The greatness of Krishna Devotees - Vraja Loka Astro Spiritual Center

The greatness of Krishna Devotees  As described in Srimad Bhagavatham  Vraja Loka Astro SPiitual Center     .. Shri Ganeshaya Namah.. .. ॐ S...

Thursday, November 19, 2009

Brihat Parashara Hora Shastram बृहत्पाराशरहोराशास्त्रम् २१-३०

 

 

 

Brihat Parashara Hora Shastram

बृहत्पाराशरहोराशास्त्रम् २१-३०

 

 


 

 

           अथ कर्मभावफलाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ २१॥

 

कर्मभावफलं चाऽथ कथयामि तवाग्रतः ।

सृणु मैत्रेय तत्त्वेन ब्रह्मगर्गादिभाषितम् ॥ १॥

 

सबले कर्मभावेशे स्वोच्चे स्वांशे स्वराशिगे ।

जातस्तातसुखेनाढ्यो यशस्वी शुभकर्मकृत् ॥ २॥

 

कर्माधिपो बलोनश्चेत् कर्मवैकल्यमादिशेत् ।

सैहिः केन्द्रत्रिकोणस्थो ज्योतिष्टोमादियागकृत् ॥ ३॥

 

कर्मेशे शुभसंयुक्ते शुभस्थानगते तथा ।

राजद्वारे च वाणिज्ये सदा लाभोऽन्यथान्यथा ॥ ४॥

 

दशमे पापसंयुक्ते लाभे पापसमन्विते ।

दुष्कृतिं लभते मर्त्यः स्वजनानां विदूषकः ॥ ५॥

 

कर्मेशे नाशराशिस्थे राहुणा संयुते तथा ।

जनद्वेषी महामूर्खो दुष्कृतिं लभते नरः ॥ ६॥

 

कर्मेशे द्यूनराशिस्थे मन्दभौमसमन्विते ।

द्यूनेशे पापसंयुते शिश्नोदरपरायणः ॥ ७॥

 

तुङ्गराशिं समाश्रित्य कर्मेशे गुरुसंयुते ।

भाग्येशे कर्मराशिस्थे मानैश्वर्यप्रतापवान् ॥ ८॥

 

लाभेशे कर्मराशिस्थे कर्मेशे लग्नसंयुते ।

तावुभौ केन्द्रगौ वापि सुखजीवनभाग् भवेत् ॥ ९॥

 

कर्मेशे बलसंयुक्ते मीने गुरुसमन्विते ।

वस्त्राभरणसौख्यादि लभते नात्र संशयः ॥ १०॥

 

लाभस्थानगते सूर्ये राहुभौमसमन्विते ।

रविपुत्रेण संयुक्ते कर्मच्छेत्ता भवेन्नरः ॥ ११॥

 

मीने जीवे भृगुयुते लग्नेशे बलसंयुते ।

स्वोच्चराशिगते चन्द्रे सम्यग्ज्ञानार्थवान् भवेत् ॥ १२॥

 

केन्द्रेशे लाभराशिस्थे लाभेशे लग्नसंस्थिते ।

कर्मराशिस्थिते शुक्रे रत्नवान् स नरो भवेत् ॥ १३॥

 

केन्द्रत्रिकोणगे कर्मनाथे स्वोच्चसमाश्रिते ।

गुरुणा सहिते दृष्टे स कर्मसहितो भवेत् ॥ १४॥

 

कर्मेशे लग्नभावस्थे लग्नेशेन समन्विते ।

केन्द्रत्रिकोणगे चन्द्रे सत्कर्मनिरतो भवेत् ॥ १५॥

 

कर्मस्थानगते मन्दे नीचखेचरसंयुते ।

कर्मांशे पापसंयुक्ते कर्महीनो भवेन्नरः ॥ १६॥

 

कर्मेशे नाशराशिस्थे रन्ध्रेशे कर्मसंस्थिते ।

पापग्रहेण संयुक्ते दुष्कर्म निरतो भवेत् ॥ १७॥

 

कर्मेशे नीचराशिस्थे कर्मस्थे पापखेचरे ।

कर्मभात्कर्मगे पापे कर्मवैकल्यमादिशेत् ॥ १८॥

 

कर्मस्थानगते चन्द्रे तदीशे तत्त्रिकोणगे ।

लग्नेशे केन्द्रभावस्थे सत्कीर्तिसहितो भवेत् ॥ १९॥

 

लाभेशे कर्मभावस्थे कर्मेशे बलसंयुक्ते ।

देवेन्द्रगुरुणा दृष्टे सत्कीर्तिसहितो भवेत् ॥ २०॥

 

कर्मस्थानाधिपे भाग्ये लग्नेशे कर्मसंयुते ।

लग्नात् पञ्चमगे चन्द्रे ख्यातनामा नरो भवेत् ॥ २१॥

 

इति कर्मफलं प्रोक्तं संक्षेपेण द्विजोत्तम ।

लग्नकर्मेशसम्बन्धादूह्यमन्यदपि स्वयम् ॥ २२॥

 


 

 

        अथ लाभभावफलाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ २२॥

 

लाभभावफलञ्चाथ कथयामि द्विजोत्तम ।

श्रूयतां जातको लोके यच्छुभत्वे सदा सुखी ॥ १॥

 

लाभाधिपो यदा लाभे तिष्टेत् केन्द्रत्रिकोणयोः ।

बहुलाभं तदा कुर्यादुच्चे सूर्यांशगोऽपि वा ॥ २॥

 

लाभेशे धनराशिस्थे धनेशे केन्द्रसंस्थिते ।

गुरुणा सहिते भावे गुरुलाभं विनिर्दिशेत् ॥ ३॥

 

लाभेशे विक्रमे भावे शुभग्रहसमन्विते ।

षट्त्रिंशे वत्सरे प्राप्ते सहस्रद्वयनिष्कभाक् ॥ ४॥

 

केन्द्रत्रिकोणगे लाभनाथे शुभसमन्विते ।

चत्वारिंशे तु सम्प्राप्ते सहस्रार्धसुनिष्कभाक् ॥ ५॥

 

लाभस्थाने गुरुयुते धने चन्द्रसमन्विते ।

भाग्यस्थानगते शुक्रे षट्सहस्राधिपो भवेत् ॥ ६॥

 

लाभाच्च लाभगे जीवे बुधचन्द्रसमन्विते ।

धनधान्याधिपः श्रीमान्त्रत्नाद्याभरणैर्युतः ॥ ७॥

 

लाभेशे लग्नभावस्थे लग्नेशे लाभसंयुते ।

त्रयस्त्रिंशे तु सम्प्राप्ते सहस्रनिष्कभाग् भवेत् ॥ ८॥

 

धनेशे लाभराशिस्थे लाभेशे धनराशिगे ।

विवाहात्परतश्चैव बहुभाग्यं समादिशेत् ॥ ९॥

 

भ्रातृपे लाभराशिस्थे लाभेशे भ्रातृसंस्थिते ।

भ्रातृभावाद्धनप्राप्तिदिव्याभरणसंयुतः ॥ १०॥

 

लाभेशे नीचभेऽस्ते वा त्रिके पापसमन्विते ।

कृते भूरिप्रयत्नेऽपि नैव लाभः कदाचन ॥ ११॥

 


 

 

         अथ व्ययभावफलाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ २३॥

 

अथाह व्ययभावस्य कथयामि फलं द्विज ।

व्ययेशे शुभसंयुक्ते स्वभे स्वोच्चगतेऽपि वा ॥ १॥

 

व्यये च शुभसंयुक्ते शुभकार्ये व्ययस्तदा ।

चन्द्रो व्ययाधिपो धर्मलाभमन्त्रेषु संस्थितः ॥ २॥

 

स्वोच्चे स्वर्क्षे निजांशे वा लाभधर्मात्मजांशके ।

दिव्यागारादिपर्यंको दिव्यगन्धैकभोगवान् ॥ ३॥

 

परार्ध्यरमणो दिव्यवस्त्रमाल्यादिभूषणः ।

परार्ध्यवित्तसंयुतो विज्ञो दिनानि नयति प्रभुः ॥ ४॥

 

एवंस्वशत्रुनीचांशेऽष्टमांशे वाऽष्टमे रिपौ ।

संस्थितः कुरुते जातं कान्तासुखविवर्जितम् ॥ ५॥

 

व्ययाधिक्यपरिक्लान्तं दिव्यभोगनिराकृतम् ।

स हि केन्द्रत्रिकोणस्थः स्वस्त्रियाऽलंकृतः स्वयम् ॥ ६॥

 

यथा लग्नात् फलं चैतदात्मनः परिकीर्तितम् ।

एवं भ्रात्रादिभावेषु तत्तत्सर्वं विचारयेत् ॥ ७॥

 

दृश्यचक्रार्धगाः खेटाः प्रत्यक्षफलदायकाः ।

अदृश्यार्धगताः खेटाः परोक्षे फलदाः स्मृताः ॥ ८॥

 

व्ययस्थानगतोः राहुर्भौमार्किरविसंयुतः ।

तदीशेऽप्यर्कसंयुक्ते नरके पतनं भवेत् ॥ ९॥

 

व्ययस्थानगते सौम्ये तदीशे स्वोच्चराशिगे ।

शुभयुक्ते सुभैर्दृष्टे मोक्सः स्यान्नात्र संशयः ॥ १०॥

 

व्ययेशे पापसंयुक्ते व्यये पापसमन्विते ।

पापग्रहेण संदृष्टे देशाद्देशान्तरं गतः ॥ ११॥

 

व्ययेशे शुभराशिस्थे व्ययर्क्षे शुभसंयुते ।

शुभग्रहेण संदृष्टे स्वदेशात् सञ्चरो भवेत् ॥ १२॥

 

व्यये मन्दादिसंयुक्ते भूमिजेन समन्विते ।

सु/भदृष्टेर्न सम्प्राप्तिः पापमूलाद्धनार्जनम् ॥ १३॥

 

लग्नेशे व्ययराशिस्थे व्ययेशे लग्नसंयुते ।

भृगुपुत्रेण संयुक्ते धर्ममूलाद्धनव्ययः ॥ १४॥

 


 

 

         अथ भावेशफलाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ २४॥

 

लग्नेशे लग्नगे देहसुखभाग् भुजविक्रमी ।

मनस्वी चञ्चलश्चैव द्विभार्यो परगोऽपि व ॥ १॥

 

लग्नेशे धनगे बालो लाभवान् पण्डितः सुखी ।

सुशीलो धर्मविन्मानी बहुदारगुणैर्युतः ॥ २॥

 

लग्नेशे सहजे जातः सिंहतुल्यपराक्रमी ।

सर्वसम्पद्युतो मानी द्विभार्यो मतिमान् सुखी ॥ ३॥

 

लग्नेशे सुखगे बालः पितृमातृसुखान्वितः ।

बहुभ्रातृयुतः कामी गुणरूपसमन्वितः ॥ ४॥

 

लग्नेशे सुतगे जन्तोः सुतसौख्यं च मध्यमम् ।

प्रथमापत्यनाशः स्यान्मानी क्रोधी नृपप्रियः ॥ ५॥

 

लग्नेशे षष्ठगे जातो देहसौख्यविवर्जितः ।

पापाढ्ये शत्रुतः पीडा सौम्यदृष्टिविवर्जिते ॥ ६॥

 

लग्नेशे सप्तमे पापे भार्या तस्य न जीवति ।

शुभेऽटनो दरिद्रो वा विरक्तो वा नृपोऽपि वा ॥ ७॥

 

लग्नेशेऽष्टमगे जातः सिद्धविद्याविशारदः ।

रोगी चौरो महाक्रोधी द्यूती च परदारगः ॥ ८॥

 

लग्नेशे भाग्यगे जातो भाग्यवाञ्जनवल्लभः ।

विष्णुभक्तः पटुर्वाग्मी दारपुत्रधनैर्युतः ॥ ९॥

 

लग्नेशे दशमे जातः पितृसौख्यसमन्वितः ।

नृपमान्यो जने ख्यातः स्वार्जितस्वो न संशयः ॥ १०॥

 

लग्नेशे लाभगे जातः सदा लाभसमन्वितः ।

सुशीलः ख्यातकीर्तिश्च बहुदारगुणैर्युतः ॥ ११॥

 

लग्नेशे व्ययभावस्थे देहसौख्यविवर्जितः ।

व्यर्थव्ययी महाक्रोधी शुभदृग्योगवर्जिते ॥ १२॥

 

धनेशे लग्नगे जातः पुत्रवान् धनसंयुतः ।

कुटुम्बकण्टकः कामी निष्ठुरः परकार्यकृत् ॥ १३॥

 

धनेशे धनगे जातो धनवान् गर्वसंयुतः ।

द्विभार्यो बहुभार्यो वा सुतहीनः प्रजायते ॥ १४॥

 

धनेशे सहजे जातो विक्रमी मतिमान् गुणी ।

कामी लोभी शुभाढ्ये च पापाढ्ये देवनिन्दकः ॥ १५॥

 

धनेशे सुखभावस्थे सर्वसम्पतसमन्वितः ।

गुरुणा संयुते स्वोच्चे राजतुल्यो नरो भवेत् ॥ १६॥

 

धनेशे सुतभावस्थे जातो धनसमन्वितः ।

धनोपार्जनशीलाश्च जायन्ते तत्सुता अपि ॥ १७॥

 

धनेशे रिपुभावस्थे सशुभे शत्रुतो धनम् ।

सपापे शत्रुतो हानिर्जंघावैकल्यवान् भवेत् ॥ १८॥

 

धनेशे सप्तमे जातः परदाररतो भिषेक् ।

पापेक्षितयुते तस्य भार्या च व्यभिचारिणी ॥ १९॥

 

धनेशेऽष्टमगे जातो भूरिभूमिधनैर्युतः ।

पत्नीसुखं भवेत् स्वल्पं ज्येष्ठभ्रातृसुखं न हि ॥ २०॥

 

धनेशे धर्मभावस्थे धनवानुद्यमी पटुः ।

बाल्ये रोगी सुखी पश्चात् तीर्थधर्मव्रतादिकृत् ॥ २१॥

 

धनेशे कर्मगे जातः कामी मानी च पण्डितः ।

बहुदार्यधनैर्युक्तः किञ्च पुत्रसुखोज्झितः ॥ २२॥

 

धनेशे लाभभावस्थे सर्वलाभसमन्वितः ।

सदोद्योगयुतो मानी कीर्तिमान् जायते नरः ॥ २३॥

 

धनेशे व्ययभावस्थे साहमी धनवर्जितः ।

परभाग्यरतस्तस्य ज्येष्ठापत्यसुखं नहि ॥ २४॥

 

लग्नगे सहजाधीशे स्वभुजार्जितवित्तवान् ।

सेवाज्ञः साहसी जातो विद्याहीनोऽपि बुद्धिमान् ॥ २५॥

 

द्वितीये सहजाधीशे स्थूलो विक्रमवर्जितः ।

स्वल्पारम्भी सुखी न स्यात् परस्त्रीधनकामुकः ॥ २६॥

 

सहजे सहजाधीशे सहोदरसुखान्वितः ।

धनपुत्रयुतो हृष्टो भुनक्ति सुखमद्भुतम् ॥ २७॥

 

सुखस्थे सहजाधीशे सुखी च धनसंयुतः ।

मतिमान् जायते बालो दुष्टभार्यापतिश्च सः ॥ २८॥

 

सुतस्थे सहजाधीशे पुत्रवान् गुणसंयुतः ।

भार्या तस्य भवेत् क्रूरा क्रूरग्रहयुतेक्षिते ॥ २९॥

 

षष्ठभावे त्र्तीयेशे भ्रातृशत्रुर्महाधनी ।

मातुलैश्च समं वैरं मातुलानीप्रियो नरः ॥ ३०॥

 

सप्तमे सहजाधीशे राजसेवापरो नरः ।

बाल्ये दुःखी सुखी चान्ते जायते नाऽत्र संशयः ॥ ३१॥

 

अष्टमे सहजाधीशे जातश्चैरो नरो भवेत् ।

दासवृत्त्योपजीवी च राजद्वारे मृतिर्भवेत् ॥ ३२॥

 

नवमे सहजाधीशे पितुः सुखविवर्जितः ।

स्त्रीभिर्भाग्योदयस्तस्य पुत्रादिसुखसंयुतः ॥ ३३॥

 

दशमे सहजाधीशे जातः सर्वसुखान्वितः ।

स्वभुजार्जिवित्तश्च दुष्टस्त्रीभरणे रतः ॥ ३४॥

 

लाभगे सहजाधीशे व्यापारे लाभवान् सदा ।

विद्याहीनोऽपि मेधावी साहसी परसेवकः ॥ ३५॥

 

व्ययस्थे सहजाधीशे कुतार्ये व्ययकृज्जनः ।

पिता तस्य भवेत् क्रूरः स्त्रीभिर्भाग्योदयस्तथा ॥ ३६॥

 

सुखेशे धनगे जातो विद्यागुणविभूषितः ।

भूमीवाहनसंयुक्तो मातुः सुखसमन्वितः ॥ ३७॥

 

सुखेशे धनगे जातो भोगी सर्वधनान्वितः ।

कुटुम्बसहितो मानी साहसी कुहकान्वितः ॥ ३८॥

 

सुखेशे सहजे जातो विक्रमी भृत्यसंयुतः ।

उदारोऽरुग् गुणी दाता स्वभुजार्जितवित्तवान् ॥ ३९॥

 

सुखेशे सुखभावस्थे मन्त्री सर्वधनान्वितः ।

चतुरः शीलवान् मानी ज्ञानवान् स्त्रीप्रियः सुखी ॥ ४०॥

 

सुखेशे पुत्रभावस्थे सुखी सर्वजनप्रियः ।

विष्णुभक्तो गुणी मानी स्वभुजार्जितवित्तवान् ॥ ४१॥

 

सुखेशे रिपुभावस्थे मातुः सुखविवर्जितः ।

क्रोधी चोरोऽभिचारी च स्वेच्छाचारश्च दुर्मनाः ॥ ४२॥

 

सुखेशे सप्तमे जातो बहुविद्यासमन्वितः ।

पित्रार्जितधनत्यागी सभायां मूकवद् भवेत् ॥ ४३॥

 

सुखेशे रन्ध्रभावस्थे गृहादिसुखवर्जितः ।

पित्रोः सुखं भवेदल्पं जातः क्लीबसमो भवेत् ॥ ४४॥

 

सुखेशे भाग्यभावस्थे जातः सर्वजनप्रियः ।

देवभक्तो गुणी मानी भवेत् सर्वसुखान्वितः ॥ ४५॥

 

सुखेशे कर्मभावस्थे राजमान्यो नरो भवेत् ।

रसायनी महाहृष्टो सुखभोगी जितेन्द्रियः ॥ ४६॥

 

सुखेशे लाभगे जातो गुप्तरोगभयान्वितः ।

उदारी गुणवान् दाता परोपकरणे रतः ॥ ४७॥

 

सुखेशे व्ययभावस्थे गृहादिसुखवर्जितः ।

जातो दुर्व्यसनी मूढः सदाऽलस्यसमन्वितः ॥ ४८॥

 

सुतेशे लग्नगे जातो विद्यान् पुत्रसुखान्वितः ।

कदर्यो वक्रचित्तश्च परद्रव्यापहारकः ॥ ४९॥

 

सुतेशे धनगे जातो बहुपुत्रो धनान्वितः ।

कुटुम्बपोषको मानी स्त्रीप्रियः सुयशा भुवि ॥ ५०॥

 

सुतेशे सहजे भावे जायते सोदरप्रियः ।

पिशुनश्च कदर्यश्च स्वकार्यनिरतः सदा ॥ ५१॥

 

सुतेशे सुखभावस्थे सुखी मातृसुखान्वितः ।

लक्ष्मीयुक्तः सुबुद्धिश्च राज्ञोऽमात्योऽथवा गुरुः ॥ ५२॥

 

सुतेशे सुतभावस्ते शुभाढ्ये पुत्रवान् नरः ।

पापाढ्येऽपत्यहीनोऽसौ गुणवान् मित्रवत्सलः ॥ ५३॥

 

सुतेशे रिपुभावस्थे पुत्रः शत्रुसमो भवेत् ।

मृतापत्योऽथवा जातो दत्तक्रीतसुतोऽथवा ॥ ५४॥

 

सुतेशे सप्तमे मानी सर्वधर्मसमन्वितः ।

पुत्रादिसुखयुक्तश्च परोपकरणे रतः ॥ ५५॥

 

सुतेशे रन्ध्रभावस्थे स्वल्पपुत्रसुखान्वितः ।

कासश्वाससमायुक्तः क्रोधी च सुखवर्जितः ॥ ५६॥

 

सुतेशे भाग्यगे पुत्रो भपो वा तत्समो भवेत् ।

स्वयं वा ग्रन्थकर्ता च विख्यातः कुलदीपकः ॥ ५७॥

 

सुतेशे राज्यभावस्थे राजयोगो हि जायते ।

अनेकसुखभोगी च ख्यातकीर्तिर्नरो भवेत् ॥ ५८॥

 

सुतेशे लाभगे जातो विद्यावान् जनवल्लभः ।

ग्रन्थकर्ता महादक्षो बहुपुत्रधनान्वितः ॥ ५९॥

 

सुतेशे व्ययभावस्थे जातः पुत्रसुखोज्ज्ञितः ।

दत्तपुत्रयुतो वाऽसौ क्रीतपुत्रान्वितोऽथवा ॥ ६०॥

 

षष्ठेशे लग्नगे जातो रोगवान् कीर्तिसंयुतः ।

आत्मशत्रुर्धनी मानी साहसी गुणवान् नरः ॥ ६१॥

 

षष्ठेशे धनभावस्थे साहसी कुलविश्रुतः ।

परदेशी सुखी वक्ता स्वकर्मनीरतः सदा ॥ ६२॥

 

षष्ठेशे सहजः जातः क्रोधी विक्रमवर्जितः ।

भ्राता शत्रुसमस्तस्य भृत्यश्चोत्तरदायकः ॥ ६३॥

 

षष्ठेशे सुखभावस्थे मातुः सुखविवर्जितः ।

मनस्वी पिशुना द्वेषी चलचित्तोऽतिवित्तवान् ॥ ६४॥

 

षष्ठेशे सुतगो यस्य चलं तस्य धनादिकम् ।

शत्रुता पुत्रमित्रैश्च सुखी स्वार्थी दयान्वितः ॥ ६५॥

 

षष्ठेशे रिपुभावस्थे वैरं स्वज्ञातिमण्डलात् ।

अन्यैः सह भवेन् मैत्री सुखं मध्यं धनादिजम् ॥ ६६॥

 

षष्ठेशे दारभावस्थे जातो दारसुखोज्झितः ।

कीर्तिमान् गुणवान् मानी साहसी धनसंयुतः ॥ ६७॥

 

षष्ठेशेऽष्टमगे जातो रोगी शत्रुर्मनीषिणाम् ।

परद्रव्याभिलाषी च परदाररतोऽशुचिः ॥ ६८॥

 

षष्ठेशे भाग्यगे जातः काष्ठपाषाणविक्रयी ।

व्यवहारे क्वचिद्धानिः क्वचिद्वृद्धिश्च जायते ॥ ६९॥

 

षष्ठेशे दशमे भावे मानवः कुलविश्रुतः ।

अभक्तश्च पितुर्वक्ता विदेशे च सुखी भवेत् ॥ ७०॥

 

षष्ठेशे लाभगे जातः शत्रुतो धनमाप्नुयात् ।

गुणवान् साहसी मानी किन्तु पुत्रसुखोज्झितः ॥ ७१॥

 

षष्ठेशे व्ययभावस्थे व्यसने व्ययकृत् सदा ।

विद्वद्द्वेषी भवेज्जातो जीवहिंसासु तत्परः ॥ ७२॥

 

दारेशे लग्नगे जातः परदारेषु लम्पटः ।

दुष्टो विचक्षणोऽधीरो जनो वातरुजान्वितः ॥ ७३॥

 

दारेशे धनगे जातो बहुस्त्रीभिः समन्वितः ।

दारयोगाद्धनाप्तिश्च दीर्घसूत्री च मानवः ॥ ७४॥

 

दारेशे सहजे जातो मृतापत्यो हि मानवः ।

कदाचिज्जायते पुत्री यत्नात् पुत्रोऽपि जीवति ॥ ७५॥

 

दारेशे सुखभावस्थे जाया नास्य वशे सदा ।

स्वयं सत्यप्रियो धीमान् धर्मात्मा दन्तरोगयुक् ॥ ७६॥

 

दारेशे पञ्चमे जातो मानि सर्वगुणान्वितः ।

सर्वदा हर्षयुक्तश्च तथा सर्वधनाधिपः ॥ ७७॥

 

दारेशे रिपुभावस्थे भार्या तस्य रुजान्विता ।

स्त्रिया सहाऽथ वा वैरं स्वयं क्रोधी सुखोज्झितः ॥ ७८॥

 

दारेशे सप्तमे भावे जातो दारसुखान्वितः ।

धीरो विचक्षणो धीमान् केवलं वातरोगवान् ॥ ७९॥

 

दारेशे मृत्युभावस्थे जातो दारसुखोज्झितः ।

भार्याऽपि रोगयुक्ताऽस्य दुःशीलाऽपि न चानुगा ॥ ८०॥

 

दारेशे धर्मभावस्थे नानास्त्रीभिः समागमः ।

जायाहृतमना जातो बह्वारम्भकरो नरः ॥ ८१॥

 

दारेशे कर्मभावस्थे नास्य जाया वशानुगा ।

स्वयं धर्मरतो जातो धनपुत्रादिसंयुतः ॥ ८२॥

 

दारेशे लाभभावस्थे दारैरर्थसमागमः ।

पुत्रादिसुखमल्पं च जनः कन्यप्रजो भवेत् ॥ ८३॥

 

दारेशे व्ययगे जातो दरिद्रः कृपणोऽपि वा ।

भार्या;पि व्ययशीलाऽस्य वस्त्राजीवी नरो भवेत् ॥ ८४॥

 

अष्टमेशे तनौ जातस्तनुसौख्यविवर्जितः ।

देवानां ब्राह्मणानां च निन्दको व्रणसंयुतः ॥ ८५॥

 

अष्टमेशे धने बाहुबलहीनः प्रजायते ।

धनं तस्य भवेत् स्वल्पं नष्ट वित्तं न लभ्यते ॥ ८६॥

 

रन्ध्रेशे सहजे भावे भ्रातृसौख्यं न जायते ।

सालस्यो भृत्यहीनश्च जायते बलवर्जितः ॥ ८७॥

 

रन्ध्रेशे सुखभावस्थे मातृहीनो भवेच्छिशुः ।

गृहभूमिसुखैर्हीनो मित्रद्रोही न संशयः ॥ ८८॥

 

रन्ध्रेशे सुतभावस्थे जडबुद्धिः प्रजायते ।

स्वल्पप्रज्ञो भवेज्जतो दीर्घायुश्च धनान्वितः ॥ ८९॥

 

रन्ध्रेशे रिपुभावस्थे शत्रुजेता भवेज्जनः ।

रोगयुक्तशरीरश्च बाल्ये सर्पजलाद् भयम् ॥ ९०॥

 

रन्ध्रेशे दारभावस्थे तस्य भार्याद्वयं भवेत् ।

व्यापारे च भवेधानिस्तस्मिन् पापयुते ध्रुवम् ॥ ९१॥

 

रन्ध्रेशे मृत्युभावस्थे जाता दीर्घायुषा युतः ।

निर्बले मध्यमायुः स्याच्चौरो निन्द्योऽन्यनिन्दकः ॥ ९२॥

 

अष्टमेशे तपःस्थाने धर्मद्रोही च नास्तिकः ।

दुष्टभार्यापतिश्चैव परद्रव्यापहारकः ॥ ९३॥

 

रन्ध्रेशे कर्मभावस्ते पितृसौख्यविवर्जितः ।

पिशुनः कर्महीनश्च यदि नैव शुभेक्षिते ॥ ९४॥

 

रन्ध्रेशे लाभभावस्थे सपापे धनवर्जितः ।

बाल्ये दुःखी सुखी पश्चात् दीर्घायुश्च शुभान्विते ॥ ९५॥

 

रन्ध्रेशे व्ययभावस्थे कुकार्ये व्ययकृत् सदा ।

अल्पायुश्च भवेज्जातः सपापे च विशेषतः ॥ ९६॥

 

भाग्येशे लग्नगे जातो भाग्यवान् भूपवन्दितः ।

सुशीलश्च सुरूपश्च विद्यावान् जनपूजितः ॥ ९७॥

 

भाग्येशे धनभावस्थे पण्डितो जनवल्लभः ।

जायते धनवान् कामी स्त्रीपुत्रादिसुखान्वितः ॥ ९८॥

 

भाग्येशे भ्रातृभावस्थे जातो भ्रातृसुखान्वितः ।

धनवान् गुणवांश्चापि रूपशीलसमन्वितः ॥ ९९॥

 

भाग्येशे तुर्यभावस्थे गृहयानसुखान्वितः ।

सर्वसम्पत्तियुक्तश्च मातृभक्तो भवेन्नरः ॥ १००॥

 

भाग्येशे सुतभावस्थे सुतभाग्यसमन्वितः ।

गुरुभक्तिरतो धीरो धर्मात्मा पण्डितो नरः ॥ १०१॥

 

भाग्येशे रिपुभावस्थे स्वल्पभाग्यो भवेन्नरः ।

मातुलादिसुखैर्हीनः शत्रुभिः पीडितः सदा ॥ १०२॥

 

भाग्येशे दारभावस्थे दारयोगात् सुखोदयः ।

गुणवान् कीर्तिमांश्चापि जायते द्विजसत्तमः ॥ १०३॥

 

भाग्येशे मृत्युभावस्थे भाग्यहीनो नरो भवेत् ।

ज्येष्ठभ्रातृसुखं नैव तस्य जातस्य जायते ॥ १०४॥

 

भाग्येशे भाग्यभावस्थे बहुभाग्यसमन्वितः ।

गुणसौन्दर्यसम्पन्नो सहजेभ्यः सुखं बहु ॥ १०५॥

 

भाग्येशे कर्मभावस्थे जातो राजाऽथ तत्समः ।

मन्त्री सेनापतिर्वाऽपि गुणवान् जनपुजितः ॥ १०६॥

 

भाग्येशे लाभभावस्थे धनलाभो दिने दिने ।

भक्तो गुरुजनानां च गुणवान् पुण्यवानपि ॥ १०७॥

 

भाग्येशो व्ययभावस्थो भाग्यहानिकरो नृणाम् ।

शुभकार्ये व्ययो नित्यं निर्धनोऽतिथिसङ्गमात् ॥ १०८॥

 

कर्मेशे लग्नगे जातो विद्वान् ख्यातो धनी कवीः ।

बाल्ये रोगी सुखी पश्चाद् धनवृद्धिर्दिने दिने ॥ १०९॥

 

राज्येशे धनभावस्थे धनवान् गुणसंयुतः ।

राजमान्यो वदान्यश्च पित्रादिसुखसंयुतः ॥ ११०॥

 

कर्मेशे सहजे जातो भ्रातृभृत्यसुखान्वितः ।

विक्रमी गुणसम्पन्नः वाग्मी सत्यरतो नरः ॥ १११॥

 

कर्मेशे सुखभावस्थे सुखी मातृहिते रतः ।

यानभूमिगृहाधीशो गुणवान् धनवानपि ॥ ११२॥

 

कर्मेशे सुतभावस्थे सर्वविद्यासमन्वितः ।

सर्वदा हृर्षसंयुक्तो धनवान् पुत्रवानपि ॥ ११३॥

 

कर्मेशे रिपुभावस्थे पितृसौख्यविवर्जितः ।

चतुरोऽपि धनैर्हीनः शत्रुभिः परिपीडितः ॥ ११४॥

 

राज्येशे दारभावस्थे जातो दारसुखान्वितः ।

मनस्वी गुणवान् वाग्मी सत्यधर्मरतः सदा ॥ ११५॥

 

कर्मेशे रन्ध्रभावस्थे कर्महीनो भवेन्नरः ।

दीर्घायुरप्यसौ जातः परनिन्दापरायणः ॥ ११६॥

 

राज्येशे भाग्यभे जातो राजा राजकुलोद्भवः ।

तत्समोऽन्यकुलोत्पन्नो धनपुत्रादिसंयुतः ॥ ११७॥

 

कर्मेशे राज्यभावस्थे सर्वकर्मपटुः सुखी ।

विक्रमी सत्यवक्ता च गुरुभक्तिरतो नरः ॥ ११८॥

 

राज्येशे लाभभावस्थे जातो धनसुतान्वितः ।

हर्षवान् गुणवांश्चापि सत्यवक्ता सदा सुखी ॥ ११९॥

 

राज्येशे व्ययभावस्थे तस्य राजगृहे व्ययः ।

शत्रुतोऽपि भयं नित्यं चतुरश्चापि चिन्तितः ॥ १२०॥

 

लाभेशे लग्नगे जातः सात्त्विको धनवान् सुखी ।

समदृष्टिः कविर्वाग्मी सदा लाभसमन्वितः ॥ १२१॥

 

लाभेशे धनभावस्थे जातः सर्वधनान्वितः ।

सर्वसिद्धियुतो दाता धार्मिकश्च सुखी सदा ॥ १२२॥

 

लाभेशे सहजे जातः कुशलः सर्वकर्मसु ।

धनी भ्रातृसुखोपेतः शूलरोगभयं क्वचित् ॥ १२३॥

 

लाभेशे सुखभावस्थे लाभो मातृकुलाद् भवेत् ।

तीर्थयात्राकरो जातो गृहभूमिसुखान्वितः ॥ १२४॥

 

लाभेशे सुतभावस्थे भवन्ति सुखिनः सुताः ।

विद्यवन्तोऽपि सच्छीलाः स्वयं धर्मरतः सुखी ॥ १२५॥

 

लाभेशे रोगभावस्थे जातो रोगसमन्वितः ।

क्रूरबुद्धिः प्रवासी च शत्रुभि परिपीडितः ॥ १२६॥

 

लाभेशे दारभावस्थे लाभो दारकुलात् सदा ।

उदारश्च गुणी कामी जनो भार्यावशानुगः ॥ १२७॥

 

लाभेशे रन्ध्रभावस्थे हानिः कार्येषु जायते ।

तस्यायुश्च भवेद्दीर्घं प्रथमं मरणं स्त्रियः ॥ १२८॥

 

लभेशे भाग्यभावस्थे भाग्यवान् जायते नरः ।

चतुरः सत्यवादी च राजपुज्यो धनाधिपः ॥ १२९॥

 

लाभेशे कर्मभावस्थे भूपवन्द्यो गुणान्वितः ।

निजधर्मरतो धीमान् सत्यवादी जितेन्द्रियः ॥ १३०॥

 

लाभेशे लाभभावस्थे लाभः सर्वेषु कर्मसु ।

पण्डित्यं च सुखं तस्य वर्द्धते च दिने दिने ॥ १३१॥

 

लाभेशे व्ययभावस्थे सत्कार्येषु व्ययः सदा ।

कामुको बहुपत्नीको म्लेच्छसंसर्गकारकः ॥ १३२॥

 

व्ययेशे लग्नगे जातो व्ययशीलो जतो भवेत् ।

दुर्बलः कफरोगी च धनविद्याविवर्जितः ॥ १३३॥

 

व्ययेशे धनभावस्थे शुभकार्ये व्ययः सदा ।

धार्मिकः प्रियवादी च गुणसौख्यसमन्वितः ॥ १३४॥

 

व्ययेशे सहजे जातो भ्रातृसौक्यविवर्जितः ।

भवेदन्यजनद्वेषी स्वशरीरस्य पोषकः ॥ १३५॥

 

व्ययेशे सुखभावस्थे मातुः सुखविवर्जितः ।

भूमियानगृहादीनां हानिस्तस्य दिनेदिने ॥ १३६॥

 

व्ययेशे सुतभावस्थे सुतविद्याविवर्जितः ।

पुत्रार्थे च व्ययस्तस्य तीर्थाटनपरो नरः ॥ १३७॥

 

व्ययेशे रिपुभावस्थे जातः स्वजनवैरकृत् ।

क्रोधी पापी च दुःखी च परजायारतो नरः ॥ १३८॥

 

व्ययेशे दारभावस्थे व्ययो दारकृतः सदा ।

तस्य भार्यासुखं नैव बलविद्याविवर्जितः ॥ १३९॥

 

व्ययेशे मृत्युभावस्थे जातो लाभान्वितः सदा ।

प्रियवाङ् मध्यमायुश्च सम्पूर्णगुणसंयुतः ॥ १४०॥

 

व्ययेशे भाग्यभावस्थे गुरुद्वेषी भवेन्नरः ।

मित्रैरपि भवेद्वैरं स्वार्थसाधनतत्परः ॥ १४१॥

 

व्ययेशे राज्यभावस्थे व्ययो राजकुलाद्भवेत् ।

पितृतोऽपि सुखं तस्य स्वल्पमेव हि जायते ॥ १४२॥

 

व्ययेशे लाभभावस्थे लाभे हानिः प्रजायते ।

परेण रक्षितं द्रव्यं कदाचिल्लभते नरः ॥ १४३॥

 

व्ययेशे व्ययभावस्थे व्ययाधिक्यं हि जायते ।

न शरीरसुखं तस्य क्रोधी द्वेषपरो नृणाम् ॥ १४४॥

 

इति ते कथितं विप्र भावेशानां च यत् फलम् ।

बलाबलविवेकेन सर्वेषं तत्समादिशेत् ॥ १४५॥

 

द्विराशीशस्य खेटस्य विदित्वोभयथा फलम् ।

विरोधे तुल्यफलयोर्द्वयोर्नाशः प्रजायते ॥ १४६॥

 

विभिन्नयोस्तु फलयोर्द्वयोः प्राप्तिर्भवेद्ध्रुवम् ।

ग्रहे पूर्णबले पुर्णमर्धमर्धबले फलम् ॥ १४७॥

 

पादं हीनबले खेटे ज्ञेयमित्थं बुधैरिति ।

उक्तं भावस्थितानां ते भावेशानां पलं मया ॥ १४८॥

 


 

 

        अथाऽप्रकाशग्रहफलाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ २५॥

 

रव्यादिसप्तखेटानां प्रोक्तं भावफलं मया ।

अप्रकाशग्रहाणां च फलानि कथयाम्यहम् ॥ १॥

 

शूरो विमलनेत्रांशः सुस्तब्धो निर्घृणः खलः ।

मूर्तिस्थे धूमसंज्ञे च गाढरोषो नरः सदा ॥ २॥

 

रोगी धनी तु हीनाङ्गो राज्यापहृतमानसः ।

धूमे द्वितीये सम्प्राप्ते मन्दप्रज्ञो नपुंसकः ॥ ३॥

 

मतिमान् शौर्यसम्पन्न इष्टचितः प्रियंवदः ।

धूमे सहजभावस्थे जनाढ्यो धनवान् भवेत् ॥ ४॥

 

कलत्राङ्गपरित्यक्तो नित्यं मनसि दुःखितः ।

धूमे चतुर्थे सम्प्राप्ते सर्वशास्त्रार्थचिन्तकः ॥ ५॥

 

स्वल्पापत्यो धनैर्हीनो धूमे पञ्चमसंस्थिते ।

गुरुत सर्वभक्षं च सुहृन्मन्त्रविवर्जितः ॥ ६॥

 

बलवाञ्छत्रुवधको धूमे च रिपुभावगे ।

बहुतेजोयुतः ख्यातः सदा रोगविवर्जितः ॥ ७॥

 

निर्धनः सततं कामी परदारेषु कोविदः ।

धूमे सप्तमगे जातो निस्तेजाः सर्वदा भवेत् ॥ ८॥

 

विक्रमेण परित्यक्तः सोत्साहो सत्यसङ्गरः ।

अप्रियो निष्ठुरः स्वार्थी धूमे मृत्युगते सति ॥ ९॥

 

सुतसौभाग्यसम्पन्नो धनी मानी दयान्वितः ।

धर्मस्थाने स्थिते धूमे धर्मवान् बन्धुवत्सलः ॥ १०॥

 

सुतसौभाग्यसंयुक्तः सन्तोषी मतिमान् सुखी ।

कर्मस्थे मानवो नित्यं धूमे सत्यपदस्थितः ॥ ११॥

 

धनधान्यहिरण्याढ्यो रूपवांश्च कलान्वितः ।

धूमे लाभगते चैव विनीतो गीतकोविदः ॥ १२॥

 

पतितः पापकर्मा च धूमे द्वादशसङ्गते ।

परदारेषु संसक्तो व्यसनी निर्घृणः शठः ॥ १३॥

 

लग्ने पाते च सम्प्राप्ते जातको दुःखीपीडितः ।

क्रूरो घातकरो मूर्खो द्वेषी बन्धुजनस्य च ॥ १४॥

 

जिह्मोऽतिपित्तवान् भोगी धनस्थे पातसंज्ञके ।

निर्घृणश्चाऽकृतज्ञश्च दुष्टात्मा पापकृत्तथा ॥ १५॥

 

स्थिरप्रज्ञो रणी दाता धनाढ्यो राजवल्लभः ।

सम्प्राप्ते सहजे पाते सेनाधीशो भवेन्नरः॥ १६॥

 

बन्धव्याधिसमायुक्तः सुतसौभाग्यवर्जितः ।

चतुर्थगो यदा पातस्तदा स्यान्मनुजश्च सः ॥ १७॥

 

दरिद्रो रूपसंयुक्तः पाते पञ्चमगे सति ।

कफपित्तानिलैर्युक्तो निष्ठुरो निरपत्रपः ॥ १८॥

 

शत्रुहन्ता सुपुष्टश्च सर्वास्त्राणां च चालकः ।

कलासु निपुणः शान्तः पाते शत्रुगते सति ॥ १९॥

 

धनदारसुतैस्त्यक्तः स्त्रीजितो दुःखसंयुतः ।

पाते कलत्रगे कामी निर्लज्जः परसौहृदः ॥ २०॥

 

विकलाक्षो विरूपश्च दुर्भगो द्विजनिन्दकः ।

मृत्युस्थाने स्थिते पाते रक्तपीडापरिप्लुतः ॥ २१॥

 

बहुव्यापारको नित्यं बहुमित्रो बहुश्रुतः ।

धर्मभे पातखेटे च स्त्रीप्रियश्च प्रियंवदः ॥ २२॥

 

सश्रीको धर्मकृछान्तो धर्मकार्येषु कोविदः ।

कर्मस्थे पातसंज्ञे हि महाप्राज्ञो विचक्षणः ॥ २३॥

 

प्रभूतधनवान् मानी सत्यवादी दृढव्रतः ।

अश्वढ्यो गीतसंसक्तः पाते लाभगते सति ॥ २४॥

 

कोपी च बहुकर्माढयो व्यंगो धर्मस्य दूषकः ।

व्ययस्थाने गते पाते विद्वेषी निजबन्धुषु ॥ २५॥

 

विद्वान् सत्यरतः शान्तो धनवान् पुत्रवाञ्छुचिः ।

परिधो तनुगे दाता जायते गुरुवत्सलः ॥ २६॥

 

ईश्वरो रूपवान् भोगी सुखी धर्मपरायणः ।

धनस्थे परिधौ जातः प्रभुर्भवति मानवः ॥ २७॥

 

स्त्रीवल्लभः सुरूपांगो देवस्वजनसंगतः ।

तृतीये परिधौ भृत्यो गुरुभक्तिसमन्वितः ॥ २८॥

 

परिधौ सुखभावस्थे विस्मितं त्वरिमंगलम् ।

अक्रूरं त्वथ सम्पूर्णं कुरुते गीतकोविदम् ॥ २९॥

 

लक्ष्मीवान् शीलवान् कान्तः प्रियवान् धर्मवत्सलः ।

पञ्चमे परिधौ जातः स्त्रीणां भवति वल्लभः ॥ ३०॥

 

व्यक्तोऽर्थपुत्रवान् भोगी सर्वसत्त्वहिते रतः ।

परिधौ रिपुभावस्थे शत्रुहा जायते नरः ॥ ३१॥

 

स्वल्पापत्यः सुखैर्हीनो मन्दप्रज्ञः सुनिष्ठुरः ।

परिधौ द्यूनभावस्थे स्त्रीणां व्याधिश्च जायते ॥ ३२॥

 

अध्यात्मचिन्तकः शान्तो दृढकायो दृढव्रतः ।

धर्मवांश्च ससत्त्वश्च परिधौ रन्ध्रसंस्थिते ॥ ३३॥

 

पुत्रान्वितः सुखी कान्तो धनाढयो लौल्यवर्जितः ।

परिधौ धर्मगे मानी स्वल्पसन्तुष्टमानसः ॥ ३४॥

 

कलाभिज्ञस्तथा भोगी दृढकायो ह्यमत्सरः ।

परिधौ दशमे प्राप्ते सर्वशास्त्रार्थपारगः ॥ ३५॥

 

स्त्रीभोगी गुणवांश्चैव मतिमान् स्वजनप्रियः ।

लाभगे परिधौ जातो मन्दाग्निरूपपद्यते ॥ ३६॥

 

व्ययस्ते परिधौ जातो व्ययकृत् मानवः सदा ।

दुःखभाग् दुष्टबुद्धिश्च गुरुनिन्दापरायणः ॥ ३७॥

 

धनधान्यहिरण्याढ्यः कृतज्ञः सम्मतः सताम् ।

सर्वदोषपरित्यक्तश्चापे तनुगते नरः ॥ ३८॥

 

प्रियंवदः प्र्गल्भाढ्यो विनीतो विद्ययाऽन्वितः ।

धनस्थे चापखेटे च रूपवान् धर्मतत्परः ॥ ३९॥

 

कृपणोऽतिकलाभिज्ञश्चौर्यकर्मरतः सदा ।

सहजे धनुषि प्राप्ते हीनाङ्गो गतसौहृदः ॥ ४०॥

 

सुखी गोधनधान्याद्यै राजसन्मानपूजितः ।

कार्मुके सुखसंस्थे तु नीरोगो तनु जायते ॥ ४१॥

 

रुचिमान् दीर्घदर्शो च देवभक्तः प्रियंवदः ।

चापे पञ्चमगे जातो विवृद्धः सर्वकर्मसु ॥ ४२॥

 

शत्रुहन्ताऽतिधर्तश्च सुखी प्रीतिरुचिः शुचिः ।

षष्ठस्थानगते चापे सर्वकर्मसमृद्धिभाक् ॥ ४३॥

 

ईश्वरो गुणसम्पूर्णः शास्त्रबिद्धार्भिकः प्रियः ।

चापे सप्तमभावस्थे भवतीति न संशयः ॥ ४४॥

 

परकर्मरतः क्रूरः परदारपरायणः ।

अष्टमस्थानगते चापे जायते विकलांगकः ॥ ४५॥

 

तपस्वी व्रतचर्यासु निरतो विद्ययाऽधिकः ।

धर्मस्थे जायते चापे मानवो लोकविश्रुतः ॥ ४६॥

 

बहुपुत्रधनैश्वर्यो गोमहिष्यादिमान् भवेत् ।

कर्मभे चापसंयुक्ते जायते लोकविश्रुतः ॥ ४७॥

 

लाभगे चपखेटे च लाभयुक्तो भवेन्नरः ।

निरोगो दृढकोपाग्निर्मन्त्रस्त्रीपरमास्त्रवित् ॥ ४८॥

 

खलोऽतिमानी दुर्बुद्धिर्निर्लज्जो व्ययसंस्थिते ।

चापे परस्त्रीसंयुक्तो जायते निर्धनः सदा ॥ ४९॥

 

कुशलः सर्वविद्यासु सुखी वाङ्निपुनः प्रियः ।

तनौ शिखिनि सञ्जातः सर्वकामान्वितो भवेत् ॥ ५०॥

 

वक्ता प्रियंवदः कान्तो धनस्थानगते ध्वजे ।

काव्यकृत् पण्डितो मानी विनीतो वाहनान्वितः ॥ ५१॥

 

कदर्यः क्रूरकर्ता च कृशाङ्गो धनवर्जितः ।

सहजस्थे तु शिखिनि तीव्ररोगी प्रजायते ॥ ५२॥

 

रूपवान् गुणसम्पन्नः सात्त्विकोऽपि स्रुतिप्रियः ।

सुखसंस्थे तु शिखिनि सदा भवति सौख्यभाक् ॥ ५३॥

 

सुखी भोगी कलाविच्च पञ्चमस्थानगे ध्वजे ।

युक्तिज्ञो मतिमान् वाग्मी गुरुभक्तिसमन्वितः ॥ ५४॥

 

मातृपक्षक्षयकरः शत्रुहा बहुवान्धवः ।

रिपुस्थाने ध्वजे प्राप्ते शूरः कान्तो विचक्षणः ॥ ५५॥

 

द्यूतक्रीडाष्वभिरतः कामी भोगसमन्वितः ।

ध्वजे तु सप्तमस्थागे वेश्यासु कृतसौहृदः ॥ ५६॥

 

नीचकर्मरतः पापो निर्लज्जो निन्दकः सदा ।

मृत्युस्थाने ध्वजे प्राप्ते गतस्त्र्यपरपक्षकः ॥ ५७॥

 

लिङ्गधारी प्रसन्नात्मा सर्वभूतहिते रतः ।

धर्मभे शिखिनि प्राप्ते धर्मकार्येषु कोविदः ॥ ५८॥

 

सुखसौभाग्यसम्पन्नः कामिनीनां च वल्लभः ।

दाता द्विजैः समायुक्तः कर्मस्थे शिखिनि द्विज ॥ ५९॥

 

नित्यलाभः सुधर्मी च लाभे शिखिनि पूजितः ।

धनाढ्यः सुभगः शूरः सुयज्ञश्चाति कोविदः ॥ ६०॥

 

पापकर्मरतः शूरः श्रद्धाहीनोऽघृणो नरः ।

परदाररतो रौद्रः शिखिनि व्ययगे सति ॥ ६१॥

 

रोगार्त्तः सततं कामी पापात्माधिगतः शठः ।

तनुस्थे गुलिके जातः खलभावोऽतिदुःखितः ॥ ६२॥

 

विकृतो दुःखितः क्षुद्रो व्यसनी च गतत्रपः ।

धनस्थे गुलिके जातो निःस्वो भवति मानवः ॥ ६३॥

 

चार्वङ्गो ग्रामपः पुण्यसंयुक्तः सज्जनप्रियः ।

सहजे गुलिके जातो मानवो राजपूजितः ॥ ६४॥

 

रोगी सुखपरित्यक्तः सदा भवति पापकृत् ।

गुलिके सुखभावस्थे वातपित्ताधिको भवेत् ॥ ६५॥

 

विस्तुतिर्विधनोऽल्पायुर्द्वेषी क्षुद्रो नपुंसकः ।

गुलिके सुतभावस्थे स्त्रीजितो नास्तिको भवेत् ॥ ६६॥

 

वीतशत्रुः सुपुष्टाङ्गो रिपुस्थाने यमात्मजे ।

सुदीप्तः सम्मतः स्त्रीणां सोत्साहः सुदृढो हितः ॥ ६७॥

 

स्त्रीजितः पापकृज्जारः कृशाङ्गो गतसौहृदः ।

जीवितः स्त्रीधनेनैव गुलिके सप्तमस्थिते ॥ ६८॥

 

क्षुधालुर्दुःखित क्रूरस्तीक्ष्णरोषोऽतिनिर्घृणः ।

रन्ध्रगे गुलिके निःस्वो जायते गुणवर्जितः ॥ ६९॥

 

बहुक्लेशः कृशतनुर्दुष्टकर्मातिनिर्घृणः ।

गुलिके धर्मगे मन्दः पिशुनो बहिराकृतिः ॥ ७०॥

 

पुत्रान्वितः सुखी भोक्ता देवाग्न्यर्चनवत्सलः ।

दशमे गुलिके जातो योगधर्माश्रितः सुखी ॥ ७१॥

 

सुस्त्रीभोगी प्रजाध्यक्षो बन्धूनां च हिते रतः ।

लाभस्थे गुलिके जातो नीचाङ्ग सार्वभौमकः ॥ ७२॥

 

नीचकर्माश्तितः पापो हीनाङ्गो दुर्भगोऽलसः ।

व्ययगे गुलिके जातो नीचेषु कुरुते रतिम् ॥ ७३॥

 

लग्ने प्राणपदे क्षणो रोगि भवति मानवः ।

मूकोन्मत्तो जडाङ्गस्तु हीनाङ्गो दुःखित कृशः ॥ ७४॥

 

बहुधान्यो बहुधनो बहुभृत्यो बहुप्रजः ।

धनस्थानस्थिते प्राणे सुभगो जयते नरः ॥ ७५॥

 

हिंस्रो गर्वसमायुक्तो निष्ठुरोऽतिमलिम्लुचः ।

तृतीयगे प्राणपदे गुरुभक्तिविवर्जितः ॥ ७६॥

 

सुखस्थे तु सुखी कान्तः सुहृद्रमासु वल्लभः ।

गुरौ परायणः शीतः प्राणे वै सत्यतत्परः ॥ ७७॥

 

सुखिभाक् सुक्रियोपेतस्त्वपचारदयान्वितः ।

पञ्चमस्थे प्राणपदे सर्वकामसमन्वितः ॥ ७८॥

 

बन्धुशत्रुवशस्तीक्ष्णो मन्दाग्निर्निर्दयः खलः ।

षष्ठे प्राणपदे रोगी वित्तपोऽल्पायुरेव च ॥ ७९॥

 

ईर्ष्यालु सततं कामी तीव्ररौद्रवपुर्नरः ।

सप्तमस्थे प्राणपदे दुराराध्यः कुबुद्धिमान् ॥ ८०॥

 

रोगसन्तापिताङ्गश्च प्राणपदेऽष्टमे सति ।

पीडितः पार्थिवैर्दुःखैर्मृत्यबन्धुसुतोद्भवैः ॥ ८१॥

 

पुत्रवान् धनसम्पन्नः सुभगः प्रियदर्शनः ।

प्राणे धर्मस्थिते भृत्यः सदाऽदुष्टो विचक्षणः ॥ ८२॥

 

वीर्यवान् मतिमान् दक्षो नृपकार्येषु कोविदः ।

दशमे वै प्राणपदे देवार्चनपरायणः ॥ ८३॥

 

विख्यातो गुणवान् प्राज्ञो भोगीध नसमन्वितः ।

लाभस्थानस्थिते प्राणे गौराङ्गो मातृवत्सलः ॥ ८४॥

 

क्षुद्रो दुष्टस्तु हीनाङ्गो विद्वेशी द्विजबन्धुषु ।

व्यये प्राणे नेत्ररोगी काणो वा जायते नरः ॥ ८५॥

 

इत्यप्रकाशखेटानां फलान्युक्तानि भूसुर ।

तथा यानि प्रकाशानां सूर्यादीनां खचारिणाम् ॥ ८६॥

 

तानि स्थितिवशात्तेषां स्फुटदृष्टिवशात् तथा ।

बलाऽबलविवेकेन वक्तव्यानि शरीरिणाम् ॥ ८७॥

 


 

 

       अथे ग्रहस्फुटदृष्टिकथनाध्ययाः ॥ २६॥

 

भगवान् कतिधा दृष्टिर्बलं कतिविधं तथा ।

इति मे संशयो जातस्तं भवान् छेत्तुमर्हिति ॥ १॥

 

एका राशिवशाद् दृष्टिः पूर्वमुक्ता च या द्विज ।

अन्या खेटस्वभावोत्था स्फुटा तां कथयाम्यहम् ॥ २॥

 

त्रिदशे च त्रिकोणे च चतुरस्रे च सप्तमे ।

पादवृद्धया प्रपश्यन्ति प्रयच्छन्ति फलं तथा ॥ ३॥

 

पूर्णं च सप्तमं सर्वे शानिजीवकुजाः पुनः ।

विशेषतश्च त्रिदशत्रिकोणचतुरष्टमान् ॥ ४॥

 

इति सामान्यतः पूर्वैराचार्यैः प्रतिपादिता ।

स्फुटान्तरवशाद्या च दृष्टिः साऽतिस्फुटा यथा ॥ ५॥

 

दृश्याद् विशोध्य द्रष्टारं षड्राशिभ्योऽधिकान्तरम् ।

दिगभ्यः संशोध्य तद्भागा द्विभक्ता दृक् स्फुटा भवेत् ॥ ६॥

 

पञ्चाधिके विना राशिं भागाद्विघ्नाश्च दृक् स्फुटा ।

वेदाधिके त्यजेद् भूताद् भागा दृष्टिः त्रिभाधिके ॥ ७॥

 

विशोध्यार्णवतो द्वाभ्यां लब्धं त्रिंशद्युतं च दृक् ।

द्व्यधिके तु विना राशिं भागास्तिथियुतास्तथा ॥ ८॥

 

रूपाधिके विना राशिं भागा द्वयाप्ताश्च दृग् भवेत् ।

एवं राश्यादिके शेषे शनौ द्रष्टरि भो द्विज ॥ ९॥

 

एकभे नवभे भागा भुक्ता भोग्या द्विसंगुणाः ।

द्विभेंऽशार्धोनिताः षष्टिरष्टभे खाग्नियुग् लवाः ॥ १०॥

 

त्रिसप्तभे तु भौमस्य षष्टिरत्र लवोनिता ।

सार्धांशास्तिथिसंयुक्ता द्विभे रूपं सदाऽङ्गभे ॥ ११॥

 

त्रिसप्तभे तु जीवस्य भागार्धं शरवेदयुक् ।

द्विगुणैस्तु लवैश्चोनाः खरसाश्चतुरष्टभे ॥ १२॥

 

एवं रव्यादिखेटानां स्फुटा दृष्टिः प्रजायते ।

तद्वशादेव भावानां जातकस्य फलं वदेत् ॥ १३॥

 


 

 

          अथ स्पष्टबलाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ २७॥

 

अथ स्पष्टबलं वक्ष्ये स्थानकालादिसम्भवम् ।

नीचोनां खचरं भार्धाधिक चक्राद् विशोधयेत् ॥ १॥

 

भागीकृत्य त्रिभिर्भक्तं लब्धमुच्चबलं भवेत् ।

स्वत्रिकोणस्वगेहाधिमित्रमित्रसमारिषु ॥ २॥

 

अधिशत्रुगृहे चापि स्थितानां क्रमशो बलम् ।

भूताब्धयः खाग्निनखास्तिथ्यो दश युगाः कराः ॥ ३॥

 

एवं होरादृकाणाद्रिभागांकद्वादशांशजम् ।

त्रिंशांशजं तदैक्यञ्च सप्तवर्गसमुद्भवम् ॥ ४॥

 

शुक्रेन्दू समभांशेऽन्ये विषमेऽङ्घ्रिमितं बलम् ।

केन्द्रादिषुस्थिताः खेटाः पूर्णाऽर्धाऽङ्घ्रिमितं क्रमात् ॥ ५॥

 

आद्यमध्यावसानेषु द्रेष्काणेषु स्थिताः क्रमात् ।

पुंनपुंसकयोषाख्या दद्युरङ्घ्रिमितं बलम् ॥ ६॥

 

सूर्यात् कुजात् सुखं जीवाज्ज्ञाच्चाऽस्तं लग्नमार्क्रितः ।

दशमं च भृगोश्चन्द्राद् हित्वा षड्भाधिके सति ॥ ७॥

 

चक्राद् विशोध्य तद्भागास्त्रिभिर्भक्ताश्च दिग्बलम् ।

इष्टाधटि निशीथात्तन्नतं त्रिंशच्च्युतं नतम् ॥ ८॥

 

चन्द्रभौमशनीनां च नतं द्विघ्नं कलादिकम् ।

षष्टिशुद्धं तदन्येषां सदा रूपं बुधस्य हि ॥ ९॥

 

अथ पक्षबलं वक्ष्ये सूर्ये चन्द्राद् विशोध्य च ।

षड्भाधिके विशोध्यार्काद् भागीकृत्त्य त्रिभिर्भजेत् ॥ १०॥

 

पक्षजं बलमिन्दुज्ञशुक्रेज्यानां तु षष्टितः ।

विशोध्य तब्दलं ज्ञेनं पापानां पक्षसंभवम् ॥ ११॥

 

दिनत्र्यंशेषु सौम्यार्कशनीनां निट्त्रिभागके ।

चन्द्रशुक्रकुजानां च बलं पूर्णं सदा गुरोः ॥ १२॥

 

वषमासदिनेशानां तिथ्यस्त्रिंशच्छरार्णवाम् ।

होरेशस्य बलं षष्टिरुक्तं नैसर्गिकं पुरा ॥ १३॥

 

तन्मानां सप्तहृत्षष्टिरेकाद्येकोत्तरैर्हता ।

शमंबुगुशुचंरादिखेटानां क्रमतो द्विज ॥ १४॥

 

पञ्चाब्धयः सुराः सूर्याः खण्डकांशाः क्रमादमी ।

सायनग्रहदोराशितुल्यखण्डयुतिश्च स ॥ १५॥

 

भागादिकहतादेष्यात् त्रिंशल्लब्धयुता लवाः ।

स्वमृणं तुलमेषादौ शनीन्द्वोश्च त्रिराशिषु ॥ १६॥

 

तथाऽरार्केज्यशुक्राणां व्यस्तं ज्ञस्य सदा धनम् ।

तद्भागाश्च त्रिभिर्भक्ता ज्ञेयमायनजं बलम् ॥ १७॥

 

यद्रवेरायनं वीर्यं चेष्टाख्यं तावदेव हि ।

विधोः पक्षबलं यावत् तावच्चेष्टाबलं स्मृतम् ॥ १८॥

 

पापदृक्पादहीनं तच्छुभदृक्पादयुक् तथा ।

बलैक्यं ज्ञेज्यदृक्युक्तमेवं खेटबलं भवेत् ॥ १९॥

 

अथ तारग्रहाणां तु युद्ध्यतोश्च द्वयोर्मिथः ।

बलान्तरं विजेतुः स्वं निर्जितस्य बले त्वृणम् ॥ २०॥

 

चक्रानुवक्रा विकला मन्दा मन्दतरा समा ।

चरा चाऽतिचरा चेति ग्रहाणामष्टधा गतिः ॥ २१॥

 

षष्टिर्वक्रगते वीर्यमनुवक्रगतेर्दलम् ।

पादो विकलभुक्तेः स्यात् तथा मध्यगतेर्दलम् ॥ २२॥

 

पादो मन्दगतेस्तस्य दलं मन्दतरस्य हि ।

चरभुक्तेस्तु पादोनां दलं स्यादतिचारिणः ॥ २३॥

 

मध्यमस्फुटयोगार्धहीनं स्वस्वचलोच्चकम् ।

षड्भाधिकं च्युतं चक्राच्चेष्टाकेन्द्रं स्मृतं कुजात् ॥ २४॥

 

भागीकृतं त्रिभिर्भक्तं लब्धं चेष्टाबलं त्विति ।

स्थानदिक्कालदृक्चेष्टानिसर्गोत्थं च षड्विधम् ॥ २५॥

 

एवं ग्रहबलं प्रोक्तमथ भावबलं श‍ृणु ।

कन्यायुग्मतुलाकुम्भचापाद्यार्धाश्च सप्तमम् ॥ २६॥

 

गोऽजसिंहमृगाद्यार्धचापान्त्यार्धात् सुखं त्यजेत् ।

कर्कवृश्चिकतो लग्नं मृगात्यार्धाज्झषाश्च खम् ॥ २७॥

 

शोध्यमङ्गाधिकं चक्राच्च्युतं भागीकृतं त्रिहृत् ।

सद्दृष्टिपादयुक्पापपापदृष्टिपादविवर्जितम् ॥ २८॥

 

ज्ञेज्यदृष्टियुतं तच्च स्वस्वस्वामिबलान्वितम् ।

इति भावबलं स्पष्टं सामान्यं च पुरोदितम् ॥ २९॥

 

बुधेज्ययुक्तभावस्य बलमेकेन संयुतम् ।

मन्दाररवियुक्तस्य बलमेकेन वर्जितम् ॥ ३०॥

 

दिने शीर्षोदयो भावः सन्ध्यायामुभयोदयः ।

निशि पृष्ठोदयाख्यश्च दद्यात् पादमितं बलम् ॥ ३१॥

 

अंकाग्नयोऽङ्गरामाश्च खाग्नया करसिन्धवः ।

नवाग्नयः सुरास्त्रिंशद् दशसंगुणिताः क्रमात् ॥ ३२॥

 

रव्यादीनां बलैक्यश्चेत् तदा सुबलिनो मताः ।

अधिकं पूर्णमेव स्याद् बलं चेद्बलिनो द्विज ॥ ३३॥

 

गुरुसौम्यरवीणां तु भूतषट्केन्दवो द्विज ।

पंचाग्नयः खभूतानि करभूमिसुधाकराः ॥ ३४॥

 

खाग्नयश्च क्रमात्स्थानदिक्चेष्टासमयाऽयने ।

सितेन्द्वोस्त्र्यग्निचन्द्राश्च खेषवः खाग्नयः शतम् ॥ ३५॥

 

चत्वारिंशत् कला भौममन्दयोः षण्णव क्रमात् ।

त्रिंशत् खवेदाः सप्ताङ्गा नखाश्चेत्युदिता द्विज ॥ ३६॥

 

एवं कृत्वा बलैक्यंच ततश्चिन्त्यम् फलं द्विज ।

भावस्थानग्रहैः प्रोक्तयोगे ये योगहेतवः ॥ ३७॥

 

तेषां मध्ये बली कर्ता स एवाऽस्य फलप्रदः ।

योगेष्वाप्तेषु बहुषु नीतिरेवं प्रकीर्तिता ॥ ३८॥

 

गणितेषु प्रवीणो यः शब्दशास्त्रे कृतश्रमः ।

न्यायविद् बुद्धिमान् देशदिक्कालज्ञो जितेन्द्रियः ॥ ३९॥

 

ऊहापोहपटुर्होरास्कन्धश्रवणसम्मतः ।

मैत्रेय सत्यतां यादि तस्य वाक्यं न संशयः ॥ ४०॥

 


 

 

            अथेष्टकष्टाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ २८॥

 

अथ चेष्टमनिष्टं च ग्रहानां कथयाम्यहम् ।

यद्वशाच्च प्रयच्छन्ति शुभाऽशुभदशाफलम् ॥ १॥

 

स्वनीचोनो ग्रह शोध्यः षड्भाधिक्ये भमण्डलात् ।

सैको राशिर्भवेदुच्चरश्मिर्द्विघ्नांशसंयुतः ॥ २॥

 

चेष्टाकेन्द्राच्च तद्रश्मिं साधयेदुच्चरश्मिवत् ।

चेष्टाकेन्द्रं कुजादीनां पूर्वमुक्तं मया द्विज ॥ ३॥

 

सायनार्कस्त्रिभोऽर्कस्य व्यर्केन्दुश्च विधोस्तथा ।

चेष्टाकेन्द्रं रसाल्पं तच्चक्राच्छोध्यं रसाधिके ॥ ४॥

 

चेष्टोच्चरश्मियोगार्धं शुभरश्मिः प्रकीर्त्यते ।

अष्टभ्यश्च विशुद्धोऽसाबशुभाख्यश्च कथ्यते ॥ ५॥

 

उच्चचेष्टाकरान् व्येकान् दिग्भिर्हत्वा तु योजयेत् ।

तदर्धमिष्टसंज्ञं स्यात् कष्टं तत्षष्टितश्च्युतम् ॥ ६॥

 

स्वोच्चे मूलत्रिकोणे च स्वभेऽधिसुहृदीष्टभे ।

समभे शत्रुभे चाधिशत्रुभे नीचभे क्रमात् ॥ ७॥

 

षष्टिरिष्वब्धयस्त्रिंशदाकृतिस्तिथयो गजाः ।

चत्वारो द्वौ च शून्यं च शुभमेतत्फलं गृहे ॥ ८॥

 

षष्टितः पतितं चैतच्छेषं स्यादशुभं गृहे ।

तदर्धमन्यवर्गेषु ज्ञेयं विप्र शुभाऽशुभम् ॥ ९॥

 

पञ्चस्विष्टफलं चाद्यात् समं षष्ठे ततः परम् ।

अशुभं त्रिषु विज्ञेयमिति शास्त्रेषु निश्चितम् ॥ १०॥

 

दिग्बलं दिक्फलं तस्य तथा दिनफलं भवेत् ।

तयोः फलं शुभं प्रोक्तमशुभं षष्टितश्च्युतम् ॥ ११॥

 

शुभेऽधिके शुभं ज्ञेयमशुभं त्वशुभेऽधिके ।

दशाफलं नभोगस्य तथा भावफलं द्विज ॥ १२॥

 

बलैः षड्भिः समोधित्वा बलैक्येन भजेत् पृथक् ।

तत्तद्बलफलानि स्युरशुभानि शुभानि च ॥ १३॥

 

शुभपापफलाभ्यां च हन्याद् दृष्टिं बलं तथा ।

दृष्टी ते शुभपापाख्ये बले स्यातां तदाह्वये ॥ १४॥

 

भावानां च फले प्रोक्ते पतीनां च फले उभे ।

राशौ शुभनभोगश्चेद् भावसाधनसंभवम् ॥ १५॥

 

फलं तस्य शुभे युञ्ज्यादशुभे वर्जयेत् तथा ।

पापश्चेदन्यथा चैवं बले दृष्ट्यां तथैव च ॥ १६॥

 

युञ्ज्यादुच्चादिगे खेटे फलं नीचादिगे त्यजेत् ।

एवं शुभाऽशुभं ज्ञात्वा जातकस्य फलं वदेत् ॥ १७॥

 

अष्टवर्गफलं चैवं स्थाने च करणेऽन्यथा ।

राशिद्वयगते भावे तद्राश्यधिपतेः क्रिया ॥ १८॥

 

स्थानाधिकेन भावेन भावलाभः प्रकीर्तितः ।

तत्समाने च तद्भावे तदानीं स्थानदान् ग्रहान् ॥ १९॥

 

संयोज्ये स्थानसंख्याया दलमेतत्समं फलम् ।

एवं सखेटभावानां फलं ज्ञेयं शुभाऽशुभम् ॥ २०॥

 


 

 

               अथ पदाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ २९॥

 

कथ्याम्यथा भावानां खेटानां च पदं द्विज ।

तद्विशेषफलं ज्ञातुं यथोक्तं प्राङ् महर्षिभिः ॥ १॥

 

लग्नाद् यावतिथे राशौ तिष्ठेल्लग्नेश्वरः क्रमात् ।

ततस्तावतिथे राशौ लग्नस्य पदमुच्यते ॥ २॥

 

सर्वेषामाप भावानां ज्ञेयमेवं पदं द्विज ।

तनुभावपदं तत्र बुधा मुख्यपदं विदुः ॥ ३॥

 

स्वस्थानं सप्तमं नैवं पदं भवितुमर्हति ।

तस्मिन् पदत्वे विज्ञेयं मध्यं तुर्यं क्रमात् पदम् ॥ ४॥

 

यथा तुर्यस्थिते नाथे तुर्यमेव पदं भवेत् ।

सप्तमे च स्थिते नाथे विज्ञेयं दशमं पदम् ॥ ५॥

 

यस्माद् यावतिथे राशौ खेटात् तद्भवनं द्विज ।

ततस्तावतिथं राशिं खेटारूढं प्रचक्षते ॥ ६॥

 

द्विनाथद्विभयोरेवं विज्ञेयं सबलावधि ।

विगणय्य पदं विप्र ततस्तस्य फलं वदेत् ॥ ७॥

 

अथाऽहं पदमाश्रित्य फलं किञ्चिद् ब्रुवे द्विज ।

पदादेकादशे स्थाने ग्रहैर्युक्तोऽथवेक्षिते ॥ ८॥

 

धनवान् जायते बालस्तथा सुखसमन्वितः ।

शुभयोगात् सुमार्गेण धनाप्तिः पापतोऽन्तथा ॥ ९॥

 

मिश्रैर्मिश्रं फलं ज्ञेयं स्वोच्चमित्रादिगेहगैः ।

बहुधा जायते लाभो बहुधा च सुखागमः ॥ १०॥

 

पदाल्लाभगृहं यस्य पश्यन्ति सकला ग्रहाः ।

राजा वा राजतुल्यो वा स जातो नात्र संशयः ॥ ११॥

 

पदाल्लाभगृहं पश्येद् व्ययं कश्चिन्न पश्यति ।

अविध्नेन सदा लाभो जायते द्विजसत्तम ॥ १२॥

 

ग्रहदृग्योगबाहुल्ये पदादेकादशे द्विज ।

सार्गले चापि तत्रापि बह्वर्गलसमागमे ॥ १३॥

 

शुभग्रहार्गले विप्र तत्राप्युच्चग्रहार्गले ।

शुभेन स्वामिना दृष्टे लग्नभाग्यादिगेन वा ॥ १४॥

 

जातस्य भाग्यप्राबल्यं निर्दिशेदुत्तरोत्तरम् ।

उक्तयोगेषु चेत् खेटे द्वादशं नैव पश्यति ॥ १५॥

 

पदस्थानाद् व्यये विप्र शुभपापयुतेक्षिते ।

व्ययबाहुल्यमित्येवं विशेषोपार्जनात् सदा ॥ १६॥

 

शुभग्रहे सुमार्गेण कुमार्गात् पापखेचरे ।

मिश्रे मिश्रफलं वाच्यमेवं लाभोऽपि लाभगे ॥ १७॥

 

पदारूढाद् व्यये शुक्रभानुस्वर्भानुभिर्युते ।

राजमूलाद् व्ययो वाच्यश्चन्द्रदृष्ट्या विशेषतः ॥ १८॥

 

पदारूढाद् व्यये सौम्ये शुभखेटयुतेक्षिते ।

ज्ञातिमध्ये व्ययो नित्यं पापदृक् कलहाद् व्ययः ॥ १९॥

 

पदाद् व्यये सुराचार्ये वीक्षिते चान्यखेचरैः ।

करमूलाद् व्ययो वाच्यः स्वस्यैव द्विजसत्तम ॥ २०॥

 

आरूढाद् द्वादशे सौरे धरापुत्रेण संयुते ।

अन्यग्रहेक्षिते विप्र भ्रातृवर्गाद् धनव्ययः ॥ २१॥

 

आरूढाद् द्वादशे स्थाने ये योगाः कथिता यथा ।

लाभभावे च ते योगा लाभयोगकरास्तथा ॥ २२॥

 

आरूढात् सप्तमे राहुरथवा संस्थितः शिखी ।

कुक्षिव्यथायुतो बालः शिखिना पीडितो`थ वा ॥ २३॥

 

आरूधात् सप्तमे केतुः पापखेटयुतेक्षितः ।

साहसी श्वेतकेशी च वृद्धलिङ्गी भवेन्नरः ॥ २४॥

 

पदात्तु सप्तमे स्थाने गुरुशुक्रनिशाकराः ।

त्रयो द्वयमथैकोऽपि लक्ष्मीवान् जायते जनः ॥ २५॥

 

स्वतुङ्गे सप्तमे खेटः शुभो वाऽप्यशुभः पदात् ।

श्रीमान् सोऽपि भवेन्नुनं सत्कीर्तिसहितो द्विज ॥ २६॥

 

ये योगाः सप्तमे स्थाने पदाश्च कथिता मया ।

चिन्त्यास्तथैव ते योगा द्वितीयेऽपि सदा द्विज ॥ २७॥

 

उच्चस्थो रौहिणेयो वा जीवो वा शुक्र एव वा ।

एवो बली धनगतः श्रियं दिशति देहिनः ॥ २८॥

 

ये योगाश्च पदे लग्ने यथावद् गदिता मया ।

ते योगाः कारकांशेऽपि विज्ञेया बांधवर्जिताः ॥ २९॥

 

आरूढाद् वित्तभे सौम्ये सर्वदेशाधिपो भवेत् ।

सर्वज्ञो यदि वा स स्यात् कविर्वादी च भार्गवे ॥ ३०॥

 

आरूधात् केन्द्रकोणेषु स्थिते दारपदे द्विज ।

लग्नजायापदे वापि सबलग्रहसंयुते ॥ ३१॥

 

स्र्/ईमांश्च जायते नूनं देशे विख्यातिमान् भवेत् ।

षष्ठेष्टमे व्ययस्थाने जातो दारपदेऽधनः ॥ ३२॥

 

पदे तत्सप्तमे वापि केन्द्रे वृद्धौ त्रिकोणके ।

सुवीर्यः संस्थितः खेतः भार्याभर्तृसुखप्रदः ॥ ३३॥

 

पदाद्दारपदे चैवं केन्द्रे कोणे च संस्थिते ।

द्वयोर्मैत्री भवेन्नूनं त्रिके वैरं न संशयः ॥ ३४॥

 

एवं लग्नपदाद् विप्र तनयादिपदे स्थिते ।

मित्रामित्रे विजानीयाल्लाभालाभौ विचक्षणः ॥ ३५॥

 

लग्नदारपदे विप्र मिथः केन्द्रगते यदि ।

त्रिलाभयोस्त्रिकोणे वा तथा राजा धराधिपः ॥ ३६॥

 

एवं लग्नपदादेव धनादिपदतो द्विज ।

स्थानद्वयं समालोक्य जातकस्य फलं वदेत् ॥ ३७॥

 


 

 

              अथोपपदाध्यायः - Vraja Loka Astro Spiritual Counselling  ॥ ३०॥

 

अथोपपदमाश्रित्य कथयामि फलं द्विज ।

युच्छुभत्वे भवेन्नृणां पुत्रदारादिजं सुखम् ॥ १॥

 

तनुभावपदं विप्र प्रधानं पदमुच्यते ।

तनोरनुचराद्यत् स्यादुपारूढं तदुच्यते ॥ २॥

 

तदेवोपपदं नाम तथा गौणपदं स्मृतम् ।

शुभखेटगृहे तस्मिन् शुभग्रहयुतेक्षिते ॥ ३॥

 

पुत्रदारसुखं पूर्णं जायते द्विजसत्तम ।

पापग्रहयुते तत्र पापभे पापवीक्षिते ॥ ४॥

 

प्रव्राजको भवेज्जतो दारहीनोऽथ वा नरः ।

शुभदृग्योगतो नैव योगोऽयं दारनाशकः ॥ ५॥

 

रविर्नैवात्र पापः स्यात् स्वोच्चमित्रस्वभस्थितः ।

नीचशत्रुगृहस्थश्चेत्तदाऽसौ पाप एव हि ॥ ६॥

 

शुभग्रहाणां दृष्टिश्चेदुपारूढाद् द्वितीयके ।

शुभर्क्षे शुभयुक्ते च पूर्वोक्तं हि फलं स्मृतम् ॥ ७॥

 

उपारूढाद् द्वितीयं च नीचांशे नीचखेटयुक् ।

क्रूरग्रहसमायुक्तं जातको दारहा भवेत् ॥ ८॥

 

स्वोच्चांशे स्वोच्चसंस्थे वा तुङ्गदृष्टिवशात् तथा ।

भवन्ति बहवो दारा रूपलक्षणसंयुताः ॥ ९॥

 

उपारूढे द्वितीये वा मिथुने संस्थिते सति ।

तत्र जातनरो विप्र बहुदारयुतो भवेत् ॥ १०॥

 

उपारूढे द्वितीयेऽपि स्वस्वामिग्रहसंयुते ।

स्वर्क्षगे तत्पतौ वापि यत्र कुत्रापि भूसुर ॥ ११॥

 

यस्य जन्मनि योगोऽयं स नरो द्विजसत्तम ।

उत्तरायुषि निर्दारो भवत्येव न संशयः ॥ १२॥

 

स्वराशौ संस्थितेऽप्येवं नित्याख्ये दारकारके ।

उत्तरायुषि निर्दारो भवत्येव न संशयः ॥ १३॥

 

उपारूढपतिः स्वोच्चे स्थिरस्त्रीकारकोऽथ वा ।

सुकुलाद् दारलाभः स्यान्नीचस्थे तु विपर्ययात् ॥ १४॥

 

उपारूढे द्वितीये वा शुभसम्बधतो द्विज ।

जातस्य सुन्दरी भार्या भव्या रूपगुणान्विता ॥ १५॥

 

उपारूढाद् द्वितीये च शनिराहू स्थितौ यदि ।

उपवादात् स्त्रियस्त्यागो नाशो वा जायते द्विज ॥ १६॥

 

उपारूढे द्वितीये वा शिखिशुक्रौ यदा स्थितौ ।

रक्तप्रदररोगार्ता जायते तस्य भामिनी ॥ १७॥

 

बुधकेतू स्थितौ तत्र तदाऽस्थिस्रावसंयुता ।

तत्रस्थाः शनिराह्वर्कास्तदाऽस्थिज्वरसंयुता ॥ १८॥

 

स्थूलाङ्गी बुधराहूभ्यां तत्रस्थाभ्यां द्विजोत्तम ।

बुधक्षेत्रे कुजार्की चेन्नसिकारोगसंयुता ॥ १९॥

 

कुजक्षेत्रेऽप्येवमेव फलं ज्ञेयं द्विजोत्तम ।

बृहस्पतिशनी तत्र कर्णनेत्ररुजान्विता ॥ २०॥

 

तत्रान्यगेहगौ विप्र बुद्धभौमौ स्थितौ यदा ।

यदा स्वर्भानुदेवेज्यौ भार्या दन्तरुजान्विता ॥ २१॥

 

शनिराहू शनिक्षेत्रे पङ्गुर्वातरुजान्विता ।

शुभदृग्योगतो नेति फलं ज्ञेयं विपश्चिता ॥ २२॥

 

लग्नात् पदादुपारूढाद् यो राशिः सप्तमो द्विज ।

तस्मात् तत्स्वामिनः खेटात् तदंशाच्च द्विजोत्तम ॥ २३॥

 

एवमेव फलं ज्ञेयमित्याहुर्नारदादयः ।

उक्तेभ्यो नवमे विप्र शनिचन्द्रबुधा यदि ॥ २४॥

 

अपुत्रता तथाऽर्केज्यराहुभिर्बहुपुत्रता ।

चन्द्रेणैकसुतस्तत्र मिश्रैः पुत्रो विलम्बतः ॥ २५॥

 

रवीय्जराहुयोगेन पुत्रो वीर्यप्रतापवान् ।

प्रचण्डविजयी विप्र रिपुनिग्रहकारकः ॥ २६॥

 

उक्तस्थाने कुजार्किभ्यां पुत्रहीनः प्रजायते ।

दत्त पुत्रयुतो वापि सहोत्थसुतवान् भवेत् ॥ २७॥

 

तत्रस्थे विषमे राशौ बहुपुत्र्युतो नरः ।

स्वल्पापत्यः समे राशौ जायते द्विजसत्तम १ ॥ २८॥

 

सिंहे चोपपदे विप्र निशानाथयुतेक्षिते ।

अल्पप्रजोऽथ कन्यायां जातः कन्याप्रजो भवेत् ॥ २९॥

 

सुतभावनवांशाच्च स्थिरसन्ततिकारकात् ।

एवं त्रिशांशकुण्डल्यामपि योगं विचिन्तयेत् ॥ ३०॥

 

शनिराहू त्रिलाभस्थौ पदाद् भ्रातुर्विनाशकौ ।

ज्येष्ठस्यैकादशे तत्र कनिष्ठस्य तृतीयके ॥ ३१॥

 

दैतेज्ये तत्र गर्भस्य नाशो व्यवहितस्य च ।

लग्ने वापि पदे रन्ध्रे दैत्याचार्ययुतेक्षिते ॥ ३२॥

 

तथैव फलमित्याहुर्निर्विशंकं मुनीश्चराः ।

तृतीयलाभयोर्विप्र चन्द्रेज्यबुधमङ्गलाः ॥ ३३॥

 

बहवो भ्रातरस्तस्य बलवन्तः प्रतापिनः ।

शन्यारसंयुते दृष्टे तृतीयैकादशे द्विज ॥ ३४॥

 

कनिष्ठज्येष्ठयोर्नाशो दिवज्ञेयो द्विजसत्तम ।

शनिरेको यदा विप्र लाभगो वा तृतीयगः ॥ ३५॥

 

तदा स्वमात्रशेषः स्यादन्ये नश्यन्ति सोदराः ।

तृतीये लाभगे केतौ बहुलं भगिनीसुखम् ॥ ३६॥

 

आरूढात् षष्ठभावस्थे पापाख्ये शुभवर्जिते ।

शुभसम्बन्धरहिते चौरो भवति जातकः ॥ ३७॥

 

सप्तमे द्वादशे स्थाने सैहिकेययुतेक्षिते ।

ज्ञानवांश्च भवेद् बालो बहुभाग्ययुतो द्विज ॥ ३८॥

 

आरूढे संस्थिते सौम्ये सर्वदेशाधिपो भवेत् ।

सर्वज्ञस्तत्र देवेज्ये कविर्वादी च भार्गवे ॥ ३९॥

 

उपारूढात् पदाद् वापि धनस्थे शुभखेचरे ।

सर्वद्रव्याधिपो धीमाञ्जायते द्विजसत्तम ॥ ४०॥

 

उपारूढाद्धनाधीशे द्वितियभवनस्थिते ।

पापखेचरसंयुक्ते चौरो भवति निश्चितम् ॥ ४१॥

 

तत्सप्तमगृहाधीशाद् राहौ धनगते द्विज ।

दंष्ट्रावान् जायते बालः स्तब्धवाक् केतुखेचरे ॥ ४२॥

 

शनैश्चरे कुरूपः स्यात्सप्तमेशाद् द्वितीयगे ।

मिश्रग्रहसमायुक्ते फलं मिश्रं समादिशेत् ॥ ४३॥

 

 

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.