बृहत्पाराशरहोराशास्त्रम् ६१-७०
Brihat Parashara Hora Shastram
अथ प्रत्यन्तर्दशाफलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ६१॥
पृथक् स्वस्वदशामानैर्हन्यादन्तर्दशामितिम् ।
भ्येत्सर्वदशायोगैः फलं प्रत्यन्तरं क्रमात् ॥ १॥
विवादो वित्तहानिश्च दारार्तिः शिरसि व्यथा ।
रव्यन्तरे बुधैर्ज्ञेयं तस्य प्रत्यन्तरे फलम् ॥ २॥
उद्वेगः कलहश्चैव वित्तहानिर्मनोव्यथा ।
रव्यन्तरे विजानीयात् चन्द्रप्रत्यन्तरे फलम् ॥ ३॥
राजभीतिः शस्त्रभीतिर्बन्धनं बहुसंकटम् ।
स/त्रुवह्निकृता पीडा कुजप्रत्यन्तरे फलम् ॥ ४॥
श्लेष्मव्याधिः शस्त्रभीतिएधनहानिर्महद्भयम् ।
राजभङ्गस्तथा त्रासो राहुप्रत्यन्तरे फलम् ॥ ५॥
शत्रुनाशो जयो वृद्धिर्वस्त्रहेमादिभूषणम् ।
अश्वयानादिलाभश्च गुरुप्रत्यन्तरे फलम् ॥ ६॥
धनहानिः पशोः पीडा महोद्वेगो महारुजः ।
अशुभं सर्वमाप्नोति शनिप्रत्यन्तरे जनः ॥ ७॥
विद्यालाभो बन्धुसङ्ग भोज्यप्राप्तिर्धनागमः ।
धर्मलाभो नृपात्पूजा बिधप्रत्यन्तरे भवेत् ॥ ८॥
प्राणभीतिर्महाहानी राजभीतिश्च विग्रहः ।
शत्रुणाञ्च महावादो केतोः प्रत्यन्तरे भवेत् ॥ ९॥
दिनानि समरूपाणि लाभोऽप्यल्पो भवेदिह ।
स्वल्पा च सुखसम्पत्तिः शुक्रप्रत्यन्तरे भवेत् ॥ १०॥
भूमोज्यधनसम्प्राप्ती राजपूजामहत्सुखम् ।
लाभश्चन्द्रान्तरे ज्ञेयं चन्द्रप्रत्यन्तरे फलम् ॥ ११॥
मतिवृद्धिर्महापूज्यः सुखं बन्धुजनैः सह ।
धनागमः शत्रुभयं कुजप्रत्यन्तरे भवेत् ॥ १२॥
भवेत्कल्याणसम्पत्ती राजवित्तसमागमः ।
अशुभैरल्पमृत्युअश्च राहुप्रत्यन्तरे द्विज ॥ १३॥
वस्त्रलाभो महातेजो ब्रह्मज्ञानं च सद्गुरोः ।
राज्यालंकरणावाप्तिर्गुरुप्रत्यन्तरे फलम् ॥ १४॥
दुर्दिने लभते पीडां वातपित्ताद्विशेषतः ।
धनधान्ययशोहानिः शनिप्रत्यन्तरे भवेत् ॥ १५॥
पुत्रजन्महयप्राप्तिर्विद्यालाभो महोन्नतिः ।
शुक्लवस्त्रान्नलाभश्च बुधप्रत्यन्तरे भवेत् ॥ १६॥
ब्राह्मणेन समं युद्धमपमृत्युः सुखक्षयः ।
सर्वत्र जायते क्लेशः केतोः प्रत्यन्तरे भवेत् ॥ १७॥
धनलाभो महत्सौख्यं कन्याजन्म सुभोजनम् ।
प्रीतिश्च सर्वलोकेभ्यो भृगुप्रत्यन्तरे विधोः ॥ १८॥
अन्नागमो वस्त्रलाभः शत्रुहानिः सुखागमः ।
सर्वत्र विजयप्राप्तिः सूर्यप्रत्यन्तरे विधोः ॥ १९॥
शत्रुभीतिं कलिं घोरं रक्तस्रावं मृतेर्भयम् ।
कुजस्यान्तर्दशायां च कुजप्रत्यन्तरे वदेत् ॥ २०॥
बन्धनं राजभङ्गश्च धनहानिः कुभोजनम् ।
कलहः शत्रुभिर्नित्यं राहुप्रत्यन्तरे भवेत् ॥ २१॥
मतिनाशस्तथा दुःखं सन्तापः कलहो भवेत् ।
विफलं चिन्तितं सर्वं गुरोः प्रत्यन्तरे भवेत् ॥ २२॥
स्वामिनाशस्तथा पीडा धनहानिर्न्महाभयम् ।
वैकल्यं कलहस्त्रासो शनेः प्रत्यन्तरे भवेत् ॥ २३॥
सर्वथा बुद्धिनाशश्च धनहानिर्ज्वरस्तनौ ।
वस्त्रान्नसुहृदां नाशो बुधप्रत्यन्तरे भवेत् ॥ २४॥
आलस्य च शिरःपीडा पापरोगोऽपमृत्युकृत् ।
राजभीतिः शस्त्रघातो केतोः प्रत्यन्तरे भवेत् ॥ २५॥
चाण्डालात्सङ्कटस्त्रासो राजशास्त्रभयं भवेत् ।
अतिसाराऽथ वमनं भृगोः प्रत्यन्तरे भवेत् ॥ २६॥
भूमिलाभोऽर्थसम्पत्तिः सन्तोषो मित्रसङ्गतिः ।
सर्वत्र सुखमाप्नोति रवेः प्रत्यन्तरे जनः ॥ २७॥
याम्यां दिशि भवेल्लाभः सितवस्त्रविभूषणम् ।
संसिद्धिः सर्वकार्याणां विधोः प्रत्यन्तरे भवेत् ॥ २८॥
बन्धनं बहुधा रोगो बहुघातः सुहृद्भयम् ।
राह्वन्तर्दशायां च ज्ञेयं राह्वन्तरे फलम् ॥ २९॥
सर्वत्र लभते मानं गजाश्वं च धनागमम् ।
राहोरन्तर्दशायां च गुरोः प्रत्यन्तरे जनः ॥ ३०॥
बन्धनं जायते घोरं सुखहानिर्महद्भयम् ।
प्रत्यहं वातपीडा च शनेः प्रत्यन्तरे भवेत् ॥ ३१॥
सर्वत्र बहुधा लाभः स्त्रीसङ्गाच्च विशेषतः ।
परदेशभवा सिद्धिर्बुधप्रत्यन्तरे भवेत् ॥ ३२॥
बुद्धिनाशो भयं विघ्नो धनहानिर्महद्भयम् ।
सर्वत्र कलहोद्वेगौ केतोः प्रत्यन्तरे फलम् ॥ ३३॥
योगिनीभ्यो भयं भूयादश्वहानिः कुभोजनम् ।
स्त्रीनाशः कुलजं शोकं शुक्रप्रत्यन्तरे भवेत् ॥ ३४॥
ज्वररोगो महाभीतिः पुत्रपौत्रादिपीडनम् ।
अल्पमृत्युः प्रमादश्च रवेः प्रत्यन्तरे भवेत् ॥ ३५॥
उद्वेगकलहो चिन्ता मानहानिर्महद्भयम् ।
पितुर्विकलता देहे विद्योः रवेः प्रत्यन्तरे भवेत् ॥ ३६॥
भगन्दरकृता पीडा रक्तपित्तप्रपीडनम् ।
अर्थहानिर्महोद्वेगः कुजप्रत्यन्तरे फलम् ॥ ३७॥
हेमलाभो धान्यवृद्धि कल्याणं सुफलोदयः ।
गुरोरन्तर्दशायां च भवेद् गुर्वन्तरे फलम् ॥ ३८॥
गोभूमिहयलाभः स्यात्सर्वत्र सुखसाधनम् ।
संग्रहो ह्यन्नपानादेः शनेः प्रत्यन्तरे भवेत् ॥ ३९॥
विद्यालाभो वस्त्रलाभो ज्ञानलाभः समौक्तिकः ।
सुहृदां सङ्गमः स्नेहो बुधप्रत्यन्तरे भवेत् ॥ ४०॥
जलभीतिस्तथा चौर्यं बन्धनं कलहो भवेत् ।
अपमृत्युर्भयं घोरं केतोः प्रत्यन्तरे द्विज ॥ ४१॥
नानाविद्यार्थसम्प्राप्तिर्हेमवस्त्रविभूषणम् ।
लभते क्षेमसन्तोषं भृगोः प्रत्यन्तरे जनः ॥ ४२॥
नृपाल्लाभस्तथा मित्रात्पितृतो मातृतोऽपि वा ।
सर्वत्र लभते पूजां रवेः प्रत्यन्तरे जनः ॥ ४३॥
सर्वदुःखविमोक्षश्च मुक्तलाभो हयस्य च ।
सिद्ध्यन्ति सर्वकार्याणि विधो प्रत्यन्तरे द्विज ॥ ४४॥
शस्त्रभीतिर्गदे पीडा वह्निमाद्द्यमजीर्णता ।
पीडा शत्रुकृता भूरिर्भौमप्रत्यन्तरे भवेत् ॥ ४५॥
चाण्डालेन विरधः स्याद्भयं तेभ्यो धनक्षतिः ।
कष्टं जीवान्तरे ज्ञेयं राहोः प्रत्यन्तरे ध्रुवम् ॥ ४६॥
देहपीडा कलेर्भीतिर्भयमन्त्यजलोकतः ।
दुःखं शन्यन्तरे नाना शनेः प्र्त्यन्तरे भवेत् ॥ ४७॥
बुद्धिनाशः कलेर्भीतिरन्नपानादिहानिकृत् ।
धन्हानिर्भयं शत्रोः सनेः प्रत्यन्तरे बुधे ॥ ४८॥
बन्धः शत्रोर्गृहे जातो वर्णहानिर्बहुक्षुधा ।
चित्ते चिन्ता भयं त्रासः केतो प्रत्यन्तरे भवेत् ॥ ४९॥
चिन्तितं फलितं वस्तु कल्याणं स्वजने सदा ।
मनुष्यकृतितो लाभः भृगिः प्रत्यन्तरे द्विज ॥ ५०॥
राजतेजोऽधिकारित्वं स्वगृहे जायते कलिः ।
ज्वरादिव्याधिपीडा च रवेः प्रत्यन्तरे भवेत् ॥ ५१॥
स्फीतबुद्धिर्महारम्भो मन्दतेजा बहुव्ययः ।
बहुस्त्रीभिः समं भोगो विधोः प्रत्यन्तरे शनौ ॥ ५२॥
तेजोहानि पुत्रघातो वह्निभीती रिपोर्भयम् ।
वातपित्तकृता पीडा कुजप्रत्यन्तरे भवेत् ॥ ५३॥
धननाशो वस्त्रहानिर्भूमिनाशो भयं भवेत् ।
विदेशगमनं मृत्युः राहो प्रत्यन्तरे शनौ ॥ ५४॥
गृहेषु स्वीकृतं छिद्रं ह्यसमर्थो निरीक्षणे ।
अथ वा कलिमुद्वेगं गुरोः प्रत्यन्तरे वदेत् ॥ ५५॥
बुद्धिर्विद्यार्थलाभो वा वस्त्रलाभो महत्सुखम् ।
बुधास्यान्तर्दशायाञ्च बुधप्रत्यन्तरे भवेत् ॥ ५६॥
कठिनान्नस्य सम्प्राप्तिरुदरे रोगसम्भवः ।
कामलं रक्तपित्तं च केतोः प्रत्यन्तरे भवेत् ॥ ५७॥
उत्तरस्यां भवेल्लाभो हानिः स्यात्तु चतुष्पदात् ।
अधिकारो नृपागारे भृगोः प्र्त्यनतरे भवेत् ॥ ५८॥
तेजोहानिर्भवेद्रोगस्तनुपीडा यदा कदा ।
जायते चित्तवैकल्यं रवेः प्रत्यन्तरे बुधे ॥ ५९॥
स्त्रीलाभश्चार्थसम्पत्तिः कन्यालाभो महद्धनम् ।
लभते सर्वतः सौख्यं विधोः प्र्त्यन्तरे जनः ॥ ६०॥
धर्मधीधनसम्प्राप्तिश्चौराग्न्यादिप्रपीडनम् ।
रक्तवस्त्रं शस्त्रघातं भौमप्रत्यन्तरे भवेत् ॥ ६१॥
कलहो जायते स्त्रीभिरकस्माद्भयसम्भवः ।
राजशस्त्राकृता भीतिः राहिः प्र्त्यन्तरे द्विज ॥ ६२॥
राज्यं राज्याधिकारो वा पूजा राजसमुद्भवा ।
विद्याबुद्धिसमृद्धिश्च गुरोः प्रत्यन्तरे भवेत् ॥ ६३॥
वातपित्तमहापीडा देहघातसमुद्भवा ।
धननाशमवाप्नोति शनेः प्रत्यन्तरे जनः ॥ ६४॥
आपत्समुद्भवोऽकस्माद्देशन्तरसमागमः ।
केत्वन्तरेऽर्थहानिश्च केतोः प्रत्यन्तरे भवेत् ॥ ६५॥
म्लेच्छभीरर्थनाशो वा नेत्ररोगः शिरोव्यथा ।
हानिश्चतुष्पदानां च भृगोः प्रत्यन्तरे भवेत् ॥ ६६॥
मित्रैः सह विरोधश्च स्वल्पमृत्युः पराजयः ।
मतिभ्रंशो विवादश्च रवेः प्र्त्यन्तरे भवेत् ॥ ६७॥
अन्ननाशो यशोहानिर्देहपीडा मतिभ्रमः ।
आमवातादिवृद्धिश्चविधोः प्र्त्यन्तरे भवेत् ॥ ६८॥
शस्त्रघातेन पातेन पीडितो वह्निपीडया ।
नीचाद्भीती रिपोः शङ्का कुजप्रत्यन्तरे भवेत् ॥ ६९॥
कामिनीभ्यो भयं भूयात्तथा वैरिसमुद्भवः ।
क्षुद्रादपि भवेद्भीती राहोः प्रत्यन्तरे भवेत् ॥ ७०॥
धनहानिर्महोत्पातो स/स्त्रमित्रविनाशनम् ।
सर्वत्र लभते क्लेशं गुरोः प्रत्यन्तरे फलम् ॥ ७१॥
गोमहिष्यादिमरणं देहपीडा सुहृद्वधः ।
स्वल्पाल्पलाभकरणं शनेः प्रत्यन्तरे फलम् ॥ ७२॥
बुद्धिनाशो महोद्वेगो विद्याहानिर्महाभयम् ।
कार्यसिद्धिर्न जायते ज्ञस्य प्रत्यन्तरे फलम् ॥ ७३॥
श्वेताश्ववस्त्रमुक्ताद्यं दिव्यस्त्रीजङ्गजं सुखम् ।
लभते शुक्रन्तरे प्राप्ते शुक्रप्रत्यन्तरे जनः ॥ ७४॥
वातज्वरः शिरःपीडा राज्ञः पीडा रिपोरपि ।
जायते स्वल्पलाभोऽपि रवेः प्रत्यन्तरे फलम् ॥ ७५॥
कन्याजन्म नृपाल्लाभो वस्त्राभरणसंयुतः ।
राज्याधिकारसम्प्राप्तिः चन्द्रप्रत्यन्तरे भवेत् ॥ ७६॥
रक्तपित्तादिरोगश्च कलहस्ताडनं भवेत् ।
महान्क्लेशो भवेदत कुजप्रत्यन्तरे द्विज ॥ ७७॥
कलहो जायते स्त्रीभिरकस्माद्भयसम्भवः ।
राजतः शत्रुतः पीडा राहोः प्रत्यन्तरे भवेत् ॥ ७८॥
महद्द्रव्यं महद्राज्यं वस्त्र्मुक्तादिभूषणम् ।
गजाश्वादिपदप्राप्तिः गुरोः प्रत्यन्तरे भवेत् ॥ ७९॥
खरोष्ट्रछागसम्प्राप्तिर्लोहमाषतिलादिकम् ।
लभते स्वल्पपीडादि शनेः प्रत्यन्तरे जनः ॥ ८०॥
धनज्ञानमहल्लाभो राजराज्यादिकारिता ।
निक्षेपाद्धनलाभोऽपि ज्ञस्य प्रत्यन्तरे भवेत् ॥ ८१॥
अपमृत्युभयं ज्ञेयं देशाद्देशान्तरागमः ।
लाभोऽपि जायते मध्ये केतोः प्रत्यन्तरे द्विज ॥ ८२॥
अथ सूक्ष्मान्तर्दशाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ६२॥
गुण्या स्वस्वदशावर्षैः प्रत्यन्तरदशामितिः ।
खार्क्रैभक्ता पृथग्लब्धिः सूक्ष्मान्तरदशा भवेत् ॥ १॥
निजभूमिपरित्यागो प्राणनाशभयं भवेत् ।
स्थाननाशो महाहानिः निजसूक्ष्मगते रवौ ॥ २॥
देवब्राह्मण्भक्तिश्च नित्यकर्मरतस्तथा ।
सुप्रीतिः सर्वमित्रश्चैव रवेः सूक्ष्मगते विधौ ॥ ३॥
क्रूरकर्मरतिस्तिग्मशत्रुभिः परिपीडनम् ।
रक्तस्रावादिरोगश्च रवेः सूक्ष्मगते कुजे ॥ ४॥
चौराग्निविषभीतिश्च रणे भङ्गः पराजयः ।
दानधर्मादिहीनश्च रवेः सूक्ष्मगते ह्यगौ ॥ ५॥
नृपसत्कारराजार्हः सेवकैः परिपूजितः ।
राजचक्षुर्गतः शान्तः सूर्यसूक्ष्मगते गुरौ ॥ ६॥
चौर्यसाहसकर्मार्थं देवब्राह्मणपीडनम् ।
स्थानच्युतिं मनोदुखं रवेः सूक्ष्मगते शनौ ॥ ७॥
दिव्याम्बरादिलब्धिश्च दिव्यस्त्रीपरिभोगिता ।
अचिन्तितार्थसिद्धिश्च रवेः सूक्ष्मगते बुधे ॥ ८॥
गुरुतार्थविनाशश्च भृत्यदारभवस्तथा ।
क्वचित्सेवकसम्बन्धो रवेः सूक्ष्मगते ध्वजे ॥ ९॥
पुत्रमित्रकलत्रादिसाख्यसम्पन्न एव च ।
नानाविधा च सम्पत्ती रवेः सूक्ष्मगते भृगौ ॥ १०॥
भूषणं भूमिलाभश्च सम्मानं नृपपूजनम् ।
तामसत्त्वं गुरुत्वं च निजसूक्ष्मगते विधौ ॥ ११॥
दुःखं शत्रुविरोधश्च कुक्षिरोगः पितुर्मृतिः ।
वातपित्तकफोद्रेकः विधोः सूक्ष्मगते कुजे ॥ १२॥
क्रोधनं मित्रबन्धूनां देशत्यागो धनक्षयः ।
विदेशान्निगडप्राप्तिर्विधोः सूक्ष्मगतेप्यगौ ॥ १३॥
छत्रचामरसंयुक्तं वैभवं पुत्रसम्पदः ।
सर्वत्र सुखमाप्नोति विधोः सूक्ष्मगते गुरौ ॥ १४॥
राजोपद्रवभीतिः स्याद्व्यवहारे धनक्षयः ।
चौरर्वं विप्रभीतिश्च विधोः सूक्ष्मगते शनौ ॥ १५॥
राजमानं वस्तुलाभो विदेशाद्वाहनादिकम् ।
पुत्रपौत्र्समृद्धिश्च विधोः सूक्ष्मगते बुधे ॥ १६॥
आत्मनो वृत्तिहननं सस्यशृङ्गवृषादिभिः ।
अग्निसूर्यादिभीतिः स्याद्विधोः सूक्ष्मगते ध्वजे ॥ १७॥
विवाहो भूमिलाभश्च वस्त्राभरणवैभवम् ।
राज्यलाभश्च कीर्तिश्च विधोः सूक्ष्मगते भृगौ ॥ १८॥
क्लेशात्क्लेशः कार्यनाशः पशुधान्यधनक्षयः ।
गात्रवैषम्यभूमिश्च विधोः सूक्ष्मगते रवौ ॥ १९॥
भूमिहानिर्मनःखेदो ह्यपस्मारी च बन्धुयुक् ।
पुरोक्षोभमनस्तापो निजसूक्ष्मगते कुजे ॥ २०॥
अङ्गदोषो जनाद्भीतिः प्रमदावंशनाशनम् ।
वह्निसर्पभयं घोरं भौमे सूक्ष्मगतेऽप्यहौ ॥ २१॥
देवपूजारतिश्चात्र मन्त्राभ्युत्थानतत्परः ।
लोके पूजा प्रमोदश्च भौमे सूक्ष्मगते गुरौ ॥ २२॥
बन्धनान्मुच्यते बद्धो धनधान्यपरिच्छदः ।
भृत्यार्थबहुलः श्रीमान् भौमे सूक्ष्मगते शनौ ॥ २३॥
वाहनं छात्रसंयुक्तं राज्यभोगपरं सुखम् ।
कामश्वासादिका पीडा भौमे सूक्ष्मगते बुधे ॥ २४॥
परप्रेतितबुद्धिश्च सर्वत्राऽपि च गर्हिता ।
अशुचिः सर्वकालेषु भौमे सूक्ष्मगते ध्वजे ॥ २५॥
इष्टस्त्रीभोगसम्पत्तिरिष्टभोजनसंग्रहः ।
इष्टार्थस्यापि लाभश्च भौमे सूक्ष्मगते भृगौ ॥ २६॥
राजद्वेषो द्विजात्क्लेशः कार्याभिप्रयवंचकः ।
लोकेऽपि निन्द्यतामेति भौमे सूक्ष्मगते रवौ ॥ २७॥
शुद्धत्वं धनसम्प्राप्तिर्देवभाह्मण्वत्सलः ।
व्याधिना परिभूयेत् भौमे सूक्ष्मगते विधौ ॥ २८॥
लोकोपद्रवबुद्धिश्च सर्वकार्ये मतिविभ्रमः ।
शून्यता चित्तदोषः स्यात् स्वीये सूक्ष्मगतेऽप्यगौ ॥ २९॥
दीर्घरोगी दरिद्रश्च सर्वेषां प्रियदर्शनः ।
दानधर्मरतः शस्तो राहोः सूक्ष्मगते गुरौ ॥ ३०॥
कुमार्गात्कुत्सितोर्थश्च दुष्टश्च परसेवकः ।
असत्सङ्गमतिर्मूढो राहोः सूक्ष्मगते शनौ ॥ ३१॥
स्त्रीसम्भोगमतिर्वाग्मी लोकसम्भावनावृतः ।
अन्नमिच्छंस्तनुग्लानी राहोः सूक्ष्मगते बुधे ॥ ३२॥
माधुर्यं मानहानिश्च बन्धनं चाप्रमाकरम् ।
पारुष्यं जीवहानिश्च राहोः सूक्ष्मगते ध्वजे ॥ ३३॥
बन्धनान्मुच्यते बद्धः स्थानमानार्थसञ्चयः ।
कारणाद् द्रव्यलाभश्च राहौ सूक्ष्मगते भृगौ ॥ ३४॥
व्यक्तार्शो गुल्मरोगश्च क्रोधहानिस्तथैव च ।
वाहनादिसुखं सर्वं राहोः सूक्ष्मगते रवौ ॥ ३५॥
मणिरत्नधनवाप्तिर्विद्योपासनशीलवान् ।
देवार्चनपरो भक्त्या राहोः सूक्ष्मगते विधौ ॥ ३६॥
निर्जिते जनविद्रावो जने क्रोधश्च बन्धनम् ।
चौर्यशीलरतिर्नित्यं राहोः सूक्ष्मगते कुजे ॥ ३७॥
शोकनाशो धनाधिक्यमग्निहोत्रं शिवार्चनम् ।
वाहनं छत्रसंयुक्तं स्वीये सूक्ष्मगते गुरौ ॥ ३८॥
व्रतभङ्गो मनस्तापो विदेशे वसुनाशनम् ।
विरोधो बन्धुवैर्गश्च गुरोः सूक्ष्मगते शनौ ॥ ३९॥
विद्याबुद्धिविवृद्धिश्च ससम्मानं धनागमः ।
गृहे सर्वविधं सौख्यं गुरोः सूक्ष्मगते बुधे ॥ ४०॥
ज्ञानं विभवपाण्डित्ये शास्त्रश्रोता शिवार्चनम् ।
अग्निहोत्रं गुरोर्भक्तिर्गुरोः सूक्ष्मगते ध्वजे ॥ ४१॥
रोगान्मुक्तिः सुखं भोगो धनधान्यसमागमः ।
पुत्रदारादिसौख्यं च गुरोः सूक्ष्मगते भृगौ ॥ ४२॥
वातपित्तप्रकोपश्च श्लेष्मोद्रेकस्तु दारुणः ।
रसव्यादिकृतं शूलं गुरोः सूक्ष्मगते रवौ ॥ ४३॥
छत्रचामरसंयुक्तं वैभवं पुत्रसम्पदः ।
नेत्रकुक्षिगता पीडा गुरोः सूक्ष्मगते विधौ ॥ ४४॥
स्र्तीजनाच्च विषोत्पत्तिर्बन्धनं च रुजोभयम् ।
देशान्तरगमो भ्रान्तिर्गुरोः सूक्ष्मगते कुजे ॥ ४५॥
व्याधिभिः परिभूतःस्याच्चौरैरपहृतं धनम् ।
सर्पवृश्चिकभीतिश्च गुरोः सूक्ष्मगतेऽप्यगौ ॥ ४६॥
धनहानिर्महाव्याधिः वातपीडा कुलक्षयः ।
भिन्नाहारी महादुःखी निजसूक्ष्मगते शनौ ॥ ४७॥
वाणिज्यवृत्तेर्लाभश्च विद्याविभवमेव च ।
स्त्रीलाभश्च महीप्राप्तिः शनेः सूक्ष्मगते बुधे ॥ ४८॥
चौरोपद्रवकुष्ठादिवृत्तिक्षयविगुम्फनम् ।
सर्वाङ्गपीडनं व्याधिः शनेः सूक्ष्मगते ध्वजे ॥ ४९॥
ऐश्वर्यमायुधाभ्यासः पुत्रलाभोऽभिषेचनम् ।
आरोग्यं धनकामौ च शनेः सूक्ष्मगते भृगौ ॥ ५०॥
राजतेजोविकारत्वं स्वगृहे जायते कलिः ।
किञ्चित्पीडा स्वदेहोत्था शनेः सूक्ष्मगते रवौ ॥ ५१॥
स्फीतबुद्धिर्महारम्भो मन्दतेजा बहुव्ययः ।
स्त्रीपुत्रैश्च समं सौख्यं शनेः सूक्ष्मगते विधौ ॥ ५२॥
तेजोहानिर्महोद्वेगो वह्निमान्द्यं भ्रमः कलिः ।
वातपित्तकृता पीडा शनेः सूक्ष्मगते कुजे ॥ ५३॥
पितृमातृविनाशश्च मनोदुःखं गुरुव्ययम् ।
सर्वत्र विफलत्वं च शनेः सूक्ष्मगतेऽप्यहौ ॥ ५४॥
सन्मुद्राभोगसम्मानं धनधान्यविवर्द्धनम् ।
छत्रचामरसम्प्राप्तिः शनेः सूक्ष्मगते गुरौ ॥ ५५॥
सौभाग्यं राजसम्मानं धनधान्यादिसम्पदः ।
सर्वेषां प्रियदर्शी च निजसूक्ष्मगते बुधे ॥ ५६॥
बालग्रहोग्निभीस्तापः स्त्रीगदोद्भवदोषभाक् ।
कुमार्गी कुत्सिताशी च बौधे सूक्ष्मगते ध्वजे ॥ ५७॥
वाहनं धनसम्पत्तिर्जलजान्नार्थसम्भवः ।
शुभकीर्तिर्महाभोगो बौधे सूक्ष्मगते भृगौ ॥ ५८॥
ताडनं नृपवैषम्यं बुद्धिस्खलनरोगभाक् ।
हानिर्जनापवादं च बौधे सूक्ष्मगते रवौ ॥ ५९॥
सुभगः स्थिरबुद्धिश्च राजसन्मानसम्पदः ।
सुहृदां गुरुसंचारो बौधे सूक्ष्मगते विधौ ॥ ६०॥
अग्निदाहो विषोत्पत्तिर्जडत्वं च दरिद्रता ।
विभ्रमश्च महोद्वेगो बौधे सूक्ष्मगते कुजे ॥ ६१॥
अग्निसर्पनृपाद्भीतिः कुच्छ्रादिरिपराभवः ।
भूतावेशभ्रमाद्भ्रान्तिर्बौधे सूक्ष्मगतेप्यहौ ॥ ६२॥
गृहोपकरणं भव्यं दानं भोगादिवैभवम् ।
राजप्रसादसम्पत्तिर्बौधे सूक्ष्मगते गुरौ ॥ ६३॥
वाणिज्यवृत्तिलाभश्च विद्याविभवमेव च ।
स्त्रीलाभश्च महाव्याप्तिर्बौधे सूक्ष्मगते शनौ ॥ ६४॥
पुत्रदारादिजं दुःखं गात्रवैषम्यमेव च ।
दारिद्र्याद् भिक्षुवृत्तिश्च नैजे सूक्ष्मगते ध्वजे ॥ ६५॥
रोगनाशऽर्थलाभश्च गुरुविप्रानुवत्सलः ।
सङ्गमः स्वजनैः सार्द्धकेतोः सूक्ष्मगते भृगौ ॥ ६६॥
युद्धं भूमिविनाशश्च विप्रवासः स्वदेशतः ।
सुहृद्विपातिरार्तिश्च केतोः सूक्ष्मगते रवौ ॥ ६७॥
दासीदाससमृद्धिश्च युद्धे लब्धिर्जयस्तथा ।
ललिता कीर्तिरुत्पन्ना केतोः सूक्ष्मगते विधौ ॥ ६८॥
आसने भयमश्वादेश्चौरदुष्टादिपीडनम् ।
गुल्मपीडा शिरोरोगः केतोः सूक्ष्मगते कुजे ॥ ६९॥
विनाशः स्त्रीगुरूणां च दुष्टस्त्रीसङ्गमाल्लघुः ।
वमनं रुधिरं पित्तं केतोः सूक्ष्मगतेऽप्यगौ ॥ ७०॥
रिपोर्विरोधः सम्पत्तिः सहसा राजवैभवम् ।
पशुक्षेत्रविनाशार्तिः केतोः सूक्ष्मगते गुरौ ॥ ७१॥
मृषा पीडा भवेत्क्षुद्रमुखोत्पत्तिश्च लङ्घनम् ।
स्त्रीविरोधः सत्यहानिः केतोः सूक्ष्मगते शनौ ॥ ७२॥
नानाविधजनाप्तिश्च विप्रयोगोऽरिपीडनम् ।
अर्थसम्पत्समृद्धिश्च केतोः सूक्ष्मगते बुधे ॥ ७३॥
शत्रुहानिर्महत्सौख्यं शङ्करालयनिर्मितिः ।
तडागकूपनिर्माणं निजसूक्ष्मगते भृगौ ॥ ७४॥
उरस्तापो भ्रमश्चैव गतागतविचेष्टितम् ।
क्वचिल्लाभः क्वचिद्धानिर्भृगोः सूक्ष्मगते रवौ ॥ ७५॥
आरोग्यं धनसम्पात्तिः कार्यलाभो गतागतैः ।
बुद्धिविद्याविवृद्धिः स्याद् भृगोः सूक्ष्मगते विधौ ॥ ७६॥
जडत्वं रिपुवैषम्यं देशभ्रंशो महद्भयम् ।
व्याधिदुःखसमृत्पत्तिर्भृगोः सूक्ष्मगते कुजे ॥ ७७॥
राज्याग्निसर्पजा भीतिर्बन्धुनाशो गुरुव्यथा ।
स्थानच्युतिर्महाभीतिर्भृगोः सूक्ष्मगतेऽप्यहौ ॥ ७८॥
सर्वत्र कार्यलाभश्च क्षेत्रार्थविभवोन्नतिः ।
वणिग्वृत्तेर्महालब्धिर्भृगोः सूक्ष्मगते गुरौ ॥ ७९॥
शत्रुपीडा महद्दुःखं चतुष्पादविनाशनम् ।
स्वगोत्रगुरुहानिः स्याद् भृगोः सूक्ष्मगते शनौ ॥ ८०॥
बान्धवादिषु सम्पत्तिर्व्यवहारो धनोन्नतिः ।
पुत्रदारादितः सौख्यं भृगोः सूक्ष्मगते बुधे ॥ ८१॥
अग्निरोगो महापीडा मुखनेत्रशिरोव्यथा ।
सञ्चितार्थात्मनः पीडा भृगोः सूक्ष्मगते ध्वजे ॥ ८२॥
अथ प्राणदशाफलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ६३॥
पृथक् खगदशावर्षैर्हन्यात् सूक्ष्मदशामितिम् ।
खसूर्यैर्विभजेल्लिब्धर्ज्ञेय प्राणदशामितिः ॥ १॥
प्ॐश्चल्यं विषजा बाधा चौराग्निनृपजं भयम् ।
कष्टं सूक्ष्मदशाकाले रवौ प्राणदशां गते ॥ २॥
सुखं भोजनसम्पत्तिः संस्कारो नृपवैभवम् ।
उदारादिकृपाभिश्च रवेः प्राणगते विधौ ॥ ३॥
भूपोपद्रवमन्यार्थे द्रव्यनाशो महद्भयम् ।
महत्यपचयप्राप्ती रवेः प्राणगते कुजे ॥ ४॥
अन्नोद्भवा महापीडा विषोत्पत्तिर्विशेषतः ।
अर्थाग्निराजभिः क्लेशो रवेः प्राणगतेऽप्यहौ ॥ ५॥
नानाविद्यार्थसम्पत्तिः कार्यलाभो गतागतैः ।
नृपविप्राश्रमे सूक्ष्मे रवेः प्राणगते गुरौ ॥ ६॥
बन्धनं प्राणनाशश्च चित्तोद्वेगस्तथैव च ।
बहुबाधा महाहानी रवेः प्राणगते शनौ ॥ ७॥
राजान्नभोगः सततं राजलाञ्छानतत्पदम् ।
आत्मा सन्तर्पयेदीवं रवेः प्राणगते बुधे ॥ ८॥
अन्योऽन्यं कलहश्चैव वसुहानिः पराजयः ।
गुरुस्त्रीबन्धुविर्गैश्च सूर्यप्राणगते ध्वजे ॥ ९॥
राजपूजा धनाधिक्यं स्त्रीपुत्रादिभवं सुखम् ।
अन्नपानादिभोगादि सूर्यप्राणगते भृगौ ॥ १०॥
स्त्रीपुत्रादिसुखं द्रव्यं लभते नूतनाम्बरम् ।
योगसिद्धिं समाधिञ्च निजप्राणगते विधौ ॥ ११॥
क्षयं कुष्ठं बन्धुनाशं रक्तस्रावान्महद्भयम् ।
भूतावेशादि जायते विधोः प्राणगते कुजे ॥ १२॥
सर्पभीतिविशेषाण भूतोपद्रवान् सदा ।
दृष्टिक्षोभो मतिभ्रंशो विधोः प्राणगतेऽप्यहौ ॥ १३॥
धर्मवृद्धिः क्षमाप्राप्तिर्देवब्राह्मणपूजनम् ।
सौभाग्यं प्रियदृष्टिश्च चन्द्रप्राणगते गुरौ ॥ १४॥
सहसा देहपतनं शत्रूपद्रववेदना ।
अन्धत्वं च धनप्राप्तिश्चन्द्रप्राणगते शनौ ॥ १५॥
चामरच्छत्रसम्प्राप्ती राज्यलाभो नृपात्ततः ।
समत्वं सर्वभूतेषु चन्द्रप्राणगते बुधे ॥ १६॥
शस्त्राग्निरिपुजा पीडा विषाग्निः कुक्षिरोगता ।
पुत्रदारवियोगश्च चन्द्रप्राणगते ध्वजे ॥ १७॥
पुत्रमित्रकलत्राप्तिविदेशाच्च धनागमः ।
सुखसम्पत्तिरर्थश्च चन्द्रप्राणगते भृगौ ॥ १८॥
क्रूरता कोपवृद्धिश्च प्राणहानिर्मनोव्यथा ।
देशत्यागो महाभीतिश्चन्द्रप्राणगते रवौ ॥ १९॥
कलहो रिपुभिर्बन्धः रक्तपित्तादिरोगभीः ।
निजसूक्ष्मदशामध्ये कुज प्राणगते फलम् ॥ २०॥
विच्युतः सुतदारैश्च बन्धूपद्रवपीडितः ।
प्राणत्यागो विषेणैव भौमप्राणगतेऽप्यहौ ॥ २१॥
देवार्चनपरः स्र्/ईमान्मन्तानुष्ठानतत्परः ।
पुत्रपौत्रसुखावाप्तिर्भौमप्राणगते गुरौ ॥ २२॥
अग्निबाधा भवेन्मृत्युरर्थनाशः पदच्युतिः ।
बन्धुभिबन्धुतावाप्तिर्भौमप्राणगते शनौ ॥ २३॥
दिव्याम्बरसमुत्पत्तिर्दिव्याभरणभूषितः ।
दिव्याङ्गनायाः सम्प्राप्तिर्भौमप्राणगते बुधे ॥ २४॥
पतनोत्पातिपीडा च नेत्रक्षोभो महद्भयम् ।
भुजङ्गाद् द्रव्यहानिश्च भौमप्राणगते ध्वजे ॥ २५॥
धनधान्यादिसम्पत्तिर्लोकपूजा सुखागमा ।
नानाभोगैर्भवेद्भोगी भौमप्राणगते भृगौ ॥ २६॥
ज्वरोन्मादः क्षयोऽर्थस्य राजविस्नेहसम्भवः ।
दीर्घरोगी दरिद्रः स्याद्भौमप्राणगते रवौ ॥ २७॥
भोजनादिसुखप्राप्तिर्वस्त्राभरणजं सुखम् ।
शीतोष्णव्याधिपीडा च भौमप्राणगते विधौ ॥ २८॥
अन्नाशने विरक्तश्च विषभीतिस्तथैव च ।
साहसाद्धननाशश्च राहौ प्राणगते भवेत् ॥ २९॥
अङ्गसौख्यं विनिर्भीतिर्वाहनादेश्च सङ्गता ।
नीचिः कलहसम्प्राप्ती राहोः प्राणगते गुरौ ॥ ३०॥
गृहदाहः शरीरे रुङ् नीचैरपहृत धनम् ।
तथा बन्धनसम्प्राप्ती राहोः प्राणगते शनौ ॥ ३१॥
गुरूपदेशविभवो गुरुसत्कारवर्द्धनम् ।
गुणवाञ्छीलवांश्चापि राहोः प्राणगते बुधे ॥ ३२॥
स्त्रीपुत्रादिविरोधश्च गृहान्निष्क्रमणादपि ।
साहसात्कायहानिश्च राहोः प्राणगते ध्वजे ॥ ३३॥
छत्रवाहनसम्पत्तिः सर्वार्थफलसञ्चयः ।
शिवार्चनगृहारम्भो राहोः प्राणगते भृगौ ॥ ३४॥
अर्शादिरोगभीतिश्च राज्योपद्रवसम्भवः ।
चतुष्पादादिहानिश्च राहोः प्राणगते रवौ ॥ ३५॥
सौमनस्यं च सद्बुद्धिः सत्कारो गुरुदर्शनम् ।
पापाद्भीतिर्मनःसौख्यं राहोः प्राणगते विधौ ॥ ३६॥
चाण्डालाग्निवशाद्भीतिः स्वपदच्युतिरापदः ।
मलिनः श्वादिवृत्तिश्च राहोः प्राणगते कुजे ॥ ३७॥
हर्षागमो धनाधिक्यमग्निहोत्रं शिवार्चनम् ।
वाहनं छत्रसंयुक्तं निज प्राणगते गुरौ ॥ ३८॥
व्रतहानिर्विषादश्च विदेशे धननाशनम् ।
विरोधो बन्धुवर्गैश्च गुरोः प्राणगते शनौ ॥ ३९॥
विद्याबुद्धिविवृद्धिश्च लोके पूजा धनागमः ।
स्त्रीपुत्रादिसुखप्राप्तिर्गुरोः प्राणगते बुधे ॥ ४०॥
ज्ञानं विभवपाण्डित्यं शास्त्रज्ञानं शिवार्चनम् ।
अग्निहोत्रं गुरोर्भक्तिर्गुरोः प्राणगते ध्वजे ॥ ४१॥
रोगान्मुक्तिः सुखं भोगो धनधान्यसमागमः ।
पुत्रदारादिजं सौख्यं गुरोः प्राणगते भृगौ ॥ ४२॥
वातपित्तप्रकोपं च श्लेष्मोद्रेकं तु दारुणम् ।
रसव्याधिकृतं शूलं गुरोः प्राणगते रवौ ॥ ४३॥
छत्रचामरसंयुक्तं वैभवं पुत्रसम्पदः ।
नेत्रकुक्षिगता पीडा गुरोः प्राणगते विधौ ॥ ४४॥
स्त्रीजनाच्च विषोत्पत्तिर्बन्धनं चातिनिग्रहः ।
देशान्तरगमो भ्रान्तिर्गुरोः प्राणगते कुजे ॥ ४५॥
व्याधिभिः परिभूतः स्याच्चौरैरपहृतं धनम् ।
सर्पवृश्चिकभीतिश्च गुरोः प्राणगतेऽप्यहौ ॥ ४६॥
ज्वरेण ज्वलिता कान्तिः कुष्ठरोगोदरादिरुक् ।
जलाग्निकृतमृत्युः स्यान्निजप्राणगते शनौ ॥ ४७॥
धनं धान्यं च माङ्गल्यं व्यवहाराभिपूजनम् ।
देवब्राह्मणभक्तिश्च शनेः प्राणगते बुधे ॥ ४८॥
मृत्युवेदनदुःखं च भूतोपद्रवसम्भवः ।
परदाराभिभूतत्वं शनेः प्राणगते ध्वजे ॥ ४९॥
पुत्रार्थविभवैः सौख्यं क्षितिपालादितः सुखम् ।
अग्निहोत्रं विवाहश्च शनेः प्राणगते भृगौ ॥ ५०॥
अक्षिपीडा शिरोव्याधिः सर्पशत्रुभयं भवेत् ।
अर्थहानिर्महाक्लेशः शनेः प्राणगते रवौ ॥ ५१॥
आरोग्यं पुत्रलाभश्च शान्तिपौष्टिकवर्धनम् ।
देवब्राह्मणभक्तिश्च शनेः प्राणगते विधौ ॥ ५२॥
गुल्मरोगः शत्रुभीतिर्मृगया प्राननाशनम् ।
सर्पाग्निविषतो भीतिः शनेः प्राणगते कुजे ॥ ५३॥
देशत्यागो नृपाद्भीतिर्मोहनं विषभक्षणम् ।
वातपित्तकृता पीडा शनेः प्राणगतेऽप्यहौ ॥ ५४॥
सेनापत्यं भूमिलाभः संगमः स्वजनैः सह ।
गौरवं नृपसम्मानं शनेः प्राणगते गुरौ ॥ ५५॥
आरोग्यं सुखसम्पत्तिर्धर्मकर्मादिसाधनम् ।
समत्वं सर्वभुतेषु निजप्राणगते बुधे ॥ ५६॥
वह्नितस्करतो भीतिः परमाधिर्विषोद्भवः ।
देहान्तकरणं दुःखं बुधप्राणगते ध्वजे ॥ ५७॥
प्रभुत्वं धनसम्पत्तिः कीर्तिर्धर्मः शिवार्चनम् ।
पुत्रदारादिकं सौख्यं बुधप्राणगते भृगौ ॥ ५८॥
अन्तर्दाहो ज्वरोन्मादौ बान्धवानां रति स्त्रियाः ।
प्राप्यते स्तीयसम्पत्तिर्बुधप्राणगते रवौ ॥ ५९॥
स्त्रीलाभश्चार्थसम्पत्तिः कन्यालाभो धनागमः ।
लभते सर्वतः सौख्यं बुधप्राणगते विधौ ॥ ६०॥
पतितः कुक्षिरोगी च दन्तनेत्रादिजा व्यथा ।
अर्शांसि प्राणसन्देहो बुधप्राणगते कुजे ॥ ६१॥
वस्त्राभरणसम्पत्तिर्वियोगो विप्रवैरिता ।
सन्निपातोद्भवं दुखं बुधप्राणगतेऽप्यहौ ॥ ६२॥
गुरुत्वं धनसम्पत्तिर्विद्या सद्गुणसंग्रहः ।
व्यवसायेन सल्लाभो बुधप्राणगते गुरौ ॥ ६३॥
चौर्येण निधनप्राप्तिर्विधनत्वं दरिद्रता ।
याचकत्वं विशेषेण बुधप्राणगते शनौ ॥ ६४॥
अश्वपातेन घातश्च शत्रुतः कलहागमः ।
निर्विचारवधोत्पत्तिर्निजप्राणगते ध्वजे ॥ ६५॥
क्षेत्रलाभो वैरिनाशो हयलाभो मनःसुखम् ।
पशुक्षेत्रधनाप्तिश्च केतोः प्राणगते भृगौ ॥ ६६॥
स्तेयाग्निरिपुभीतिश्च धनहानिर्मनोव्यथा ।
प्राणान्तकरणं कष्टं केतोः प्राणगते रवौ ॥ ६७॥
देवद्विजगुरोः पूजा दीर्घयात्रा धनं सुखम् ।
कर्णे वा लोचने रोगः केतोः प्राणगते विधौ ॥ ६८॥
पित्तरोगो नसावृद्धिर्विभ्रमः सन्निपातजः ।
स्वबन्धुजनविद्वेषः केतोः प्राणगते कुजे ॥ ६९॥
विरोधः स्त्रीसुताद्यैश्च गृहान्निष्क्रमणं भवेत् ।
स्वसाहसात्कार्यहानिः केतोः प्राणगतेऽप्यहौ ॥ ७०॥
स/स्त्रव्रणैर्महारोगो हृत्पीडादिसमुद्भवः ।
सुतदारवियोगश्च केतोः प्राणगते गुरौ ॥ ७१॥
मतिविभ्रमतीक्ष्णत्वं क्रूरकर्मरतिः सदा ।
व्यवसनाद्बन्धनं दुःखं केतोः प्राणगते शनौ ॥ ७२॥
कुसुमं शयनं भूषा लेपनं भोजनादिकम् ।
सौख्यं सर्वाङ्गभोग्यं च केतोः प्राणगते बुधे ॥ ७३॥
ज्ञानमीश्वरभक्तिश्च सन्तोषश्च धनागमः ।
पुत्रपौत्रसमृद्धिश्च निजप्राणगते भृगौ ॥ ७४॥
लोकप्रकाशकीर्तिश्च सुतसौख्यविवर्जितः ।
उष्णादिरोगजं दुखं शुक्रप्राणगते रवौ ॥ ७५॥
देवार्चने कर्मरतिर्मन्त्रतोषणतत्परः ।
धनसौभाग्यसम्पत्तिः शुक्रप्राणगते विधौ ॥ ७६॥
ज्वरो मसूरिकास्फोटकण्डूचिपिटकादिकाः ।
देवब्राह्मणपूजा च शुक्रप्राणगते कुजे ॥ ७७॥
नित्यं शत्रुकृता पीडा नेत्रकुक्षिरुजादयः ।
विरोधः सुहृदां पीडा शुक्रप्राणगतेऽप्यहौ ॥ ७८॥
आयुरारोग्यमैश्वर्यं पुत्रस्त्रीधनवैभवम् ।
छत्रवाहनसम्प्राप्तिः शुक्रप्राणगते गुरौ ॥ ७९॥
राजोपद्रवजा भीतिः सुखहानिर्महारुजः ।
नीचैः सह विवादश्च भृगोः प्राणगते शनौ ॥ ८०॥
सन्तोषो राजसम्मानं नानादिग्भूमिसम्पदः ।
नित्यमुत्साहव्र्द्धिः स्याच्छुक्रप्राणगते बुधे ॥ ८१॥
जीवितात्मयशोहानिर्धनधान्यपरिक्षयः ।
त्यागभोगधनानि स्युः शुक्रप्राणगते ध्वजे ॥ ८२॥
एवमृक्षदशानां हि सान्तरागां मया द्विज ।
फलानि कथितान्यत्र संक्षेपादेव तेऽग्रतः ॥ ८३॥
अथ कालचक्रान्तर्दशाफलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ६४॥
जगद्धिताय प्रोक्तानि पुरा यानि पुरारिणा ।
तानि चक्रान्तर्दशाफलानि कथयाम्यहम् ॥ १॥
मेषांशे स्वान्तरे भौमे ज्वरश्च व्रणसम्भवः ।
बुधशुक्रेन्दुजीवेषु सुखं शत्रुभयं रवौ ॥ २॥
वृषांशे स्वान्तरे सौरे कलहो रोगसम्भवः ।
विद्यालाभस्तनौ सौख्यं गुरौ तत्र गते फलम् ॥ ३॥
देशत्यागो मृतिर्वापि शस्त्रघातो ज्वरोऽथवा ।
वृषभस्वांशके विप्र कुजे तत्र गते फलम् ॥ ४॥
वस्त्राभरणलाभश्च स्त्रीसुयोगो महत् सुखम् ।
शुक्रेन्दुसुतचन्द्रेषु वृषभस्वांशके फलम् ॥ ५॥
नृपाद् भयं पितृमृतिः स्ववदाद्यैर्भयं रवौ ।
मिथुने स्वांशके शुक्रे धनवस्त्रसमागमः ॥ ६॥
पितृमातृमृतेर्भीतिर्ज्वरश्च व्रणसम्भवः ।
दूरदेशप्रयाणं च मिथुने स्वांशके कुजे ॥ ७॥
बुद्धिविद्याविवृद्धिश्च महाविभवसम्भवः ।
लोके मानश्च प्रीतिश्च मिथेने स्वांशके गुरौ ॥ ८॥
विदेशगमनं व्याधिर्मरणं धननाशनम् ।
बन्धुनाशोऽथवा विप्र मिथुने स्वांशके शनौ ॥ ९॥
विद्यावस्त्रादिलाभश्च दारपुत्रादिजं सुखम् ।
सर्वत्र मानमाप्नोति मिथुने स्वांशके बुधे ॥ १०॥
कर्क स्वांशगते चन्द्रे पुत्रदारसुखं महत् ।
ऐश्वर्यं लभते लोके मानं प्रीतिं तथैव च ॥ ११॥
शत्रुभ्यश्च पशुभ्यश्च भयं राजकुलात् तथा ।
आधिव्याधिभयं चैव कर्के स्वांशगते रवौ ॥ १२॥
पुत्रदारसुहृत्सौख्यं धनवृद्धिस्तथैव च ।
लोके मानं यशश्चैव कर्कांशे बुधशुक्रयोः ॥ १३॥
विषशस्त्रमृतेर्भीतिं ज्वररोगादिसम्भवाम् ।
पीडां चैव समाप्नोति कर्के स्वांशगते कुजे ॥ १४॥
विभवस्यातिलाभश्च शरीरेऽपि सुखं तथा ।
नृपात् सम्मानलाभश्च कर्के स्वांशगते गुरौ ॥ १५॥
वादव्याधिभयं घोरं सर्पवृश्चिकतो भयम् ।
नानाकष्टमवाप्नोति कर्के स्वांशगते शनौ ॥ १६॥
सिंहांशे स्वांशगे भौमे मुखरोगभयं दिशेत् ।
पित्तज्वरकृतां वाधां शस्त्रक्षतमथापि वा ॥ १७॥
धनवस्त्रादिलाभश्च स्त्रीपुत्रादिसुखं तथा ।
बुधभार्गवयोर्विप्र सिंहांशे स्वान्तरस्थयोः ॥ १८॥
उच्चात् पतनभीतिश्च स्वल्पद्रव्यसमागमः ।
विदेशगमनं चैव सिंहे स्वान्तर्गते विधौ ॥ १९॥
भयं शत्रुजनेभ्यश्च ज्वरादिव्याद्धिसम्भवः ।
ज्ञानहानिर्मृतेर्भीतिः सिंहे स्वान्तर्गते रवौ ॥ २०॥
धनधान्यादिलाभं च प्रसादं द्विजभूपयोः ।
विद्यावृद्धिमवाप्नोति सिंहे स्वान्तर्गते गुरौ ॥ २१॥
कन्यायां स्वांशगे सौरे कष्टं प्राप्नोति मानवः ।
द्रयाणं च ज्वरं चैव क्षुद्भवं वैक्लवं तथा ॥ २२॥
नृपप्रसादमैश्वर्यं सुहृद्बन्धुसमागमम् ।
विद्यावृद्धिमवाप्नोति कन्यायां स्वांशके गुरौ ॥ २३॥
पित्तज्वरभवा पीडा विदेशे गमनं तथा ।
शस्त्रघातोऽग्निभीतिश्च कन्यायां स्वान्तरे कुजे ॥ २४॥
भृत्यपुत्रार्थलाभश्च नानासुखसमागमः ।
बन्धुभार्गवचन्द्रेषु कन्यास्वांशगतेषु च ॥ २५॥
प्रयाणं रोगभीतिश्च कलहो बन्धुभिः सह ।
शस्त्रघातभयं चैव कन्यांशे स्वांशगे रवौ ॥ २६॥
तुले स्वान्तर्गते शुक्रे सद्बुद्धिश्च सुखोदयः ।
स्त्रीपुत्रधननवस्त्रादिलाभो भवति निश्चितः ॥ २७॥
पितृकष्टं सुहृद्वैरं शिरोरोगो ज्वरोदयः ।
विषशस्त्राग्निभीतिश्च तुले स्वान्तर्गते कुजे ॥ २८॥
द्रव्यरत्नादिलाभश्च धर्मकार्यं नृपादयः ।
सर्वत्र सुखसम्प्राप्तिस्तुले स्वांशगते गुरौ ॥ २९॥
प्रयाणं च महाव्याधिः क्षेत्रदेः क्षतिरेव च ।
शत्रुवाधा च कार्येषु तुले स्वांशगते शनौ ॥ ३०॥
पुत्रजन्म धनप्राप्तिः स्त्रीसुखं च मनःप्रियम् ।
भाग्योदयश्च विज्नेयस्तुले स्वान्तर्गते बुधे ॥ ३१॥
शशाङ्कबुधशुक्रेषु वृश्चिके स्वांशगेषु च ।
नानाधान्यधनप्राप्तिर्व्याधिविनाशो महत् सुखम् ॥ ३२॥
शत्रुक्षोभभयं व्याधिमर्थनाशं पितुर्भयम् ।
श्वापदाद् भयमाप्नोति वृश्चिके स्वांशगे रवौ ॥ ३३॥
वातपित्तभयं चैव मसूरीव्रणमादिशेत् ।
अग्निशस्त्रादिभीतिश्च वृश्चिके स्वांशगे कुजे ॥ ३४॥
धनं धान्यञ्च रत्नं च देवब्राह्मणपूजनम् ।
राजप्रसादमाप्नोति वृश्चिके स्वांशगे गुरौ ॥ ३५॥
धनबन्धुविनाशश्च जायते मानसी व्यथा ।
शत्रुवाधा महाव्याधिर्वृश्चिके स्वांशगे शनौ ॥ ३६॥
अतिदाहं ज्वरं छर्दि मुखरोगं विशेषतः ।
नानाक्लेशमवाप्नोति चापांशे स्वांशगे कुजे ॥ ३७॥
श्रियं विद्यां च सौभाग्यं शत्रुनाशं नृपात् सुखम् ।
भार्गवेन्दुचन्द्राणां चापे स्वस्वांशके दिशेत् ॥ ३८॥
भार्यावित्तविनाशं च कलहं च नृपाद् भयम् ।
दूरयात्रामवाप्नोति चापांशे स्वांशगे रवौ ॥ ३९॥
दानधर्मतपोलाभं राजपूजनमाप्नुयात् ।
भार्याविभवलाभं च चापे स्वांशगते गुरौ ॥ ४०॥
द्विजदेवनृपोद्भूतं कोपं बन्धुविनाशनम् ।
देशत्यागमवाप्नोति मकरस्वांशगे शनौ ॥ ४१॥
देवार्चनं तपोध्यानं सम्मानं भूपतेः कुले ।
भार्गवज्ञेन्दुजीवानां मृगांशेऽन्तर्दशाफलम् ॥ ४२॥
शिरोरोगं ज्वरं चैव करपादक्षतं दिशेत् ।
रक्तपित्तातिसारांश्च मृगस्वांशगते कुजे ॥ ४३॥
विनाशं पितृबन्धूनां ज्वररोगादिकं दिशेत् ।
नृपशत्रुभयं चैव मृगांशस्वांशगे शनौ ॥ ४४॥
नानाविद्यार्थलाभश्च पुत्रस्त्रीमित्रजं सुखम् ।
शरीरारोग्यमैश्वर्यं कुम्भे स्वांशगते भृगौ ॥ ४५॥
ज्वराग्निचोरजा पीडा शत्रुणां च महद् भयम् ।
मनोव्यथामवाप्नोति घटांशस्वान्तरे कुजे ॥ ४६॥
नैरुज्यं च सुखं चैव सम्मानं भूपतेः द्विजात् ।
मनःप्रसादमाप्नोति कुम्भांशस्वांशगे गुरौ ॥ ४७॥
धातुत्रयप्रकोपं च कलहं देशविभ्रमम् ।
क्षयव्याधिमवाप्नोति कुंभांशस्वांशगे शनौ ॥ ४८॥
पुत्रमित्रधनस्त्रीणां लाभं चैव मनःप्रियम् ।
सौभाग्यवृद्धिमाप्नोति कुम्भांशस्वांशगे बुधे ॥ ४९॥
विद्यावृद्धिमवाप्नोति स्त्रीसुखं व्याधिनाशनम् ।
सुहृत्सङ्गं मनःप्रीतिं मीनांशस्वांशगे विधौ ॥ ५०॥
बन्धुभिः कलहं चैव चौरभीतिं मनोव्यथाम् ।
स्थानभ्रंशमवाप्नोति मीनांशस्वांशगे रवौ ॥ ५१॥
रणे विजयमाप्नोति पशुभूमिसुतागमम् ।
धनवृद्धिश्च मीनांशे स्वांशयोर्बुधशुक्रयोः ॥ ५२॥
पित्तरोगं विवादञ्च स्वजनैरपि मानवः ।
शत्रुणां भयमाप्नोति मीनांशस्वांशगे कुजे ॥ ५३॥
धनवस्त्रकलत्राणां लाभो भूपसमादरः ।
प्रतिष्ठा बहुधा लोके मीनांशस्वांशगे गुरौ ॥ ५४॥
धननाशो मनस्तापो वेश्यादीनां च सङ्गमात् ।
देशत्यागो भवेद्वापि मीनांशस्वांशगे शनौ ॥ ५५॥
एवं प्राज्ञैश्च विज्ञेयं कालचक्रदशाफलम् ।
अन्तर्दशाफलं चैव वामर्क्षेऽप्येवमेव च ॥ ५६॥
इदं फलं मया प्रोक्तं धर्माऽधर्मकृतं पुरा ।
तत्सर्वं पाणिभिर्नित्यं प्राप्यते नाऽत्र संशयः ॥ ५७॥
सुहृदोऽन्तर्दशा भव्या पापस्यापि द्विजोत्तम ।
शुभस्यापि रिपोश्चैवमशुभा च प्रकीर्तिता ॥ ५८॥
अथ कालचक्रनवांशदशाफलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ६५॥
मेषे तु रक्तजा पीडा वृषभे धान्यवर्द्धनम् ।
मिथुने ज्ञानवृद्धिश्च कर्के धनपतिर्भवेत् ॥ १॥
सिंहभे शत्रुबाधा स्यात् कन्यायां स्त्रीजनात् सुखम् ।
तुलभे राजमन्त्रित्वं वृश्चिके मृत्युतो भयम् ॥ २॥
अर्थलाभो भवेच्चापे मेषस्य नवभागके ।
फलमेवं विजानीयं दशाकाले द्विजोत्तम ॥ ३॥
मकरे पापकर्माणि कुम्भे वाणिज्यतो धनम् ।
मीने सर्वार्थसिद्धिश्च वृश्चिके वह्नितो भयम् ॥ ४॥
तुलभे राजपूजा च कन्यायां शत्रुतो भयम् ।
कर्के पत्नीजने कष्टं सिंहभे नेत्रपीडनम् ॥ ५॥
मिथुने विषतो भीतिर्वृषस्य नवमांशके ।
वृषभे धनलाभः स्थान्मेषे तु ज्वरसंभवः ॥ ६॥
मीने च मातुलप्रीतिः कुम्भे शत्रुप्रवर्धनम् ।
मकरे चोरतो भीतिश्चापे विद्याविवर्धनम् ॥ ७॥
मेषे तु शस्त्रसंघातो वृषे तु कलहो भवेत् ।
मिथुने सुखमाप्नोति मिथुनांशे फलं त्विदम् ॥ ८॥
कर्कटे सुखमाप्नोति सिंहे भूपालतो भयम् ।
कन्यायां बन्धुतः सौख्यं तुलभे कीर्तिमाप्नुयात् ॥ ९॥
वृश्चिके च पितुः कष्टं चापे ज्ञानधनागमः ।
मकरे त्वयशो लोके कुम्भे वाणिज्यतः क्षतिः ॥ १०॥
मीने सुखमाप्नोति कर्कांशे फलमीदृशम् ।
वृश्चिके कलहः पीडा तुलभे सुखसम्पदः ॥ ११॥
कन्यायां धनधान्यानि कर्के पशुगणाद् भयम् ।
सिंहे सुखं च दुःखं च मिथुने शत्रुवर्धनम् ॥ १२॥
वृषे च सुखसम्पत्तिः मेषे कष्टमवाप्नुयात् ।
मीने तु दीर्घयात्रा स्यात् सिंहांशे फलमीदृशम् ॥ १३॥
कुम्भभे धनलाभः स्यान्मकरेऽपि धनागमः ।
चापे भ्रातृजनात् सौख्यं मेषे मातृसुखं वदेत् ॥ १४॥
वृषभे पुत्रसौख्यं च मिथुने शत्रुतो भयम् ।
कर्के दारजनैः प्रीतिः सिंहे व्याधिविवर्धनम् ॥ १५॥
कन्यायां च सुतोत्पत्तिः कन्यांशे फलमीदृशम् ।
तुलभे धनसम्पत्तिर्वृश्चिके भ्रातृतः सुखम् ॥ १६॥
पितृवर्गसुखं चापे मातृकष्टं मृगे वदेत् ।
कुम्भे वाणिज्यतो लाभं मीने च सुखसम्पदम् ॥ १७॥
वृश्चिके च स्त्रीयाः पीडा तुले च जलतो भयम् ।
कन्यायां सुखसम्पत्तिस्तुलांशे फलमीदृशम् ॥ १८॥
कर्कभे धनहानिः स्यात् सिंहे भूपालतो भयम् ।
मिथुने भूमिलाभश्च वृशभे धनसम्पदः ॥ १९॥
मेषे तु रक्तजा पीडा मीने च सुखमादिशेत् ।
कुम्भे वाणिज्यतो लाभो मकरे च धनक्षितः ॥ २०॥
चापे च सुखसम्पत्तिर्वृश्चिकांशे फलं त्विदम् ।
मेषे च धनलाभः स्यात् वृषे भूमिविवर्द्धनम् ॥ २१॥
मिथुने सर्वसिद्धिः स्यात् कर्कभे सुखसम्पदः ।
सिंहे सर्वसुखोत्पत्तिः कन्यायां कलहागमः ॥ २२॥
तुले वाण्ज्यतो लाभो वृश्चिके रोगजं भयम् ।
चापे पुत्रसुखं वाच्यं धनुरंशे फलं त्विदम् ॥ २३॥
मकरे पुत्रलाभः स्यात् कुम्भे धनविवर्धनम् ।
मीने कल्याणमाप्नोति वृश्चिके पशुतो भयम् ॥ २४॥
तुलभे त्वर्थलाभः स्यात् कन्यायां शत्रुतो भयम् ।
कर्कटे श्रियमाप्नोति सिंहे शत्रु जनाद् भयम् ॥ २५॥
मिथुने विषतो भीतिर्मृगांशे फलमीदृशम् ।
वृशभे धनसम्पत्तिर्मेषे नेत्ररुजो भयम् ॥ २६॥
मीनभे दीर्घयात्रा स्यात् कुम्भे धनविवर्धनम् ।
मकरे सर्वसिद्धिः स्याच्चापे ज्ञानविवर्धनम् ॥ २७॥
मेषे सौख्यविनाशः स्यात् वृषभे मरणं भवेत् ।
मिथुने सुखसम्पत्तिः कुम्भांशे फलमीदृशम् ॥ २८॥
कर्कटे धनवृद्धिः स्यात् सिंहे राजाश्रयं वदेत् ।
कन्यायां धनधान्यानि तुले वाणिज्यतो धनम् ॥ २९॥
वृश्चिके ज्वरजा पीडा चापे ज्ञानसुखोदयः ।
मकरे स्त्रीविरोधः स्यात् कुम्भे च जलतो भयम् ॥ ३०॥
मीने तु सर्वसौभाग्यं मीनांशे फलमीदृशम् ।
दशाद्यंशक्रमेणैव ज्ञात्वा सर्वफलं वदेत् ॥ ३१॥
क्रूरग्रहदशाकाले शान्तिं कुर्याद् विधानतः ।
ततः शुभमवाप्नोति तद्दशायां न संशयः ॥ ३२॥
अथाष्टकवर्गाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ६६॥
भगवन् भवताऽख्यातं ग्रहभावादिजं फलम् ।
बहुनामृषिवर्याणामाचार्याणां च सम्मतम् ॥ १॥
संकरात् तत्फलानां च ग्रहाणां गतिसङ्करात् ।
इत्थमेवेति नो सर्वे ज्ञात्वा वक्तुमलं नराः ॥ २॥
कलौ पापरतानां च मन्दा बुद्धिर्युतो नृणाम् ।
अतोऽल्पबुद्धिगम्यं यत् शास्त्रमेतद् वदस्य मे ॥ ३॥
तत्तत्कालग्रहस्थित्या मानवानां परिस्फुटम् ।
सुखदुःखपरिज्ञानमायुषो निर्णयं तथा ॥ ४॥
साधु पृष्टं त्वया ब्रह्मन् कथयामि तवाग्रतः ।
लोकेयात्रापरिज्ञानमायुषो निर्णयं तथा ॥ ५॥
संकरस्याविरोधञ्च शास्त्रस्यापि प्रयोजनम् ।
जनानामुपकारार्थं सावधानमनाः शृणु ॥ ६॥
लग्नादिव्ययपर्यन्तं भावा संज्ञानुरूपतः ।
फलदाः शुभसंदृष्टा युक्ता वा शोभना मताः ॥ ७॥
ते तूच्चादिभगैः खेटैर्न चास्तारिभनीचगैः ।
पापैर्दृष्टयुता भावाः कल्याणेतरदायकाः ॥ ८॥
तैरःतारिभनीचस्थैर्न च मित्रस्वभोच्चगैः ।
एवं समान्यतः प्रोक्तं होराशास्त्रज्ञसूरिभिः ॥ ९॥
मयैयत् सकलं प्रोक्तं पूर्वाचार्यानुवर्तिना ।
आयुश्च लोकयात्रां च शास्त्रस्यास्यते प्रयोजनम् ॥ १०॥
निश्चेतुं तन्न सक्नोति वसिष्ठो वा बृहस्पतिः ।
किं पुनर्मनुजास्तत्र विशेषात्तु कलौ युगे ॥ ११॥
सामान्यांशो विशेषांशो ज्योतिःशास्त्रं द्विधोदितम् ।
प्रोक्तः सामान्यभागस्तु निश्चयांशस्तु कथ्यते ॥ १२॥
यथा लग्नाच्च चन्द्राच्च ग्रहाणां भावजं फलम् ।
तथाऽन्येभ्योऽपि खेटेभ्यो विचिन्त्यं दैवविद्वरैः ॥ १३॥
अतो रव्यादिखेटानां सलग्नानां पृथक् पृथक् ।
अष्टानां सर्वभावोत्थं यथोक्तमशुभं शुभम् ॥ १४॥
ज्ञात्वाऽदौ करणं स्थानं बिन्दुरेखोपलक्षितम् ।
क्रमादष्टकवर्गस्य वाच्यं स्पष्टफलं यथा ॥ १५॥
ततुस्वायुस्त्रिरिष्फेषु पञ्च कामे सुखेऽर्णवाः ।
अरौ भाग्ये त्रयः पुत्रे षट् करौ खे भवे च भूः ॥ १६॥
लग्नेन्दुजीवशुक्रज्ञास्तनौ स्वे मरणेऽपि च ।
रविभौमार्कि चन्द्रार्या व्यये ज्ञेन्दुसितायकाः ॥ १७॥
सुखे होरेन्दुशुक्राश्च धर्मेऽर्कार्किकुजा अरौ ।
होराज्ञार्येन्दवः कामे भवे दैत्येन्द्रपूजितः ॥ १८॥
सहजेऽर्कार्किशुक्रार्यभौमाः खे गुरुभार्गवौ ।
सुतेऽर्कार्कीन्दुलग्नारशुक्राः स्युः करणं रवेः ॥ १९॥
भाग्यस्वयोश्च षड् वेश्ममृतिहोरासु पञ्च च ।
मानदुश्चिक्ययोरेकः सुते वेदा अरिस्त्रियोः ॥ २०॥
त्रयो व्ययेष्टावाये च शून्यं शीतकरस्य तु ।
होरार्कारार्किभृगवोङ्गज्ञार्केन्द्वार्कभार्गवाः ॥ २१॥
जीवोर्कार्कीन्दुलग्नारा होरेन्दुगुरुभास्कराः ।
सितज्ञार्याः कुजतनुमन्दास्ते सितशीतगू ॥ २२॥
होरार्कारार्किविज्जीवाः शनिः खं सकलाः क्रमात् ।
व्ययवेश्मसुतस्त्रीषु षड् सप्त धनधर्मयोः ॥ २३॥
होरामृत्युवोः शरा वेदा विक्रमे खे त्रयः क्षते ।
द्वौ भवे शून्यमेवं स्यात् करणं भूमिजस्य तु ॥ २४॥
कुजस्यार्केन्दुविज्जीवसित लग्नशनी च तु ।
सितारगुरुमन्दाः स्युर्धर्मोक्तेषु कुजं विना ॥ २५॥
चन्द्रारगुरुशुक्रार्किलग्नानि कुजभास्करी ।
ज्ञेन्द्वर्कसितलग्नार्या एषु शुक्रं विना ततः ॥ २६॥
विना शनिं सप्त धर्मे सितेन्दुज्ञा वियत्ततः ।
अर्कार्किज्ञेन्दुलग्नाराः करणं प्रोच्यते क्रमात् ॥ २७॥
तनुस्वगृहकर्मारिधर्मेष्वग्निर्मृगौ करौ ।
भ्रातृस्त्रियो रसा लाभे शून्यं पुत्रे व्यये शराः ॥ २८॥
बुधास्यर्केन्दुगुरवो गुरुसूर्यबुधाः क्रमात् ।
लग्नार्कारार्किचन्द्रार्या ज्ञार्कार्या हि बुधस्य तु ॥ २९॥
जीवारेन्द्वार्किलग्नानि शुक्रमन्नधरासुताः ।
ज्ञेन्दुलग्नार्कशुक्रार्या ज्ञार्कौ जीवेन्दुलग्नकाः ॥ ३०॥
अर्कार्यशुक्रः शून्यं च होरेन्द्वारार्किभार्गवाः ।
रूपं धनाययोः खे द्वौ व्यये सप्त क्षतेऽर्णवाः ॥ ३१॥
मृतिविक्रमयो पञ्च गुरोः शेषेषु वह्नियः ।
लग्ने शुक्रेन्दुमन्दाः स्वे आये मन्दश्च विक्रमे ॥ ३२॥
लग्नारेन्दुज्ञभृगवः सुतेर्कार्यकुजा गृहे ।
शुक्रमन्देन्दवो द्यूने बुधशुक्रशनैश्चराः ॥ ३३॥
जीवारार्केन्दवः शत्रौ सर्वे मन्दं विना व्यये ।
कर्मणीन्दुशनी धर्मे मन्दारगुरवो मृगौ ॥ ३४॥
लग्नार्किसितचन्द्रज्ञाः करणं च गुरोरिदम् ।
सुतायुर्विक्रमेष्वक्षि तनुस्वव्ययखेष्विषुः ॥ ३५॥
अष्टौ स्त्रियामरौ षड् भूर्धर्मे मित्रेऽक्षि खं भवे ।
लग्ने स्वेऽर्कारविज्जीवमन्दाः सर्वे च कामभे ॥ ३६॥
अर्कार्यौ विक्रमस्थाने सुतेऽर्कारौ शुभे रविः ।
सुखेऽकबुधजीवाः स्युर्भौमज्ञौ मृतिभे द्वज ॥ ३७॥
शुक्रार्केन्द्वार्किलग्नार्याः शत्रौ शून्यं भवे व्यये ।
होरार्किबुधशुक्रार्यास्तन्वारज्ञेन्द्विनाश्च खे ॥ ३८॥
स्वस्त्रीधर्मेषु सप्ताङ्गं मृतिहोरागृहेषु च ।
आज्ञाभ्रातृव्यये वेदा रूपं शत्रौ सुते शराः ॥ ३९॥
आये शून्यं शनेरेवं करणं प्रोच्यते बुधैः ।
गृहे तनौ च लग्नार्कौ स्वस्त्रियोश्च रविं विना ॥ ४०॥
हित्वा धर्मे बुधं माने लग्नाररविचन्द्रजान् ।
ततो भ्रातरि जीवार्कबुधशुक्राः क्षते रविः ॥ ४१॥
व्यये लग्नेन्दुमन्दार्काः सितार्कन्दुज्ञलग्नकाः ।
सुते मृतौ बुधार्कौ च हित्वाऽये खं शनेर्विदः ॥ ४२॥
उक्ताऽन्ये स्थानदातार इति स्थानं विदुर्बुधाः ।
अथ स्थानग्रहान् वक्ष्ये सुखबोधाय सुरिणाम् ॥ ४३॥
स्वायस्तनुषु मन्दारसूर्या जीवबुधौ सुते ।
विक्रमे ज्ञेन्दुलग्नानि लग्नार्कार्किकुजा गृहे ॥ ४४॥
ते च ज्ञेन्दू खभे चाऽये सर्वे शुक्रं विना व्यये ।
लग्नशुक्रबुधाः शत्रौ ते च जीवसुधाकरौ ॥ ४५॥
द्यूनेऽर्कारार्किशुक्राश्च धर्मेर्कारार्किविद्गुरुः ।
ज्ञेन्दुजीवाः कुजार्यौ ज्ञार्केन्द्वारार्कितनूशनाः ॥ ४६॥
जीवशुक्रबुधा भौमबुधशुक्रशनैश्चराः ।
रवीन्द्वारार्किलग्नानि रवीन्द्वार्यज्ञभार्गवाः ॥ ४७॥
अर्कज्ञजीवाः शुक्रेन्दू ते च तौ लग्नभूसुतौ ।
सर्वे शून्यं क्रमात्प्रोक्तं स्थानं शीतकरस्य च ॥ ४८॥
लग्नमन्दकुजा भौमो होराज्ञेन्दुदिनाधिपाः ।
मन्दारौ ज्ञरवी ज्ञेन्दुजीवार्कतनुभार्गवाः ॥ ४९॥
मन्दारौ तौ सित श्चार्किः कुजार्कार्यार्किलग्नकाः ।
सर्वे गुरुसितौ स्थानं भौमस्तैवं विदुर्बुधाः ॥ ५०॥
लग्नमन्दारशुक्रज्ञा लग्नारेन्दुसितार्कजाः ।
शुक्रज्ञौ लग्नचन्द्रार्किसितारा ज्ञार्कभार्गवाः ॥ ५१॥
जीवज्ञार्केन्दुलग्नानि भूमिपुत्रशनैश्चरौ ।
तौ च लग्नेन्दु शक्रार्या मन्दारार्कज्ञभार्गवाः ॥ ५२॥
लग्नमन्दारविच्चन्द्राः सर्वे जीवज्ञभास्कराः ।
गुरोर्लग्ने सुखे जीव लग्नाराक्रबुधा धने ॥ ५३॥
चन्द्रशुक्रौ च दुश्चिक्ये मन्दार्यार्काः शनिर्व्यये ।
सुते शुक्रेन्दुलग्नज्ञमन्दाश्चन्द्रं विना त्वरौ ॥ ५४॥
लग्नारार्याऽर्केन्दवोऽस्ते मृगौ जीवार्कभूसुताः ।
धर्मे शुक्रार्कलग्नेन्दुबुधा मन्दं विनाऽयभे ॥ ५५॥
माने गुरुबुधारार्कशुक्रहोरास्तथा विदुः ।
लग्नशुक्रेन्दव स्ते ते ज्ञार्क्या रास्ते ज्ञवर्जिताः ॥ ५६॥
सुतभे लघ्नशशिजशशाङ्कार्यार्किभार्गवाः ।
ज्ञारौ शून्यं सिताऽर्केन्दुगुरुलग्नशनैश्चराः ॥ ५७॥
सर्वे रविं विना शुक्रगुरुमन्दाश्च मानभे ।
सर्वे कुजेन्दुरवयः क्रमात् भृगुसुतस्य च ॥ ५८॥
शने रवितनू सूर्यो लग्नेन्दुकुजसूर्यजाः ।
लग्नार्कौ जीवमन्दाराः सर्वे सूर्यं विना क्षते ॥ ५९॥
अर्कोऽर्कज्ञौ बुधोऽर्कारतनुज्ञाः सकलास्ततः ।
कुजज्ञगुरुशुक्राश्च क्रमात् स्थानमिदं विदुः ॥ ६०॥
तनौ तुर्ये च वह्निः स्याद् दुश्चिक्ये द्वौ धने शराः ।
बुद्धिमृत्यंकरिःफेषु षट् खेशक्षतराशिषु ॥ ६१॥
रूपंस्त्रियां गुरुं त्यक्त्वा लग्नस्य करणं त्विदम् ।
होरासूर्येन्दवो लग्ने लग्नारेन्द्विनसूर्यजाः ॥ ६२॥
गुरुज्ञौ लग्नचन्द्रारा लसूचंमंबुसौरयः ।
क्षते शुक्रस्तथा चैकः कामे सर्वे गुरुं विना ॥ ६३॥
मृगौ भृगुबुधौ त्यक्त्वा धर्मे गुरुसितौ विना ।
कर्मण्याये तथा शुक्रोव्यये सूर्येन्दुवर्जिताः ॥ ६४॥
लग्नस्येदं तु सम्प्रोक्तं करणं द्विजपुङ्गव ।
अथ स्थानं प्रवक्ष्यामि लग्नस्य द्विजपुङ्गव ॥ ६५॥
आर्किज्ञशुक्रगुर्वाराः सौम्यदेवेज्यभार्गवाः ।
हित्वा सौम्यगुरू शेषाः सूज्ञेज्यभृगुसूर्यजाः ॥ ६६॥
तथा जीवभृगू बुद्धौ सर्वे शुक्रं विना क्षते ।
जीव एकस्तथा द्यूने मृगौ सौम्यभृगू तथा ॥ ६७॥
धर्मे गुरुसितावेव खे भवे शुक्रमन्तरा ।
सूर्यचन्द्रौ तथा रिष्फे स्थानं लग्नस्य कीर्तितम् ॥ ६८॥
करणं बिन्दुवत् लेख्यं स्थानं रेखास्वरूपकम् ।
करणं त्वशुभदं प्रोक्तं स्थानं शुभफलप्रदम् ॥ ६९॥
दशारेखा लिखेदूर्ध्वास्तिर्यग् रेखाश्चतुर्दश ।
नगेशकोष्ठसंयुक्तं चक्रमेवं प्रजायते ॥ ७०॥
तिर्यगष्टसु कोष्ठेषु विलग्नसहितान् खगान् ।
आद्येषूर्ध्वाधरेष्वेवं भावसंख्या लिखेद् बुधः ॥ ७१॥
यथोक्तं विन्यसेत् तत्र करणं स्थानमेव वा ।
ततः शुभाऽशुभं ज्ञात्वा जातकस्य फलं वदेत् ॥ ७२॥
अथ त्रिकोणशोधनाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ६७॥
एवं सलग्नखेटानां विधायाष्टकवर्गकम् ।
त्रिकोणशोधनं कुर्यादादौ सर्वंषु राशिषु ॥ १॥
त्रिकोणं कथ्यते विप्र मेषसिंहधनूंष्यथ ।
वृषकन्यामृगस्याश्च युग्मतौलिघटास्तथा ॥ २॥
कर्कवृश्चिकमीनाश्च त्रिकोणाः स्युः परस्परम् ।
अधोऽधः सर्वराशीनामष्टवर्गफलं न्यसेत् ॥ ३॥
त्रिकोणेषु च यन्न्यूनं तत्तुल्यं त्रिषु शोधयेत् ।
एकस्मिन् भवने शून्यं तत् त्रिकोणं न शोधयेत् ॥ ४॥
समत्वे सर्वगेहेषु सर्वं संशोधयेद् बुधः ।
पश्चात् विपश्चिता कार्यमेकाधिपतिशोधनम् ॥ ५॥
अथैकाधिपत्यशोधनाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ६८॥
पूर्वं त्रिकोणं संशोध्य राशीनां स्थापयेत् फलम् ।
पृथक् पृथक् ततः कुर्यादेकाधिपतिशोधनम् ॥ १॥
क्षेत्रद्वये फलनि स्युस्तदा संशोधयेद् यथा ।
क्षीणेन सह चान्यस्मिन् शुधयेद् ग्रहवर्जिते ॥ २॥
उभयोर्ग्रहसंयोगे न संशोध्यः कदाचन् ।
ग्रहयुक्ते फलैर्हीने ग्रहाभावे फलाधिके ॥ ३॥
ऊनेन सममन्यस्मिन् शोधयेद् ग्रहवर्जिते ।
फलाधिके ग्रहैर्युक्ते चान्यस्मिन् सर्वमुत्सृजेत् ॥ ४॥
उभयत्र ग्रहभावे समत्वे सकलं त्यजेत् ।
सग्रहाग्रहयोस्तुल्ये सर्वं संशोध्यमग्रहे ॥ ५॥
कुलीरसिंहयो राश्योः पृथक् क्षेत्रं पृथक् फलम् ।
संशोध्यैकाधिपत्यं हि ततः पिण्डं प्रसाधयेत् ॥ ६॥
अथ पिण्डसाधनाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ६९॥
एवं शोध्यावशेषाङ्कं राशिमानेन वर्द्धयेत् ।
ग्रहयुक्ते च तद्राशौ ग्रहमानेन वर्द्धयेत् ॥ १॥
सर्वेषां च पुनर्योगः पिण्डाख्यः कथ्यते द्विज ।
गोसिंहौ दशभिर्गुण्यौ वसुभिर्युग्मवृश्चिकौ ॥ २॥
सप्तभिस्तुलमेषौ च मृगकन्ये च पञ्चभिः ।
शेषाः स्वसंख्यया गुण्या ग्रहमानमथोच्यते ॥ ३॥
जीवारशुक्रसौम्यानां दशाष्टनगसायकाः ।
पञ्च शेषग्रहाणां च मानं प्रोक्तमिदं क्रमात् ॥ ४॥
अथाऽष्टकवर्गफलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ७०॥
आत्मस्वभावशक्तिश्च पितृचिन्ता रवेः फलम् ।
मनोबुद्धिप्रसादश्च मातृचिन्ता मृगाङ्कतः ॥ १॥
भ्रातृसत्त्वं गुणं भूमिं भौमेनैव विचिन्तयेत् ।
वाणिज्यकर्म वृत्तिश्च सुहृदं च बुधेन तु ॥ २॥
गुरुणा देहपुष्टिञ्च विद्या पुत्रार्थसम्पदः ।
भृगोर्विवाहकर्माणि भोगस्थान च वाहनम् ॥ ३॥
वेश्यास्त्रीजनसंयोगं शुक्रेण च निरीक्षयेत् ।
आयुश्च जीवनोपायं दुःखशोक भयानि च ॥ ४॥
सर्वक्षयं च मरणं मन्देनैव निरीक्षयेत् ।
तत्तद्भावफलाङ्केन गुणयेद् योगपिण्डकम् ॥ ५॥
सप्तविंशओधृतं शेषतुल्यर्क्षे याति भानुजः ।
यदा तदा तस्य तस्य भावस्यार्ति विनिर्दिशेत् ॥ ६॥
अर्काश्रितर्क्षान्नवमो राशिः पितृ गृहं स्मृतम् ।
तद्राशिफलसंख्याभिर्वर्धयेद् योगपिण्डकम् ॥ ७॥
विभजेत् सप्तविंशत्या शेषर्क्षे याति भानुजः ।
यदा तदा पितृक्लेशो भवतीति न संशयः ॥ ८॥
तत्त्रिकोणगते वापि पिता पितृसमोऽपि वा ।
मरणं तस्य जानीयात् पीडां वा महतीं वदेत् ॥ ९॥
गुणयेद् योगपिण्डं वा तद्राशिफलसंख्यया ।
अर्कोद्धृतावशेषर्क्षे यदा गच्छति भानुजः ॥ १०॥
तत्त्रिकोणर्क्षकं वापि पितृकष्टं तदा वदेत् ।
रिष्टप्रददशायां तु मरणं कष्टमन्यदा ॥ ११॥
अर्कात्तु तुर्यगे राहौ मन्दे वा भूमिनन्दने ।
गुरुशुक्रेक्षणमृते पितृहा जायते नरः ॥ १२॥
लग्नात् चन्द्राद् गुरुस्थाने याते सूय्रसुतेऽथवा ।
पापैर्दृष्टे युते वापि पितृनाशं वदेद् बुधः ॥ १३॥
लग्नात् सुखेश्वरारिष्टदशाकाले पितृक्षयः ।
अनुकूलदशाकाले नेति चिन्त्यं विचक्षणैः ॥ १४॥
पितृजन्माष्टमे जातस्तदीशे लग्नगेऽपि वा ।
करोति पितृकार्याणि स एवात्र न संशयः ॥ १५॥
सुखनाथदशायान्तु सुखप्राप्तेश्च संभवः ।
सुखेशे लग्नलाभस्थे चन्द्रस्थानाद् विशेषतः ।
पितृगेहसमायुक्ते जातः पितृवशानुगः ॥ १६॥
पितृजन्मतृतीयर्क्षे जातः पितृधनाश्रितः ।
पितृकर्मगृहे जातः पितृतुल्यगुणान्वितः ॥ १७॥
तदीशे लग्नसंस्थेऽपि पितृश्रेष्ठो भवेन्नरः ।
एवं पूर्वक्तसामान्यफलं चात्रापि चिन्तयेत् ॥ १८॥
सूर्याष्टवर्गे यञ्छून्यं तन्मासे वस्तरेऽपि च ।
विवाहव्रतचूडादि शुभकर्म परित्यजेत् ॥ १९॥
यत्र रेखाधिका तत्र मासे संवचरेऽपि च ।
अनिष्टेऽपि रवौ जीवे शुभकर्म समाचरेत् ॥ २०॥
एवं चन्द्राष्टवर्गे च यत्र शून्यं भवेद् बहु ।
तत्र तत्र गते चन्द्रे शुभं कर्मं परित्यजेत् ॥ २१॥
चन्द्राच्चतुर्थो मातृप्रसादग्रामचिन्तनम् ।
चन्द्रात् सुखफलं पिण्डं वर्द्धयेद् भैश्च सम्भजेत् ॥ २२॥
शेषमृक्षं शनौ याते मातृहानिं विनिर्दिशेत् ।
तत्त्रिकोणगते चापि शनौ मातृरुजं वदेत् ॥ २३॥
भौमाष्टवर्गे संचिन्त्यं भ्रातृविक्रमधैर्यकम् ।
कुजाश्रितात् तृतीयर्क्षं बुधैर्भ्रातृगृहं स्मृतम् ॥ २४॥
त्रिकोणशोधनं कृत्वा यत्र स्यादधिकं फलम् ।
भूमेर्लाभोऽत्र भार्याया भ्रातृणां सुखमुत्तमम् ॥ २५॥
भौमो बलविहीनश्चद् दीर्घायुर्भातृको भवेत् ।
फलानि यत्र क्षीयन्ते तत्र भौमे गते क्षतिह् ॥ २६॥
तृतीयर्क्षफलेनाथ पिण्डं सम्बर्ध्य पूर्ववत् ।
शेषमृक्षं शनौ याते भ्रातृकष्टं विनिर्दिशेत् ॥ २७॥
बुधात्तुर्ये कुटुम्बं च मातुलं मित्रमेव च ।
बुधे फलाधिके राशौ गते तीषां सुखं दिशेत् ॥ २८॥
बुधाष्टवर्गं संशोध्य शेषमृक्षं गते शनौ ।
कष्टं कुटुम्बमित्राणां मातुलानां च निर्दिशेत् ॥ २९॥
जीवात् पञ्चमतो ज्ञानं धर्मं पुत्रं च चिन्तयेत् ।
तस्मिन् फलाधिके राशौ सन्तानस्य सुखं दिशेत् ॥ ३०॥
बृहस्पतेः सुतस्थाने फलं यत्संख्यकं भवेत् ।
शत्रुनीचग्रहं त्यक्त्वा तावती सन्ततिर्ध्रुवा ॥ ३१॥
सुतभेशनवांशैश्च तुल्या वा सन्ततिर्भवेत् ।
सुतभावफलेनैवं पिण्डं संगुण्य पूर्ववत् ॥ ३२॥
पुत्रकष्टं विजानीयात् शेषमृक्षं गते शनौ ।
एवं धर्मं च विद्यां च कल्पयेत् कालचित्तमः ॥ ३३॥
शत्रुस्याकष्टवर्गं च निक्षिप्याकाशचारिषु ।
यत्र यत्र फलानि स्युर्भूयांसि कलि तत्र तु ॥ ३४॥
वित्तं कलत्रं भूमिं च तत्तद्देशाद् विनिर्दिशेत् ।
शुक्राज्जामित्रतो दारलब्धिश्चिन्त्या विचक्षणैः ॥ ३५॥
जामित्रतत्त्रिकोणस्थराशिदिग्देशसम्भवा ।
सुखेदुःखे स्त्रियाश्चिन्त्ये पिण्डं संवर्ध्य पूर्ववत् ॥ ३६॥
सनैश्चराश्रितस्थानादष्टमं मृत्युभं स्मृतम् ।
तदेव चायुषः स्थानं तस्मादायुर्विचिन्तयेत् ॥ ३७॥
लग्नात्प्रभृति मन्दान्तं फलान्येकत्र कारयेत् ।
तद्योगफलतुल्याब्दे व्याधिं वैरं समादिशेत् ॥ ३८॥
एवं मन्दादिलग्नान्तं फलान्येकत्र योजयेत् ।
तत्तुल्यवर्षे जातस्य तस्य व्याधिभयं वदेत् ॥ ३९॥
द्वयोर्योगसमे वर्षे कष्टं मृत्युसमं दिशेत् ।
दशारिष्टसमायोगो मृत्युरेव न संशयः ॥ ४०॥
पिण्डं संस्थाप्य गुणयेत् शनेरष्टमगैः फलैः ।
सप्तविंशतिहृच्छेषतुल्यमृक्षं गते शनौ ॥ ४१॥
तत्त्रिकोणर्क्षगे वापि जातकस्य मृतिं वदेत् ।
अर्कहृच्छेषराशौ वा तत्त्रिकोणेऽपि तद् वदेत् ॥ ४२॥
शनैश्चराष्टवर्गेषु यत्र नास्ति फलं गृहे ।
तत्र नैव शुभं तस्य यदा याति शनैश्चरः ॥ ४३॥
यत्र राशौ शुभाधिक्यं तत्र याते शनैश्चरे ।
जातकस्य ध्रुवं ज्ञेयं तस्मिन् काले शुभं फलम् ॥ ४४॥
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.