम् ॥ ९॥
राजद्वारे जनद्वेष इष्टबन्धुविनाशनम् ।
दारपुत्रादिपीडा च सर्वत्र जनपीडनम् ॥ १०॥
द्वितीयद्यूननाथे तु स्थिते चेन्मरणं भवेत् ।
तर्त दुर्गाजपं कुर्याद्धनुदानं च कारयेत् ॥ ११॥
शुक्रस्यान्तर्गते सूर्ये सन्तापो राजविग्रहः ।
दायादकलहश्चैव स्वोच्चनीचविवर्जिते ॥ १२॥
(शुक्रस्यान्तर्गते सूर्ये सन्तापो राजभिः कलिः ।
दायादात् कलहश्चैव शुभक्षेत्रात्य राशिगे ॥ १२॥) ।
स्वोच्चे स्वक्षेत्रगे सूर्ये मित्रर्क्षे केन्द्रकोणगे ।
दायेशात्केन्द्रकोणे वा लाभे वा धनगेऽपि वा ॥ १३॥
तद्भुक्तौ धनलाभः स्याद्राज्यस्त्रीधनसम्पदः ।
स्वप्रभोश्च महत्सौख्यमिष्टबन्धोः समागमः ॥ १४॥
पितृमात्रोः सुखप्राप्तिं भ्रातृलाभं सुखावहम् ।
सत्कीर्तिं सुखसौभाग्यं पुत्रलाभं च विन्दति ॥ १५॥
तथाष्टमे व्यये सूर्ये रिपुराशिस्थितेऽपि वा ।
नीचे वा पापवर्गस्थे देहतापो मनोरुजः ॥ १६॥
स्वजनोपरिसंक्लेशो नित्यं निष्ठुरभाषणम् ।
पितृपीडा बन्धुहानी राजद्वारे विरोधकृत् ॥ १७॥
व्रणपीडाहिबाधा च स्वगृहे च भयं तथा ।
नानारोगभयं चैव गृहक्षेत्रादिनाशनम् ॥ १८॥
सप्तमाधिपतौ सूर्ये ग्रहबाधा भविष्यति ।
तद्दोषपरिहारार्थं सूर्यप्रीतिं च कारयेत् ॥ १९॥
शुक्रस्यान्तर्गते चन्द्रे केन्द्रलाभत्रिकोणगे ।
स्वोच्चे स्वक्षेत्रगे चैव भाग्यनाथेनसंयुते ॥ २०॥
शुभयुक्ते पूर्णचन्द्रे राज्यनाथेन संयुते ।
तद्बुक्तौ वाहनादीनां लाभं गेहे महत्सुखम् ॥ २१॥
महाराजप्रसादेन गजान्तैश्वर्यमादिशेत् ।
महानदीस्नानपुण्यं देवब्राह्मणपूजनम् ॥ २२॥
गीतवाद्यप्रसङ्गादिविद्वज्जनविभूषणम् ।
गोमहिष्यादिवृद्धिश्च व्यवसायेऽधिकं फलम् ॥ २३॥
भोजनाम्बरसौख्यं च बन्धुसंयुक्तभोजनम् ।
नीचे वात्सङ्गते वापि षष्ठाष्टमव्ययराशिगे ॥ २४॥
दायेशात्षष्ठगे वापि रन्ध्रे वा व्ययराशिगे ।
तत्काले धननाशः स्यात्सञ्चरेत महद्भयम् ॥ २५॥
देहायासो मनस्तापो राजद्वारे विरोधकृत् ।
विदेशगमनं चैव तीर्थयात्रादिकं फलम् ॥ २६॥
दारपुत्रादि पीडा च निजबन्धुवियोगकृत् ।
दायेशात्केन्द्रलाभस्थे त्रिकोणे सहजेऽपि वा ॥ २७॥
राजप्रीतिकरी चैव देशग्रामाधिपत्यता ।
धैर्यं यशः सुखं कीर्तिर्वाहनाम्बरभूषणम् ॥ २८॥
कूपारामतडागदिनिर्माणं धनसङ्ग्रहः ।
भुक्तयादौ देहसौख्यं स्यादन्ते क्लेशस्तथा भवेत् ॥ २९॥
शुक्रस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे ।
स्वोच्चे वा स्वर्क्षगे भौमे लाभे वा बलसंयुते ॥ ३०॥
लग्नाधिपेन संयुक्ते कर्मभाग्येशसंयुते ।
तद्भुक्तौ राजयोगादिसम्पदं शोभनां वदेत् ॥ ३१॥
वस्त्राभरणभूम्यादेरिष्टसिद्धिः सुखावहा ।
तथाऽष्टमे व्यये वाऽपि दायेशाद्वा तथैव च ॥ ३२॥
शीतज्वरादिपीडा च पितृमातृभयावहा ।
ज्वराद्यधिकरोगाश्च स्थानभ्रंशो मनोरुजा ॥ ३३॥
स्वबन्धुजनहानिश्च कलहो राजविग्रहः ।
राजद्वारजनद्वेषो धनधान्यव्ययोऽधिकः ॥ ३४॥
व्यवसायात्फलं नेष्टं ग्रामभूम्यादिहानिकृत् ।
द्वितीयद्यूननाथे तु देहवाधा भविष्यति ॥ ३५॥
शुक्रस्यान्तर्गते राहौ केन्द्रलाभत्रिकोणगे ।
स्वोच्चे वा शुभसंदृष्टे योगकारकसंयुते ॥ ३६॥
तद्भुक्तौ बहुसौख्यं च धनधान्यादिलाभकृत् ।
इष्टबन्धुसमाकीर्णं भवनं च समादिशेत् ॥ ३७॥
यातुः कार्यार्थसिद्धिः स्यात् पशुक्षेत्रादिसम्भवः ।
लग्नाद्युपचये राहौ तद्भुक्तिः सुखदा भवेत् ॥ ३८॥
शत्रुनाशो महोत्साहो राजप्रीतिकरी शुभा ।
भुक्त्यादौ शरमासांश्च अन्ते ज्वरमजीर्णकृत् ॥ ३९॥
कार्यविघ्नमवाप्नोति सञ्चरे च मनोव्यथा ।
परं सुखं च सौभाग्यं महाराज इवाऽश्नुते ॥ ४०॥
नैरृतीं दिशमाश्रित्य प्रयाणं प्रभुदर्शनम् ।
यातुः कार्यार्थसिद्धिः स्यात्स्वदेशे पुनरेष्यति ॥ ४१॥
उपकारो ब्राह्मणानां तीर्थयात्राफलं भवेत् ।
दायेशाद्रन्ध्रभावस्थे व्यये वा पापसंयुते ॥ ४२॥
अशुभं लभते कर्म पितृमातृजनावधि ।
सर्वत्र जनविद्वेषं नानारूपं द्विजोत्तम ॥ ४३॥
द्वितीये सप्तमे वापि देहालस्य विनिर्दिशेत् ।
तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ॥ ४४॥
शुक्रस्यान्तर्गते जीवे स्वोच्चे स्वक्षेत्रकेन्द्रगे ।
दायेशाच्छुभराशिस्थे भाग्ये वा पुत्रराशिगे ॥ ४५॥
नष्टराज्याद्धनप्राप्तिमिष्टार्थाम्बरसम्पदम् ।
मित्रप्रभोश्च सन्मानं धनधान्यं लभेन्नरः ॥ ४६॥
राजसम्मानकीर्तिं च अश्वान्दोलादिलाभकृत् ।
विद्वत्प्रभुसमाकीर्णं शास्त्रापरिश्रमम् ॥ ४७॥
पुत्रोत्सवादिसन्तोषमिष्टबन्धुसमागमम् ।
पितृमातृसुखप्राप्तिं पुत्रादिसौख्यमादिशेत् ॥ ४८॥
दायेशात्षष्ठराशिस्थे व्यये वा पापसंयुते ।
राजचौरादिपीडा च देहपीडा भविष्यति ॥ ४९॥
आत्मरुग्बन्धुकष्टं स्यात्कलहेन मनोव्यथा ।
स्थानच्युतिं प्रवासं च नानारोगं समाप्नुयात् ॥ ५०॥
द्वितीयसप्तमाधीशे देहबाधा भविष्यति ।
तद्दोषपरिहारार्थं महामृत्युञ्जयं चरेत् ॥ ५१॥
शुक्रस्यान्तर्गते मन्दे स्वोच्चे तु परमोच्चगे ।
स्वर्क्षकेन्द्रत्रिकोणस्थे तुङ्गांशे स्वांशगेऽपि वा ॥ ५२॥
तद्भुक्तौ बहुसौख्यं स्यादिष्टबन्धुसमागमः ।
राजद्वारे च सम्मानं पुत्रिकाजन्मसम्भवः ॥ ५३॥
पुण्यतीर्थफलवाप्तिर्दानधर्मादिपुण्यकृत् ।
स्वप्रभोश्च पदावाप्तिः नीचस्थे क्लेशभाग्यभवेत् ॥ ५४॥
देहालस्यमवाप्नोति तथाऽयादधिकव्ययम् ।
तथाष्टमे व्यये मन्दे दायेशाद्वा तथैव च ॥ ५५॥
भुक्त्यादौ विविधा पीडा पितृमातृजनावधि ।
दारपुत्रादिपीडा च परदेशादिविभ्रमः ॥ ५६॥
व्यवसायात्फलं नष्टं गोमहिष्यादिहानिकृत् ।
द्वितीयसप्तमाधीशे देहबाधा भविष्यति ॥ ५७॥
तद्दोषपरिहारार्थं तिलहोमं च कारयेत् ।
मृत्युञ्जयजपं कुर्याच्चण्डीपाठमाथपि वा ॥ ५८॥
स्वयं वा ब्राह्मणद्वारा यथाशक्ति यथाविधि ।
ततः शान्तिमवाप्नोति शिवाशम्भुप्रसादतः ॥ ५९॥
शुक्रस्यान्तर्गते सौम्ये केन्द्रे लाभत्रिकोणगे ।
स्वोच्चे वा स्वर्क्षगे वापि राजप्रीतिकरं शुभम् ॥ ६०॥
सौभाग्यं पुत्रलाभश्च सन्मार्गेण धनागमः ।
पुराणधर्मश्रवणं शृङ्गारिजनसंगमः ॥ ६१॥
इष्टबन्धुजनाकीर्णं शोभितं तस्य मन्दिरम् ।
स्वप्रभोश्च महत्सौख्यं नित्यं मिष्ठान्नभोजनम् ॥ ६२॥
दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते ।
पापदृष्टे पापयुक्ते चतुष्पाज्जीवहानिकृत् ॥ ६३॥
अन्यालयनिवासश्च मनोवैकल्यसम्भवः ।
व्यापारेषु च सर्वेषु हानिरेव न संशयः ॥ ६४॥
भुक्त्यादौ शोभनं प्रोक्तं मध्ये मध्यफलं दिशेत् ।
अन्ते क्लेशकरं चैव शीतवातज्वरादिकम् ॥ ६५॥
सप्तमाधीशदोषेण देहपीडा भविष्यति ।
तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ॥ ६६॥
शुक्रस्यान्तर्गते केतौ स्वोच्चे वा स्वर्क्षगेऽपि वा ।
योगकारकसम्बन्धे स्थानवीर्यसमन्विते ॥ ६७॥
भुक्त्यादौ शुभमाधिक्यान्नित्यं मिष्ठान्नभोजनम् ।
व्यवसायात्फलाधिक्यं गोमहोष्यादिवृद्धिकृत् ॥ ६८॥
धनधान्यसमृद्धिश्च संग्रामे विजयो भवेत् ।
भुक्त्यन्ते हि सुखं चैव भुक्त्यादौ मध्यमं फलम् ॥ ६९॥
मध्ये मध्ये महत्कष्टं पश्चादारोग्यमादिशेत् ।
दायेशाद्रन्ध्रभावस्थे व्यये वा पापसंयुते ॥ ७०॥
चौराहिव्रणपीडा च बुद्धिनाशो महद्भयम् ।
शिरोरुजं मनस्तापमकर्मकलहं वदेत् ॥ ७१॥
प्रमेहभवरोगं च नानामार्गे धनव्ययः ।
भार्यापुत्रविरोधश्च गमनं कार्यनाशनम् ॥ ७२॥
द्वितीयद्यूननाथे तु देहबाधा भविष्यति ।
तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ॥ ७३॥
छागदानं प्रकुर्वीत सर्वसम्पत्प्रदायकम् ।
शुक्रप्रीतिकरीं शान्तिं ततः सुखमवाप्नुयात् ॥ ७४॥
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.