बृहत्पाराशरहोराशास्त्रम् १-१०
॥ ॐ ॥
श्रीगणेशाय नमः ॥
अथ बृहत्पाराशरहोराशास्त्रम् ॥
गजाननं भूतगणादिसेवितं कपित्थजम्बूफलसारभक्षणम् ।
उमासुतं शोकविनाशकारणं नमामि विघ्नेश्वरपादपङ्कजम् ॥
सृष्टिक्रमकथनाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ १॥
अथैकदा मुनिश्रेष्ठं त्रिकलज्ञं पराशरम् ।
पप्रच्छोपेत्य मैत्रेयः प्रणिपत्य कृताञ्जलिः ॥ १॥
भगवन् परमं पुण्यं गुह्यं वेदाङ्गमुत्तमम् ।
त्रिस्कन्धं ज्यौतिषं होरा गणितं संहितेति च ॥ २॥
एतेष्वपि त्रिषु श्रेष्ठा होरेति श्रूयते मुने ।
त्वत्तस्तां श्रोतुमिच्छामि कृपया वद मे प्रभो ॥ ३॥
कथं सृष्टिरियं जाता जगतश्च लयः कथम् ।
खस्थानां भूस्थतानां च सम्बन्धं वद विस्तरात् ॥ ४॥
साधु पृष्टं त्वया विप्र लोकानुग्रहकारिणा ।
अथाहं परमं ब्रह्म तच्छक्तिं भारतीं पुनः ॥ ५॥
सूर्य नत्वा ग्रहपतिं जगदुत्पत्तिकारणम् ।
वक्ष्यामि वेदनयनं यथा ब्रह्ममुखाच्छ्रुतम् ॥ ६॥
शान्ताय गुरुभक्ताय सर्वदा सत्यवादिने ।
आस्तिकाय प्रदातव्यं ततः श्रेयो ह्यवाप्स्यति ॥ ७॥
न देयं परशिष्याय नास्तिकाय शठाय वा ।
दत्ते प्रतिदिनं दुःखं जायते नात्र संशयः ॥ ८॥
एकोऽव्यक्तात्मको विष्णुरनादिः प्रभुरीश्वरः ।
शुद्धसत्वो जगत्स्वामी निर्गुणस्त्रिगुणान्वितः ॥ ९॥
संसारकारकः श्रीमान्निमित्तात्मा प्रतापवान् ।
एकांशेन जगत्सर्व सृजत्यवति लीलया ॥ १०॥
त्रिपादं तस्य देवस्य ह्यमृतं तत्त्वदर्शिनः ।
विदन्ति तत्प्रमाणं च सप्रधानं तथैकपात् ॥ ११॥
व्यक्ताव्यक्तात्मको विष्णुर्वासुदेवस्तु गीयते ।
यदव्यक्तात्मको विष्णुः शक्तितद्वयसमन्वितः ॥ १२॥
व्यक्तात्मकस्त्रिभिर्युक्तः कथ्यतेऽनन्तशक्तिमान् ।
सत्त्वप्रधाना श्रीशक्तिर्भूशक्तिश्च रजोगुणा ॥ १३॥
शक्तिस्तृतीया या प्राक्ता नीलाख्या ध्वान्तरूपिणी ।
वासुदेवश्चतुर्थोऽभूच्छ्रीशक्त्या प्रेरितो यदा ॥ १४॥
सङ्कर्षणश्च प्रद्युम्नोऽनिरुद्ध इति मूर्तिधृक् ।
तमःशक्त्याऽन्विता विष्णुर्देवः सङ्कर्षणाभिधः ॥ १५॥
प्रद्युम्नो रजसा शक्त्याऽनिरुद्धः सत्त्वया युतः ।
महान् सङ्कर्षणाज्जातः प्रद्युम्नाद्यदहङ्कृतिः ॥ १६॥
अनिरुद्धात् स्वयं जातो ब्रह्माहङ्काकमूर्तिधृक् ।
सर्वेषु सर्वशक्तिश्च स्वशक्त्याऽधिकया युतः ॥ १७॥
अहङ्कारस्त्रिध भूत्वा सर्वमेतद्विस्तरात् ।
सात्त्विको राजसश्चैव तामसश्चेदहङ्कृतिः ॥ १८॥
देवा वैकारिकाज्जातास्तैजसादिन्द्रियाणि च ।
तामसच्चैवभू तानि खादीनि स्वस्वशक्तिभिः ॥ १९॥
श्रीशक्त्या सहितो विष्णुः सदा पाति जगत्त्रयम् ।
भूशक्त्या सृजते ब्रह्मा नीलशक्त्या शिवोऽत्ति हि ॥ २०॥
सर्वेषु चैव जीवेषु परमात्मा विराजते ।
सर्वं हि तदिदं ब्रह्मन् स्थितं हि परमात्मनि ॥ २१॥
सर्वेषु चैव जीवेषु स्थितंह्यंशद्वयं क्वचित् ।
जीवांशो ह्यधिकस्तद्वत् परमात्मांशकः किल ॥ २२॥
सूर्यादयो ग्रहाः सर्वे ब्रह्मकामद्विषादयः ।
एते चान्ये च बहवः परमात्मांशकाधिकाः ॥ २३॥
शक्तयश्च तथैतेषामधिकांशाः श्रियादयः ।
स्वस्वशक्तिषु चान्यासु ज्ञेया जीवांशकाधिकाः ॥ २४॥
अथावतारकथनाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ २॥
रामकृष्णादयो ये च ह्यवतारा रमापतेः ।
तेऽपि जीवांशसंयुक्ताः किंवा ब्रूहि मुनीश्वर ॥ १॥
रामः कृष्णश्च भो विप्र नृसिंहः सूकरस्तथा ।
एते पूर्णावताराश्च ह्यन्ये जीवांशकान्विताः ॥ २॥
अवताराण्यनेकानि ह्यजस्य परमात्मनः ।
जीवानां कर्मफलदो ग्रहरूपी जनार्दनः ॥ ३॥
दैत्यानां बलनाशाय देवानां बलवृद्धये ।
धर्मसंस्तापनार्थाय ग्रहाज्जाताः शुभाः क्रमात् ॥ ४॥
रामोऽवतारः सूर्यस्य चन्द्रस्य यदुनायकः ।
नृसिंहो भूमिपुत्रस्य बुद्धः सोमसुतस्य च ॥ ५॥
वामनो विबुधेज्यस्य भार्गवो भार्गवस्य च ।
कूर्मो भास्करपुत्रस्य सैंहिकेयस्य सूकरः ॥ ६॥
केतोर्मीनावतारश्च ये चान्ये तेऽपि खेटजाः ।
परात्मांशोऽधिको येषु ते सर्वे खेचराभिधाः ॥ ७॥
जीवांशोह्यधिको येषु जीवास्ते वै प्रकीर्तिताः ।
सूर्यादिभो ग्रहेभ्यश्च परमात्मांशनिःसृताः ॥ ८॥
रामकृष्णादयः सर्व ह्यवतारा भवन्ति वै ।
तत्रैव ते विलीयन्ते पुनः कार्योत्तर सदा ॥ ९॥
जीवांशनिःसृतास्तेषां तेभ्यो जाता नरादयः ।
तेऽपि तत्रैव लीयन्ते तेऽव्यक्ते समयन्ति हि ॥ १०॥
इदं ते कथितं विप्र सर्वं यस्मिन् भवेदिति ।
भूतान्यपि भविष्यन्ति तत्तज्जातन्ति तद्विदः ॥ ११॥
विना तज्ज्यैतिषं नान्यो ज्ञातुं शक्नोति कर्हिचित् ।
तत्मादवश्यमध्येयं ब्राह्मणेश्च विशेषतः ॥ १२॥
यो नरः शास्त्रमज्ञात्वा ज्यौतिषं खलु निन्दति ।
रौरवं नरकं भुक्त्वा चान्धत्वं चान्यजन्मनि ॥ १३॥
अथ ग्रहगुणस्वरूपाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ३॥
कथितं भवता प्रेम्णा ग्रहावतरणं मुने ।
तेषां गुणस्वरूपाद्यं कृपया कथ्यतां पुनः ॥ १॥
शृणु विप्र प्रवक्ष्यामि भग्रहाणां परिस्थितिम् ।
आकाशे यानि दृश्यन्ते ज्योतिर्बिम्बान्यनेकशः ॥ २॥
तेषु नक्षत्रसञ्ज्ञानि ग्रहसञ्ज्ञानि कानिचित् ।
तानि नक्षत्रनामानि स्थिरस्थानानि यानि वै ॥ ३॥
गच्छन्तो भानि गृह्णन्ति सततं ये तु ते ग्रहाः ।
भचक्रस्य नगाश्व्यंशा अश्विन्यादिसमाह्वयाः ॥ ४॥
तद्द्वादशविभागास्तु तुल्या मेषादिसञ्ज्ञकाः ।
प्रसिद्धा राशयः सन्ति ग्रहास्त्वर्कादिसञ्ज्ञकाः ॥ ५॥
राशीनामुदयो लग्नं तद्वशादेव जन्मिनाम् ।
ग्रहयोगवियोगाभ्यां फलं चिन्त्यं शुभाशुभम् ॥ ६॥
सञ्ज्ञा नक्षत्रवृन्दानां ज्ञेयाः सामान्यशास्त्रतः ।
एतच्छास्त्रानुसारेण राशिखेटफलं ब्रुवे ॥ ७॥
यस्मिन् काले यतः खेटा यान्ति दृग्गणितैकताम् ।
तत एव स्फुटाः कार्याः दिक्कालौ च स्फुटौ विदा ॥ ८॥
स्वस्वदेशोद्भवैः साध्यं लग्नं राश्युदयैः स्फुटम् ।
अथादौ वच्मि खेटानां जातिरूपगुणानहम् ॥ ९॥
अथ खेटा रविश्चन्द्रो मङ्गलश्च बुधस्तथा ।
गुरुः शुक्रः शनी राहुः केतुश्चैते यथाक्रमम् ॥ १०॥
तत्रार्कशनिभूपुत्राः क्षीणेन्दुराहुकेतवः ।
क्रूराः शेषग्रहा सौम्याः क्रूरः क्रूरयुतो बुधः ॥ ११॥
सर्वात्मा च दिवानाथो मनः कुमुदबान्धवः ।
सत्त्वं कुजो बुधैः प्रोक्तो बुधो वाणीप्रदायकः ॥ १२॥
देवेज्यो ज्ञानसुखदो भृगुर्वीर्यप्रदयकः ।
ऋषिभिः प्राक्तनैः प्रोक्तश्छायासूनुश्च दुःखदः ॥ १३॥
रविचन्द्रौ तु राजानौ नेता ज्ञेयो धरात्मजः ।
बुधो राजकुमारश्च सचिवौ गुरुभार्गवौ ॥ १४॥
प्रेष्यको रविपुत्रश्च सेना स्वर्भानुपुच्छकौ ।
एवं क्रमेण वै विप्र सूर्यादीन् प्रविचिन्तयेत् ॥ १५॥
रक्तश्यामो दिवाधीशो गौरगात्रो निशाकरः ।
नात्युच्चाङ्गः कुजो रक्तो दूर्वाश्यामो बुधस्तथा ॥ १६॥
गौरगात्रो गुरुर्ज्ञेयः शुक्रः श्यावस्तथैव च ।
कृष्णदेहो रवेः पुत्रो ज्ञायते द्विजसत्तम ॥ १७॥
वह्न्यम्बुशिखिजा विष्णुविढौजः शचिका द्विज ।
सूर्यादीनां खगानां च देवा ज्ञेयाः क्रमेण च ॥ १८॥
क्लीवौ द्वौ सौम्यसौरी च युवतीन्दुभृगू द्विज ।
नराः शेषाश्च विज्ञेया भानुर्भौमो गुरुस्तथा ॥ १९॥
अग्निभूमिनभस्तोयवायवः क्रमतो द्विज ।
भौमादीनां ग्रहाणां च तत्त्वानीति यथाक्रमम् ॥ २०॥
गुरुशुक्रौ विप्रवर्णौ कुजार्कौ क्षत्रियौ द्विज ।
शशिसोम्यौ वैश्यवर्णौ शनिः शूद्रो द्विजोत्तम् ॥ २१॥
जीवसूर्येन्द्रवः सत्त्वं बुधशुक्रौ रजस्तथा ।
सूर्यपुत्रभरापुत्रौ तमःप्रकृतिकौ द्विज ॥ २२॥
मधुपिङ्गलदृक्सूर्यश्चतुरस्रः शुचिर्द्विज ।
पित्तप्रकृतिको धीमान् पुमानल्पकचो द्विज ॥ २३॥
बहुवातकफः प्राज्ञश्चन्द्रो वृत्ततनुर्द्विज ।
शुभदृङ्मधुवाक्यश्च चञ्चलो मदनातुरः ॥ २४॥
क्रूरो रक्तेक्षणो भौमश्चपलोदारमूर्तिकः ।
पित्तप्रकृतिकः क्रोधी कृशमध्यतनुर्द्विज ॥ २५॥
वपुःश्रेष्ठः श्लिष्टवाक्च ह्यतिहास्यरुचिर्बुधः ।
पित्तवान् कफवान् विप्र मारुतप्रकृतिस्तथा ॥ २६॥
बृहद्गात्रो गुरुश्चैव पिङ्गलो मूर्द्धजेक्षणे ।
कफप्रकृतिको धीमान् सर्वशास्त्रविशारदः ॥ २७॥
सुखि कान्तवपु श्रेष्ठः सुलोचनो भृगोः सुतः ।
काव्यकर्ता कफाधिक्योऽनिलात्मा वक्रमूर्धजः ॥ २८॥
कृश्दीर्घतनुः शौरिः पिङ्गदृष्ट्यनिलात्मकः ।
स्थूलदन्तोऽलसः पङ्गुः खररोमकचो द्विज ॥ २९॥
धूम्राकारो नीलतनुर्वनस्थोऽपि भयङ्करः ।
वातप्रकृतिको धीमान् स्वर्भानुस्तत्समः शिखी ॥ ३०॥
अस्थि रक्तस्तथा मज्जा त्वग् वसा वीर्यमेव च ।
स्नायुरेषामधीशाश्च क्रमात् सूर्यादयो द्विज ॥ ३१॥
देवालयजलं वह्निक्रीडादीनां तथैव च ।
कोशशय्योत्कराणान्तु नाथां सूर्यादयः क्रमात् ॥ ३२॥
अयनक्षणवारर्तुमासपक्षसमा द्विज ।
सूर्यादीनां क्रमाज्ज्ञेया निर्विशङ्कं द्विजोत्तम ॥ ३३॥
कटुक्षारतिक्तमिश्रमधुराम्लकषायकाः ।
क्रमेण सर्वे विज्ञेयाः सूर्यादीनां रसा इति ॥ ३४॥
बुधेज्यौ बलिनौ पूर्वे रविभौमौ च दक्षिणे ।
पश्चिमे सूर्यपुत्रश्च सितचन्द्रौ तथोत्तरे ॥ ३५॥
निशायां बलिनश्चन्द्रकुजसौरा भवन्ति हि ।
सर्वदा ज्ञो बली ज्ञेयो दिने शेषा द्विजोत्तम ॥ ३६॥
कृष्णे च बलिनः क्रूराः सौम्या वीर्ययुताः सिते ।
सौम्यायने सौम्यखेटो बली याम्यायनेऽपरः ॥ ३७॥
वर्षमासाहहोराणां पतयो बलिनस्तथा ।
शमम्बुगुशुचंराद्या वृद्धितो वीर्यवत्तरः ॥ ३८॥
सूर्ये जनयति स्थूलान् दुर्भगान् सूर्यपुत्रकः ।
क्षीरोपेतांस्तथा चन्द्रः कटुकाद्यान् धरासुतः ॥ ३९॥
पुष्पवृक्षं भृगोः पुत्रो गुरुज्ञौ सफलाफलौ ।
नीरसान् सूर्यपुत्रश्च एवं ज्ञेयाः खगा द्विज ॥ ४०॥
राहुश्चाण्डालजातिश्च केतुर्जात्यन्तरस्तथा ।
शिखिस्वर्भानुमन्दानां वल्मीकः स्थानमुच्यते ॥ ४१॥
चित्रकन्था फनीन्द्रस्य केतुश्छिद्रयुतो द्विज! ।
सीसं रहोर्नीलमणिः केतोर्ज्ञेयो द्विजोत्तम ॥ ४२॥
गुरोः पीताम्बरं विप्र भृगोः क्षौमं तथैव च ।
रक्तक्षौमं भास्करस्य इन्दोः क्षौमं सितं द्विज ॥ ४३॥
बुधस्य कृष्णक्षौमं तु रक्तवस्त्रं कुजस्य च ।
वस्त्रं चित्रं शनेर्विप्र पट्टवस्त्रं तथैव च ॥ ४४॥
भृगोरृतुर्वसन्तश्च कुजभान्वोश्च ग्रीष्मकः ।
चन्द्रस्य वर्षा विज्ञेया शरच्चैव तथा विदः ॥ ४५॥
हेमन्तोऽपि गुरोर्ज्ञेयः शनेस्तु शिशिरो द्विज ।
अष्टौ मासाश्च स्वर्भानोः केतोर्मासत्रयं द्विज ॥ ४६॥
राह्वारपङ्गुचन्द्रश्च विज्ञेया धातुखेचराः ।
मूलग्रहौ सूर्यशुक्रौ अपरा जीवसञ्ज्ञकाः ॥ ४७॥
ग्रहेषु मन्दो वृद्धोऽस्ति आयुर्वृद्धिप्रदायकः ।
नैसर्गिके बहुसमान् ददाति द्विजसत्तम ॥ ४८॥
मेषो वृषो मृगः कन्या कर्को मीनस्तथा तुला ।
सूर्यादीनां क्रमादेते कथिता उच्चराशयः ॥ ४९॥
भागा दश त्रयोऽष्टाश्व्यस्तिथ्योऽक्षा भमिता नखाः ।
उच्चात् सप्तमभं नीचं तैरेवांशैः प्रकीर्तितम् ॥ ५०॥
रवेः सिम्हे नखांशाश्च त्रिकोणमपरे स्वभम् ।
उच्चमिन्दोर्वृषे त्र्यंशास्त्रिकोणमपरेंऽशकाः ॥ ५१॥
मेषेऽर्कांशास्तु भौमस्य त्रिकोणमपरे स्वभम् ।
उच्चं बुधस्य कन्यायामुक्तं पञ्चदशांशकाः ॥ ५२॥
ततः पञ्चांशकाः प्रोक्तं त्रिकोणमपरे स्वभम् ।
चापे दशांशा जीवस्य त्रिकोणमपरे स्वभम् ॥ ५३॥
तुले शुक्रस्य तिथ्यंशास्त्रिकोणमपरे स्वभम् ।
शनेः कुम्भे नखांशाश्च त्रिकोणमपरे स्वभम् ॥ ५४॥
त्रिकोणात् स्वात्सुखस्वाऽन्त्यधीधर्मायुःस्वतुङ्गपाः ।
सुहृदो रिपवश्वान्वे समाश्चोभयलक्षणाः ॥ ५५॥
दशबन्ध्वायसहजस्वान्त्यस्थास्तु परस्परम् ।
तत्काले मित्रतां यान्ति रिपवोऽन्यत्र संस्थिताः ॥ ५६॥
तत्काले च निसर्गे च मित्रं चेदधिमित्रकम् ।
मित्रं मित्रसमत्वे तु शत्रुः शत्रुसमत्वके ॥ ५७॥
समो मित्ररिपुत्वे तु शत्रुत्वे त्वधिशत्रुता ।
एवं विविच्य दैवज्ञो जातकस्य फलं वदेत् ॥ ५८॥
स्वोच्चे शुभं फलं पूर्ण त्रिकोणे पादवर्जितम् ।
स्वर्क्षेऽर्धं मित्रगेहे तु पादमात्रं प्रकीर्तितम् ॥ ५९॥
पादार्धं समभे प्रोक्तं शून्यं नीचास्तशत्रुभे ।
तद्वद्दुष्टफलं ब्रूयद् व्यत्ययेन विचक्षणः ॥ ६०॥
त्र्यंशाढ्यविश्वभागैश्च चतुर्भैः सहितो रविः ।
धूमो नाम महादोषः सर्वकर्मविनाशकः ॥ ६१॥
धूमो मण्डलतः शुद्धो व्यतीपातोऽत्र दोषदः ।
सषद्भोऽत्र व्यतीपातः परिवेषोऽतिदोषकृत् ॥ ६२॥
परिवेषश्च्युतश्चक्रादिन्द्रचापस्तु दोषदः ।
वित्र्यंशास्यष्टिभागाढ्यश्चापः केतुखगोऽशुभः ॥ ६३॥
एकराशियुतः केतुः सूर्यतुल्यः प्रजायते ।
अप्रकाशग्रहाश्चैते पापा दोषप्रदाः स्मृताः ॥ ६४॥
सूर्येन्दुलग्नगेष्वेषु वंशायुर्ज्ञाननाशनम् ।
इति धूमादिदोषाणां स्थितिः पद्मासनोदिता ॥ ६५॥
रविवारादिशन्यन्तं गुलिकादि निरूप्यते ।
दिवसानष्टधा भक्त्वा वारेशाद् गणेयत् क्रमात् ॥ ६६॥
अष्ट्मोंऽशो निरीशः स्याच्छन्यंशो गुलिकःस्मृतः ।
रात्रिमप्यष्टधा कृत्वा वारेशात् पञ्चमादितः ॥ ६७॥
गणयेदष्टमः खण्डो निष्यतिः परिकीर्तितः ।
श्न्यंशो गुलिकः प्रोक्तो रव्यंशः कालसञ्ज्ञकः ॥ ६८॥
भौमांशो मृत्युरादिष्टो गुर्वंशो यमघण्ट्कः ।
सोम्यांशोऽर्धप्रहरकः स्वस्वदेशोद्भवः स्फुटः ॥ ६९॥
गुलिकेष्टवशाल्लग्नं स्फुटं यत् स्वस्वदेशजम् ।
गुलिकं प्रोच्यते तस्माज्जातकस्य फलं वदेत् ॥ ७०॥
भांशपादसमैः प्राणैश्चराद्यर्कत्रिकोणभात् ।
उदयादिष्टकालान्तं यद्भं प्राणपदं हि तत् ॥ ७१॥
स्वेष्टकालं पलीकृत्य तिथ्याप्तं भादिकं च यत् ।
चरागद्विभसंस्थेऽर्के भानौ युङ् नवमे सुते ॥ ७२॥
स्फुटं प्राणपदाख्यं तल्लग्नं ज्ञेयं द्विजोत्तम ।
लग्नाद् द्विकोणे तुर्ये च राज्ये प्राणपदं तदा ॥ ७३॥
शुभं जन्म विजानीयात्तथैवैकादशेऽपि च ।
अन्यस्थाने स्थितं चेत् स्यात् तदा जन्माशुभं वदेत् ॥ ७४॥
अथ राशिस्वरूपाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ४॥
अहोरात्रस्य पूर्वान्त्यलोपाद् होराऽवशिष्यते ।
तस्य विज्ञानमात्रेण जातकर्मफलं वदेत् ॥ १॥
यदव्यक्तात्मको विष्णुः कालरूपो जनार्दनः ।
तस्याङ्गानि निबोध त्वं क्रमान्मेषादिराश्यः ॥ २॥
मेषो वृषश्च मिथुनः कर्कसिंहकुमारिकाः ।
तुलालिऽश्च धनुर्नक्रे कुम्भो मीनस्ततः परम् ॥ ३॥
शीर्षानने तथा बाहू हृत्क्रोडकटिबस्तयः ।
गुह्योरुयुगले जानुयुग्मे वै जङ्घके तथा ॥ ४॥
चरनौ द्वौ तथा मेषात् ज्ञेयाः शीर्षादयः क्रमात् ।
चरस्थिरद्विस्वभावाः क्रूराक्रूरौ नरस्त्रियौ ॥ ५॥
पित्तानिलत्रिधात्वौक्यश्लेष्मिकाश्च क्रियादयः ।
रक्तवर्णो बृहद्गात्रश्चतुष्पाद्रात्रिविक्रमी ॥ ६॥
पूर्ववासी नृपज्ञातिः शैलचारी रजोगुणी ।
पृष्ठोदयी पावकी च मेषराशिः कुजाधिपः ॥ ७॥
श्वेतः शुक्राधिपो दीर्घश्चतुष्पाच्छर्वरीबली ।
याम्येट् ग्राम्यो वणिग्भूमिरजः पृष्ठोदयो वृषः ॥ ८॥
शीर्षोदयी नृमिथुनं सगदं च सवीणकम् ।
प्रत्यग्वायुर्द्विपाद्रात्रिबली ग्रामव्रजोऽनिली ॥ ९॥
समगात्रो हरिद्विर्णो मिथुनाख्यो बुधाधिपः ।
पाटलो वनचारी च ब्राह्मणो निशि वीर्यवान् ॥ १०॥
बहुपादचरः स्थौल्यतनुः सत्त्वगुणी जली ।
पृष्ठोदयी कर्कराशिर्मृगाङ्काऽधिपतिः स्मृतः ॥ ११॥
सिंहः सूर्याधिपः सत्त्वी चतुष्पात् क्षत्रियो वनी ।
शीर्षोदयी बृहद्गात्रःपाण्डुः पूर्वेड् द्युवीर्यवान् ॥ १२॥
पार्वतीयाथ कन्याख्या राशिर्दिनबलान्विता ।
शीर्षोदया च मध्याङ्गा द्विपाद्याम्यचरा च सा ॥ १३॥
सा सस्यदहना वैश्या चित्रवर्णा प्रभञ्जिनी ।
कुमारी तमसा युक्ता बालभावा बुधाधिपा ॥ १४॥
शीर्षोदयी द्युवीर्याढ्यस्तुलः कृष्णो रजोगुणी ।
पश्चिमो भूचरो घाती शूद्रो मध्यतनुर्द्विपात् ॥ १५॥
शुक्राऽधिपोऽथ स्वल्पाङ्गो बहुपाद्ब्राह्मणो बिली ।
सौम्यस्थो दिनवीर्याढ्यः पिशङ्गो जलभूवहः ॥ १६॥
रोमस्वाढ्योऽतितीक्ष्णाग्रो वृश्चिकश्च कुजाधिपः ।
पृष्ठोदयी त्वथ धनुर्गुरुस्वामी च सात्त्विकः ॥ १७॥
पिङ्गलो निशिवीर्याढ्यः पावकः क्षत्रियो द्विपात् ।
आदावन्ते चतुष्पादः समगात्रो धनुर्धरः ॥ १८॥
पूर्वस्थो वसुधाचारी तेजस्वी ब्रह्मणा कृतः ।
मन्दाधिपस्तमी भौमी याम्येट् च निशि वीर्यवान् ॥ १९॥
पृष्ठोदयी बृहद्गात्रः कर्बुरो वनभूचरः ।
आदौ चतुष्पदोन्ते तु विपदो जलगो मतः ॥ २०॥
कुम्भः कुम्भी नरो बभ्रुवर्णो मध्यतनुर्द्विपात् ।
द्युवीर्यो जलमध्यस्थो वातशीर्षोदयी तमः ॥ २१॥
शूद्रः पश्चिमदेशस्य स्वामी दैवाकरिः स्मृतः ।
मीनौ पुच्छास्यसंलग्नौ मीनराशिर्दिवाबली ॥ २२॥
जली सत्त्वगुणाढ्यश्च स्वस्थो जलचरो द्विजः ।
अपदो मध्यदेही च सौम्यस्थो ह्युभयोदयी ॥ २३॥
सुराचार्याधिपश्चेति राशीनां गदिता गुणाः ।
त्रिंशद्भागात्मकानां च स्थूलसूक्ष्मफलाय च ॥ २४॥
अथातः सम्प्रवक्ष्यामि शृणुष्व मुनिपुङ्गव ।
जन्मलग्नं च संशोध्य निषेकं परिशोधयेत् ॥ २५॥
तदहं सम्प्रवक्ष्यामि मैत्रेय त्वं विधारय ।
जन्मलग्नात् परिज्ञानं निषेकं सर्वजन्तु यत् ॥ २६॥
यस्मिन् भावे स्थितो मन्दस्तस्य मान्देर्यदन्तरम् ।
लग्नभाग्यान्तरं योज्यं यच्च राश्यादि जायते ॥ २७॥
मासादि तन्मितं ज्ञेयं जन्मतः प्राक् निषेकजम् ।
यद्यदृश्यदलेङ्गेशस्तदेन्दोर्भुक्तभागयुक् ॥ २८॥
तत्काले साधयेल्लग्नं शोधयेत् पूर्ववत्तनुम् ।
तस्माच्छुभाशुभं वाच्यं गर्भस्थस्य विशेषतः ॥ २९॥
शुभाशुभं वदेत् पित्रोर्जीवनं मरणं तथा ।
एवं निषेकलग्नेन सम्यग् ज्ञेयं स्वकल्पनात् ॥ ३०॥
अथ विशेषलग्नाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ५॥
अथाहं सम्प्रवक्ष्यामि तवाग्रे द्विजसत्तम ।
भावहोराघटीसञ्ज्ञलग्नानीति पृथक् पृथक् ॥ १॥
सूर्योदयं समारभ्य घटिकानां तु पञ्चकम् ।
प्रयाति जन्मपर्यन्तं भावलग्नं तदेव हि ॥ २॥
इष्टं घट्यादिकं भक्त्वा पञ्चभिर्भादिकं फलम् ।
योज्यमौदयिके सूर्ये भावलग्नं स्फुटं च तत् ॥ ३॥
तथा सार्धद्विघटिकामितादर्कोदयाद् द्विज ।
प्रयाति लग्नं तन्नाम होरालग्नं प्रचक्षते ॥ ४॥
इष्टघट्यादिकं द्विघ्नं पञ्चाप्तं भादिकं च यत् ।
योज्यमौदयिके भानौ होरालग्नं स्फुटं हि तत् ॥ ५॥
कथयामि घटीलग्नं शृनु त्वं द्विजसत्तम ।
सूर्योदयत् समारभ्य जन्मकालावधि क्रमात् ॥ ६॥
एकैकघटिकामानात् लग्नं यद्याति भादिकम् ।
तदेव घटिकालग्नं कथितं नारदादिभिः ॥ ७॥
राशयस्तु घटीतुल्याः पलार्धप्रमितांशकाः ।
योज्यमौदयिके भनौ घटीलग्नं स्फुटं हि तत् ॥ ८॥
क्रमादेषां च लग्नानां भावकोष्ठं पृथक् लिखेत् ।
ये ग्रहा यत्र भे तत्र ते स्थाप्या राशिलग्नवत् ॥ ९॥
वर्णदाख्यदशां भानां कथयाम्यथ तेऽग्रतः ।
यस्य विज्ञानमात्रेण वदेदायुर्भवं फलम् ॥ १०॥
ओजलग्नप्रसूतानां मेषादेर्गणयेत् क्रमात् ।
समलग्नप्रसूतानाम् मीनादेरपसव्यतः ॥ ११॥
मेषमीनादितो जन्मलग्नान्तं गणयेत् सुधीः ।
तथैव होरालग्नान्तं गणयित्वा ततः परम् ॥ १२॥
ओजत्वेन समत्वेन सजातीये उभे यदि ।
तर्हि सङ्ख्ये योजयीत वैजात्ये तु वियोजयेत् ॥ १३॥
मेषमीनादितः पश्चाद्यो राशिः स तु वर्णदः ।
एतत्प्रयोजनं वक्ष्ये शृणु त्वं द्विजपुङ्गवः ।
होरालग्नभयोर्नेया सबलाद्वर्णदा दशा ॥ १४॥
यत्सङ्ख्यो वर्णदो लग्नात् तत्तत्सङ्ख्याक्रमेण तु ।
क्रमव्युत्क्रमभेदेन दशा स्यादोजयुग्मयो ॥ १५॥
पापदृष्टिः पापयोगो वर्णदस्य त्रिकोणके ।
यदि स्यात् तर्हि तद्राशिपर्यन्तं तस्य जीवनम् ॥ १६॥
रुद्रशूले यथैवायुर्मरणादि निरूप्यते ।
तथैव वर्णदस्यापि त्रिकोणे पापसङ्गमे ॥ १७॥
वर्णदादपि भो विप्र लग्नवच्चिन्तयेत् फलम् ।
वर्णदात् सप्तमाद् भावात् कलत्रायुर्विचिन्तयेत् ॥ १८॥
एकादशादग्रजस्य तृतीयात्तु यवीयसः ।
सुतस्य पञ्चमे विद्यान्मातुश्चतुर्थभावतः ॥ १९॥
पितुश्च नवमाद् भावादायुरेवं विचिन्तयेत् ।
शूलराशिदशायां वै प्रबलायामरिष्टकम् ॥ २०॥
एवं तन्वादिभावानां कर्तव्या वर्णदा दशा ।
पूर्ववच्च फलं ज्ञेयं देहिनां च शुभाशुभम् ॥ २१॥
ग्रहाणां वर्णदा नैव राशीनां वर्णदा दशा ।
कृत्वार्कधा राशिदशां क्रमादन्तर्दशां वदेत् ॥ २२॥
एवमन्तर्दशादिं च कृत्वा तेन फलं वदेत् ।
क्रमव्युत्क्रमभेदेन लिखेदन्तर्दशामपि ॥ २३॥
स्वस्वदेशोद्भवं लग्नं जन्मलग्नमिहोच्यते ।
भावहोरादिलग्नानां सर्वत्रैव समक्रिया ॥ २४॥
अथ षोडशवर्गाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ६॥
श्रुता ग्रहगुणास्त्वत्तस्तथा राशिगुण मुने ।
श्रोतुमिच्छामि भावानां भेदांस्तान् कृपया वद ॥ १॥
वर्गान् षोडश यानाह ब्रह्मा लोकपितामहः ।
तानहं सम्प्रवक्ष्यामि मैत्रेय श्रूयतामिति ॥ २॥
क्षेत्रं होरा च द्रेष्काणस्तुर्यांशः सप्तमांशकः ।
नवांशो दशमांशश्च सूर्याम्शः षोडशांशकः ॥ ३॥
विंशांशो वेदवाह्वंशो भांशस्त्रिंशांशकस्ततः ।
खवेदांशोऽक्षवेदांशः षष्ठ्यंशश्च ततः परम् ॥ ४॥
तत्क्षेत्रं तस्य खेटस्य राशेर्यो यस्य नायकः ।
सूर्येन्द्वोर्विषमे राशौ समे तद्विपरीतकम् ॥ ५॥
पितरश्चन्द्रहोरेशा देवाः सूर्यस्य कीर्तिताः ।
राशेरर्द्धं भवेद्धोरा ताश्चतुर्विंशतिः स्मृता ।
मेषादि तासां होराणां परिवृत्तिद्वयं भवेत् ॥ ६॥
राशित्रिभागाद्रेष्काणास्ते च षट्त्रिंशदीरिताः ।
परिवृत्तित्रयं तेषां मेषादेः क्रमशो भवेत् ॥ ७॥
स्वपञ्चनवमानां च राशीनां क्रमशश्च ते ।
नारदाऽगस्तिदुर्वासा द्रेष्काणेशाश्चरादिषु ॥ ८॥
स्वर्क्षादिकेन्द्रपतयस्तुर्यांशेशाः क्रियादिषु ।
सनकश्च सनन्दश्च कुमारश्च सनातनः ॥ ९॥
सप्तांशपास्त्वोजगृहे गणनीया निजेशतः ।
युग्मराशौ तु विज्ञेयाः सप्तमर्क्षादिनायकात् ॥ १०॥
क्षारक्षीरौ च दध्याज्यौ तथेक्षुरससम्भवः ।
मध्यशुद्धजलावोजे समे शुद्धजलादिकाः ॥ ११॥
नवांशेशाश्चरे तस्मात्स्थिरे तन्नवमादितः ।
उभये तत्पञ्चमादेरिति चिन्त्यं विचक्षणैः ।
देवा नृराक्षसाश्चैव चरादिषु गृहेषु च ॥ १२॥
दशमांशाः स्वतश्चौजे युग्मे तन्नवमात् स्मृताः ।
दश पूर्वादिदिक्पाला इन्द्राऽग्नियमराक्षसाः ॥ १३॥
वरुणो मारुतश्चैव कुबेरेशानपद्मजाः ।
अनन्तश्च क्रमादोजे समे वा व्युत्क्रमेण तु ॥ १४॥
द्वादशांशस्य गणना तत्तत्क्षेत्राद्विनिर्दिशेत् ।
तेषामघीशाः क्रमशो गणेशाऽश्वियमाहयाः ॥ १५॥
अजसिंहाऽश्वितो ज्ञेया षोडशांशाश्चरादिषु ।
अजविष्णू हरः सूर्यो ह्योजे युग्मे प्रतीपकम् ॥ १६॥
अथ विंशतिभागानामधिपा ब्रह्मणोदिताः ।
क्रियाच्चरे स्थिरे चापान् मृगेन्द्राद् द्विस्वभावके ॥ १७॥
काली गौरी जया लक्ष्मीविजया विमला सती ।
तारा ज्वालामुखी श्वेता ललिता बगलामुखी ॥ १८॥
प्रत्यङ्गिरा शची रौद्री भवानी वरदा जया ।
त्रिपुरा सुमुखी चेति विषमे परिचिन्तयेत् ॥ १९॥
समराशौ दया मेधा छिन्नशीर्षा पिशाचिनी ।
धूमावती च मातङ्गी बाला भद्रऽरुणानला ॥ २०॥
पिङ्गला छुच्छुका घोरा वाराही वैष्णवी सिता ।
भुवनेशी भैरवी च मङ्गला ह्यपराजिता ॥ २१॥
सिद्धांशकानामधिपाः सिंहादोजभगे ग्रहे ।
कर्कद्युग्मभगे खेटे स्कन्दः पर्शुधरोऽनलः ॥ २२॥
विश्वकर्मा भगो मित्रो मयोऽन्तकवृषध्वजाः ।
गोविन्दो मदनो भीमः सिंहादौ विषमे क्रमात् ।
कर्कादौ समभे भीमाद्विलोमेन विचिन्तयेत् ॥ २३॥
भांशाधिपाः क्रमाद्दस्रयमवह्निपितामहाः ।
चन्द्रेशादितिजीवाहिपितरो भगसञ्ज्ञिताः ॥ २४॥
अर्यमार्कत्वष्ट्टमरुच्छक्राग्निमित्रवासवाः ।
निरृत्युदकविश्वेऽजगोविन्दो वसवोऽम्बुपः ॥ २५॥
ततोऽजपादहिर्बुध्न्यः पूषा चैव प्रकीर्तिताः ।
नक्षत्रेशास्तु भांशेशा मेषादिचरभक्रमात् ॥ २६॥
त्रिंशांशेशाश्च विषमे कुजर्कीज्यज्ञभार्गवाः ।
पञ्चपञ्चाष्टसप्ताक्षभागानां व्यत्ययात् समे ॥ २७॥
वह्निः समीरशक्रौ च धनदो जलदस्तथा ।
विषमेषु क्रमाज्ज्ञेयाः समराशौ विपर्ययात् ॥ २८॥
चत्वारिंशद्विभागानामधिपा विषमे क्रियात् ।
समभे तुलतो ज्ञेयाः स्वस्वाधिपसमन्विताः ॥ २९॥
विष्णुश्चन्द्रो मरीचिश्च त्वष्टा धाता शिवो रविः ।
यमो यक्षश्च गन्धर्वः कालो वरुण एव च ॥ ३०॥
तथाक्षवेदभागानामधिपाश्चरभे क्रियात् ।
स्थिरे सिंहाद् द्विभेचापात् विधीशविष्णवश्चरे ॥ ३१॥
ईशाच्युतसुरज्येष्ठा विष्णुकेशाः स्थिरे द्विभे ।
देवाः पञ्चदशावृत्त्या विज्ञेया द्विजसत्तम ॥ ३२॥
राशीन् विहाय खेटस्य द्विघ्नमंशाद्यमर्कहृत् ।
शेषं सैकं तद्राशेर्भपाः षष्ट्यंशपाः स्मृताः ॥ ३३॥
घोरश्च राक्षशो देवः कुबेरो यक्षकिन्नरौ ।
भ्रष्टः कुलघ्नो गरलो वह्निर्माया पुरीषकः ॥ ३४॥
अपाम्पतिर्मरुत्वांश्च कालः सर्पामृतेन्दुकाः ।
मृदुः कोमलहेरम्बब्रह्मविष्णुमहेश्वराः ॥ ३५॥
देवार्द्रौ कलिनाशश्च क्षितीशकमलाकरौ ।
गुलिको मृत्युकालश्च दावाग्निर्घोरसञ्ज्ञकः ॥ ३६॥
यमश्च कण्टकसुधाऽमृतौ पूर्णनिशाकरः ।
विषदग्धकुलान्तश्च मुख्यो वंशक्षयस्तथा ॥ ३७॥
उत्पातकालसौम्याख्याः कोमलः शीतलाभिधः ।
करालदंष्ट्रचन्द्रास्यौ प्रवीणः कालपावकः ॥ ३८॥
दण्डभृन्निर्मलः सौम्यः क्रूरोऽतिशीतलोऽमृतः ।
पयोधिभ्रमणाख्यौ च चन्द्ररेखा त्वयुग्मपाः ॥ ३९॥
समे भे व्यत्ययाज्ज्ञेयाः षष्ट्यंशेशाः प्रकीर्तिताः ।
षष्ट्यांशस्वामिनस्त्वोजे तदीशादव्यत्पयः समे ॥ ४०॥
शुभषष्टयंशसंयुक्ता ग्रहाः शुभफलप्रदाः ।
क्रूरषष्ट्यंशसंयुक्ता नाशयन्ति खचारिणः ॥ ४१॥
वर्गभेदानहं वक्ष्ये मैत्रेय त्वं विधारय ।
षड्वर्गाः सप्तवर्गाश्च दिग्वर्गा नृपवर्गकाः ॥ ४२॥
भवन्ति वर्गसंयोगे षडवर्गे किंशुकादयः ।
द्वाभ्यां किंशुकनामा च त्रिभिर्व्यञ्जनमुच्यते ॥ ४३॥
चतुर्भिश्चामराख्यं च छत्रं पञ्चभिरेव च ।
षड्भिः कुण्डलयोगः स्यान्मुकुटाख्यं च सप्तभिः ॥ ४४॥
सप्तवर्गेऽथ दिग्वर्गे पारिजातादिसञ्ज्ञकाः ।
पारिजातं भवेद्द्वाभ्यामुत्तमं त्रिभिरुच्यते ॥ ४५॥
चतुर्भिर्गोपुराख्यं सयाच्छरैः सिंहासनं तथा ।
पारावतं भवेत् षड्भिर्देवलोकं च सप्तभिः ॥ ४६॥
वसुभिर्ब्रह्मलोकाख्यं नवभिः शक्रवाहनम् ।
दिग्भिः श्रीधामयोगः स्यादथ षोडशवर्गके ॥ ४७॥
भेदकं च भवेद्द्वाभ्यां त्रिभिः स्यात् कुमुमाख्यकम् ।
चतुर्भिर्नागपुष्पं स्यात् पञ्चभिः कन्दुकाह्वयम् ॥ ४८॥
केरलाख्यं भवेत् षड्भिः सप्तभिः कल्पवृक्षकम् ।
अष्टभिश्चन्दनवनं नवभिः पूर्णचन्द्रकम् ॥ ४९॥
दिग्भिरुच्चैःश्रवा नाम रुद्रैर्धन्वन्तरिर्भवेत् ।
सूर्यकान्तं भवेद् सूर्यैर्विश्वैः स्याद्विद्रुमाख्यकम् ॥ ५०॥
शक्रसिंहासनं शक्रैर्गोलोकं तिथिभिर्भवेत् ।
भूपैः स्रीवल्लभाख्यं स्याद्वर्गा भेदैरुदाहृताः ॥ ५१॥
स्वोच्चमूलत्रिकोणस्वभवनाधिपतेः शुभाः ।
स्वारुढात् केन्द्रनाथानां वर्गा ग्राह्याः सुधीमता ॥ ५२॥
अस्तङ्गता ग्रहजिता नीचगा दुर्बलाश्च ये ।
शयनादिगतास्तेभ्य उत्पन्ना योगनाशकाः ॥ ५३॥
अथ वर्गविवेकाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ७॥
अथ षोडशवर्गेषु विवेकं च वदाम्यहम् ।
लग्ने देहस्य विज्ञानं होरायां सम्पदादिकम् ॥ १॥
द्रेष्काणे भ्रातृजं सौख्यं तुर्यांशे भाग्यचिन्तनम् ।
पुत्रपौत्रादिकानां वै चिन्तनं सप्तमांशके ॥ २॥
नवमांशे कलत्राणां दशमांशे महत्फलम् ।
द्वादशांशे तथा पित्रोश्चिन्तनं षोडशांशके ॥ ३॥
सुखाऽसुखस्य विज्ञानं वाहनानां तथैव च ।
उपासनाया विज्ञानं साध्यं विंशतिभागके ॥ ४॥
विद्याया वेदबाह्वंशे भांशे चैव बलाऽबलम् ।
त्रिंशांशके रिष्टफलं खवेदांशे शुभाऽशुभम् ॥ ५॥
अक्षवेदांशके चैव षष्ट्यंशेऽखिलमीक्षयेत् ।
यत्र कुत्रापि सम्प्राप्तः क्रूरषष्ट्यंशकाधिपः ॥ ६॥
तत्र नाशो न सन्दे हो गर्गादीनां वचो यथा ।
यत्र कुत्रापि सम्प्राप्तः कलांशाधिपतिः शुभः ॥ ७॥
तत्र वृद्धिश्च पुष्टिश्च गर्गादिनां वचो यथा ।
इति षोडशवर्गाणां भेदास्ते प्रतिपादिताः ॥ ८॥
उदयादिषु भावेषु खेटस्य भवनेषु वा ।
वर्गविंशोपकं वीक्ष्य ज्ञेयं तेषां शुभाऽशुभम् ॥ ९॥
अथातः सम्प्रवक्ष्यामि वर्गविंशोपकं बलम् ।
यस्य विज्ञानमार्तेण विपाकं दृष्टिगोचरम् ॥ १०॥
गृहविंशोपकं वीक्ष्यं सूर्यादीनां खचारिणाम् ।
स्वगृहोच्चे बलं पूर्णं शून्यं तत्सप्तमस्थिते ॥ ११॥
ग्रहस्थितिवशाज्ज्ञेयं द्विराश्यधिपतिस्तथा ।
मध्येऽनुपाततो ज्ञेयं ओजयुग्मर्क्षभेदतः ॥ १२॥
सूर्यहोराफलं दद्युर्जीवार्कवसुधात्मजाः ।
चन्द्रास्फुजिदर्कपुत्राश्चन्द्रहोराफलप्रदाः ॥ १३॥
फलद्वयं बुधो दद्यात् समे चान्द्रं तदन्यके ।
रवेः फलं स्वहोरादौ फलहीनं विरामके ॥ १४॥
मध्येऽनुपातात् सर्वत्र द्रेष्काणेऽपि विचिन्तयेत् ।
गृहवत् तुर्यभागेपि नवांशादावपि स्वयम् ॥ १५॥
सूर्यः कुजफलं धत्ते भार्गवस्य निशापतिः ।
त्रिंशांशके विचिन्त्यौवमत्रापि गृहवत् स्मृतम् ॥ १६॥
लग्नहोरादृकाणाङ्कभागसूर्यका इति ।
त्रिंशांशकश्च षड्वर्गा अत्र विंशोपकाः क्रमात् ॥ १७॥
रमनेत्राबिधपञ्चाश्विभूमयः सप्तवर्गके ।
ससप्तमांशके तत्र विश्वकाः पञ्च लोचनम् ॥ १८॥
त्रयः सार्द्धं द्वयं सार्द्धवेदा द्वौ रात्रिनायकः ।
स्थूलं फलं च संस्थाप्य तत्सूक्ष्मं च ततस्ततः ॥ १९॥
दशवर्गां दिगंशाढ्याः कलांशाः षष्टिभागकाः ।
त्रयं क्षेत्रस्य विज्ञेयाः पञ्चषष्ट्यंशकस्य च ॥ २०॥
सार्द्धौकभागाः शेषाणां विश्वकाः परिकीर्तिता ।
अथ वक्ष्ये विशेषेण बलं विंशोपकाह्वयम् ॥ २१॥
क्रमात् षोडशवर्गाणां क्षेत्रादीनां पृथक् पृथक् ।
होरात्रिंशांशदृक्काणे कुचन्द्रशशिनः क्रमात् ॥ २२॥
कलांशस्य द्वयं ज्ञेयं त्रयं नन्दांशकस्य च ।
क्षेत्रे सार्द्धं च त्रितयं वेदाः षष्ट्यंशकस्य हि ॥ २३॥
अर्द्धमर्धं तु शेषाणां ह्येतत् स्वीयमुदाहृतम् ।
पूर्णं विंशोपकं विंशो धृतिः स्यादधिमित्रके ॥ २४॥
मित्रे पञ्चदश प्रोक्तं समे दश प्रकीर्तितम् ।
शत्रौ सप्ताधिशत्रौ च पञ्चविंशोपकं भवेत् ॥ २५॥
वर्गविश्वाः स्वविश्वघ्नाः पुनर्विंशतिभाजिताः ।
विश्वाफलोपयोग्यं तत्पञ्चोनं फलदो न हि ॥ २६॥
तदूर्ध्वं स्वल्पफलदं दशोर्ध्वं मध्यमं स्मृतम् ।
तिय्यूर्धं पूर्णफलदं बोध्यं सर्वं खचारिणाम् ॥ २७॥
अथाऽन्यदपि वक्ष्येऽहं मैत्रेय त्वं विधारय ।
खेटाः पूर्णफलं दद्युः सूर्यात् सप्तमके स्थिताः ॥ २८॥
फलाभावं विजानीयात् समे सूर्यनभश्चरे ।
मध्येऽनुपातात् सर्वत्र ह्युदयास्तविंशोपकाः ॥ २९॥
वर्गविंशोपकं ज्ञेयं फलमस्य द्विजर्षभ ।
यच्च यत्र फलं बुद्ध्वा तत्फलं परिकीर्तितम् ॥ ३०॥
वर्गविंशोपकं चादावुदयास्तमतः परम् ।
पूर्णं पूर्णेतिपूर्नंस्यात् सर्वदैवं विचिन्तयेत् ॥ ३१॥
हीनं हीनेतिहीनं स्यात् स्वल्पेल्पात्यल्पकं स्मृतम् ।
मध्यं मध्येतिमध्यं स्याद्यावत्तस्य दशास्थितिः ॥ ३२॥
अथाऽन्यदपि वक्ष्यामि मैत्रेय शृणु सुव्रत् ।
लग्नतुर्यास्तवियतां केन्द्रसञ्ज्ञा विशेषतः ॥ ३३॥
द्विपञ्चरन्ध्रलाभानां ज्ञेयं पणफराभिधम् ।
त्रिषष्ठभाग्यरिष्फानामापोक्लिममिति द्विज ॥ ३४॥
लग्नात् पञ्चमभाग्यस्य कोणसञ्ज्ञा विधीयते ।
षष्ठाष्टव्ययभावानां दुःसञ्ज्ञास्त्रिकसञ्ज्ञकाः ॥ ३५॥
चतुरस्रं तुर्यरन्ध्रं कथयान्ते द्विजोत्तम ।
स्वस्थादुपचयर्क्षाणि त्रिषडायाम्बराणि हि ॥ ३६॥
तनुर्धनं च सहजो बन्धुपुत्रारयस्तथा ।
युवतीरन्ध्रधर्माख्यकर्मालाभव्ययाः क्रमात् ॥ ३७॥
संक्षेपेणैतदुदितमन्यद् बुद्ध्यनुसारतः ।
किञ्चिद्विशेषं वक्ष्यामि यथा ब्रह्ममुखार्च्छुतम् ॥ ३८॥
नवमेऽपि पितुर्ज्ञानं सूर्याच्च नवमेऽथवा ।
यत्किञ्चिद्दशमे लाभे तत्सूर्याद्दशमे भवे ॥ ३९॥
तुर्ये तनौ धने लाभे भाग्ये यच्चिन्तनं च तत् ।
चन्द्रात्तुर्ये तनौ लाभे भाग्ये तच्चिन्तयेद् ध्रुवम् ॥ ४०॥
लग्नाद् दुश्चिक्यभवने यत्कुजाद्विक्रमेऽखिलम् ।
विचार्यं षष्ठभावस्य बुधात् षष्ठे विलोकयेत् ॥ ४१॥
पुत्रस्य च गुरोः पुत्रे जायायाः सप्तमे भृगोः ।
अष्टमस्य व्ययस्यापि मन्दान्मृत्यौ व्यये तथा ॥ ४२॥
यद्भावाद्यत्फलं चिन्त्यं तदीशात्तत्फलं विदुः ।
ज्ञेयं तस्य फलं तद्धि तत्र चिन्त्यं शुभाऽशुभम् ॥ ४३॥
अथ राशिदृष्टिकथनाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ८॥
अथ मेषादिराशीनां चरादीनां पृथक् पृथक् ।
दृष्टिभेदं प्रवक्ष्यामि शृणु त्वं द्विजसत्तम ॥ १॥
राशयोऽभिमुखं विप्र तथा पश्यन्ति पार्श्वभे ।
यथा चरः स्थिरानेवं स्थिरः पश्यति वै चरान् ॥ २॥
द्विस्वभावो विनाऽऽत्मानां द्विस्वभावान् प्रपश्यति ।
समीपस्थं परित्यज्य खेटास्तत्र गतास्तथा ॥ ३॥
चरेषु संस्थिताः खेटाः पश्यन्ति स्थिरसङ्गतान् ।
स्थिरेषु संस्थिता एवं पश्यन्ति चरसंस्थितान् ॥ ४॥
उभयस्थास्तु सूर्याद्या पश्यन्युभयसंस्थितान् ।
निकटस्थं विना खेटाः पश्यन्तीत्ययमागमः ॥ ५॥
दृष्टिचक्रमहं वक्ष्ये ययावद् ब्रह्मणोदितम् ।
तस्य विन्यासमात्रेण दृष्टिभेदः प्रकाश्यते ॥ ६॥
प्राचि मीषवृषौ लेख्यौ कर्कसिंहौ तथोत्तरे ।
तुलाऽली पश्चिमे विप्र मृगकुम्भौ च दक्षिणे ॥ ७॥
ईशकोणे तु मिथुनं वायव्ये कन्यकां तथा ।
नौरृर्त्यां चापमालिख्य वह्निकोणे झषं लिखेत् ॥ ८॥
एवं चतुर्भुजाकारं वृत्ताकारमथापि वा ।
दृष्टिचक्रं प्रविन्यस्यैवं ततो दृष्टिं विचारयेत् ॥ ९॥
अथारिष्टाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ९॥
आदौ जन्माङ्गतो विप्र रिष्टाऽरिष्टं विचारयेत् ।
ततस्तन्वादिभावानां जातकस्य फलं वदेत् ॥ १॥
चतुर्विंशतिवर्षाणि यावद् गच्छन्ति जन्मतः ।
जन्मारिष्टं तु तावत् स्यादायुर्दायं न चिन्तयेत् ॥ २॥
षष्ठाष्टरिष्फगश्चन्द्रः क्रूरैः खेटैश्च वीक्षितः ।
जातस्य मृत्युदः सद्यस्त्वष्टर्षैः शुभेक्षितः ॥ ३॥
शशिवन्मृत्युदाः सौम्याश्चेद्वक्राः क्रूरवीक्षिताः ।
शिशोर्जातस्य मासेन लग्ने सौम्यविवर्जिते ॥ ४॥
यस्य जन्मनि धीस्थाः स्युः सूर्यार्कीन्दुकुजाभधाः ।
तस्य त्वाशु जनित्री च भ्राता च निधनं व्रजेत् ॥ ५॥
पापेक्षितो युतो भौमो लग्नगो न शुभेक्षितः ।
मृत्युदस्त्वष्टमस्थोऽपि सौरेणार्केण वा युतः ॥ ६॥
चन्द्रसूर्यग्रहे राहुश्चन्द्रसूर्ययुतो यदि ।
सौरिभौमेक्षितं लग्नं पक्षमेकं स जीवति ॥ ७॥
कर्मस्थाने स्थितः सौरिः शत्रुस्थाने कलानिधिः ।
क्षितिजः सप्तमस्थाने सह मात्रा विपद्यते ॥ ८॥
लग्ने भास्करपुत्रश्च निधने चन्द्रमा यदि ।
तृतीयस्थो यदा जीवः स याति यममन्दिरम् ॥ ९॥
होरायां नवमे सूर्यः सप्तमस्थः शनैश्चरः ।
एकादशे गुरुः शुक्रो मासमेकं स जीवति ॥ १०॥
व्यये सर्वे ग्रहा नेष्टाः सूर्यशुक्रेन्दुराहवः ।
विशेषान्नाशकर्तारो दृष्ट्या वा भङ्गकारिणः ॥ ११॥
पापान्वितः शशी धर्मे द्यूनलग्नगतो यदि ।
शुभैरवेक्षितयुतस्तदा मृत्युप्रदः शिशोः ॥ १२॥
सन्ध्यायां चन्द्रहोरायां गण्डान्ते निधनाय वै ।
प्रत्येकं चन्द्रपापैश्च केन्द्रगैः स्याद्विनाशनम् ॥ १३॥
रवेस्तु मण्डलार्द्धास्तात् सायं संध्या त्रिनाडिका ।
तथैवार्द्धोदयात् पूर्वं प्रातः संध्या त्रिनाडिका ॥ १४॥
चक्रपूर्वापरार्द्धेषु क्रूरसौम्येषु कीटभे ।
लग्नगे निधनं याति नाऽत्र कार्या विचारणा ॥ १५॥
व्ययशत्रुगतैः क्रूरैर्मृत्युद्रव्यगतैरपि ।
पापमध्यगते लग्ने सत्यमेव मृतिं वदेत् ॥ १६॥
लग्नसप्तमगौ पापौ चन्द्रोऽपि क्रूरसंयुतः ।
यदा नावेक्षितः सौम्यैः शीघ्रान्मृत्युर्भवेत्तदा ॥ १७॥
क्षीणे शशिनि लग्नस्थे पापैः केन्द्राष्टसंस्थितैः ।
यो जातो मृत्युमाप्नोति स विप्रेश न संशयः ॥ १८॥
पापयोर्मध्यगश्चन्द्रो लग्नाष्टान्तिमसप्तमः ।
अचिरान्मृत्युमाप्नोति यो जातः स शिशुस्तदा ॥ १९॥
पापद्वयमध्यगते चन्द्रे लग्नसमाश्रिते ।
सप्ताष्टमेन पापेन मात्रा सह मृतः शिशुः ॥ २०॥
शनैश्चरार्कभौमेषु रिष्फधर्माष्टमेषु च ।
शभैरवीक्ष्यमाणेषु यो जातो निधनङ्गतः ॥ २१॥
यद्द्रेष्काणे च यामित्रे यस्य स्याद्दारुणो ग्रहः ।
क्षीणचन्द्रो विलग्नस्थः सद्यो हरति जीवितम् ॥ २२॥
आपोक्लिमस्थिताः सर्वे ग्रहा बलविवर्जिताः ।
षण्मासं वा द्विमासं वा तस्यायुः समुदाहृतम् ॥ २३॥
त्रिभिः पापग्रहैः सूतौ चन्द्रमा यदि दृश्यते ।
मातृनाशो भवेत्तस्य शुभर्दृष्टे शुभं वदेत् ॥ २४॥
धने राहुर्बुधः शुक्रः सौरिः सूर्यो यदा स्थितः ।
तस्य मातुर्भवेन्मृत्युर्मृते पितरि जायते ॥ २५॥
पापात्सप्तमरन्ध्रस्थे चन्द्रे पापसमन्विते ।
बलिभिः पापकैर्दृष्टे जातो भवति मातृहा ॥ २६॥
उच्चस्थो वाऽथ नीचस्थः सप्तमस्थो यदारविः ।
पानहीनो भवेद्बाल अजाक्षीरेण जीवति ॥ २७॥
चन्द्राच्चतुर्थगः पापो रिपुक्षेत्रे यदा भवेत् ।
तदा मातृवधं कुर्यात् केन्द्रे यदि शुभो न चेत् ॥ २८॥
द्वादशे रिपुभावे च यदा पापग्रहो भवेत् ।
तदा मातुर्भयं विद्याच्चतुर्थे दशमे पितुः ॥ २९॥
लग्ने क्रूरो व्यये क्रूरो धने सौम्यस्तथैव च ।
सप्तमे भवने क्रूरः परिवारक्षयङ्करः ॥ ३०॥
लग्नस्थे च गुरौ सौरौ धने राहौ तृतीयगे ।
इति चेञ्जन्मकाले स्यान्माता तस्य न जीवति ॥ ३१॥
क्षीणचन्द्रात्त्रिकोणस्थैः पापैः सौम्यविवर्जितैः ।
माता परित्यजेद्बालं षण्मासाच्च न संशयः ॥ ३२॥
एकांशकस्थौ मन्दारौ यत्र कुत्रस्थितौ यदा ।
शशिकेन्द्रगतौ तौ वा द्विमातृभ्यां न जीवति ॥ ३३॥
लग्ने सन्दो मदे भौमः षष्ठस्थाने च चन्द्रमाः ।
इति चेज्जन्मकाले स्यात् पिता तस्य न जीवति ॥ ३४॥
लग्ने जीवो धने मन्दरविभौमबुधास्तथा ।
विवाहसमये तस्य बालस्य म्रियते पिता ॥ ३५॥
सूर्यः पापेन संयुक्तो ह्यथवा पापमध्यगः ।
सूर्यात् सप्तमगः पापस्तदा पितृवधो भवेत् ॥ ३६॥
सप्तमे भवने सूर्यः कर्मस्थो भूमिनन्दनः ।
राहुर्व्यये च युस्यैव पिता कष्टेन जीवति ॥ ३७॥
दशमस्थो यदा भौमः शत्रुक्षेत्रसमाश्रितः ।
म्रियते तस्य जातस्य पिता शीघ्रं न संशयः ॥ ३८॥
रिपुस्थाने यदा चन्द्रो लग्नस्थाने शनैश्चरः ।
कुजश्च सप्तमे स्थाने पिता तस्य न जीवति ॥ ३९॥
भौमांशकस्थिते भानौ शनिना च निरीक्षिते ।
प्राग्जन्मनो निवृत्तिः स्यान्मृत्युर्वाऽपि शिशोः पितुः ॥ ४०॥
चतुर्थे दशमे पापौ द्वादशे च यदा स्थितौ ।
पितरं मातरं हत्वा देशाद्देशान्तरं व्रजेत् ॥ ४१॥
राहुजीवौ रिपुक्षेत्रे लग्ने वाऽथ चतुर्थके ।
त्रयोविंशतिमे वर्षे पुत्रस्तातं न पश्यति ॥ ४२॥
भानुः पिता च जन्तूनां चन्द्रो माता तथैव च ।
पापदृष्टियुतो भानुः पापमध्यगतोऽपि वा ॥ ४३॥
पित्ररिष्टं विजानीयाच्छिशोर्जातस्य निश्चितम् ।
भानोः षष्ठाष्टमर्क्षस्थैः पापैः सौम्यविवर्जितैः ।
सुखभावगतैर्वाऽपि पित्ररिष्टं विनिर्दिशेत् ॥ ४४॥
एवं चन्द्रात् स्थितैः पापैर्मातु कष्टं विचारयेत् ।
बलाऽबलविवेकेन कष्टं वा मृत्युमादिशेत् ॥ ४५॥
अथाऽरिष्टभङ्गाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ १०॥
इत्यरिष्टं मया प्रोक्तं तद्भङ्गश्चापि कथ्यते ।
यत् समालोक्यं जातानां रिष्टाऽरिष्टं वदेद्बुधः ॥ १॥
एकोऽपि ज्ञार्यशुक्राणां लग्नात् केन्द्रगतो यदि ।
अरिष्टं निखिलं हन्ति तिमिरं भास्करो यथा ॥ २॥
एक एव बली जीवो लग्नस्थो रिष्टसञ्चयम् ।
हन्ति पापक्षयं भक्त्या प्रणाम इव शूलिनः ॥ ३॥
एक एव विलग्नेशः केन्द्रसंस्थो बलान्वितः ।
अरिष्टं निखिलं हन्ति पिनाकी त्रिपुरं यथा ॥ ४॥
शुक्लपक्षे क्षपाजन्म लग्ने सौम्यनिरीक्षिते ।
विपरीतं कृष्णपक्षे तथारिष्टविनाशनम् ॥ ५॥
व्ययस्थाने यदा सूर्यस्तुलालग्ने तु जायते ।
जीवेत् स शतवर्षाणि दीर्घायुर्बालको भवेत् ॥ ६॥
गुरुभौमौ यदा युक्तौ गुरुदृष्टोऽथवा कुजः ।
हत्वाऽरिष्टमशेषं च जनन्याः शुभकृद्भवेत् ॥ ७॥
चतुर्थदशमे पापः सौम्यमध्ये यदा भवेत् ।
पितुः सौख्यकरो योगः शुभैः केन्द्रत्रिकोणगैः ॥ ८॥
सौम्यान्तरगतैः पापैः शुभैः केन्द्रत्रिकोणगैः ।
सद्यो नाशयतेऽरिष्टं तद्भावोत्थफलं न तत् ॥ ९॥
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.