बृहत्पाराशरहोराशास्त्रम् ७१-८०
Brihat Parashara Hora Shastram
अथाऽष्टवर्गायुर्दायाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ७१॥
अथात्रायुः प्रवक्ष्येऽहमष्टवर्गसमुद्भवम् ।
दिनद्वयं विरेखायां रेखायां सार्धवासरम् ॥ १॥
दिनमेकं द्विरेखायां त्रिरखायां दिनार्धकम् ।
वेदतुल्यासु रेखासु सार्धसप्तदिनं स्मृतम् ॥ २॥
द्विवर्षं पञ्चरेखासु षड्रेखासु चतुःसमा ।
षड्वर्षं सप्तरेखासु वसवोऽष्टासु वत्सराः ॥ ३॥
एवं यदागतायुः स्यात् सर्वखेटसमुद्भवम् ।
तदर्धं स्फुटमायुः स्यादष्टवर्गभवं नृणाम् ॥ ४॥
अथ समुदायाष्टकवर्गाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ७२॥
द्वादशारं लिखेच्चकं जन्मलग्नादिभैर्युतम् ।
सर्वाष्टकफलान्यत्र संयोज्य प्रतिभं न्यसेत् ॥ १॥
समुदायाभिधानोऽयमष्टवर्गः प्रकथ्यते ।
अतः फलानि जातानां विज्ञेयानि द्विजोत्तम ॥ २॥
त्रिंशाधिकफला ये स्यू राशयस्ते शुभप्रदाः ।
पञ्चविंशादित्रिंशान्तफला मध्यफला स्मृताः ॥ ३॥
अतः क्षीणफला ये ते राशयः कष्टदुःखदा ।
शुभे श्रेष्ठफलान् राशीन् योजयेन्मतिमान्नरः ॥ ४॥
कष्टराशीन् सुकार्येषु वर्जयेद् द्विजसत्तम ।
श्रेष्ठराशिगतः खेटः शुभोऽन्यत्राऽशुभप्रदः ॥ ५॥
तन्वादिव्ययपर्यन्तं दृष्ट्वा भाव्फलानि वै ।
अधिके शोभनं ज्ञेयं हीने हानिं विनिर्दिशेत् ॥ ६॥
मध्ये मध्यफलं ब्रूयाद् तत्तद्भावसमुद्भवम् ।
मध्यात् फलाधिके लाभो लाभात् क्षीणगतोव्ययः ॥ ७॥
लग्नं फलाधिकं यस्य भोगवानर्थवान् हि सः ।
विपरीतेन दारिद्र्यं भवत्येव न संशयः ॥ ८॥
दशावदिह भावानां कृत्वा खंडत्रयं बुधः ।
पश्येत् पापसमारूढं खंडे कष्टकरं वदेत् ॥ ९॥
सौम्यैर्युक्तं शुभं ब्रूयान्मिश्रैर्मिश्रफलं यथा ।
क्रमाद् बाल्याद्यवस्थासु खंडत्रयफलं वदेत् ॥ १०॥
रेखाभिः सप्तभिर्युक्ते मासेमृत्युभयं नृणाम् ।
सुवर्णं विंशतिपलं दद्यात् द्वौ तिलपर्वतौ ॥ ११॥
रेखाभिरष्टभिर्युक्ते मासे मृत्युबशो नरः ।
असत्फलविनाशाय दद्यात् कर्पूरजां तुलाम् ॥ १२॥
रेखाभिर्मवभियुक्ते मासे सर्पभयं वदेत् ।
अश्वैश्चतुर्भिः संयुक्तं रथं दद्याच्छुभाप्तये ॥ १३॥
रेखाभिर्दशभिर्युक्ते मासे शस्त्रभयं तथा ।
दद्याच्छुभफलावाप्त्यै कवचं वज्रसंयुतम् ॥ १४॥
अभिशापभयं यत्र रेखा रुद्रसमा द्विज ।
दिक्पलस्वर्णघटितां प्रदद्यात् प्रतिमां विधोः ॥ १५॥
युक्ते द्वादशरेखाभिर्जले मृत्युभयं वदेत् ।
सशस्यभूमिः विप्राय दत्वा शुभफलं भवेत् ॥ १६॥
विश्वप्रमितरेखाभिर्व्याघ्रान्मृत्युभयं तथा ।
विष्णोर्हिरण्यगर्भस्य दानं कुर्याच्चुभाप्तये ॥ १७॥
शत्रप्रमितरेखाभिर्युक्ते मासे मृतेर्भयम् ।
वराहप्रतिमां दद्यात् कनकेन विनिर्मिताम् ॥ १८॥
तिथितिश्च नृपाद् भीतिर्दद्यात् तत्र गजं द्विज ।
रिष्टं षोडशभिर्दद्यात् मूर्तिं कल्पतरोस्तथा ॥ १९॥
सप्तेन्दुभिर्व्याधिभयं दद्यात् धेनुं गुडं तथा ।
कलहोऽष्टेन्दुभिर्दद्याद् रत्नगोभूरिरण्यकम् ॥ २०॥
अङ्केन्दुभिः प्रवासः स्याच्छान्तिं कुर्याद् विधानतः ।
विंशत्या बुद्धिनाशः स्याद् गणेशं तत्र पूजयेत् ॥ २१॥
रोगपीडैकविंशत्या दद्याद् धान्यस्य पर्वतम् ।
यमाश्विभिर्बन्धुपीडा दद्यादादर्शकं द्विज ॥ २२॥
त्रयोविंशत्रिसंयुक्ते मासे क्लेशमवाप्नुयात् ।
सौवर्णीं प्रतिमां दद्याद्रवेः सप्तपलैर्बुधः ॥ २३॥
वेदाश्विभिर्बन्धुहीनो दद्याद् गिदशकं नृपः ।
सर्वरोगविनाशार्थं जपहोमादिकं चरेत् ॥ २४॥
धीहानिः पञ्चविंशत्या पूज्या वागीश्वरी तदा ।
षड्विंशत्याऽर्थहानिः स्यात् स्वर्णं दद्याद्विचक्षणः ॥ २५॥
तथा च सप्तविंशत्या श्रीसुक्तं तत्र संजपेत् ।
अष्टविंशतिसंयुक्ते मासे मासे हानिश्च सर्वथा ॥ २६॥
सूर्यहोमश्च विधिना कर्त्तव्यः शुभकांक्षिभिः ।
एकोनत्रिंशता चापि चिन्तव्याकुलितो भवेत् ॥ २७॥
घृतवस्त्रसुवर्णानि तत्र दद्यात् विचक्षणः ।
त्रिंशता पूर्णधान्याप्तिरिति जातकनिर्णयः ॥ २८॥
त्रिंशाधिकामी रेखाभिर्धनपुत्रसुखाप्तयः ।
चत्वारिंशाधिकाभिश्च पुण्यश्रीरुपचीयते ॥ २९॥
अष्टवर्गेण ये शुद्धास्ते शुद्धाः सर्वकर्मसु ।
अतोऽष्टवर्गसंशुद्धिरनेष्या सर्वकर्मसु ॥ ३०॥
तावद्गोचरमन्वेष्यं यावन्न प्राप्यतेऽष्टकम् ।
अष्टवर्गे तु सम्प्राप्ते गोचरं विफलं भवेत् ॥ ३१॥
अथ रश्मिफलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ७३॥
अथ रश्मीन् प्रवक्ष्यामि ग्रहाणां द्विजसत्तम ।
दिन् नवेष्विषुसप्ताष्टशराः स्वोच्चे करो रवेः ॥ १॥
नीच खं चान्तरे प्रोक्ता रश्मयश्चानुपात्तः ।
नीचोनं तु ग्रहं भार्धाधिकं चक्राद्विशोधयेत् ॥ २॥
स्वीयरश्मिहतं षड्भिर्भजेत् स्यू रश्मयः स्वकाः ।
अपरैरत्र संस्कारविशेषः कथितो यथा ॥ ३॥
स्वोच्चभे ते त्रिगुणिताः स्वत्रिकोणे द्विसंगुणाः ।
स्वमे त्रिघ्ना द्विसंभक्ता अधिमित्रगृहे तथा ॥ ४॥
वेदघ्ना रामसंभक्ता मित्रमे षड्गुणास्ततः ।
पञ्चभक्तास्तथा शत्रुगृहे चेद् दलिताः कराः ॥ ५॥
अधिशत्रुगृहे द्विघ्नाः पञ्चभक्ताः समे समाः ।
शनिशुक्रौ विना ताराग्रहा अस्ते गता यदि ॥ ६॥
विरश्मयो भवन्त्येवं ज्ञेयाः स्पष्टकरा द्विज ।
रश्मियोगवशादेवं फलं वाच्यं विचक्षणैः ॥ ७॥
एकादि पञ्चपर्यन्तं रश्मिसंख्या भवेद्यदि ।
दरिद्रा दुःखसंतप्ता अपि जाताः कुलोत्तमे ॥ ८॥
परतो दशकं यावत् निर्धना भारवासकाः ।
स्त्रीपुत्रगृहहीनाश्च जायन्ते मनुजा भुवि ॥ ९॥
अकादशस्वल्पपुत्राः स्वल्पवित्ताश्च मानवाः ।
द्वादशस्वल्पवित्ताश्च धूर्ता मूर्खाश्च निर्बलाः ॥ १०॥
चौर्यकर्मरता नित्यं चेत् त्रयोदश रश्मयः ।
चतुर्दशसु धर्मात्मा कुटुम्बानां च पोषकाः ॥ ११॥
कुलोचितक्रियासक्तो धनविद्यासमन्वितः ।
रश्मिभिः पञ्चदशभिः सर्वविद्यागुणान्वितः ॥ १२॥
स्ववंशमुख्यो धनवानित्याह भगवान् विधिः ।
परतश्च कुलेशाना बहुभृत्या कुटुम्बिनः ॥ १३॥
कीर्तिमन्तो जनैः पूर्णाः सर्वे च सुखिनः क्रमात् ।
पञ्चाशज्जनपालश्चेदेकविंशतिरश्मयः ॥ १४॥
दानशीलः कृपायुक्तो द्वाविंशतिसुरश्मिषु ।
सुखयुक् सौम्यशीलश्चेत् त्रयोविंशतिरश्मयः ॥ १५॥
आत्रिंशत् परतः श्रीमान् सर्वसत्त्वसमन्वितः ।
राजप्रियश्च तेजस्वी जनैश्च बहुभिर्वृतः ॥ १६॥
अत ऊर्ध्वं तु सामन्तश्चत्वारिंशत् करावधि ।
जनानां शतमारब्य सहस्रावधिपोषकः ॥ १७॥
अत ऊर्ध्वन्तु भूपालः पंचाशत् करिणावधि ।
तत ऊर्ध्वकरैर्विप्र चक्रवर्ती नृपो भवेत् ॥ १८॥
एवं प्रसूतिकालोत्थनभोगकरसम्भवम् ।
कुलक्रमनुसारेण जातकस्य फलं वदेत् ॥ १९॥
क्षत्रियश्चक्रवर्ती वैश्यो राजा प्रजायते ।
शूद्रश्च सधनो विप्रो यज्ञकर्मक्रियारतः ॥ २०॥
उच्चाभिमुखखेटस्य कराः पुष्टफलप्रदाः ।
नीचाभिमुखखेटस्य ततो न्यूनफलप्र्दाः ॥ २१॥
सर्वेषामेव खेटानामेवं रश्मिवशाद्द्विज ।
शुभं वाऽप्यशुभं चापि फलं भवति देहिनाम् ॥ २२॥
रश्मिज्ञानं विना सम्यक् न फलं ज्ञातुमर्हति ।
तस्माद्रश्मीन् प्रसाध्यैव फलं वाच्यं विचक्षणैः ॥ २३॥
अथ सुदर्शनचक्रफलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ७४॥
अथोच्यते मया विप्र रहस्यं ज्ञानमुत्तमम् ।
जगतामुपकाराय यत् प्रोक्तं ब्रह्मण स्वयम् ॥ १॥
चक्रं सुदर्शनं नाम यद्वशात् प्रस्फुटं फलम् ।
नृणां तन्वादिभावानां ज्ञातुं शक्नोति दैववित् ॥ २॥
जन्मतो मृत्युपर्यन्तं वर्षमासदिनोद्भवम् ।
शुभं वाऽप्यशुभं सर्वं तच्छृणुष्वैकमानसः ॥ ३॥
एककेन्द्रोद्भवं रम्यं लिखेद् वृत्तत्रयं द्विज ।
द्वादशारं च तत् कुर्याद् भवेदेवं सुदर्शनम् ॥ ४॥
तत्राद्यवृत्ते लग्नाद्या भावा लेख्याः सखेचराः ।
तदूर्ध्ववृत्ते चन्द्राच्च भवाः खेटसमन्विताः ॥ ५॥
तदूर्ध्ववृत्ते सूर्याच्च क्रमात् भवा ग्रहान्विताः ।
एवमेकैकभावेऽत्र भवेद्भानां त्रयं त्रयम् ॥ ६॥
अत्र तु प्रथमो भावो लग्नेन्दुरविभिर्युतः ।
तं प्रकल्प्य तनुं त्वग्रे ज्ञेया भावा धनादयः ॥ ७॥
तत्र तत्र ग्रहस्थित्या ज्ञेयं तत्तत्फलं बुधैः ।
तनुभावे शुभः सूर्यो ज्ञेयोऽन्यत्राशुभप्रदः ॥ ८॥
पापोऽपि स्वोच्चराशिस्थो न भवत्यशुभप्रदः ।
एवं शुभाऽशुभं दृष्ट्वा तत्तद्भावफलं वदेत् ॥ ९॥
यो भावः स्वामिसौम्याभ्यां युक्तो दृष्टोऽयमेधते ।
पापैर्दृष्टो युतो यो वा तस्य हानिः प्रजायते ॥ १०॥
ज्ञेयं सग्रहभावस्य ग्रहयोगसमं फलम् ।
अग्रहस्य तु भावस्य ग्रहदृष्टिसमं फलम् ॥ ११॥
शुभैरेव शुभं पापैर्शुभं मिश्रखेचरैः ।
शुभाधिके शुभं ज्ञेयमशुभं त्वशुभाधिके ॥ १२॥
एवं भावेषु खेटानां योगं दृष्टिं विलोक्य च ।
तारतम्येन वाच्यानि फलानि द्विजसत्तम ॥ १३॥
यत्र नैव ग्रहः कश्चिन्न दृष्टि कस्यचिद् भवेत् ।
तदा तद्भावजं ज्ञेयं तत्स्वामिवशतः फलम् ॥ १४॥
शुभोऽपि शुभवर्गेषु ह्यधिकेष्वशुभप्रदः ।
पापोऽपि शुभवर्गेषु ह्यधिकेषु शुभप्रदः ॥ १५॥
स्वभोच्चस्य शुभस्यात्र वर्गा ज्ञेयाः शुभवाहाः ।
शत्रोः क्रूरस्य नीचस्य षड्वर्गा अशुभप्रदाः ॥ १६॥
एवं सर्वेषु खेटेषु भवेष्वपि द्विजोत्तम ।
शुभाशुभत्वं सञ्चिन्य्त ततस्तत्फलमादिशेत् ॥ १७॥
यदा सुदर्शनादेव फलं सिद्ध्यति देहनाम् ।
तदा किं मुनिभिः सर्वैर्लग्नादेव फलं स्मृतम् ॥ १८॥
इति म संशयो जातस्तं छेत्तुमर्हति ।
पृथग्भगौ यदाऽर्केन्दू लग्नादन्यत्र संस्थितौ ॥ १९॥
तदा सुदर्शनाच्चक्रात् फलं वाच्यं विचक्षणैः ।
एकभे द्वौ त्रयो वा चेत् तदा लग्नात् फलं वदेत् ॥ २०॥
अथ विप्र प्रवक्ष्येऽहं प्रतिवर्षादिजं फलम् ।
अस्मात् सुदर्शनादेव दशान्तरदशावशात् ॥ २१॥
तन्वाद्यैर्वर्षमास्सार्धद्विकधस्रान् प्रवर्तयेत् ।
भवेशादिद्वादशानां दशा वर्षेषु कल्पयेत् ॥ २२॥
तदाद्यन्तर्दशास्तद्वन्मासादौ तद्बलैः फलम् ।
तं तं भावं प्रकल्प्याङ्कं तत्तत्तन्वादिजं द्विज ॥ २३॥
तत् तल्लग्नात् केन्द्रकोणाष्टमे सौम्याः शुभप्रदाः ।
यत्र भावे सैंहिकेयो भवेत् तद्भावहानिकृत् ॥ २४॥
पापा वा यत्र बहवस्तत्तद्भावविनाशनम् ।
विरिष्फारिशुभैः पापैस्त्रिषडायस्थितैः शुभम् ॥ २५॥
एवं प्रत्यब्दमासादौ भावानां फलचिन्तनम् ।
द्वादशानां दशाऽवृत्त्या दशाश्चायुषि चिन्तयेत् ॥ २६॥
एवं सुदर्शनाच्चक्राद् वर्षमासादिजं फलम् ।
ज्ञात्वा तथाष्टवर्गोत्थमुभाभ्यां फलनिर्णयः ॥ २७॥
उभयत्र समत्वे हि सम्पूर्णं तत् फलं वदेत् ।
विषमत्वे यदाधिक्यं तत्फलं च बलक्रमात् ॥ २८॥
अथ पंचमहापुरुषलक्षणाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ७५॥
अथ वक्ष्याम्यहं पञ्चमहापुरुषलक्षणम् ।
स्वभोच्चगतकेन्द्रस्थैर्बलिभिश्च कुजादिभिः ॥ १॥
क्रमशो रुचको भद्रो हंसो मालव्य एव च ।
शशश्चैते बुधैः सर्वैर्महान्तः पुरुषाः स्मृताः ॥ २॥
दीर्घाननो महोत्साहो स्वच्छकान्तिर्महाबलः ।
चारुभ्रूर्नीलकेशश्च सुरुचिश्च रणप्रियः ॥ ३॥
रक्तश्यामोऽरिहन्ता च मन्त्रविच्चोरनायकः ।
क्रूरोभर्ता मनुष्याणां क्षामाऽङ्घ्रिर्द्विजपूजकः ॥ ४॥
वीणावज्रधनुःपाशवृषचक्राङ्कितः करे ।
मन्त्राभिचारकुशली दैर्ध्ये चैव शतांगुलः ॥ ५॥
मुखदैर्घ्यसमं मध्यं तस्य विज्ञैः प्रकीर्तितम् ।
तुल्यस्तुलासहस्रेण रुचको द्विजपुङ्गव ॥ ६॥
भुनक्ति विन्ध्यसह्याद्रिप्रदेशं सप्ततिं समाः ।
शत्रेण वह्निना वापि स प्रयाति सुरालयम् ॥ ७॥
शार्दूलप्रतिभह् पीनवक्षा गजगतिः पुमान् ।
पीनाजानुभुजः प्राज्ञश्चतुरस्रश्च योगवित् ॥ ८॥
सात्त्विकः शोभनांघ्रश्च शोभनश्मश्रुसंयुतः ।
कामी शङ्खगदाचक्रशरकुञ्जरचिह्नकैः ॥ ९॥
ध्वजलाङ्गलचिह्नैश्च चिह्नितांघ्रिकराम्बुजः ।
सुनासश्शास्त्रविद् धीरः कृष्णाकुञ्चितकेशभृत् ॥ १०॥
स्वतन्त्रः सर्वकार्येषु स्वजनप्रीणनक्षमः ।
ऐश्वर्यं भुज्यते चास्य नित्यं मित्रजनैः परैः ॥ ११॥
तुलया तुलितो भारप्रमितः स्त्रीसुतान्वितः ।
सक्षेमो भूपतिः पाति मध्यदेशं शतं समाः ॥ १२॥
हंसो हंसस्वरो गौरः सुमुखोन्नतनासिकः ।
श्लेष्मलो मधुपिङ्गाक्षो रक्तवर्णनखः सुधीः ॥ १३॥
पीनगण्डस्थलो वृत्तशिराः सुचरणो नृपः ।
मत्स्याऽङ्कुशधनुःशंखकञ्जखट्वाङ्गचिह्नकैः ॥ १४॥
चिह्नतांघ्रिकरः स्त्रीषु कामार्तो नैति तुष्टताम् ।
षण्ण्वत्यंगुलो दैर्घ्ये जलक्रीडारतः सुखी ॥ १५॥
गङ्गायमुनयोर्मध्यदेशं पाति शतं समाः ।
वनान्ते निधनं याति भुक्त्वा सर्वसुखं भुवि ॥ १६॥
समौष्ठः कृशमध्यश्च चन्द्रकान्तिरुचिः पुमान् ।
सुगन्धो नातिरक्ताङ्गो न ह्रस्वो नातिदीर्घकः ॥ १७॥
समस्वच्छरदो हस्तिनाद आजानुबाहुधृक् ।
मुखं विश्वांगुलं दैर्घ्ये विस्तारे च दशाङ्गुलम् ॥ १८॥
मालव्यो मालवाख्यं च देशं पाति ससिन्धुकम् ।
सुखं सप्ततिवर्षान्तं भुक्त्वा याति सुलालयम् ॥ १९॥
तनुद्विजमुखः शूरो नातिह्रस्वः कृशोदरः ।
मध्ये क्षामः सुजंघश्च मतिमान् पररन्ध्रवित् ॥ २०॥
शक्तो वनाद्रिदुर्गेषु सेनानीर्दन्तुरः शशः ।
चंचलो धातुवादी च स्त्रीशक्तोऽन्यधानान्वितः ॥ २१॥
मालावीणामृदङ्गाऽस्त्ररेखाङ्कितकरांघ्रिकः ।
भूपोऽयं वसुधा पाति जीवन् खाद्रिसमाः सुखी ॥ २२॥
अथ पंचमहाभूतफलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ७६॥
अथ पञ्चमहाभूतच्छायाज्ञानं वदामि ते ।
ज्ञायते येन खेटानां वर्तमानदशा बुधैः ॥ १॥
शिखिभूखाम्बुवातानामधिपा मङ्गलादयः ।
तत्तद्बलावशाज्ज्ञेयं तत्तद्भूतभवं फलम् ॥ २॥
सबले मङ्गले वह्निस्वभावो जायते नरः ।
बुधे महीस्वभावः स्यादाकाशप्रकृतिर्गुरौ ॥ ३॥
शुक्रे जलस्वभावश्च मारुतप्रकृतिः शनौ ।
मिश्रैर्मिश्रस्वभावश्च विज्ञेयो द्विजसत्तम ॥ ४॥
सूर्ये वह्निस्वभावश्च जलप्रकृतिको विधौ ।
स्वदशायां ग्रहाश्छायां व्यंजयन्ति स्वभूतजाम् ॥ ५॥
क्षुधार्तश्चपलः शूरः कृशः प्राज्ञोऽतिभक्षणः ।
तीक्ष्नो गौरतनुर्मानी वह्निप्रकृतिको नरः ॥ ६॥
कर्पूरोत्पलफ़न्धाढ्यो भोगी स्थिरसुखी बली ।
क्षमावान् सिंहनादश्च महीप्रकृतिको नरः ॥ ७॥
शब्दार्थवित् सुनीतिज्ञो प्रगल्भो ज्ञानसंयुतः ।
विवृतास्योऽतिदीर्घश्च व्योमप्रकृतिसम्भवः ॥ ८॥
कान्तिमान् भारवाही च प्रियवाक् पृथिवीपतिः ।
बहुमित्रा मृदुर्विद्वान् जलप्रकृतिसम्भवः ॥ ९॥
वायुतत्त्वाधिको दाता क्रोधी गौरोऽटनप्रियः ।
भूपतिश्च दुराधर्षः कृशाङ्गो जायते जनः ॥ १०॥
स्वर्णदीप्तिः शुभा दृष्टिः सर्वकार्यार्थसिद्धिता ।
विजयो धनलाभश्च वह्निभायां प्रजायते ॥ ११॥
इष्टगन्धः शरीरे स्यात् सुस्निग्धनखदन्तता ।
धर्मार्थसुखलाभश्च भूमिच्छाया यदा भवेत् ॥ १२॥
स्वच्चा गगनजा छाया वाक्पटुत्वप्रदा भवेत् ।
सुशब्दश्रवणोद्भूतं सुखं तत्र प्रजायते ॥ १३॥
मृदुता स्वस्थता देहे जलच्छाया यदा भवेत् ।
तदाऽभिष्टरसस्वादसुखं भवति देहिनः ॥ १४॥
मालिन्यं मूढता दैत्यं रोगश्च पवनोद्भवाः ।
तदा च शोकसन्तापौ वायुच्छाया यदा भवेत् ॥ १५॥
एवं फलं बुधैर्ज्ञेयं सबलेषु कुजादिषु ।
निर्बलेषु तथा तेषु वक्तव्यं व्यत्ययाद् द्विज ॥ १६॥
नीचशत्रुभगैश्चापि विपरीतं फलं वदेत् ।
फलाप्तिरबलैः खेटैः स्वप्नचिन्तासु जायते ॥ १७॥
तद्दुष्टफलशान्त्यर्थमपि चाज्ञातजन्मनाम् ।
फलपक्त्या दशा ज्ञेया वर्तमाना नभःसदाम् ॥ १८॥
अथ सत्त्वादिगुणफलाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ७७॥
अथो गुणवशेनाहं कथयामि फलं द्विज ।
सत्त्वग्रहोदये जातो भवेत्सत्त्वाधिकः सुधीः ॥ १॥
रजःखेटोदये विज्ञो रजोगुणसमन्वितः ।
तमःखेटोदये मूर्खो भवेज्जातस्तमोऽधिकः ॥ २॥
गुणसाम्ययुतो जातो गुणसाम्यखगोदये ।
एवं चतुर्विधा विप्र जायन्तो जन्तवो भुवि ॥ ३॥
उत्तमो मध्यमो नीच उदासीन इति क्रमात् ।
तेषां गुणानहं वक्ष्ये नारदारिप्रभाषितान् ॥ ४॥
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।
अलोभः सत्यवादित्वं जने सत्त्वाधिके गुणाः ॥ ५॥
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाऽप्यपलायनम् ।
साधूनां रक्षणं चेति गुणा ज्ञेया रजोऽधिके ॥ ६॥
लोभश्चासत्यवादित्वं जाड्यमालस्यमेव च ।
सेवाकर्मपटुत्वंच गुणा एते तमोऽधिके ॥ ७॥
कृषिकर्मणि वाणिज्ये पटुत्वं पशुपालने ।
सत्यासत्यप्रभाषित्वं गुणसाम्ये गुणा इमे ॥ ८॥
गतैश्च लक्षणैर्लक्ष्य उत्तमो मध्यमोऽधमः ।
उदासीनश्च विप्रेन्द तं तत्कर्मणि योजयेत् ॥ ९॥
द्वाभ्यामेकोऽधिको यश्च तस्याधिक्यं निगद्यते ।
अन्यथा गुणसाम्यं च विज्ञेयं द्विजसत्तम ॥ १०॥
सेव्यसेवकयोरेवं कन्यकावरयोरपि ।
गुणैः सदृशयोरेव प्रीतिर्भवति निश्चला ॥ ११॥
उदासीनोऽधमस्यैवमुदासीनस्य मध्यमः ।
मध्यमस्योत्तमो विप्र प्रभवत्याश्रयो मुदे ॥ १२॥
अतोऽवरा वरात् कन्य सेव्यतः सेवकोऽवरः ।
गुणैस्ततः सुखोत्पत्तिरन्यथा हानिरेव हि ॥ १३॥
वीर्यं क्षेत्रं प्रसूतेश्च समयः सङ्गतिस्तथा ।
उत्तमादिगुणे हेतुर्बलवानुत्तरोत्तरम् ॥ १४॥
अतः प्रसूतिकालस्य सदृशो जातके गुणः ।
जायते तं परीक्ष्यैव फलं वाच्यं विचक्षणैः ॥ १५॥
कालः सृजति भूतनि पात्यथो संहरत्यपि ।
इश्वरः सर्वलोकानामव्ययो भगवान् विभु ॥ १६॥
तच्छक्तिः प्रकृतिः प्रोक्ता मुनिभिस्त्रिगुणात्मिका ।
तथा विभक्तोऽव्यक्तोऽपि व्यक्तो भवति देहिनाम् ॥ १७॥
चतुर्धाऽवयवास्तस्य स्वगुणैश्च चतुर्विधः ।
जायन्ते ह्युत्तमो मध्ये उदासीनोऽधमः क्रमात् ॥ १८॥
उत्तमे तूत्तमो जन्तुर्मध्येऽङ्गे च मध्यमः ।
उदासीने ह्यदासीनो जायते चाऽधमेऽधमः ॥ १९॥
उत्तमाङ्गं शरिस्तस्य मध्यमाङ्गमुरःस्थलम् ।
जंघाद्वयौदासीनमधमं पदमुच्यते ॥ २०॥
एवं गुणवशादेव कालभेदः प्रजायते ।
जातिभेदस्तु तद्भेदाज्जायतेऽत्र चराचरे ॥ २१॥
एवं भगवता सृष्टं विभुना स्वगुणैः समम् ।
चतुर्विधेन कालेन जगदेतच्चतुर्विधम् ॥ २२॥
अथ नष्टजातकाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ७८॥
जन्मकालवशादेवं फलं प्रोक्तं त्वया मुने ।
यज्जन्मसमयोऽज्ञातो ज्ञेयं तस्य फलं कथम् ॥ १॥
शुभं वाऽप्यशुभं वापि मनुजस्य पुराकृतम् ।
अस्ति कश्चिदुपायश्चेत् तं भवान् वक्तुमर्हति ॥ २॥
साधु पृष्टं त्वया विप्र लोकानुग्रहमानसा ।
कथयामि तव स्नेहात् फलमज्ञातजन्मनाम् ॥ ३॥
वर्षायनर्तुमासार्धतिथिनक्षत्रभादिषु ।
यदज्ञातं च तन्मानं ज्ञायते प्रश्नलग्नतः ॥ ४॥
प्रश्नाङ्गद्वादशांशर्क्षस्थिते जन्म वदेत् गुरौ ।
अयनं लग्नपूर्वार्धे सौम्यं याम्यं परार्धके ॥ ५॥
ऋतुर्लग्नदृकाणर्क्षस्वामिभिः शशिरादयः ।
शनिशुक्रकुजेन्दुज्ञजीवैर्ग्रीष्मस्तु भानुना ॥ ६॥
अयनर्तुविरोधे तु परिवर्त्याः परस्परम् ।
बुधचन्द्र सुराचार्याः कुजशुक्रशनैश्चरैः ॥ ७॥
मासो दृकाणपूर्वार्धेर्पूर्वोऽन्यस्तु परार्धके ।
अनुपातात् तिथिर्ज्ञेया भास्करांशसमा द्विज ॥ ८॥
तद्वशादिष्टकालो यो जन्मकालसमो हि सः ।
तत्र ग्रहांश्च भावांश्च ज्ञात्वा तस्य फलं वदेत् ॥ ९॥
गुरुर्द्वादशभ्र्वर्षैः पुनस्तद्राशिगो भवेत् ।
तत् कस्मिन् पर्ययो तस्य ज्ञेयः संवत्सरो मुने ॥ १०॥
संवस्तरस्य सन्देहे प्रश्नकर्तुर्द्विजोत्तम ।
वयोऽनुमानतस्तत्र द्वादश द्वादश क्षिपेत् ॥ ११॥
तत्रापि संशये जाते गुरुर्लग्नत्रिकोणगः ।
कल्प्यो वयोऽनुमानेन वत्सरः पूर्ववत् ततः ॥ १२॥
ज्ञात्वा मासं ससूर्यांशं कालज्ञानं कथं भवेत् ।
भगवन्निति मे ब्रूहि लोकानुग्रहचेतसा ॥ १३॥
सक्रान्तेरिष्टसूर्यांशतुल्येऽह्नि द्विजसत्तम ।
रविरौदयिकः साध्यस्तस्येष्टार्कस्य चान्तरम् ॥ १४॥
कलीकृत्य स्वषण्निघ्नं स्फुटार्कगतिभाजितम् ।
लब्धंघट्यादिमानं यत् तावान् सूर्योदयात् परम् ॥ १५॥
पूर्वं जन्मेष्टकालो हि क्रमाज् ज्ञेयो विपश्चिता ।
साधितौदयिकादर्कादिष्टेऽर्केऽनिकहीनके ॥ १६॥
अथ प्रव्रज्यायोगाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ७९॥
अथ विप्र प्रवक्ष्यामि योगं प्रव्रज्यकाभिधम् ।
प्रव्रजन्ति जना येन सम्प्रदायान्तरं गृहात् ॥ १॥
चतुरादिभिरेकस्थैः प्रव्रज्या बलिभिः समाः ।
रव्यादिभिस्तपस्वी च कपाली रक्तवस्त्रभृत् ॥ २॥
एकदण्डी यतिश्चक्रधरो निर्ग्रन्थिकः क्रमात् ।
ज्ञेया वीर्याधिकस्यैव सबलेषु बहुष्वपि ॥ ३॥
सूर्येणाऽस्तं गतास्ते चेदपि वीर्यसमन्विताः ।
अदीक्षितास्तदा ज्ञेया जनास्तद्गतभक्तयः ॥ ४॥
अस्तंगता निर्बलाश्चेत् सबलश्च रविर्यदा ।
तदा रविभवा ज्ञेया प्रव्रज्या द्विजसत्तम ॥ ५॥
जन्मभेशोऽन्यखेटैश्चेददृष्टः शनिमीक्षते ।
तयोर्बलवशात्तत्र प्रव्रज्यामाप्नुयान्नरः ॥ ६॥
निर्बलो जन्मभेशश्चेत् केवलेनार्किणेक्षितः ।
तदा शनिभवमेव प्रव्रज्यां आप्नुयाज्जनः ॥ ७॥
शनिदृक्काणसंस्थे च शनिभौमनवांशके ।
शनिदृष्टे विधौ ज्ञेया प्रव्रज्या शनिसम्भवा ॥ ८॥
कुजादिषु जयी शुक्रः सौम्यगो याम्यगोऽपि वा ।
जयी सौम्यगतश्चान्यः परस्परयुतौ भवेत् ॥ ९॥
प्रव्रज्याकारकः खेटो यद्यन्येन पराजितः ।
तदा लब्धां परिव्रज्यां परित्यजति तां पुनः ॥ १०॥
बहवो जन्मकाले चेत् प्रव्रज्याकारका ग्रहाः ।
बलतुल्यास्तदा तत्र प्रव्रज्या कतमा भवेत् ॥ ११॥
बहवो बलिनश्चेत् स्युः प्रव्रज्याकारका ग्रहाः ।
तदा प्राप्नोति सर्वेषां तेषां प्रव्रज्यकां ध्रुवम् ॥ १२॥
तत्तद्ग्रहदशाकाले प्रव्रज्यां याति तद्भवाम् ।
त्यक्त्वा गृहीतपूर्वां तामन्यां प्राप्नोति मानवः ॥ १३॥
दृष्टेष्विन्द्विज्यलग्नेषु शनिना नवमे गुरुः ।
राजयोगेऽत्र जातोऽसौ तीर्थिकृन्नऽत्र संशयः ॥ १४॥
धर्मस्थानगते मन्दे ग्रहदृष्टिविवर्जिते ।
राजयोगेऽत्र यो जातः स राजा दीक्षितो भवेत् ॥ १५॥
अथ स्त्रीजातकाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ८०॥
बहुधा भवता प्रोक्तं यज्जातकफलं मुने ।
तन्नारीणां कथं ज्ञेयमिति मे कथयाऽधुना ॥ १॥
साधु पृष्टं त्वया विप्र तदपि प्रवदाम्यहम् ।
स्त्रीणां पुंभिः समं ज्ञेयं फलमुक्तं विपश्चिता ॥ २॥
विशेषस्तत्र यो दृष्टः संक्षेपात् कथयामि तत् ।
लग्ने देहफलं तस्याः पञ्चमे प्रसवस्तथा ॥ ३॥
सप्तमे पतिसौभाग्यं वैधव्यं निधने द्विज ।
स्त्रीणामसम्भवं यद्यत् तत्फलं तत्पतौ वदेत् ॥ ४॥
लग्नेन्दू समभे यस्याः सा नारी प्रकृतिस्थिता ।
कन्योचितगुणोपेता सुशीला शुभलक्षणा ॥ ५॥
शुभेक्षितौ सुरूपा च सदा देहसुखान्विता ।
विषमे पुरुषाकारा दुःशीला पापवीक्षितौ ॥ ६॥
पापाढ्यौ च गुणैर्हीना मिश्रे मिश्रफलं वदेत् ।
लग्नेन्द्वोर्यो बली तस्य फलं तस्य विशेषतः ॥ ७॥
लग्नेन्द्वोर्यो बली विप्र त्रिंशांशैस्तदधिष्ठितैः ।
ग्रहराशिवशाद् वाच्यं फलं स्त्रीणां विशेषतः ॥ ८॥
कन्यैवारगृहे दुष्टा भौमत्रिंशांशके भवेत् ।
कुचरित्रा तथा शौक्रे समाया बोधने स्मृता ॥ ९॥
जैवे साध्वी शनौ दासी ज्ञर्क्षे कौजे छलान्विता ।
शौक्रे प्रकीर्णकामा सा बौधेंऽशे च गुणान्विता ॥ १०॥
क्लीबाऽर्क्यंशे सती जैवे कौजै दुष्टा सितर्क्षके ।
शौक्रे ख्यातगुणा बौधे कलासु निपुणा भवेत् ॥ ११॥
जैवे गुणवती मान्दे पुनर्भूश्चन्द्रभे ततः ।
स्वतन्त्रा कुजात्रिंशांशे शौक्रे च कुलपांसना ॥ १२॥
बौधे शिल्पकलाऽभिज्ञा जैवे बहुगुणा शनौ ।
पतिघ्नी चार्कभे कौजे वाचाला भार्गवे सती ॥ १३॥
बौधे पुंश्चेष्टिता जैवे राज्ञी मान्दे कुलच्युता ।
कौजे बहुगुणाऽर्यर्क्षे शौक्रे चाप्यसती मता ॥ १४॥
बौधे विज्ञानसंयुता जैवेऽनेकगुणान्विता ।
मान्दे चाल्परतिः प्रोक्ता दासी कौजे तथाऽर्किभे ॥ १५॥
सुप्रज्ञा च भवेच्छौक्रे बौधे दुःस्था तथा खला ।
जैवे पतिव्रता प्रोक्ता मान्दे नीचजनानुगा ॥ १६॥
मन्दे शून्ये शुभादृष्टे पतिः कापुरुषो भवेत् ।
चरभे च प्रवासी स्यात् क्लीवस्तत्र ज्ञमन्दयोः ॥ १७॥
सूर्येऽस्तभे पतित्यक्ता बाल्ये च विधवा कुजे ।
शनावशुभसन्दृष्टे याति कन्यैव वृद्धताम् ॥ १८॥
विधवास्तगतैः पापैः सौम्यैस्तु सधवा सती ।
मिश्रखेटैः पूनर्भूः सा ज्ञेया मिश्रफलान्विता ॥ १९॥
मिथोंऽशस्थौ सितारौ चेदन्यासक्ता तदाऽङ्गना ।
सप्तमे च स्थिते चन्द्रे तदा भर्तुरनुज्ञ्या ॥ २०॥
शुक्रभे शनिभे वापि सेन्दुशुक्रे च लग्नगे ।
मात्रा सह तदा नारी वन्धकी भवति ध्रुवम् ॥ २१॥
कुजर्क्षे वा तदंशेऽस्ते स्त्रीलोलः क्रोधनः पतिः ।
बौधर्क्षांशे तथा विद्वान् कलासु निपुणः सुधीः ॥ २२॥
जैवे सर्वगुणोपेतः पतिरस्ते जितेन्द्रियः ।
शौक्रे सौभाग्यसंयुक्तः कान्तः स्त्रीजनवल्लभः ॥ २३॥
सौरेर्क्ष वाथ सौरांशे वृद्धो मूर्खश्च सप्तमे ।
अतीवामृदुरर्कांशे तदृक्षेवाऽतिकर्मकृत् ॥ २४॥
अस्ते कर्के तदंशे वा कान्तः कामी मृदुः पतिः ।
मिश्रे मिश्रफलं वाच्यं भांशयोश्च बलक्रमात् ॥ २५॥
सूर्येऽष्टमगते जाता दुःखदारिद्र्यसंयुता ।
क्षताङ्गी खेदयुक्ता च भवेद्धर्मपराङ्मुखी ॥ २६॥
चन्द्रेऽष्टमगते नारी कुभगा कुस्तनो कुदृग् ।
वस्त्राभरणहीना च रोगिणी चातिगर्हिता ॥ २७॥
कुजेऽष्टमगते बाला कृशाङ्गी रोगसंयुता ।
विधवा कान्तिहीना च शोकसन्तापदुःखिता ॥ २८॥
बुधेष्टमगते जाता धर्महीना भयातुरा ।
अभिमानधनैर्हीना निर्गुणा कलहप्रिया ॥ २९॥
गुरावष्टमगे बाला विशीला स्वल्पसन्ततिः ।
पृथुवादकरा पत्या त्यक्ता बह्वशना भवेत् ॥ ३०॥
शुक्रेऽष्टमगते जाता प्रमत्ता धनवर्जिता ।
निर्दया धर्महीना च मलिना कपटान्विता ॥ ३१॥
शनावष्टमगे जाता दुःस्वभावा मलिम्लुचा ।
प्रवंचनपरा नारी भवेत् पतिसुखोज्ज्ञिता ॥ ३२॥
राहावष्टमभावस्थे कुरूपा पतिवर्जिता ।
कठोरहृदया रोगैर्युक्ता च व्यभिचारिणी ॥ ३३॥
शशिशुक्रौ यदा लग्ने मन्दराभ्यां युतौ तदा ।
बन्ध्या भवति सा नारी सुतभे पापदृग्युते ॥ ३४॥
कुजांशेस्तगते सौरिदृष्टे नारी सरुग्भगा ।
शुभांशे सप्तमे ज्ञेया सुभगा पतिवल्लभा ॥ ३५॥
बुधभे लग्नगे सूतौ चन्द्रशुक्रयुते द्विज ।
ज्ञेया पितृगृहे नारी सा सर्वसुखसंयुता ॥ ३६॥
लग्ने चन्द्रज्ञशुक्रेषु बहुसौख्यगुणान्विता ।
जीव तत्रातिसम्पन्ना पुत्रवित्तसुखान्विता ॥ ३७॥
लग्नादष्टमगौ स्यातां चन्द्रार्कौ स्वर्क्षगौ तदा ।
बन्ध्याऽथ काकबन्ध्या चेदेवं चन्द्रबुधौ यदा ॥ ३८॥
शनिमङ्गलभे लग्ने चन्द्रभार्गवसंयुते ।
पापदृष्टे च सा नारी बन्ध्या भवति निश्चयात् ॥ ३९॥
सराहौ सप्तमे सूर्ये पञ्चमे पापसंयुते ।
शुक्रेज्यराहवो मृत्यौ मृतापत्या च सा भवेत् ॥ ४०॥
शुक्रेज्यावष्टमे सारौ सप्तमे वा कुजो भवेत् ।
शनिना दृग्युतो नारी गलद्गर्भा प्रकीर्तिता ॥ ४१॥
पापकर्तरिके लग्ने चन्द्रे जाता च कन्यका ।
समस्तं पितृवंशं च पतिवंशं हिहन्ति सा ॥ ४२॥
ससर्पाग्निजलेशर्क्षे भानुमन्दारवासरे ।
भद्रातिथौ जनुर्यस्याः सा विषाख्या कुमारिका ॥ ४३॥
सपापश्च शुभौ लग्ने द्वौ पापौ शत्रुभस्थितौ ।
यस्या जनुषि सा कन्या विषाख्या परिकीर्तिता ॥ ४४॥
विषयोगे समुत्पन्ना मृतवत्सा च दुर्भगा ।
वस्त्राभरणहीना च शोकसन्तप्तमानसा ॥ ४५॥
सप्तमेशः शुभो वापि सप्तमे लग्नतोऽथवा ।
चन्द्रतो वा विषं योगं विनिहन्ति न संशयः ॥ ४६॥
लग्ने व्यये सुखे वापि सप्तमे चाऽष्टमे कुजे ।
शुभदृग्योगहीने च पतिं हन्ति न संशयः ॥ ४७॥
यस्मिन् योगे समुत्पन्ना पतिं हन्ति कुमारिका ।
तस्मिन् योगे समुत्पन्नो पत्नीं हन्ति नरोऽपि च ॥ ४८॥
स्त्रीहन्त्रा परिणीता चेत् पतिहन्त्री कुमारिका ।
तदा वैधव्ययोगस्य भङ्गो भवति निश्चयात् ॥ ४९॥
मिथोंऽशस्थौ मिथोदृष्टौ सितार्की वा सितर्क्षके ।
घटांशे लग्नगे नारी प्रदीप्तं मदनानलम् ॥ ५०॥
संशान्तिं नयति स्त्रीभिः सुखीभिर्मदनातुरा ।
पराभिः पुरुषाकारस्थितभिर्द्विजसत्तम ॥ ५१॥
कुजज्ञगुरुशुक्रैश्च बलिभिः समभे तनौ ।
कुशलाऽनेकशास्त्रेषु सा नारी ब्रह्मवादिनी ॥ ५२॥
क्रूरे सप्तमगे कश्चित् खेचरो नवमे यदि ।
सा प्रव्रज्यां तदाप्नोति पापखेचरसंभवाम् ॥ ५३॥
विलग्नादष्टमे सौम्ये पापदृग्योगवर्जिते ।
मृत्युः प्रागेव विज्ञेयस्तस्य मृत्युर्न संशयः ॥ ५४॥
अष्टमे शुभपापौ चेत् स्यातां तुल्यबलौ यदा ।
सह भर्त्रा तदा मृत्युं प्राप्त्वा स्वर्याति निश्चयात् ॥ ५५॥
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.