The greatness of Krishna Devotees - Vraja Loka Astro Spiritual Center

The greatness of Krishna Devotees  As described in Srimad Bhagavatham  Vraja Loka Astro SPiitual Center     .. Shri Ganeshaya Namah.. .. ॐ S...

Thursday, November 19, 2009

बृहत्पाराशरहोराशास्त्रम् ३१-४० Brihat Parashara Hora Shastram

 

 

 

 

बृहत्पाराशरहोराशास्त्रम् ३१-४०

Brihat Parashara Hora Shastram

 

 


 

 

                 अथाऽर्गलाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ३१॥

 

भगवान् याऽर्गला प्रोक्ता शुभदा भवताऽधुना ।

तामहं स्रोतुमिच्छामि सलक्षणफलं मुने ॥ १॥

 

मैत्रेय सार्गला नाम यया भावफलं दृढम् ।

स्थिरं खेटफलं च स्यात् साऽधुना कथ्यते मया ॥ २॥

 

चतुर्थे च धने लाभे ग्रहे ज्ञेया तदर्गला ।

तद्बाधकाः क्रमात् खेटा व्योमरिष्फतृतीयगाः ॥ ३॥

 

निर्बला न्यूनसंख्या वा बाधका नैव सम्मताः ।

तृतीये व्याधिकाः पापा यत्र मैत्रेय बाधकाः ॥ ४॥

 

तत्रापि चार्गला ज्ञेया विपरीता द्विजोत्तम ।

तथापि खेटभावानां फलमर्गलितं विदुः ॥ ५॥

 

पञ्चमं चार्गलास्थानं नवमं तद्विरोधकृत् ।

तमोग्रहभवा सा च व्यत्ययाज् ज्ञायते द्विज ॥ ६॥

 

एकग्रहा कनिष्ठा सा द्विग्रहा मध्यमा स्मृता ।

अर्गला द्व्यधिकोत्पन्ना मुनिभिः कथितोत्तमा ॥ ७॥

 

राशितो ग्रहतश्चापि विज्ञेया द्विविधाऽर्गला ।

निर्बाधका सुफलदा विफला च सबाधका ॥ ८॥

 

यत्र राशौ स्थितः खेटस्तस्य पाकान्तरं यदा ।

तस्मिन् काले फलं ज्ञेयं निर्विशंकं द्विजोत्तम ॥ ९॥

 

अर्गलां प्रतिबन्धञ्च कथमांघ्रिचतुर्थयोः ।

द्वित्र्यङ्घ्रयोश्च मिथो विप्र चिन्तयेदिति मे मतम् ॥ १०॥

 

पदे लग्ने मदे वापि निराभासार्गला यदा ।

तदा जातोऽतिविख्यातो बहुभाग्ययुतो भवेत् ॥ ११॥

 

यस्य पापः शुभो वापि ग्रहस्तिष्ठेत् शुभार्गले ।

तेन द्रष्ट्रेक्षितं लग्नं प्राबल्यायोपकल्प्यते ॥ १२॥

 

सार्गले च धने विप्र धनधान्यसमन्वितः ।

तृतीये सोदरादीनां सुखमुक्तं मनीषिभिः ॥ १३॥

 

चतुर्थे सार्गले गेहपशुबन्धुकुलैर्युतः ।

पञ्चमे पुत्रपौत्रादिसंयुतो बुद्धिमान्नरः ॥ १४॥

 

षष्ठे रिपुभयं कामे धनदारसुखं बहु ।

अष्टमे जायते कष्टं धर्मे भाग्योदयो भवेत् ॥ १५॥

 

दशमे राजसम्मानं लाभे लाभसमन्वितः ।

सार्गले च व्यये विप्र व्ययाधिक्यं प्रजायते ॥ १६॥

 

शुभग्रहार्गलायां तु सौख्यं बहुविधं भवेत् ।

मध्यं पापार्गलायां च मिश्रायामपि चोत्तमम् ॥ १७॥

 

लग्नपञ्चमभाग्येषु सार्गलेषु द्विजोत्तम ।

जातश्च जायते राजा भाग्यवान् नात्र संशयः ॥ १८॥

 


 

 

                अथ कारकाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ३२॥

 

अथाऽहं सम्प्रवक्ष्यामि ग्रहानात्मादिकारकान् ।

सप्तरव्यादिशन्यन्तान् राह्वन्तान् वाऽष्टसंख्यकान् ॥ १॥

 

अंशैः समौग्नहौ द्वौ चेद्राह्वन्तन् चिन्तयेत् तदा ।

सप्तैव कारकानेवं केचिदष्टौ प्रचक्षते ॥ २॥

 

अत्मा सूर्यादिखेटानां मध्ये ह्यंशाधिको ग्रहः ।

अंशसाम्ये कलाधिक्यात् तत्साम्ये विकलाधिकः ॥ ३॥

 

बुधौ राशिकलाधिक्यत् ग्राह्वो नैवात्मकारकः ।

अंशाधिकः कारकः स्यादल्पभागोऽन्त्यकारकः ॥ ४॥

 

मध्यांशो मध्यखेटः स्यादुपखेटः स एव हि ।

विलोमगमनाद्राहोरंशाः शोध्याः खवह्नितः ॥ ५॥

 

अंशक्रमादधोऽधःस्थाश्चराख्याः कारका इति ।

आत्माख्यकारकस्तेषु प्रधानं कथ्यते द्विज ॥ ६॥

 

स एव जातकाधीशो विज्ञेयो द्विजसत्तम ।

यथा भूमौ प्रसिद्धोऽस्ति नराणां क्षितिपालकः ॥ ७॥

 

सर्ववार्ताधिकारी च बन्धकृन्मोक्षक्रत् तथा ॥ ८॥

 

यथा राजाज्ञया विप्रा पुत्रामात्यादयो जनाः ।

समर्था लोककार्येषु तथैवान्येपि कारकाः ॥ ९॥

 

आत्मानुकूलमेवात्र भवन्ति फलदायकः ।

प्रतिकूले यथा भूपे सर्वेऽमात्यादयो द्विज ॥ १०॥

 

कर्य कर्तुं मनुष्यानां न समर्था भवन्ति हि ।

तथाऽत्मकारके क्रूरे नाऽन्ये स्वशुभदायकः ॥ ११॥

 

अनुकूले नृपे यद्वत् सर्वेऽमात्यादयो द्विज ।

नाशुभं कुर्वते तद्वनान्ये स्वाशुभदायकाः ॥ १२॥

 

आत्माकारकभागेभ्यो न्यूनांशोऽमात्यकारकः ।

तस्मान्न्यूनांशको भ्राता तन्न्यूनोमातृसंज्ञकः ॥ १३॥

 

तन्न्यूनांशः पितातस्मादल्पांशः पुत्रकारकः ।

पुत्रान्न्यूनांशको ज्ञतिर्ज्ञातेर्न्यूनांशको हि यः ॥ १४॥

 

स दारकारको ज्ञेयो निर्विशंके द्विजोत्तम ।

चराख्यकारला एते ब्राह्मणा कथिताः पुरा ॥ १५॥

 

मातृकारकमेवाऽन्ये वदन्ति सुतकारकम् ।

द्वौ ग्रहौ भागतुल्यौ चेज्जायेतां यस्य जन्मनि ॥ १६॥

 

तदग्रकारकस्यैवं लोपो ज्ञेयो द्विजोत्तम ।

स्थिरकारकवशात्तस्य फलं ज्ञेयं शुभाऽशुभम् ॥ १७॥

 

अधुना सम्प्रवक्ष्यामि स्थिराख्यान् करकग्रहान् ।

स पितृकारको ज्ञेयो यो बली रविशुक्रयोः ॥ १८॥

 

चन्द्रारयोर्बली खेटो मातृकारक उच्यते ।

भौमतो भगिनी श्यालः कनीयान् जननीत्यपि ॥ १९॥

 

बुधान्मातृसजातीया मातुलाद्याश्च बान्धवाः ।

गुरोः पितामहः शुक्रात् पितः पुत्रः शनैश्चरात् ॥ २०॥

 

विप्रान्तेवासिनः पत्नी पितरौ श्वशुरौ तथा ।

मातामहादयश्चिन्त्या एते च स्थिरकारका ॥ २१॥

 

अथाऽहं कारकान् वक्ष्ये खेटभाववशाद्द्विज ।

रवितः पुन्>यभे तातश्चन्द्रान्माता चतुर्थके ॥ २२॥

 

कुजात् तृतीयतो भ्राता बुधात् षष्थे च मातुलः ।

देवेज्यात् पञ्चमात् पुत्रो दाराः शुक्राच्च सप्तमे ॥ २३॥

 

मन्दादष्टमतो मृत्युः पित्रादीनां विचिन्तयेत् ।

इति सर्व विचार्यैव बुधस्तत्तत् फलं वदेत् ॥ २४॥

 

अथाऽहं सम्प्रवक्ष्यामि प्रसङ्गाद्योगकारकान् ।

खेटान् जन्मनि जातस्य मिश्रः स्थितिवशाद् द्विज ॥ २५॥

 

स्वर्क्षे स्वोच्चे च मित्रर्क्षे मिथः केन्द्रगता ग्रहाः ।

ते सर्वे कारकास्तेषु कर्मगस्तु विशेषतः ॥ २६॥

 

यथा लग्ने सुखे कामे स्वोर्क्षोच्चस्था ग्रहा द्विज ।

भवन्ति कारकाख्यास्ते विशेषेण च खे स्थिताः ॥ २७॥

 

स्वमित्रोच्चर्क्षगो हेतुरन्योऽन्यं यदि केन्द्रगः ।

सुहृत् तद्गुणसम्पन्नः सोऽपि कारक उच्यते ॥ २८॥

 

नीचान्वयेऽपि यो जातः विद्यमाने च कारके ।

सोऽपि राजमनो विप्र धनवान् सुखसंयुतः ॥ २९॥

 

राजवंशसमुत्पन्नो राजा भवति निश्चयात् ।

एवं कुलानुसारेण कारकेभ्यः फलं वदेत् ॥ ३०॥

 

अथाऽहं सम्प्रवक्ष्यामि विशेषं भावकारकान् ।

जनस्य जन्मलग्नं यत् विन्द्यादात्मकारकम् ॥ ३१॥

 

धनभावं विजानीयाद् दारकारकमेव हि ।

एकादशेऽग्रजातस्य तृतीये तु कनीयसः ॥ ३२॥

 

सुते सुतं विजानीयात् पत्नीं सप्तमभावतः ।

सुतभवे ग्रहो यः स्यात् सोऽपि कारक उच्यते ॥ ३३॥

 

सूर्यो गुरुः कुजः सोमो गुरुर्भौभः सितः शनिः ।

गुरुश्चन्द्रसुतो जीवो मन्दश्च भवकारकाः ॥ ३४॥

 

पुनस्तन्वादयो भावः स्थाप्यास्तेषां शुभाऽशुभम् ।

लाभस्तृतीयो रन्ध्रश्च शत्रुसंज्ञधनव्ययाः ॥ ३५॥

 

एते भावाः समाख्याताः क्रूराख्या द्विजसत्तम ।

एषां योगेन यो भावस्तस्य हानिः प्रजायते ॥ ३६॥

 

भावा भद्राश्च केन्द्रारव्याः कोणाख्यौ द्विजसत्तम ।

एषां संयोगमात्रेण ह्वशुभोऽपि शुभो भवेत् ॥ ३७॥

 


 

 

         अथ कारकांशफलाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ३३॥

 

अथाऽहं सम्प्रवक्ष्यामि कारकांशफलं द्विज ।

मेषादिराशिगे स्वांशे यथावद् ब्रह्मभाषितम् ॥ १॥

 

गृहे मूषकमार्जारा मेषांशे ह्वात्मकारके ।

सदा भयप्रदा विप्र पापयुक्ते विशेषतः ॥ २॥

 

वृषांशकगते स्वस्मिन् सुखदाश्च चतुष्पदाः ।

मिथुनांशगते तस्मिन् कण्ड्वादिव्याधिसम्भवः ॥ ३॥

 

कर्कांशे च जलाद्भीतिः सिम्हांशे श्वपदाद्भयम् ।

कण्डूः स्थौल्यञ्च कन्यांशे तथा वह्निकणाद्भयम् ॥ ४॥

 

तुलांशे च वणिग् जातो वस्रादिनिर्मितौ पटुः ।

अल्यंशे सर्पतो भीतिः पीडा मातुः पयोधरे ॥ ५॥

 

धनुरंशे क्रमादुच्चात् पतनं वाहनादपि ।

मरकांशे जलोद्भूतैर्जन्तुभिः खेचरस्तथा ॥ ६॥

 

शंखमुक्ताप्रवालाद्यैर्लाभो भवति निश्चितः ।

कुम्भांशे च तडागादिकारको जायते जनः ॥ ७॥

 

मीनांशे कारके जातो मुक्तिभाग् द्विजसत्तम ।

नाऽशुभं शुभसंदृष्टे न शुभं पापवीक्षिते ॥ ८॥

 

कारकांशे शुभे विप्र लग्नांशे च शुभग्रहे ।

शुभसंवीक्षिते जातो राजा भवति निश्चितः ॥ ९॥

 

स्वांशाच्छुभग्रहाः केन्द्रे कोणे वा पापवर्जिताः ।

धनविद्यायुतो जातो मिश्रैर्मिश्रफलं वदेद् ॥ १०॥

 

उपग्रहे च विप्रेन्द्र स्वोच्चस्वर्क्षंसुभर्क्षगे ।

पापदृग्रहिते चाऽन्त्ये कैवल्यंतस्य निर्दिशेत् ॥ ११॥

 

चन्द्राऽरभृगुवर्गस्थ कारके पारदारिकः ।

विपर्यस्थेऽन्यथा ज्ञेयं फलं सर्वं विचक्षणैः ॥ १२॥

 

कारकांशे रवौ जातो राजकार्यपरो द्विज ।

पूर्णेन्द्रौ भोगवान् विद्वान् शुक्रदृष्टे विशेषतः ॥ १३॥

 

स्वांशे बलयुते भौमे जातः कन्तायुघी भवेत् ।

वह्निजीवी नरो वाऽपि रसवादी च जायते ॥ १४॥

 

बुधे बलयुते स्वांशे कलाशिल्पविचक्षनः ।

वाणिज्यकुशलश्चापि बुद्धिविद्यासमन्वितः ॥ १५॥

 

सुकर्मा ज्ञाननिष्ठश्च वेदवित् स्वांशगे गुरौ ।

शुक्रे शतेन्द्रियः कामी राजकीतो भवेन्नरः ॥ १६॥

 

शनौ स्वांशगते जातः स्वकुलोचितकर्मकृत् ।

राहौ चौरश्च धनुष्को जातो वा लोहयन्त्रकृत् ॥ १७॥

 

विषवैद्योऽथवा विप्र जायते नाऽत्र संशयः ।

व्ययहारी गजादीनां केतौ चौरश्च जायते ॥ १८॥

 

रविराहू यदा स्वांशे सर्पाद् भीतिः प्रजायते ।

शुभदृष्टौ भयं नैव पापदृष्टौ मृतिभवेत् ॥ १९॥

 

शुभषड्वर्गसंयुक्तौ विषवैद्यो भवेन् तदा ।

भौमेक्षिते कारकांशे भानुस्वर्भानुसंयुते ॥ २०॥

 

अन्यग्र्हा न पश्यन्ति स्ववेश्मपरदाहकः ।

तस्मिन् बुधेक्षि ते चापि वह्निदो नैव जायते ॥ २१॥

 

पापर्क्षे गुरुणा दृष्टे समीपगृहदाहकः ।

शुक्रदृष्टे तु विप्रेन्द्र गृहदाहो न जायते ॥ २२॥

 

गुलिकेन युते स्वांशे पूर्णचन्द्रेण वीक्षिते ।

चौरैर्हृतधनो जातः स्वयं चौरोऽथवा भवेत् ॥ २३॥

 

गृहादृष्टे सगुलिके विपदो वा विषैर्हतः ।

बुधदृष्टे बृहद्वीजो जायते नाऽत्र संशयः ॥ २४॥

 

सकेतौ कारकांशे च पापदृष्टे द्विजोत्तम ।

जातस्य कर्णरोगो वा कर्णच्छेदः प्रजायते ॥ २५॥

 

भृगुपुत्रेक्षिते तस्मिन् दीक्षितो जायते जनः ।

बुधार्किदृष्टे निर्वीर्यो जायते मानवो ध्रुवम् ॥ २६॥

 

बुधशुक्रेक्षिते तस्मिन् दासीपुत्रः प्रजायते ।

पुनर्भवासुतो वाऽपि जायते नाऽत्र संशयः ॥ २७॥

 

तपस्वी सनिना दृष्टे जातः प्रेष्योऽथवा भवेत् ।

शनिमात्रेक्षिते तस्मिन् जातः संन्यासिवेषवान् ॥ २८॥

 

रविसुक्रेक्षिते तस्मिन् राजप्रेष्यो जनो भवेत् ।

इतिसंक्षेपतः प्रोक्तं कारकांशफलं द्विज ॥ २९॥

 

स्वांशाद्धने च शुक्रारवर्गे स्यात् पारदारिकः ।

तयोर्दृग्योगतो ज्ञेयमिदमामरणं फलम् ॥ ३०॥

 

केतौ तत्प्रतिबन्धः स्यात् गुरौ तु स्रैण एव सः ।

राहौ चाऽर्थनिवृत्तिः स्यात् कारकांशाद् द्वितीयगे ॥ ३१॥

 

स्वांशात् तृतीयगे पापे जातः शूरः प्रतापवान् ।

तस्मिन् शुभग्रहे जातः कातरो नात्र संशयः ॥ ३२॥

 

स्वांशाच्चतुर्थभावे तु चन्द्रशुक्रयुतेक्षिते ।

तत्र वा स्वोच्चगे खेटे जातः प्रासादवान् भवेत् ॥ ३३॥

 

शनिराहुयुते तस्मैन् जातस्य च शिलागृहम् ।

ऐष्टिकं कुजकेतुभ्यां गुरुणा दारवं गृहम् ॥ ३४॥

 

तार्ण तु रविणा प्रोक्तं जातस्य भवनं द्विज ।

चन्द्रे त्वनावृते देशे पत्नीयूगः प्रजायते ॥ ३५॥

 

पञ्चमे कुजराहुभ्यां क्षयरोगस्य संभवः ।

रात्रिनाथेन दृष्टाभ्यां निश्चयेन प्रजायते ॥ ३६॥

 

कुजदृष्टौ तु जातस्य पिटकादिगदो भवेत् ।

केतुदृष्टौ तु ग्रहणी जलरोगोऽथवा द्विज ॥ ३७॥

 

सराहुगुलिके तत्र भयं क्षुदविषोद्भवम् ।

बुधे परमहंसश्च लगुडी वा प्रजायते ॥ ३८॥

 

रवौ खेड्गधरो जातः कुजे कुन्तायुधी भवेत् ।

शनौ धनुर्धरो ज्ञेयो राहौ च लोहयन्त्रवान् ॥ ३९॥

 

केतौ च घटिकायन्त्री मानवो जायते द्विज ।

भार्गवे तु कविर्वाग्मी काव्यज्ञो जायते जनः ॥ ४०॥

 

स्वांशे तत्पञ्चमे वाऽपि चन्द्रेज्याभ्यां च ग्रन्थकृत् ।

शुक्रेण किञ्चिदूनोऽसौ ततोऽप्यल्पो बुधेन च ॥ ४१॥

 

गुरुणा केवलेनैव सर्वविद् ग्रन्थकृत् तथा ।

वेदवेदान्तविच्चापि न वाग्मी शाब्दकोऽपि सन् ॥ ४२॥

 

नैयायिकः कुजेनासौ ज्ञेन मीमांसकस्तथा ।

सभाजडस्तु शनिना गीतज्ञो रविणा स्मृतः ॥ ४३॥

 

चन्द्रेण सांख्ययोगज्ञः साहित्यज्ञश्च गायकः ।

केतुना गणितज्ञोऽसौ राहणाऽपि तथैव च ॥ ४४॥

 

सप्रदायस्य सिध्हिः स्यात् गुरुसम्बन्धतो द्विज ।

स्वांशाद् द्वितीयतः केचित् फलमेवं वदन्ति हि ॥ ४५॥

 

स्वांशात् षष्ठगते पापे कर्षको जायते जनः ।

शुभग्रहेऽलसश्चेति तृतीयेऽपि फलं स्मृतम् ॥ ४६॥

 

द्यूने चन्द्रगुरु यस्य भार्या तस्यातिसुन्दरी ।

तत्र कामवती शुक्रे बुधे चैव कलावती ॥ ४७॥

 

रवौ च स्वकुले गुप्ता शनौ चापि वयोऽधिका ।

तपस्विनी रुजाढ्य वा राहौ च विधवा स्मृता ॥ ४८॥

 

शुभस्वामियुते रन्ध्रे स्वांशाद् दीर्घायुरुच्यते ।

पापेक्षितयुतेऽल्पायुर्मध्यायुर्मिश्रदृग्युते ॥ ४९॥

 

कारकांशाच्च नवमे शुभग्रहयुतेक्षित ।

सत्यवादी गुरौ भक्तः स्वधर्मनिरतो नरः ॥ ५०॥

 

स्वांशाच्च नवमे भावे पापग्रहयुतेक्षिते ।

स्वधर्मनिरतो बाल्ये मिथ्यावादी च वार्धके ॥ ५१॥

 

नवमे कारकांशाच्च शनिराहुयुतेक्षिते ।

गुरुद्रोही भवेद् बालः शास्त्रेषु विमुखो नरः ॥ ५२॥

 

कारकांशाच्च नवमे गुरुभानुयुतेक्षिते ।

तदाऽपि गुरुद्रोही स्यात् गुरुवाक्यं न मन्यते ॥ ५३॥

 

कारकांशाच्च नवमे शुक्रभौमयुतेक्षिते ।

षड्वर्गादिकयोगे तु मरणं पारदारिकम् ॥ ५४॥

 

कारकांशाच्च नवमे ज्ञेन्दुयुक्तेक्षिते द्विज ।

परस्त्री सङ्गमाद् बालो बन्धको भवति ध्रुवम् ॥ ५५॥

 

नवमे केवलेनैवे गुरुणा च युतेक्षिते ।

स्त्रीलोतुपो भवेज्जातो विषयी चैव जायते ॥ ५६॥

 

कारकांशाच्च दशमे शुभल्हेटयुतेक्षिते ।

स्थिरवित्तो भवेद् बालो गम्भीरो बलबुद्धिमान् ॥ ५७॥

 

दशमे कारकांशाच्च पापखेटयुतेक्षिते ।

व्यापारे जायते हानिः पितृसौख्येन वर्जितः ॥ ५८॥

 

दशमे कारकांशाच्च बुधशुक्रयुतेक्षिते ।

व्यापारे बहुलाभश्च महत्कर्मकओर् नरः ॥ ५९॥

 

कारकांशाच्च दशमे रविचन्द्रयुतेक्षिते ।

गुरुदृष्टयुते विप्र जातको राज्यभाग् भवेत् ॥ ६०॥

 

स्वांशादेकादशे स्थाने शुभखेटयुतेक्षिते ।

भ्रातृसौख्ययुतो बालः सर्वकार्येषु लाभकृत् ॥ ६१॥

 

एकादशे सपापे तु कुमार्गाल्लाबकृन्नरः ।

विख्यातो विक्रमी चैव जायते नाऽत्र संशयः ॥ ६२॥

 

कारकांशाद् व्ययस्थाने सद्ग्रहे सद्व्ययो भवेत् ।

असद्व्ययोऽशुभे ज्ञयो ग्रहाभावे च सत्फलम् ॥ ६३॥

 

कारकांशाद् व्ययस्थाने स्वभोच्चस्थे शुभग्रहे ।

सद्गतिर्जायते तस्य शुभलोकमवाप्नुयात् ॥ ६४॥

 

कारकांशाद् व्यये केतौ शुभखेटयुतेक्षिते ।

तदा तु जायते मुक्तिः सायुज्यपदमाप्नुयात् ॥ ६५॥

 

मेषे धनुषि वा केतौ कारकांशात् व्यये स्थिते ।

शुभखेटेन सन्दृष्टे सायुजपदमाप्नुयात् ॥ ६६॥

 

व्यये च केवले केतौ पापयुक्तेक्षितेपि वा ।

न तदा जायते मुक्तिः शुभलोकं न पश्यति ॥ ६७॥

 

रविणा संयुते केतौ कारकांशाद् व्ययस्थिते ।

शिवभक्तिर्भवेस्यत्त निर्विशंकं द्विजोत्तम ॥ ६८॥

 

चन्द्रेण संयुते केतौ कारकांशाद् व्ययस्थिते ।

गौर्यां भक्तिर्भवेत्तस्य शाक्तिको जायते नरः ॥ ६९॥

 

शुक्रेण संयुते केतौ कारकांशाद् व्ययस्थिते ।

लक्ष्म्यां सञ्जायते भक्तिर्जातको सौ समृद्धिमान् ॥ ७०॥

 

कुजेन संयुते केतौ स्कन्दभक्तौ भवेन्नरः ।

वैष्णवो बुधसौरिभ्यां गुरुणा शिवभक्तिमान् ॥ ७१॥

 

राहुणा तामसीं दुर्गां सेवते क्षुद्रदेवताम् ।

भक्तिः स्कन्देऽथ हेरभ्भे शिखिना केवलेन वा ॥ ७२॥

 

कारकांशाद् व्यये सौरिः पापराशौ यदा भवेत् ।

तदाऽपि क्षुद्रदेवस्य भक्तिस्तस्य न संशयः ॥ ७३॥

 

पापर्क्षेऽपि शनौ सुक्रे तदाऽपि क्षुद्रसेवकः ।

अमात्यकारकात् षष्ठेप्तेवमेव फलं वदेत् ॥ ७४॥

 

कारकांशात् त्रिकोणस्थे पापखेतद्वये द्विज ।

मानवो मन्त्रतन्त्रज्ञो जायते नाऽत्र संशयः ॥ ७५॥

 

पापेन वीक्षिते तत्र जातो निग्राहको भवेत् ।

शुभैर्निरीक्षिते तस्मिन् नरोऽनुग्राहको भवेत् ॥ ७६॥

 

शुक्रदृष्टे विधौ स्वांशे रसवादी भवेन्नरः ।

बुधदृष्टे च सद्वैद्यः सर्वरोगहरो भवेत् ॥ ७७॥

 

शुक्रदृष्टे सुखे चन्द्रे पाण्डुश्वित्री भवेन्नरः ।

भौमदृष्टे महारोगी रक्तपित्तार्दितो भवेत् ॥ ७८॥

 

केतुदृष्टे सुखे चंद्रे नीलकुष्ठी प्रजायते ।

चतुर्थे पञ्चमेवाऽहि स्थितौ राहुकुजौ यदि ॥ ७९॥

 

क्षयरोगो भवेत् तस्य चन्द्रदृष्टौ तु निश्चितः ।

स्वांशात् सुखे सुते वाऽपि केवलः संस्थितः कुजः ॥ ८०॥

 

पिट्कादिर्भवेत् तस्य तदा रोगो न संशयः ।

ग्रहणी जलरोगो वा तत्र केतौ स्थिते सति ॥ ८१॥

 

ख्वर्भानुगुलिकौ तत्र विषवैद्यो विषार्दितः ।

स्वांशकात् पञ्चमे भावे केवले संस्थिते शनौ ॥ ८२॥

 

धनुर्विद्याविदा जाता भवन्त्यत्र न संशयः ।

केतौ च केवले तत्र घटिकायन्त्रकारकः ॥ ८३॥

 

बुधे परमहंसो वा दण्डी भवति मानवः ।

लोहयन्त्री तथा राहौ रवौ खेड्गधरो भवेत् ॥ ८४॥

 

केवले च कुजे तत्र जातः कुन्तास्त्रधारकः ।

स्वांशे वा पन्ऽचमे स्वांशाच्चन्द्रेज्यौ संस्थितौ तदा ॥ ८५॥

 

ग्रन्थकर्ता भवेज्जातः सर्वविद्याविशारदः ।

तत्र दैत्यगुरौ किञ्चिदूनग्रन्थकरो भवेत् ॥ ८६॥

 

बुधे तत्र ततोऽप्यूनग्रन्थकर्त्ता प्रजायते ।

तत्र शुक्रे कविर्वाग्मी काव्यज्ञश्च प्रजायते ॥ ८७॥

 

सर्वविद्ग्रान्थिको जीवे न वाग्मी च सभादिषु ।

शब्दज्ञश्च विशेषेण वेदवेदान्तवित् तथा ॥ ८८॥

 

सभाजडो भवेद् बाल उक्तस्थानगते शनौ ।

मीमांसको भवेन्नूनमुक्तस्थानगते बुधे ॥ ८९॥

 

स्वांशे वा पञ्चमे भौमे जातो नैयायिको भवेत् ।

चन्द्रे च सांख्ययोगज्ञः साहित्यज्ञश्च गायकः ॥ ९०॥

 

रवौ वेदान्तविच्चैव गीतज्ञश्च प्रजायते ।

केतौ च गणितज्ञः स्याज्ज्योतिःशास्त्रविशारदः ॥ ९१॥

 

सम्प्रदायस्य संसिद्धिर्गुरुसम्बन्धतो भवेत् ।

द्वितीये च तृतीये च स्वांशादेवं विचारयेत् ॥ ९२॥

 

भावे सूक्ष्मफलं ज्ञात्वा जातकस्य फलं वदेत् ।

केतौ स्वांशाद्द्वितीये वा तृतीये स्तब्धवाग् भवेत् ॥ ९३॥

 

पापदृष्टे विशेषेण मानवो वक्तुमक्षमः ।

स्वांशाल्लग्नात् पदाद्वाऽपि द्वितीयाष्टमभावयोः ॥ ९४॥

 

केमद्रुमः पापसाम्ये चन्द्रदृष्टौ विशेषतः ।

अत्राऽध्याये च ये योगाः सफलाः कथिता मया ॥ ९५॥

 

योगकर्तृदशायान्ते ज्ञेयाः सर्वे फलप्रदाः ।

एवं दशाप्रदाद्राशैर्द्वितीयाष्टमयोर्द्विज ॥ ९६॥

 

ग्रहसाम्ये च विज्ञेयो योगः केमद्रुमोऽशुभः ।

दशाप्रारम्भसमये सलग्नान् साधयेद् ग्रहान् ॥ ९७॥

 

ज्ञेयस्तत्रापि योगोऽयं पापसाम्येऽर्थरन्ध्रयोः ।

एवं तन्वादिभावानां सूर्यादीनां नभसदाम् ॥ ९८॥

 

तत्तत्स्थित्यनुसारेण फलं वाच्यं विपश्चिता ।

इति संक्षेपतः प्रोक्तं कारकांशफलं मया ॥ ९९॥

 


 

 

           अथ योगकारकाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ३४॥

 

कारकांशवशादेवं फलं प्रोक्तं मया द्विज ।

अथ भावाधिपत्येन ग्रहयोगफलं स्रृणु ॥ १॥

 

केन्द्राधिपतयः सौम्या ना दिशन्ति शुभं फलम् ।

क्रूरा नैवाऽशुभं कुर्युः शुभदाश्च त्रिकोणपाः ॥ २॥

 

लग्नं केन्द्रत्रिकोणत्वाद् विशेषेण शुभप्रदम् ।

पञ्चमं नवमं चैव विशेषधनमुच्यते ॥ ३॥

 

सप्तमं दशमं चैव विशेषसुखमुच्यते ।

त्रिषडायाधिपाः सर्वे ग्रहाः पापफलाः स्मृताः ॥ ४॥

 

व्ययद्वितीयरन्ध्रेशाः साहचर्यात् फलप्रदाः ।

स्थानान्तरानुरोधात्ते प्रबलाश्चोत्तरोत्तरम् ॥ ५॥

 

तत्र भाग्यव्ययेशत्वाद्रन्ध्रेशो न शुभप्रदः ।

त्रिमदायाधिपत्वेऽथो कोणपत्वे तु सत्फलः ॥ ६॥

 

उक्तेष्वेषु बली योगो निर्बलस्य प्रबाधकः ।

न रन्ध्रेशत्वदोषोऽत्र सूर्याचन्द्रमसोर्भवेत् ॥ ७॥

 

गुरुशुक्रौ शुभौ प्रोक्तौ चन्द्रो मध्यम उच्यते ।

उदासीनो बुधः ख्यातः पापा रव्यार्किभूमिजाः ॥ ८॥

 

पूर्णेन्दुज्ञेज्यशुक्राश्च प्रबला उत्तरोत्तरम् ।

क्षीणेन्द्वर्कार्किभूपुत्राः प्रबलाश्च यथोत्तरम् ॥ ९॥

 

केन्द्राधिपत्यदोषोयः शुभानां कथितो हि सः ।

चन्द्रज्ञगुरुशुक्राणां प्रबलाश्चोत्तरोत्तरम् ॥ १०॥

 

केन्द्रकोणपती स्यातां परस्परगृहोपगौ ।

एकभे द्वौ स्थितौ वापि ह्येकभेऽन्यतरः स्थितः ॥ ११॥

 

पूर्णदृष्ट्येक्षितौ वापि मिथो योगकारौ तदा ।

योगेऽस्मिन् जायते भूपो विख्यातो वा जनो भवेत् ॥ १२॥

 

कोणेशत्वे यदैकस्य केन्द्रेशत्वं च जायते ।

केन्द्रे कोणे स्थितो वाऽसौ विशेषाद्योगकारकः ॥ १३॥

 

केन्द्रेशत्वेन पापानां या प्रोक्ता शुभकारिता ।

सा त्रिकोणाधिपत्येऽपि न केन्द्रेशत्वमात्रतः ॥ १४॥

 

केन्द्रकोणाधिपावेव पापस्थानाधिपौ यदा ।

तयोः सम्बन्धमात्रेण न योगं लभते नरः ॥ १५॥

 

यद्भावेशयुतौ वापि यद्यद्भावसमागतौ ।

तत्तत्फलानि प्रबलौ प्रदिशेतां तमोप्रहौ ॥ १६॥

 

यदि केन्द्रे त्रिकोणे वा निवसेतां तमोग्रहौ ।

नाथेनात्यतरेणाढ्यौ दृष्टौ वा योगकारकौ ॥ १७॥

 

कस्मिल्लग्ने प्रजातस्य के ग्रहा योगकारकाः ।

के चाऽशुभप्रदाः खेटाः कृपया वदे मे मुने ॥ १८॥

 

यथा पृष्टं त्वया विप्र तथोदाहरणं ब्रुवे ।

रन्ध्रेशत्वेऽपि भूपुत्रो भवेच्छूभसहायवान् ॥ १९॥

 

मन्दसौम्यसिताः पापाः शुभौ गुरुदिवाकरौ ।

न शुभं योगमत्रेण प्रभवेच्छनिजीवयोः ॥ २०॥

 

पारतन्त्र्येण जीवस्य पापकर्मापि निश्चितम् ।

शुक्रः साक्षान्निहन्ता स्यान्मारकत्वेन लक्षितः ॥ २१॥

 

मन्दादयोऽपि हन्तारो भवेयुः पापिनो ग्रहाः ।

मेषलग्नोद्भवस्यैवं फलं ज्ञेयं द्विजोत्तम ॥ २२॥

 

जीवशुक्रेन्दवः पापाः शुभौ शनिदिवाकरौ ।

राजयोगकरः सौरिर्बुधस्त्वल्पशुभप्रदः ॥ २३॥

 

जीवादयो कुजश्चापि सन्ति मारकलक्षणाः ।

वृषलग्नोद्भवस्यैवं फलान्यूह्यानि सूरिभिः ॥ २४॥

 

भौमजीवारुणाः पापाः एक एव कविः सुभः ।

शनैश्चरणे जीवस्य योगो मेषभवो यथा ॥ २५॥

 

शशी मुखनिहन्ताऽसौ साहचर्याच्च पाकदः ।

द्वन्द्वलग्नोद्भवस्यैवं फलान्यूह्यानि पंडितैः ॥ २६॥

 

भार्गवेन्दुसुतौ पापौ भूसुतेज्येन्दवः शुभाः ।

पूर्णयोगकरः साक्षान्मंगलो मंगलप्रदः ॥ २७॥

 

निहन्ताऽर्कसुतोऽर्कस्तु साहचर्यात् फलप्रदः ।

कर्कलग्नोद्भवस्यैवं फलं प्रोक्तं मनीषिभिः ॥ २८॥

 

सौम्यशुक्रार्कजाः पापाः कुजेज्यार्काः शुभावहाः ।

प्रभवेद्योगमात्रेण न शुभं गुरुशुक्रयोः ॥ २९॥

 

मारकस्तु शनिश्चन्द्रः साहचर्यात् फलप्रदः ।

सिंहलग्ने प्रजातस्य फलं ज्ञेयं विपश्चिता ॥ ३०॥

 

कुजजीवेन्दवः पापाः बुधशुक्रौ शुभावहौ ।

भार्गवेन्दुसुतावेव भवेतां योगकारकौ ॥ ३१॥

 

मारकोऽपि कविः सूर्यः साहचर्यफलप्रदः ।

कन्यालग्नोद्भवस्यैवं फलान्यूह्यानि सूरिभिः ॥ ३२॥

 

जीवार्कभूसुताः पापाः शनैश्चरबुधौ शुभौ ।

भवेतां राजयोगस्य कारकौ चन्द्रतत्सुतौ ॥ ३३॥

 

कुजो निहन्ति जीवाद्याः पापा मारकलक्षणाः ।

शुक्रः समः फलान्येवं विज्ञेयानि तुलोद्भवे ॥ ३४॥

 

सितज्ञशनयः पापाः शुभौ गुरुनिशाकरौ ।

सूर्याचन्द्रमसावेव भवेतां योगकारकौ ॥ ३५॥

 

कुजः समः सिताद्याश्च पापा मारकलक्षणाः ।

एवं फलं च विज्ञेयं वृश्चिकोदयजन्मनः ॥ ३६॥

 

एक एव कविः पापः शुभौ भौमदिवाकरौ ।

योगो भास्करसौम्याभ्यां निहन्ता भास्करात्मजः ॥ ३७॥

 

गुरुः समफलः ख्यातः शुक्रो मारकलक्षणः ।

धनुर्लग्नोद्भवस्यैवं फलं ज्ञेयं विपश्चिता ॥ ३८॥

 

कुजजीवेन्दवः पापाः शुभौ भार्गवचन्द्रजौ ।

मन्दः स्वयं न हन्ता स्याद् हन्ति पापाः कुजादयः ॥ ३९॥

 

सूर्यः समफलः प्रोक्तः कविरेकः सुयोगकृत् ।

मृगलग्नोद्भवस्यैवं फलान्यूह्यानि सूरिभिः ॥ ४०॥

 

जीवचन्द्रकुजाः पापाः शुक्रसूर्यात्मजौ शुभौ ।

राजयोगकरो ज्ञेजः कविरेव बृहस्पतिः ॥ ४१॥

 

सूर्यो भौमश्च हन्तारो बुधो मध्यफलः स्मृतः ।

कुम्भलग्नोद् भवस्यैवं फलान्यूह्यानि सूरिभिः ॥ ४२॥

 

मन्दशुक्रांशुमत्सौम्याः पापा भौमविधू शुभौ ।

महीसुतगुरू योगकारकौ च महीसुतः ॥ ४३॥

 

मारकोऽपि न हन्ताऽसौ मन्दज्ञौ मारकौ स्मृतौ ।

मीनलग्नोद् भवस्यैवं फलानि परिचिन्तयेत् ॥ ४४॥

 

एवं भावाधिपत्येन जन्मलग्नवशादिह ।

शुभत्वमशुभत्व च ग्रहाणां प्रतिपादितम् ॥ ४५॥

 

अत्यानपि पुनर्योगान् नाभसादीन् विचिन्त्य वै ।

देहिना च फलं वाच्यं प्रवक्ष्यामि च तानहम् ॥ ४६॥

 


 

 

            अथ नाभसयोगाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ३५॥

 

अधुना नाभसा योगाः कथ्यन्ते द्विजसत्तम ।

द्वात्रिंशात् तत्प्रभेदास्तु शतघ्नाष्टादशोन्मिताः ॥ १॥

 

आश्रयाख्यास्त्रयो योगाः दलसंज्ञं द्वयं ततः ।

आकृतिर्विशतिः संख्याः सप्त योगाः प्रकीर्तिताः ॥ २॥

 

रज्जुश्च मुसलश्चैव नलश्चेत्याश्रयास्त्रयः ।

मालाख्यः सर्पसंज्ञश्च दलयोगौ प्रकीर्तितौ ॥ ३॥

 

गदाख्यः शकटाख्यश्च स्रृङ्गाटकविहंगसौ ।

हलवज्रयवाश्चैव कमलं वापियूपकौ ॥ ४॥

 

शरशक्तिदण्डनौकाकूटच्छत्रध्नूंषि च ।

अर्धचन्द्रस्तु चक्रं च समुद्रश्चेति विंशतिः ॥ ५॥

 

संख्याख्यावल्लकीदामपाशकेदारशूलकाः ।

युगो गोलश्च सप्तैते युक्ता दन्तमिता द्विज ॥ ६॥

 

सर्वैश्चरे स्थितै रज्जुः स्थिरस्थैर्मुसलः स्मृतः ।

नलाख्यो द्विस्वभावस्थैराश्रयाख्या इमे स्मृताः ॥ ७॥

 

केन्द्रत्रयगतैः सौम्यैः पापैर्वा दलसंज्ञकौ ।

क्रमान्मालाभुजंगाख्यौ शुभाशुभफलप्रदौ ॥ ८॥

 

आसन्नकेन्द्रद्वयगैः सर्वैर्योगो गदाह्वयः ।

शकटं लग्नजायास्थैः खाम्बुगैर्विहगः स्मृतः ॥ ९॥

 

योगः स्रृङ्गाटकं नाम लग्नात्मजतपःस्थितैः ।

अन्यस्थानात् त्रिकोणस्थैः सर्वैर्योगो हलाभिघः ॥ १०॥

 

लग्नजायास्थितैः सौम्यैः पापाख्यैः खाऽम्बुसंस्थितैः ।

योगो वज्राभिधः प्रोक्तः वीपरीतस्थितैर्यवः ॥ ११॥

 

सर्वकेन्द्रगतैः सर्वैर्मिश्रैः कमलसंज्ञकः ।

केन्द्रादन्यत्रगैः सर्वैर्योगो वापीसमाह्वयः ॥ १२॥

 

यूपो लग्नाच्चतुर्भस्थैः शरस्तुर्याच्चतुर्भगैः ।

शक्तिर्मदाच्चतुर्भस्थैर्दण्डो मध्याच्चतुर्भगैः ॥ १३॥

 

लग्नात् सप्तमगैनौ का कूटस्तुर्याच्च सप्तमैः ।

छत्राख्यः सप्तमादेवं चापं मध्याद् भसप्तगैः ॥ १४॥

 

लग्नादेकान्तरस्थैश्च षड्भगैश्चक्रमुच्यते ।

धनादेकान्तरस्थैस्तु समुद्रः षडगृहाश्रितै ॥ १५॥

 

एकराशिस्थितैर्गोलो युगाख्यो द्विभसंस्थितैः ।

शूलस्तु त्रिभगैः प्रोक्तः केदारस्तु चतुर्भगैः ॥ १६॥

 

पञ्चराशिस्थतैः पाशा दामाख्यः षड्गृहाश्रितैः ।

वीन्>आ सप्तभगैः सर्वैर्विहायान्यानुदीरितान् ॥ १७॥

 

अटनप्रियाः सुरूपाः परदेशस्वास्थ्यभागिनो मनुजाः ।

क्रूराः खलस्वभावा रज्जुप्रभवाः सदा कथिताः ॥ १८॥

 

मानज्ञानधनाद्यैर्युक्ता भूपप्रियाः ख्याताः ।

बहुपुत्राः स्थिरचित्ता मुसलसमुत्था भवन्ति नराः ॥ १९॥

 

न्यूनातिरिक्तदेहा धनसञ्चयभागिनोऽतिनिपुणाश्च ।

बन्धुहिताश्च सुरूपा नलयोगे सम्प्रसूयन्ते ॥ २०॥

 

नित्यं सुखप्रधाना वाहनवस्त्रान्नभोगसम्पन्ना ।

कान्ता सुबहुस्त्रीका मालायां सम्प्रसूताः स्युः ॥ २१॥

 

वुषमाः क्रूरा निःस्वा नित्यं दुःखार्दिताः सुदीनाश्च ।

परभक्षपाननिरताः सर्पप्रभवा भवन्ति नराः ॥ २२॥

 

सततोद्युक्तार्थवशा यज्वानः शास्त्रगेयकुशलाश्च ।

धनकनकरत्नसम्पत्संयुक्ता मानवा गदायां तु ॥ २३॥

 

रोगार्ताः कुनखा मूर्खाः शकटानुजीविनो निःस्वा ।

मित्रस्वजनविहीनाः शकटे जाता भवन्ति नराः ॥ २४॥

 

भ्रमणरुचयोविकृष्टा दूताः सुरतानुजीवनो धृष्टाः ।

कलहप्रियाश्च नित्यं विहगे योगे सदा जाताः ॥ २५॥

 

प्रियकलहाः समरसहाः सुखिनो नृपतेः शुभकलत्राः ।

आढ्या युवतिद्वेष्याः स्रृङ्गाटकसम्भवा मनुजाः ॥ २६॥

 

बह्वाशिनो दरिद्राः कृषीवला दुःखिताश्च सोद्वेगा ।

बन्धुसुहृदिभः त्यक्ताः प्रेष्याः हलसंज्ञके सदा पुरुषाः ॥ २७॥

 

आद्यन्तवयःसुखिनः शूराः सुभगा निरीहाश्चः ।

भाग्यविहीना वज्रे जाताः खला विरुद्धाश्च ॥ २८॥

 

व्रतनियममङ्गलपरा वयसो मध्ये सुखार्थपुत्रयुता ।

दातारः स्थिरचित्ता यवयोगभवाः सदा पुरुषाः ॥ २९॥

 

विभवगुणाद्ग्।याः पुरुषाः स्थिरायुषो विपुलकीर्तय शुद्धाः ।

शुभशतकाः पृथ्वीशाः कमलभवाः मानवा नित्यम् ॥ ३०॥

 

निधिकरणे निपुणधियः स्थिरार्थसुखसंयुता सुतयुताश्च ।

नयनसुखसम्प्रहृष्टा वापीयोगेन राजानः ॥ ३१॥

 

आत्मविदिज्यानिरतः स्त्रिया युतः सत्त्वसम्पन्नः ।

व्रतनियमरतमनुस्यो यूपे जातो विशिष्टश्च ॥ ३२॥

 

इषुकारा बन्धनपाः मृगयाधनसेविताश्च मंसादा ।

हिंस्राः कुशिल्पकाराः शरयोगे मानवाः प्रसूयन्ते ॥ ३३॥

 

धनरहितविफलदुःखितनीचलसाश्चिरायुषः पुरुषाः ।

संग्रामबुद्धिनिपुणाः शक्त्यां जाताः स्थिराः शुभगाः ॥ ३४॥

 

हतपुत्रदारनिःस्वाः सर्वत्र च निर्धृंणाः स्वजनबाह्याः ।

दुःखितनीचप्रेष्या दण्डप्र्भवा भवन्ति नराः ॥ ३५॥

 

सलिलोपजीविविभवाः बह्वाशाः ख्यातकीर्तयो दुष्टाः ।

कृपणा मलिना लुब्धा नौसञ्जाताः खलाः पुरुषाः ॥ ३६॥

 

अनृतकथनबन्धनपा निष्किञ्चनाः शठाः क्रूराः ।

कूटसमुत्था नित्यं भवन्ति गिरिदुर्गवासिनो मनुजाः ॥ ३७॥

 

स्वजनाश्रयो दयावान्नानानृपवल्लभः प्रकृष्टमतिः ।

प्रथमेऽन्त्ये वयसि नराः सुखवान् दीर्घायुरातपत्री स्यात् ॥ ३८॥

 

आनृतिकगुप्तपालाश्चोराः कितवाश्च कानने निरताः ।

कार्मुकयोगे जाता भाग्यविहीनाः शुभा वयोमध्ये ॥ ३९॥

 

सेनापतयः सर्वी कान्तशरीरा नृपप्रिया बलिनः ।

मणिकनकभूषणयुता भवन्ति योगेऽर्धचन्द्राख्ये ॥ ४०॥

 

प्रणताऽऽशेषनराधिपकिरीटरत्नप्रभास्फुरितपादः ।

भवति नरेन्द्रो मनुजश्चक्रे यो जायते योगे ॥ ४१॥

 

बहुरत्नधनसमृद्धा भोगयुता धनजनप्रियाः ससुता ।

उदधिसमुत्थाः पुरुषाः स्थिरविभवाः साधुशीलाश्च ॥ ४२॥

 

प्रियगीतनृत्यवाद्या निपुणाः सुखिनश्च धनवन्तः ।

नेतारो बहुभृत्या वीणायां कीर्तिताः पुरुषाः ॥ ४३॥

 

दाम्नि सुजनोपकारी नयधनयुक्तो महेश्वरः ख्यातः ।

बहुसुतरत्नसमृद्धो धीरो जायेत विद्वांश्च ॥ ४४॥

 

पाशे बन्धनभाजः कार्ये दक्षाः प्रपञ्चकाराश्च ।

बहुभाषिणो विशीला बहुभृत्याः सम्प्रतानाश्च ॥ ४५॥

 

सुबहूनामुपयोज्याः कृषीवलाः सत्यवादिनः सुखिनः ।

केदारे सम्भूताश्चलस्वभावा धनैर्युक्ताः ॥ ४६॥

 

तीक्ष्णालसधनहीना हिंस्राः सुबहिष्कृता महाशूराः ।

संग्रामे लब्धयशा शूले योगे भवन्ति नराः ॥ ४७॥

 

पाखण्डवादिनो वा धनरहिता वा बहिष्कृता लोके ।

सुतमातृधर्मरहिता युगयोगे ये नरा जाताः ॥ ४८॥

 

बलसंयुक्ता विधना वद्याविज्ञानवर्जिता मलिना ।

नित्यं दुःखितदीना गोले योगे भवन्ति नराः ॥ ४९॥

 

सर्वास्वपि दशस्वेते भवेयुः फलदायिनः ।

प्राणिनामिति विज्ञेयाः प्रवदन्ति तवाग्रजाः ॥ ५०॥

 


 

 

           अथ विविधयोगाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ३६॥

 

लग्ने शुभयुते योगः शुभः पापयुतेऽशुभः ।

व्ययस्वगैः शुभैः पापैः क्रमाद्योगौ शुभाऽशुभौ ॥ १॥

 

शुभयोगोद्भवो वाग्मी रूपशीलगुणवन्वितः ।

पापयोगोद्भवः कामी पापकर्मा परार्थयुक् ॥ २॥

 

केन्द्रे देवगुरौ लग्नाच्चन्द्राद्वा शुभदृग्युते ।

नीचास्तारिगृहैर्हीने योगोऽयं गजकेसरी ॥ ३॥

 

गजकेसरीसञ्जातस्तेजस्वी धनवान् भवेत् ।

मेधावी गुणसम्पन्नो राजप्रियकरो नरः ॥ ४॥

 

दशमेऽङ्गात्तथा चन्द्रात् केवलैश्च शुभैर्युते ।

स योगोऽमलकीत्र्त्याख्यः कीर्तिराचन्द्रतारकी ॥ ५॥

 

राजपूज्ये महाभोगी दाता बन्धुजनप्रियः ।

परोपकारी धर्मात्मा गुणढ्योऽमलकीर्तिजः ॥ ६॥

 

सप्तमे चाऽष्टमे शुद्धे शुभग्रहयुतेऽथवा ।

केन्द्रेषु शुभयुक्तेषु योगः पर्वतसंज्ञकः ॥ ७॥

 

भाग्यवान् पर्वतोत्पन्नः वाग्मी दाता च शास्त्रवित् ।

हास्यप्रियो यशस्वी च तेजस्वी पुरनायकः ॥ ८॥

 

सुखेशेज्यौ मिथः केन्द्रगतौ बलिनि लग्नपे ।

काहलो वा स्वभोच्चस्थे सुखेशे कर्मपान्विते ॥ ९॥

 

ओजस्वी साहसी धूर्तश्चतुरङ्गबलान्वितः ।

यत्किञ्चिद् ग्रामनाथश्च काहले जायते नरः ॥ १०॥

 

लग्नेशे तुङ्गगे केन्द्रे गुरुदृष्टे तु चामरः ।

शुभद्वये विलग्ने वा नवमे दशमे मदे ॥ ११॥

 

राजा वा राजपुज्यो वा चिरजीवी च पण्डितः ।

वाग्मी सर्वकलाविद् वा चामरे जायते जनः ॥ १२॥

 

सवले लग्नपे पुत्रषष्ठपौ केन्द्रगौ मिथः ।

शंखो वा लग्नकर्मेशौ चरे बलिनि भाग्यपे ॥ १३॥

 

धनस्त्रीपुत्रसंयुक्तो दयालुः पुण्यवान् सुधीः ।

पुण्यकर्मा चिरञ्जीवी शंखयोगोद्भवो नरः ॥ १४॥

 

सबले भाग्यपे भेरी खगैः स्वान्त्योदयास्तगैः ।

सबले भाग्यपे वाऽसौ केन्द्रे शुक्रेज्यलग्नपैः ॥ १५॥

 

धनस्त्रीपुत्रसंयुक्तो भूपः कीर्तिगुणान्वितः ।

आचारवान् सुखी भोगी भेरीयोगे जनो भवेत् ॥ १६॥

 

सबले लग्नपे खेटाः केन्द्रे कोणे स्वभोच्चगाः ।

मृगङ्गयोगो जातोऽत्र भूपो वा तत्समः सुखी ॥ १७॥

 

कीमेशे कर्मगे तुङ्गे कर्मेशे भाग्यपान्विते ।

योगः श्रीनाथसंज्ञोऽत्र जातः शुक्रसमो नृपः ॥ १८॥

 

कर्मेशे सुतगे केन्द्रे बुधेऽर्के सबले स्वभे ।

चन्द्रात् कोणे गुरौ ज्ञे वा कुजे लाभे च शारदः ॥ १९॥

 

धनस्त्रीपुत्रसंयुक्तः सुखी विद्वान् नृपप्रियः ।

तपस्वी धर्मसंयुक्तः शारदे जायते जनः ॥ २०॥

 

धर्मलग्नगते सौम्ये पञ्चमे सदसद्युते ।

पापे च चतुरस्रस्थे योगोऽयं मत्स्यसंज्ञकः ॥ २१॥

 

कालज्ञः करुणामूर्तिर्गुणधीबलरूपवान् ।

यशोविद्यातपस्वी च मत्स्ययोगे हि जायते ॥ २२॥

 

पुत्रारिमदगाः सौम्याः स्वभोच्चसुहृदंशगाः ।

त्रिलाभोदयगाः पापाः कूर्मयोगः स्वभोच्चगाः ॥ २३॥

 

कूर्मयोगे जनो भूपो धीरो धर्मगुणान्वितः ।

कीर्तिमानुपकारी च सुखी मानवनायकः ॥ २४॥

 

भाग्येशे धनभावास्थे धनेशे भाग्यभावगे ।

लग्नेशे केन्द्रकोणस्थे खड्गयोगः स कथ्यते ॥ २५॥

 

खड्गयोगे समुत्पन्नो धनभाग्यसुखान्वितः ।

शास्त्रज्ञो बुद्धिवीर्याढ्यः कृतज्ञः कुशलो नरः ॥ २६॥

 

केन्द्रे मूलत्रिकोणस्ते भाग्येशे वा स्वभोच्चगे ।

लग्नाधिपे बलाढ्ये च लक्ष्मीयोगः प्रकीर्त्यते ॥ २७॥

 

सुरूपो गुणवान् भूपो बहुपुत्रधनान्वितः ।

यशस्वी धर्मसम्पन्नो लक्ष्मीयोगे जनो भवेत् ॥ २८॥

 

लग्ने स्थिरे भृगौ केन्द्रे चन्द्रकोणे शभान्विते ।

मानस्थानगते सौरे योगोऽयं कुसुमाभिधः ॥ २९॥

 

भूपो वा भूपतुल्यो वा दता भोगी सुखी जनः ।

कुलमुख्यो गुणी विद्वान् जायते कुसुमाह्वये ॥ ३०॥

 

द्वितीये पञ्चमे जीवे बुधशुक्रयुतेक्षिते ।

क्षत्रे तयोर्वा सम्प्रप्ते योगः स च कलानिधिः ॥ ३१॥

 

कलानिधिसमुत्पन्नो गुणवान् भूपवन्दितः ।

रोगहीनः सुखी जातो धनविद्यासमन्वितः ॥ ३२॥

 

लग्नेशतद्गतर्क्षेशतद्गतर्क्षेशतदंशपाः ।

केन्द्रे कोणे स्वतुङ्गे वा योगः कल्पद्रुमो मतः ॥ ३३॥

 

सर्वैश्वर्ययुतो भूपो धर्मात्मा बलसंयुतः ।

युद्धप्रियो दयालुश्च पारिजाते नरो भवेत् ॥ ३४॥

 

स्वान्त्याष्टस्थैर्द्वितीयेशाद् हरियोगः शुभग्रहैः ।

कामेशाद् बन्धुधर्माष्टस्थितैः सौम्यैर्हराभिधः ॥ ३५॥

 

लग्नेशाद् बन्धुकर्मायस्थितैर्ब्रह्माह्वयः स्मृतः ।

एषु जातः सुखी विद्वान् धनपुत्रादिसंयुतः ॥ ३६॥

 

लग्नान्मदाष्टगैः सौम्यैः पापदृग्योगवर्जितैः ।

योगो लग्नाधियोगोऽस्मिन् महात्मा शास्त्रवित् सुखी ॥ ३७॥

 

लग्नपे पारिजातस्थे सुखी वर्गोत्तमे ह्यरुक् ।

गोपुरे धनधान्याढ्या भूपः सिंहासने स्थिते ॥ ३८॥

 

विद्वान् पारावते श्रीमान् देवलोके सवाहनः ।

ऐरावतस्थिते जातो विख्यातो भूपवन्दितः ॥ ३९॥

 


 

 

        अथ चन्द्रयोगाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ३७॥

 

सहस्ररश्मितचन्द्रे कण्टकादिगते क्रमात् ।

धनधीनैपुणादीनि न्यूनमध्योत्तमानि हि ॥ १॥

 

स्वांशे वा स्वाधिमित्रांशे स्थितश्च दिवसे शशी ।

गुरुणा दृश्यते तत्र जातो धनसुखान्वितः ॥ २॥

 

स्वांशे वा स्वाधिमित्रांशे स्थितश्च शशभृन्निशि ।

शुक्रेण दृश्यते तत्र जातो धनसुखान्वितः ॥ ३॥

 

एतद्विपर्ययस्थे च शुक्रेज्यानवलोकिते ।

जायतेऽल्पधनो बालो योगेऽस्मिन्निर्धनोऽथवा ॥ ४॥

 

चन्द्राद्रन्ध्रारिकामस्थै सौम्यैः स्याधियोगकः ।

तत्र राजा च मन्त्री च सेनाधीशश्च बलक्रमात् ॥ ५॥

 

चन्द्राद् वृद्धिगतैः सर्वैः शुभैर्जातो महाधनी ।

द्वाभ्यां मध्यधनो जात एकेनाऽल्पधनो भवेत् ॥ ६॥

 

चन्द्रात् स्वान्त्योभयस्थे हि ग्रहे सूर्यं बिना क्रमात् ।

सुनफाख्तोऽनफाख्यश्च योगो दुरधराह्वयः ॥ ७॥

 

राजा वा राजतुल्यो वा धीधनख्यातिमाञ्जनः ।

स्वभुजार्जितवित्तश्च सुनफायोगसम्भवः ॥ ८॥

 

भूपोऽगदशरीरश्च शीलवान् ख्यातकीर्तिमान् ।

सुरूपश्चाऽनफाजातो सुखैः सर्वैः समन्वितः ॥ ९॥

 

उत्पन्नसुखभुग् दाता धनवाहनसंयुतः ।

सद्भृत्यो जायते नूनं जनो दुरधराभवः ॥ १०॥

 

चन्द्रादाद्यधनाऽन्त्यस्थो विना भानुं न चेद्ग्रहः ।

कश्चित् स्याद्वा विना चन्द्रं लग्नात् केन्द्रगतोऽथ वा ॥ ११॥

 

योगः केमद्रुमो नाम तत्र जातोऽतिगर्हितः ।

बुद्धिविद्याविहीनश्च दरिद्रापत्तिसंयुतः ॥ १२॥

 

अन्ययोगफलं हन्ति चन्द्रयोगो विशेषतः ।

स्वफलं प्रददातीति बुधो यत्नाद् विचिन्तयेत् ॥ १३॥

 


 

 

            अथ रवियोगाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ३८॥

 

सूर्यात् स्वन्त्योभयस्थैश्च विना चन्द्रं कुजादिभिः ।

वेशिवोशिसमाख्यौ च तथोभयचरः क्रमात् ॥ १॥

 

समदृक् सत्यवाङ् मर्त्यो दीर्घकायोऽलसस्तथा ।

सुखभागल्पवित्तोऽपि वेशियोगसमुद्भवः ॥ २॥

 

वोशौ च निपुणो दाता यशोविद्याबलावन्तिः ।

तथोभयचरे जातो भूपो वा तत्समः सुखी ॥ ३॥

 

शुभग्रहभवे योगे फलमेवं विचिन्तयेत् ।

पापग्रहसमुत्पन्ने योगे तु फलमन्यथा ॥ ४॥

 


 

 

          अथ राजयोगाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ३९॥

 

अथाऽतः सम्प्रवक्ष्यामि राययोगान् द्विजोत्तम ।

येषां विज्ञानमात्रेण राजपूज्यो जनो भवेत् ॥ १॥

 

ये योगाः शम्भुना प्रोक्ताः पुरा शैलसुताग्रतः ।

तेषां सारमहं वक्ष्ये तवाग्रे द्विजनन्दन ॥ २॥

 

चिन्तयेत् कारकांशे वा जनुर्लग्नेऽथ वा द्विज ।

राजयोगकरौ द्वौ द्वौ स्फुटौ खेटौ प्रयत्नतः ॥ ३॥

 

आत्मकारकपुत्राभ्यां योगमेकं प्रकल्पयेत् ।

तनुपञ्चमनाथाभ्यां तथैव द्विजसत्तम ॥ ४॥

 

लग्नपुत्रेशयोरात्मपुत्रकारकयोर्द्वयोः ।

सम्बन्धात् पूर्णमर्धं वा पादं वीर्यानुसारतः ॥ ५॥

 

लग्नेशे पञ्चमे भावे पञ्चमेशे च लग्ने ।

पुत्रात्मकारकौ विप्र लग्ने च पञ्चमे स्थित ॥ ६॥

 

स्वोच्चे स्वंशे स्वभे वाऽपि शुभग्रहनिरीक्षितो ।

महाराजाख्ययोगोऽत्र जातः ख्यातः सुखान्वितः ॥ ७॥

 

भाग्येशः कारको लग्ने पञ्चमे सप्तमेऽपि वा ।

राजयोगप्रदातारौ शुभखेटयुतेक्षितौ ॥ ८॥

 

लग्नेशात् कारकाच्चापि धने तुर्ये च पञ्चमे ।

शुभखेटयुते भावे जातो राजा भवेद् ध्रुवम् ॥ ९॥

 

तृतीये षष्ठभे ताभ्यां पापग्रहयुतेक्षिते ।

जातो राजा भवेदेवं मिश्रे मिश्रफलं वदेत् ॥ १०॥

 

स्वांशे वा पञ्चमे शुक्रे जीवेन्दुयुतवीक्षिते ।

लग्ने लग्नपदे वाऽपि राजवर्गो भवेन्नरः ॥ ११॥

 

जन्माङ्गे कालहोराङ्गे कालङ्गे येन केनचित् ।

एकग्रहेण सन्दृष्टे त्रितये राजभाग् जनः ॥ १२॥

 

लग्नषड्वर्गके चैवमेकखेटयुतेक्षिते ।

राजयोगो भवत्येव निर्विशंक द्विजोत्तम ॥ १३॥

 

पूर्णदृष्टे पूर्नयोगमर्धदृष्टेऽर्धमेव च ।

पाददृष्टे पादयोगमिति ज्ञेयं क्रमात् फलम् ॥ १४॥

 

लग्नत्रये स्वभोच्चस्थे खेटे राजा भवेद् ध्रुवम् ।

यद्वा लग्ने दृकाणेंऽशे स्वोच्चखेटयुते द्विज ॥ १५॥

 

पदे शुभ सचंद्रे च धने देवगुरौ तथा ।

स्वोच्चस्थखेटसन्दृष्टे राजयोगो न संशयः ॥ १६॥

 

शुभे लग्ने शुभे त्वर्थे तृतीये पापखेचरे ।

चतुर्थे च शुभे प्राप्ते राजा वा तत्समोऽपि वा ॥ १७॥

 

स्वोच्चस्थो हरिणांको वा जीवो वा शुक्र एव वा ।

बुधो वा धनभावस्थः श्रियं दिशति देहिनः ॥ १८॥

 

षष्ठेऽष्टमे तृतीये वा स्वस्वनीचगता ग्रहाः ।

लग्नं पश्येत् स्वभोच्चस्थो लग्नपो राज्ययोगदः ॥ १९॥

 

षष्ठाऽष्टमव्ययाधीशा नीचस्था रिपुभेऽस्थगाः ।

स्वोच्चस्वभगलग्नेशो लग्नं पश्यंश्च राज्यदः ॥ २०॥

 

स्वोच्चस्वभस्थराज्येशो लग्नं पश्यंश्च राज्यदः ।

शुभाः केन्द्रस्थिता वाऽपि राज्यदः नाऽत्र संशयः ॥ २१॥

 

शुभराशौ शुभांशे च कारको धनवान् भवेत् ।

तदंशकेन्द्रेषु शुभे नूनं राजा प्रजायते ॥ २२॥

 

लग्नारूढं दारपदं मिथः केन्द्र स्थितं यदि ।

त्रिलाभे वा त्रिकोणे वा तदा राजा न संशयः ॥ २३॥

 

भावहोराघटीसंज्ञलग्नानि च प्रपश्यति ।

स्वोच्चग्र्हो राजयोगो लग्नद्वयमथापि वा ॥ २४॥

 

राशेर्द्रेष्काणतोंऽशाच्च राशेरंशादथापि वा ।

यद्वा राशिदृकाणाभ्यां लग्नद्रष्टा तु योगदः ॥ २५॥

 

पदे स्वोच्चखगाक्रान्ते चन्द्राक्रान्ते विशेषतः ।

क्रान्ते च गुरुशुक्राभ्यां केनाप्युच्चग्रहेण वा ॥ २६॥

 

दुष्टार्गलग्रहाभावे राजयोगो न संशयः ।

शुभारूढे तत्र चन्द्रे धने देवगुरौ तथा ॥ २७॥

 

दुःस्थानेशोऽपि नीचस्थो यदि लग्नं प्रपश्यति ।

तदाऽपि राजयोगः स्यादिति ज्ञेयं द्विजोत्तम ॥ २८॥

 

चतुर्थदशमार्थायपतिदृष्टे विलग्नभे ।

पदाल्लाभे तु शुक्रेण दृष्टेऽप्यारूढभे शुभे ॥ २९॥

 

राजा वा तत्समो वापि जातको जायते ध्रुवम् ।

ष।ष्ठाष्टमगते नीचे लग्नं पश्यति वा तथा ॥ ३०॥

 

तृतीयलाभगे नीचे लग्नं पश्यति वा तथा ।

लग्नांशकेन्द्रेषु शुभे निग्रहानुग्रहक्षमः ॥ ३१॥

 

अथाऽहं सम्प्रवक्ष्यामि राजयोगादिकं परम् ।

ग्रहाणां स्थानभेदेन दृष्टियोगवशात् फलम् ॥ ३२॥

 

तपःस्थानाधिपो मन्त्री मन्त्राधीशो विशेषतः ।

उभावन्योन्यसंदृष्टौ जातश्चेदिह राज्यभाक् ॥ ३३॥

 

यत्र कुत्रापि संयुक्तौ तौ वापि समसप्तमौ ।

राजवंशभवो बालो राजा भवति निश्चितम् ॥ ३४॥

 

वाहनेशस्तथा माने मानेशो वाहने स्थितः ।

बुद्धधर्माधिपाभ्यां तु दृष्टश्चेदिह राज्यभाक् ॥ ३५॥

 

सुतकर्मसुहृल्लग्ननाथा धर्मपसंयुताः ।

यस्य जन्मनि भूपोऽसौ कीर्त्या ख्यातो दिगन्तरे ॥ ३६॥

 

सुखकर्मादिपौ वापि मन्त्रिनाथेन संयुतौ ।

धर्मनाथेन वा युक्तौ जातश्चेदिह राज्यभाक् ॥ ३७॥

 

सुतेशे धर्मनाथेन युते लग्नेश्वरेण वा ।

लग्ने सुखेऽथवा माने स्थिते जातो नृपो भवेत् ॥ ३८॥

 

धर्मस्थाने स्थिते जीवे स्वगृहे भृगुसंयुते ।

पंचमाधिपयुक्ते वा जातश्चेदिह राजभाक् ॥ ३९॥

 

दिनार्धाच्च निशार्धाच्च परं सार्धद्विनाडिका ।

शुभा वेला तदुत्पन्नो राजा स्यात्तत्समोऽपि वा ॥ ४०॥

 

चन्द्रः कविं कविश्चन्द्रमन्योऽन्यं त्रिभवस्थितः ।

मिथः पश्यति वा क्वापि राजयोग उदाहृतः ॥ ४१॥

 

चन्द्रे वर्गोत्तमांशस्थे सबले चतुरादिभिः ।

ग्रहैर्दृष्टे च यो जातः स राजा भवति ध्रुवम् ॥ ४२॥

 

उत्तमांशगते लग्ने चन्द्रान्यैश्चतुरादिभिः ।

ग्रहैर्दृष्टेऽपि यो जातः सोऽपि भूमिपतिर्भवेत् ॥ ४३॥

 

त्र्यल्पैरुच्चस्थितैः खेटे राजा राजकुलोद्भवः ।

अन्यवंशभवस्तत्र राजतुल्यो धनैर्युतः ॥ ४४॥

 

चतुर्भिः पञ्चभिर्वाऽपि खेटैः स्वोच्चत्रिकोणगैः ।

हीनवंशभवश्चापि राजा भवति निश्चितः ॥ ४५॥

 

षड्भिरुच्चगतैः खेटैश्चक्रवर्तित्वमाप्नुयात् ।

एवं बहुविधा राजयोगा ज्ञेया द्विजोत्तम ॥ ४६॥

 

एको गुरुर्भृगुर्वापि बुधो वा स्वोच्चसंस्थितः ।

शुभग्रहयुते केन्द्रे राजा वा तत्समो भवेत् ॥ ४७॥

 

केन्द्रेस्थितैः शुभैः सर्वैः पापैश्च त्रिषडायगैः ।

हीनवंशोऽपि यो जातः स राजा भवति ध्रुवम् ॥ ४८॥

 


 

 

         अथ राजसम्बन्धयोगाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ४०॥

 

राज्यनाथे जनुर्लग्नादमात्येशयुतेक्षिते ।

अमात्यकारकेणापि प्रधानत्वं नृपालये ॥ १॥

 

लाभेशवीक्षिते लाभे पापदृग्योगवर्जिते ।

राज्यभावे तदा विप्र प्रधानत्वं नृपालये ॥ २॥

 

अमात्यकारकेणापि कारकेन्द्रेण संयुते ।

तीव्रबुद्धियुतो बालो राजमन्त्री भवेद् ध्रुवम् ॥ ३॥

 

अमात्यकारके विप्र सबले शुभसंयुते ।

स्वक्षेत्रेस्वोच्चगे वापि राजमन्त्री भवेद् ध्रुवम् ॥ ४॥

 

अमात्यकारके लग्ने पञ्चमे नवमेऽपि वा ।

राजमन्त्री भवेद् बालो विख्यातो नाऽत्रसंशयः ॥ ५॥

 

आत्मकारकतः केन्द्रे कोणे वाऽमात्यकारके ।

तदा राजकृपायुक्तो जातो राजाश्रितः सुखी ॥ ६॥

 

कारकाच्च तथारूढात् लग्नाच्च द्विजसत्तम ।

तृतीये षष्ठभे पापैः सेनाधीशः प्रजायते ॥ ७॥

 

कारके केन्द्रे कोणेषु स्वतुङ्गे वा स्वभे स्थिते ।

भाग्यपेन युते दृष्टे राजमन्त्री भवेद् ध्रुवम् ॥ ८॥

 

कारके जन्मराशीशे लग्नगे शुभसंयुते ।

मन्त्रित्वे मुख्ययोगोऽयं वार्धकेनाऽत्र संशयः ॥ ९॥

 

कारके शुभसंयुक्ते पञ्चमे सप्तमेऽपि वा ।

दशमे नवमे वाऽपि धनं राजाश्रयाद् भवेत् ॥ १०॥

 

भाग्यभावपदे लग्ने कारके नवमेऽपि वा ।

राजसम्बन्धयोगोऽयं निर्विशंकं द्विजोत्तम ॥ ११॥

 

लाभेशे लाभभावस्थे पापदृष्टिविवर्जिते ।

कारके शुभसंयुक्ते लाभस्तस्य नृपालयात् ॥ १२॥

 

लग्नेशे राज्यभावस्थे राज्येशे लग्नसंस्थिते ।

प्रबलो राजसम्बन्धयोगोऽयं परिकीर्तितः ॥ १३॥

कारकात् तुर्यंभावस्थौ सितेन्दू द्विजसत्तम ।

यस्य जन्मनि जातोऽयं राजचिह्नेन संयुतः ॥ १४॥

लग्नेशे कारके वाऽपि पञ्चमेशेन संयुते ।

केन्द्रे कोणे स्थिते तस्मिन् राजमित्रं भवेन्नरः ॥ १५॥

 

 

 

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.