बृहदारण्यकोपनिषत्
काण्व पाठः ।
A मधु काण्ड[उपदेश काण्ड]
अध्याय I ब्राह्मण Vraja Loka Astro Spiritual Counselling i-vi मन्त्राः ८० 1-...
अध्याय II ब्राह्मण Vraja Loka Astro Spiritual Counselling i-vi मन्त्राः ६६ 1-...
B मुनि [yAj~navalkya] काण्ड [उपपत्ति काण्ड]
अध्याय III ब्राह्मण Vraja Loka Astro Spiritual Counselling i-ix मन्त्राः ९२ 1-...
अध्याय IV ब्राह्मण Vraja Loka Astro Spiritual Counselling i-vi मन्त्राः ९२ 1-...
C खिल काण्ड[उपासना काण्ड]
अध्याय V ब्राह्मण Vraja Loka Astro Spiritual Counselling i-xv मन्त्राः ३३ 1-...
अध्याय VI ब्राह्मण Vraja Loka Astro Spiritual Counselling i-v मन्त्राः ७५ 1-...
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमदुच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
अथ प्रथमोऽध्यायः ।
अथ प्रथमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १ [I.i.1]
उषा वा अश्वस्य मेध्यस्य शिरः । सूर्यश्चक्षुर्वातः प्राणो
व्यात्तमग्निर्वैश्वानरः संवत्सर आत्माऽश्वस्य मेध्यस्य । द्यौः
पृष्ठमन्तरिक्षमुदरं पृथिवी पाजस्यं दिशः पार्श्वे
अवान्तरदिशः पर्शव ऋतवोऽङ्गानि मासाश्चार्धमासाश्च
पर्वाण्यहोरात्राणि प्रतिष्ठा नक्षत्राण्यस्थीनि नभो
माꣳसान्यूवध्यꣳ सिकताः सिन्धवो गुदा यकृच्च क्लोमानश्च
पर्वता ओषधयश्च वनस्पतयश्च लोमान्युद्यन्पूर्वार्धो
निम्लोचञ्जघनार्धो यद्विजृम्भते तद्विद्योतते यद्विधूनुते
तत्स्तनयति यन्मेहति तद्वर्षति वागेवास्य वाक् ॥ १॥
मन्त्र २ [I.i.2]
अहर्वा अश्वं पुरस्तान्महिमाऽन्वजायत तस्य पूर्वे समुद्रे योनी
रात्रिरेनं पश्चान्महिमाऽन्वजायत तस्यापरे समुद्रे योनिरेतौ वा अश्वं
महिमानावभितः सम्बभूवतुर्हयो भूत्वा देवानवहद् वाजी गन्धर्वान्
अर्वाऽसुरान् अश्वो मनुष्यान् समुद्र एवास्य बन्धुः समुद्रो योनिः ॥ २॥
इति प्रथमं ब्राहमणम् ॥
अथ द्वितीयं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १ [I.ii.1]
नैवेह किंचनाग्र आसीन् मृत्युनैवेदमावृतमासीदशनाययाऽशनाया
हि मृत्युस्तन्मनोऽकुरुताऽऽत्मन्वी स्यामिति । सोऽर्चन्नचरत्
तस्यार्चत आपोऽजायन्तार्चते वै मे कमभूदिति । तदेवार्क्यस्यार्कत्वम् ।
कꣳ ह वा अस्मै भवति य एवमेतदर्कस्यार्कत्वं वेद ॥ १॥
मन्त्र २[I.ii.2]
आपो वा अर्क तद्यदपाꣳ शर आसीत् तत्समहन्यत । सा पृथिव्यभवत्
तस्यामश्राम्यत् तस्य श्रान्तस्य तप्तस्य तेजो रसो निरवर्तताग्निः ॥ २॥
मन्त्र ३ [I.ii.3]
स त्रेधाऽऽत्मानं व्यकुरुताऽऽदित्यं तृतीयं वायुं तृतीयꣳ ।
स एष प्राणस्त्रेधा विहितस्तस्य प्राची दिक्षिरोऽसौ चासौ चेर्माव
अथास्य प्रतीची दिक्पुच्छमसौ चासौ च सक्थ्यौ दक्षिणा चोदीची
च पार्श्वे द्यौः पृष्ठमन्तरिक्षमुदरमियमुरः स एषोऽप्सु
प्रतिष्ठितो यत्र क्व चैति तदेव प्रतितिष्ठत्येवं विद्वान् ॥ ३॥
मन्त्र ४[I.ii.4]
सोऽकामयत द्वितीयो म आत्मा जायेतेति । स मनसा वाचं
मिथुनꣳ समभवदशनाया मृत्युस्तद्यद्रेत आसीत् स
संवत्सरोऽभवन् न ह पुरा ततः संवत्सर आस । तमेतावन्तं
कालमबिभर्यावान्संवत्सरस्तमेतावतः कालस्य परस्तादसृजत ।
तं जातमभिव्याददात् स भाणकरोत् सैव वागभवत् ॥ ४॥
मन्त्र ५[I.ii.5]
स ऐक्षत यदि वा इममभिमꣳस्ये कनीयोऽन्नं करिष्य इति ।
स तया वाचा तेनाऽऽत्मनेदꣳ सर्वमसृजत यदिदं
किञ्चर्चो यजूꣳषि सामानि छन्दाꣳसि यज्ञान् प्रजाः
पशून् स यद्यदेवासृजत तत्तदत्तुमध्रियत । सर्वं वा अत्तीति
तददितेरदितित्वꣳ । सर्वस्यैतस्यात्ता भवति सर्वमस्यान्नं भवति
य एवमेतददितेरदितित्वं वेद ॥ ५॥
मन्त्र ६[I.ii.6]
सोऽकामयत भूयसा यज्ञेन भूयो यजेयेति । सोऽश्राम्यत् स
तपोऽतप्यत । तस्य श्रान्तस्य तप्तस्य यशो वीर्यमुदक्रामत् प्राणा
वै यशो वीर्यम् । तत् प्राणेषूत्क्रान्तेषु शरीरꣳ श्वयितुमध्रियत
तस्य शरीर एव मन आसीत् ॥ ६॥
मन्त्र ७[I.ii.7]
सोऽकामयत मेध्यं म इदꣳ स्यादात्मन्व्यनेन स्यामिति । ततोऽश्वः
समभवद् यदश्वत् तन्मेध्यमभूदिति । तदेवाश्वमेधस्याश्वमेधत्वं
एष ह वा अश्वमेधं वेद य एनमेवं वेद । तमनवरुध्यैवामन्यत ।
तꣳ संवत्सरस्य परस्तादात्मन आलभत । पशून्देवताभ्यः
प्रत्यौहत् तस्मात्सर्वदेवत्यं प्रोक्षितं प्राजापत्यमालभन्त एष ह वा
अश्वमेधो य एष तपति तस्य संवत्सर आत्माऽयमग्निरर्कस्तस्येमे लोका
आत्मानस्तावेतावर्काश्वमेधौ । सो पुनरेकैव देवता भवति मृत्युरेवाप
पुनर्मृत्युं जयति नैनं मृत्युराप्नोति मृत्युरस्याऽऽत्मा
भवत्येतासां देवतानामेको भवति ॥ ७॥
इति द्वितीयं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ तृतीयं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १ [I.iii.1]
द्वया ह प्राजापत्या देवाश्चासुराश्च । ततः कानीयसा एव देवा ज्यायसा
असुरास्त एषु लोकेष्वस्पर्धन्त । ते ह देवा ऊचुर्हन्तासुरान्यज्ञ
उद्गीथेनात्ययामेति ॥ १॥
मन्त्र २[I.iii.2]
ते ह वाचमूचुस्त्वं न उद्गायेति । तथेति । तेभ्यो वागुदगायद् यो वाचि
भोगस्तं देवेभ्य आगायद् यत्कल्याणं वदति तदात्मने । ते विदुरनेन
वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् स यः स
पाप्मा यदेवेदमप्रतिरूपं वदति स एव स पाप्मा ॥ २॥
मन्त्र ३[I.iii.3]
अथ ह प्राणमूचुस्त्वं न उद्गायेति । तथेति । तेभ्यः प्राण उदगायद्
यः प्राणे भोगस्तं देवेभ्य आगायद् यत्कल्याणं जिघ्रति तदात्मने ।
ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य
पाप्मनाऽविध्यन् स यः स पाप्मा यदेवेदमप्रतिरूपं जिघ्रति स एव
स पाप्मा ॥ ३॥
मन्त्र ४[I.iii.4]
अथ ह चक्षुरूचुस्त्वं न उद्गायेति । तथेति । तेभ्यश्चक्षुरुदगायद्
यश्चक्षुषि भोगस्तं देवेभ्य आगायद् यत्कल्याणं पश्यति
तदात्मने । ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य
पाप्मनाऽविध्यन् स यः स पाप्मा यदेवेदमप्रतिरूपं पश्यति स एव
स पाप्मा ॥ ४॥
मन्त्र ५[I.iii.5]
अथ ह श्रोत्रमूचुस्त्वं न उद्गायेति । तथेति । तेभ्यः श्रोत्रमुदगायद्
यः श्रोत्रे भोगस्तं देवेभ्य आगायद् यत्कल्याणꣳ शृणोति
तदात्मने । ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य
पाप्मनाऽविध्यन् स यः स पाप्मा यदेवेदमप्रतिरूपꣳ शृणोति स
एव स पाप्मा ॥ ५॥
मन्त्र ६[I.iii.6]
अथ ह मन ऊचुस्त्वं न उद्गायेति । तथेति । तेभ्यो मन उदगायद्
यो मनसि भोगस्तं देवेभ्य आगायद् यत्कल्याणꣳ सङ्कल्पयति
तदात्मने । ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य
पाप्मनाऽविध्यन् स यः स पाप्मा यदेवेदमप्रतिरूपꣳ सङ्कल्पयति स
एव स पाप्मैवमु खल्वेता देवताः पाप्मभिरुपासृजन् पाप्मभिसुपासृजन्
एवमेनाः पाप्मनाऽविध्यन् ॥ ६॥
मन्त्र ७[I.iii.7]
अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति । तथेति । तेभ्य एष
प्राण उदगायत् ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य
पाप्मनाविध्यन् । स यथाश्मानमृत्वा लोष्टो विध्वꣳसेतैवꣳ
हैव विध्वꣳसमाना विष्वञ्चो विनेशुस्ततो देवा अभवन् पराऽसुराः ।
भवत्यात्मना पराऽस्य द्विषन्भ्रातृव्यो भवति य एवं वेद ॥ ७॥
मन्त्र ८[I.iii.8]
ते होचुः क्व नु सोऽभूद् यो न इत्थमसक्तेत्ययमास्येऽन्तरिति सोऽयास्य
आङ्गिरसोऽङ्गानाꣳ हि रसः ॥ ८॥
मन्त्र ९[I.iii.9]
सा वा एषा देवता दूर्नाम दूरꣳ ह्यस्या मृत्युर्दूरꣳ ह वा
अस्मान्मृत्युर्भवति य एवं वेद ॥ ९॥
मन्त्र १०[I.iii.10]
सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्य यत्राऽऽसां
दिशामन्तस्तद्गमयां चकार तदासां पाप्मनो विन्यदधात् तस्मान्न
जनमियान् नान्तमियान् नेत्पाप्मानं मृत्युमन्ववायानीति ॥ १०॥
मन्त्र ११[I.iii.11]
सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्याथैना
मृत्युमत्यवहत् ॥ ११॥
मन्त्र १२[I.iii.12]
स वै वाचमेव प्रथमामत्यवहत् सा यदा मृत्युमत्यमुच्यत
सोऽग्निरभवत् सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यते ॥ १२॥
मन्त्र १३[I.iii.13]
अथ प्राणमत्यवहत् स यदा मृत्युमत्यमुच्यत स वायुरभवत् सोऽयं
वायुः परेण मृत्युमतिक्रान्तः पवते ॥ १३॥
मन्त्र १४[I.iii.14]
अथ चक्षुरत्यवहत् तद्यदा मृत्युमत्यमुच्यत स आदित्योऽभवत्
सोऽसावादित्यः परेण मृत्युमतिक्रान्तस्तपति ॥ १४॥
मन्त्र १५[I.iii.15]
अथ श्रोत्रमत्यवहत् तद्यदा मृत्युमत्यमुच्यत ता
दिशोऽभवꣳस्ता इमा दिशः परेण मृत्युमतिक्रान्ताः ॥ १५॥
मन्त्र १६[I.iii.16]
अथ मनोऽत्यवहत् तद्यदा मृत्युमत्यमुच्यत स चन्द्रमा अभवत्
सोऽसौ चन्द्रः परेण मृत्युमतिक्रान्तो भात्येवꣳ ह वा एनमेषा
देवता मृत्युमतिवहति य एवं वेद ॥ १६॥
मन्त्र १७[I.iii.17]
अथाऽऽत्मनेऽन्नाद्यमागायद् यद्धि किञ्चान्नमद्यतेऽनेनैव तदद्यत
इह प्रतितिष्ठति ॥ १७॥
मन्त्र १८[I.iii.18]
ते देवा अब्रुवन्न् एतावद्वा इदꣳ सर्वं यदन्नं तदात्मन
आगासीरनु नोऽस्मिन्नन्न आभजस्वेति । ते वै माऽभिसंविशतेति ।
तथेति । तꣳ समन्तं परिण्यविशन्त । तस्माद्यदनेनान्नमत्ति
तेनैतास्तृप्यन्त्येवꣳ ह वा एनꣳ स्वा अभिसंविशन्ति भर्ता
स्वानाꣳ श्रेष्ठः पुर एता भवत्यन्नादोऽधिपतिर्य एवं वेद ।
य उ हैवंविदꣳ स्वेषु प्रतिप्रतिर्बुभूषति न हैवालं भार्येभ्यो
भवत्यथ य एवैतमनुभवति यो वैतमनु भार्यान् बुभूर्षति स
हैवालं भार्येभ्यो भवति ॥ १८॥
मन्त्र १९[I.iii.19]
सोऽयास्य आङ्गिरसोऽङ्गानाꣳ हि रसः । प्राणो वा अङ्गानाꣳ रसः ।
प्राणो हि वा अङ्गानाꣳ रसस्तस्माद्यस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति
तदेव तच्छुष्यत्येष हि वा अङ्गानाꣳ रसः ॥ १९॥
मन्त्र २०[I.iii.20]
एष उ एव बृहस्पतिर्वाग्वै बृहती तस्या एष पतिस्तस्मादु
बृहस्पतिः ॥ २०॥
मन्त्र २१[I.iii.21]
एष उ एव ब्रह्मणस्पतिर्वाग्वै ब्रह्म तस्या एष पतिस्तस्मादु
ब्रह्मणस्पतिः ॥ २१॥
मन्त्र २२[I.iii.22]
एष उ एव साम वाग्वै सामैष सा चामश्चेति तत्साम्नः सामत्वम् ।
यद्वेव समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः
समोऽनेन सर्वेण तस्माद्वेव सामाश्नुते साम्नः सायुज्यꣳ सलोकतां
य एवमेतत्साम वेद ॥ २२॥
मन्त्र २३[I.iii.23]
एष उ वा उद्गीथः । प्राणो वा उत् प्राणेन हीदꣳ सर्वमुत्तब्धम् ।
वागेव गीथोच्च गीथा चेति स उद्गीथः ॥ २३॥
मन्त्र २४[I.iii.24]
तद्धापि ब्रह्मदत्तश्चैकितानेयो राजानं भक्षयन्नुवाचायं त्यस्य
राजा मूर्धानं विपातयताद् यदितोऽयास्य आङ्गिरसोऽन्येनोदगायदिति ।
वाचा च ह्येव स प्राणेन चोदगायदिति ॥ २४॥
मन्त्र २५[I.iii.25]
तस्य हैतस्य साम्नो यः स्वं वेद भवति हास्य स्वम् । तस्य वै स्वर
एव स्वम् । तस्मादार्त्विज्यं करिष्यन्वाचि स्वरमिच्छेत तया वाचा
स्वरसम्पन्नयाऽऽर्त्विज्यं कुर्यात् तस्माद्यज्ञे स्वरवन्तं दिदृक्षन्त
एवाथो यस्य स्वं भवति । भवति हास्य स्वं य एवमेतत्साम्नः स्वं
वेद ॥ २५॥
मन्त्र २६[I.iii.26]
तस्य हैतस्य साम्नो यः सुवर्णं वेद भवति हास्य सुवर्णम् । तस्य वै
स्वर एव सुवर्णम् । भवति हास्य सुवर्णं य एवमेतत्साम्नः सुवर्णं
वेद ॥ २६॥
मन्त्र २७[I.iii.27]
तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद प्रति ह तिष्ठति । तस्य
वै वागेव प्रतिष्ठा वाचि हि खल्वेष एतत्प्राणः प्रतिष्ठितो गीयते
ऽन्न इत्यु हैक आहुः ॥ २७॥
मन्त्र २८[I.iii.28]
अथातः पवमानानामेवाभ्यारोहः । स वै खलु प्रस्तोता साम
प्रस्तौति । स यत्र प्रस्तुयात् तदेतानि जपेदसतो मा सद् गमय
तमसो मा ज्योतिर्गमय मृत्योर्माऽमृतं गमयेति । स यदाहासतो मा
सद्गमयेति मृत्युर्वा असत् सदमृतं मृत्योर्माऽमृतं गमयामृतं
मा कुर्वित्येवैतदाह । तमसो मा ज्योतिर्गमयेति मृत्युर्वै तमो
ज्योतिरमृतं मृत्योर्मामृतं गमयामृतं मा कुर्वित्येवैतदाह ।
मृत्योर्मामृतं गमयेति नात्र तिरोहितमिवास्त्यथ यानीतराणि
स्तोत्राणि तेष्वात्मनेऽन्नाद्यमागायेत् तस्मादु तेषु वरं वृणीत यं
कामं कामयेत तꣳ । स एष एवंविदुद्गाताऽऽत्मने वा यजमानाय वा
यं कामं कामयते तमागायति । तद्धैतल्लोकजिदेव न हैवालोक्यताया
आशास्ति य एवमेतत्साम वेद ॥ २८॥
इति तृतीयं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ चतुर्थं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १ [I.iv.1]
आत्मैवेदमग्र आसीत्पुरुषविधः । सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत्
सोऽहमस्मीत्यग्रे व्याहरत् ततोऽहन्नामाभवत् । तस्मादप्येतर्ह्यामन्त्रितो
ऽहमयमित्येवाग्र उक्त्वाऽथान्यन्नाम प्रब्रूते यदस्य भवति । स
यत्पूर्वोऽस्मात्सर्वस्मात्सर्वान्पाप्मन औषत् तस्मात्पुरुषः । ओषति ह
वै स तं योऽस्मात्पूर्वो बुभूषति य एवं वेद ॥ १॥
मन्त्र २[I.iv.2]
सोऽबिभेत् तस्मादेकाकी बिभेति । स हायमीक्षां चक्रे यन्मदन्यन्नास्ति
कस्मान्नु बिभेमीति । तत एवास्य भयं वीयाय । कस्माद्ध्यभेष्यत्
द्वितीयाद्वै भयं भवति ॥ २॥
मन्त्र ३[I.iv.3]
स वै नैव रेमे तस्मादेकाकी न रमते । स द्वितीयमैच्छत्
स हैतावानास यथा स्त्रीपुमाꣳसौ सम्परिष्वक्तौ ।
स इममेवाऽऽत्मानं द्वेधाऽपातयत् । ततः पतिश्च पत्नी
चाभवताम् । तस्मादिदमर्धबृगलमिव स्व इति ह स्माऽऽह
याज्ञवल्क्यस्तस्मादयमाकाशः स्त्रिया पूर्यत एव । ताꣳ समभवत्
ततो मनुष्या अजायन्त ॥ ३॥
मन्त्र ४[I.iv.4]
सो हेयमीक्षां चक्रे कथं नु माऽऽत्मन एव जनयित्वा
सम्भवति । हन्त तिरोऽसानीति । सा गौरभवद् ऋषभ
इतरस्ताꣳ समेवाभवत् ततो गावोऽजायन्त । वडवेतराऽभवद्
अश्ववृष इतरो गर्दभीतरा गर्दभ इतरस्ताꣳ समेवाभवत्
तत एकशफमजायत अजेतराऽभवद् वस्त इतरोऽविरितरा मेष
इतरस्ताꣳ समेवाभवत् ततोऽजावयोऽजायन्तैवमेव यदिदं किञ्च
मिथुनमा पिपीलिकाभ्यस्तत्सर्वमसृजत ॥ ४॥
मन्त्र ५[I.iv.5]
सोऽवेदहं वाव सृष्टिरस्म्यहꣳ हीदꣳ सर्वमसृक्षीति ।
ततः सृष्टिरभवत् सृष्ट्याꣳ हास्यैतस्यां भवति य एवं वेद ॥ ५॥
मन्त्र ६[I.iv.6]
अथेत्यभ्यमन्थत् स मुखाच्च योनेर्हस्ताभ्यां
चाग्निमसृजत । तस्मादेतदुभयमलोमकमन्तरतोऽलोमका
हि योनिरन्तरतस्तद्यदिदमाहुरमुं यजामुं यजेत्येकैकं
देवमेतस्यैव सा विसृष्टिरेष उ ह्येव सर्वे देवा अथ
यत्किञ्चेदमार्द्रं तद्रेतसोऽसृजत तदु सोमः । एतावद्वा
इदꣳ सर्वमन्नं चैवान्नादश्च सोम एवान्नमग्निरन्नादः ।
सैषा ब्रह्मणोऽतिसृष्टिर्यच्छ्रेयसो देवानसृजताथ यन्मर्त्यः
सन्नमृतानसृजत तस्मादतिसृष्टिरतिसृष्ट्याꣳ हास्यैतस्यां
भवति य एवं वेद ॥ ६॥
मन्त्र ७[I.iv.7]
तद्धेदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यामेव व्याक्रियतासौ
नामाऽयमिदꣳरूप इति । तदिदमप्येतर्हि नामरूपाभ्यामेव
व्याक्रियतेऽसौ नामायमिदꣳरूप इति । स एष इह प्रविष्ट आ
नखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद् विश्वम्भरो वा
विश्वम्भरकुलाये तं न पश्यन्त्यकृत्स्नो हि सः प्राणन्नेव प्राणो
नाम भवति वदन्वाक् पश्यंश्चक्षुः शृण्वञ्ह्रोत्रं मन्वानो
मनस्तान्यस्यैतानि कर्मनामान्येव । स योऽत एकैकमुपास्ते न स
वेदाकृत्स्नो ह्येषोऽत एकैकेन भवत्यात्मेत्येवोपासीतात्र ह्येते
सर्व एकं भवन्ति । तदेतत्पदनीयमस्य सर्वस्य यदयमात्माऽनेन
ह्येतत्सर्वं वेद । यथा ह वै पदेनानुविन्देदेवं कीर्तिꣳ श्लोकं
विन्दते य एवं वेद ॥ ७॥
मन्त्र ८[I.iv.8]
तदेतत्प्रेयः पुत्रात् प्रेयो वित्तात् प्रेयोऽन्यस्मात् सर्वस्मादन्तरतरं
यदयमात्मा । स योऽन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात् प्रियꣳ
रोत्स्यतीतीश्वरो ह तथैव स्यादात्मानमेव प्रियमुपासीत । स य
आत्मानमेव प्रियमुपास्ते न हास्य प्रियं प्रमायुकं भवति ॥ ८॥
मन्त्र ९[I.iv.9]
तदाहुर्यद्ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते किमु
तद्ब्रह्मावेद् यस्मात्तत्सर्वमभवदिति ॥ ९॥
मन्त्र १०[I.iv.10]
ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेदहं ब्रह्मास्मीति ।
तस्मात्तत्सर्वमभवत् तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्
तथर्षीणां तथा मनुष्याणाम् । तद्धैतत्पश्यन्नृषिर्वामदेवः
प्रतिपेदेऽहं मनुरभवꣳ सूर्यश्चेति । तदिदमप्येतर्हि
य एवं वेदाहं ब्रह्मास्मीति इति स इदꣳ सर्वं भवति तस्य ह
न देवाश्चनाभूत्या ईशत आत्मा ह्येषाꣳ स भवत्यथ योऽन्यां
देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद । यथा पशुरेवꣳ
स देवानाम् । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युरेवमेकैकः
पुरुषो देवान्भुनक्त्येकस्मिन्नेव पशावादीयमानेऽप्रियं भवति
किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ १०॥
मनुष्यास्विद्युर्मन्त्र ११
मन्त्र ११[I.iv.11]
ब्रह्म वा इदमग्र आसीदेकमेव । तदेकꣳ सन्न व्यभवत् तच्छ्रेयो
रूपमत्यसृजत क्षत्रं यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो
रुद्रः पर्जन्यो यमो मृत्युरीशान इति । तस्मात्क्षत्रात्परं नास्ति
तस्माद्ब्राह्मणः क्षत्रियमधस्तादुपास्ते राजसूये । क्षत्र एव तद्यशो
दधाति सैषा क्षत्रस्य योनिर्यद्ब्रह्म । तस्माद्यद्यपि राजा परमतां
गच्छति ब्रह्मैवान्तत उपनिश्रयति स्वां योनिम् । य उ एनꣳ हिनस्ति
स्वाꣳ स योनिमृच्छति । स पापीयान्भवति यथा श्रेयाꣳसꣳ
हिꣳसित्वा ॥ ११॥
मन्त्र १२[I.iv.12]
स नैव व्यभवत् स विशमसृजत यान्येतानि देवजातानि गणश
आख्यायन्ते वसवो रुद्रा आदित्या विश्वे देवा मरुत इति ॥ १२॥
मन्त्र १३[I.iv.13]
स नैव व्यभवत् स शौद्रं वर्णमसृजत पूषणमियं वै
पूषेयꣳ हीदꣳ सर्वं पुष्यति यदिदं किञ्च ॥ १३॥
मन्त्र १४[I.iv.14]
स नैव व्यभवत् तच्छ्रेयो रूपमत्यसृजत धर्मम् ।
तदेतत्क्षत्रस्य क्षत्रं यद्धर्मस्तस्माद्धर्मात् परं नास्त्यथो
अबलीयान् बलीयाꣳसमाशꣳसते धर्मेण यथा राज्ञैवम् । यो वै स
धर्मः सत्यं वै तत् तस्मात्सत्यं वदन्तमाहुर्धर्मं वदतीति धर्मं
वा वदन्तꣳ सत्यं वदतीत्येतद्ध्येवैतदुभयं भवति ॥ १४॥
मन्त्र १५[I.iv.15]
तदेतद्ब्रह्म क्षत्रं विट् शूद्रस्तदग्निनैव देवेषु ब्रह्माभवद्
ब्राह्मणो मनुष्येषु क्षत्रियेण क्षत्रियो वैश्येन वैश्यः शूद्रेण
शूद्रस्तस्मादग्नावेव देवेषु लोकमिच्छन्ते ब्राह्मणे मनुष्येष्वेताभ्याꣳ
हि रूपाभ्यां ब्रह्माभवदथ यो ह वा अस्माल्लोकात्स्वं
लोकमदृष्ट्वा प्रैति स एनमविदितो न भुनक्ति यथा वेदो
वाऽननूक्तोऽन्यद्वा कर्माकृतम् । यदि ह वा अप्यनेवंविन्महत्पुण्यं
कर्म करोति तद्धास्यान्ततः क्षीयत एवाऽऽत्मानमेव लोकमुपासीत । स
य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयतेऽस्माद्ध्येवाऽऽत्मनो
यद्यत्कामयते तत्तत्सृजते ॥ १५॥
मन्त्र १६[I.iv.16]
अथो अयं वा आत्मा सर्वेषां भूतानां लोकः स यज्जुहोति यद्यजते
तेन देवानां लोकोऽथ यदनुब्रूते तेन ऋषीणामथ यत् पितृभ्यो
निपृणाति अथ यत्प्रजामिच्छते तेन पितृणामथ यन्मनुष्यान्वासयते
यदेभ्योऽशनं ददाति तेन मनुष्याणामथ यत्पशुभ्यस्तृणोदकं
विन्दति तेन पशूनां यदस्य गृहेषु श्वापदा वयाꣳस्या पिपीलिकाभ्य
उपजीवन्ति तेन तेषां लोको यथा ह वै स्वाय लोकायारिष्टिमिच्छेद्
एवꣳ हैवंविदे सर्वदा सर्वाणि भूतान्यरिष्टिमिच्छन्ति । तद्वा
एतद्विदितं मीमाꣳसितम् ॥ १६॥
मन्त्र १७[I.iv.17]
आत्मैवेदमग्र आसीदेक एव । सोऽकामयत जाया मे स्यादथ प्रजायेयाथ
वित्तं मे स्यात् अथ कर्म कुर्वीयेत्येतावान्वै कामो नेच्छꣳश्चनातो
भूयो विन्देत् तस्मादप्येतर्ह्येकाकी कामयते जाया मे स्यादथ प्रजायेयाथ
वित्तं मे स्यादथ कर्म कुर्वीयेति । स यावदप्येतेषामेकैकं
न प्राप्नोत्यकृत्स्न एव तावन् मन्यते । तस्यो कृत्स्नता । मन
एवास्याऽऽत्मा वाग्जाया प्राणः प्रजा चक्षुर्मानुषं वित्तं चक्षुषा
हि तद्विन्दते श्रोत्रं दैवꣳ श्रोत्रेण हि तच्छृणोत्यात्मैवास्य
कर्माऽऽत्मना हि कर्म करोति । स एष पाङ्क्तो यज्ञः पाङ्क्तः पशुः
पाङ्क्तः पुरुषः पाङ्क्तमिदꣳ सर्वं यदिदं किञ्च । तदिदꣳ
सर्वमाप्नोति य एवं वेद ॥ १७॥
इति चतुर्थं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ पञ्चमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[I.v.1]
यत्सप्तान्नानि मेधया तपसाऽऽजनयत्पिता । एकमस्य साधारणं द्वे
देवानभाजयत् ॥ त्रीण्यात्मनेऽकुरुत पशुभ्य एकं प्रायच्छत् ।
तस्मिन्त्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न ॥ कस्मात्तानि
न क्षीयन्तेऽद्यमानानि सर्वदा । यो वै तामक्षितिं वेद सोऽन्नमत्ति
प्रतीकेन स देवानपिगच्छति स ऊर्जमुपजीवतीति श्लोकाः ॥ १॥
मन्त्र २[I.v.2]
यत्सप्तान्नानि मेधया तपसाऽजनयत्पितेति मेधया हि तपसाजनयत्
पितैकमस्य साधारणमितीदमेवास्य तत्साधारणमन्नं यदिदमद्यते ।
स य एतदुपास्ते न स पाप्मनो व्यावर्तते मिश्रꣳ ह्येतत् । द्वे
देवानभाजयदिति हुतं च प्रहुतं च तस्माद् देवेभ्यो जुह्वति च प्र
च जुह्वत्यथो आहुर्दर्शपूर्णमासाविति । तस्मान्नेष्टियाजुकः स्यात् ।
पशुभ्य एकं प्रायच्छदिति तत्पयः । पयो ह्येवाग्रे मनुष्याश्च
पशवश्चोपजीवन्ति । तस्मात् कुमारं जातं घृतं वै वाग्रे
प्रतिलेहयन्ति स्तनं वाऽनुधापयन्त्यथ वत्सं जातमाहुरतृणाद
इति । तस्मिन्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति पयसि
हीदꣳ सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न । तद्यदिदमाहुः
संवत्सरं पयसा जुह्वदप पुनर्मृत्युं जयतीति न तथा विद्याद्
यदहरेव जुहोति तदहः पुनर्मृत्युमपजयत्येवं विद्वान् सर्वꣳ
हि देवेभ्योऽन्नाद्यं प्रयच्छति । कस्मात्तानि न क्षीयन्तेऽद्यमानानि
सर्वदेति पुरुषो वा अक्षितिः स हीदमन्नं पुनः पुनर्जनयते ।
यो वै तामक्षितिं वेदेति पुरुषो वा अक्षितिः । स हीदमन्नं धिया
धिया जनयते कर्मभिर्यद्धैतन्न कुर्यात् क्षीयेत ह । सोऽन्नमत्ति
प्रतीकेनेति मुखं प्रतीकं मुखेनेत्येतत् स देवानपिगच्छति स
ऊर्जमुपजीवतीति प्रशꣳसा ॥ २॥
मन्त्र ३[I.v.3]
त्रीण्यात्मनेऽकुरुतेति मनो वाचं प्राणं तान्यात्मनेऽकुरुतान्यत्रमना
अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषमिति मनसा ह्येव पश्यति
मनसा शृणोति । कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा
धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव । तस्मादपि
पृष्ठत उपस्पृष्टो मनसा विजानाति । यः कश्च शब्दो वागेव
सैषा ह्यन्तमायत्तैषा हि न । प्राणोऽपानो व्यान उदानः समानोऽन
इत्येतत्सर्वं प्राण एवैतन्मयो वा अयमात्मा वाङ्मयो मनोमयः प्राणमयः ॥ ३॥
मन्त्र ४[I.v.4]
त्रयो लोका एत एव वागेवायं लोको मनोऽन्तरिक्षलोकः प्राणोऽसौ लोकः ॥ ४॥
मन्त्र ५[I.v.5.]
त्रयो वेदा एत एव वागेवर्ग्वेदो मनो यजुर्वेदः प्राणः सामवेदः ॥ ५॥
मन्त्र ६[I.v.6]
देवाः पितरो मनुष्या एत एव वागेव देवा मनः पितरः प्राणो मनुष्याः ।
मन्त्र ७[I.v.7]
पिता माता प्रजैत एव मन एव पिता वाङ्माता प्राणः प्रजा ॥ ७॥
मन्त्र ८[.I.v.8]
विज्ञातं विजिज्ञास्यमविज्ञातमेत एव यत्किञ्च विज्ञातं
वाचस्तद्रूपं वाग्घि विज्ञाता वागेनं तद्भूत्वाऽवति ॥ ८॥
मन्त्र ९[I.v.9]
यत्किञ्च विजिज्ञास्यं मनसस्तद्रूपं मनो हि विजिज्ञास्यं मन एनं
तद्भूत्वाऽवति ॥ ९॥
मन्त्र १०[I.v.10]
यत्किञ्चाविज्ञातं प्राणस्य तद्रूपं प्राणो ह्यविज्ञातः प्राण एनं
तद्भूत्वाऽवति ॥ १०॥
मन्त्र ११[I.v.11]
तस्यै वाचः पृथिवी शरीरं ज्योती रूपमयमग्निस्तद्यावत्येव वाक्
तावती पृथिवी तावानयमग्निः ॥ ११॥
मन्त्र १२[I.v.12]
अथैतस्य मनसो द्यौः शरीरं ज्योतीरूपमसावादित्यस्तद्यावदेव
मनस्तावती द्यौस्तावानसावादित्यस्तौ मिथुनꣳ समैतां ततः
प्राणोऽजायत । स इन्द्रः स एषोऽसपत्नो द्वितीयो वै सपत्नो नास्य
सपत्नो भवति य एवं वेद ॥ १२॥
मन्त्र १३[I.v.13]
अथैतस्य प्राणस्याऽऽपः शरीरं ज्योतीरूपमसौ चन्द्रस्तद्यावानेव
प्राणस्तावत्य आपस्तावानसौ चन्द्रः । त एते सर्व एव समाः
सर्वेऽनन्ताः । स यो हैतानन्तवत उपास्तेऽन्तवन्तꣳ स लोकं
जयत्यथ यो हैताननन्तानुपास्तेऽनन्तꣳ स लोकं जयति ॥ १३॥
मन्त्र १४[I.v.14]
स एष संवत्सरः प्रजापतिः षोडशकलस्तस्य रात्रय एव पञ्चदश
कला ध्रुवैवास्य षोडशी कला । स रात्रिभिरेवाऽऽ च पूर्यते
ऽप च क्षीयते । सोऽमावास्याꣳ रात्रिमेतया षोडश्या कलया
सर्वमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते । तस्मादेताꣳ
रात्रिं प्राणभृतः प्राणं न विच्छिन्द्यादपि कृकलासस्यैतस्या एव
देवताया अपचित्यै ॥ १४॥ अपचित्यै
मन्त्र १५[I.v.15]
यो वै स संवत्सरः प्रजापतिः षोडशकलोऽयमेव स
योऽयमेवंवित्पुरुषस्तस्य वित्तमेव पञ्चदश कला आत्मैवास्य
षोडशी कला । स वित्तेनैवाऽऽ च पूर्यतेऽप च क्षीयते ।
तदेतन्नभ्यं यदयमात्मा प्रधिर्वित्तम् । तस्माद्यद्यपि सर्वज्यानिं
जीयत आत्मना चेज्जीवति प्रधिनाऽगादित्येवाऽऽहुः ॥ १५॥
मन्त्र १६[I.v.16]
अथ त्रयो वाव लोकाः मनुष्यलोका पितृलोको देवलोक इति । सोऽयं
मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा कर्मणा पितृलोको विद्यया
देवलोको देवलोको वै लोकानाꣳ श्रेष्ठस्तस्माद्विद्यां प्रशꣳसन्ति ॥ १६॥
मन्त्र १७[I.v.17]
अथातः सम्प्रत्तिर्यदा प्रैष्यन्मन्यतेऽथ पुत्रमाह त्वं ब्रह्म
त्वं यज्ञस्त्वं लोक इति । स पुत्रः प्रत्याहाहं ब्रह्माहं यज्ञो
ऽहम् लोक इति । यद्वै किञ्चानूक्तं तस्य सर्वस्य ब्रह्मेत्येकता ।
ये वै के च यज्ञास्तेषाꣳ सर्वेषां यज्ञ इत्येकता ।
ये वै केच लोकास्तेषाꣳ सर्वेषां लोक इत्येकतैतावद्वा
इदꣳ सर्वमेतन्मा सर्वꣳ सन्नयमितोऽभुनजदिति ।
तस्मात् पुत्रमनुशिष्टं लोक्यमाहुस्तस्मादेनमनुशासति । स
यदैवंविदस्माल्लोकात्प्रैत्यथैभिरेव प्राणैः सह पुत्रमाविशति ।
स यद्यनेन किञ्चिदक्ष्णयाऽकृतं भवति तस्मादेनꣳ
सर्वस्मात्पुत्रो मुञ्चति । तस्मात् पुत्रो नाम । स पुत्रेणैवास्मिंॅल्लोके
प्रतितिष्ठत्यथैनमेते दैवाः प्राणा अमृता आविशन्ति ॥ १७॥
मन्त्र १८[I.v.18]
पृथिव्यै चैनमग्नेश्च दैवी वागाविशति । सा वै दैवी वाग्यया
यद्यदेव वदति तत्तद्भवति ॥ १८॥
मन्त्र १९[I.v.19]
दिवश्चैनमादित्याच्च दैवं मन आविशति । तद्वै दैवं मनो
येनाऽऽनन्द्येव भवत्यथो न शोचति ॥ १९॥
मन्त्र २०[I.v.20]
अद्भ्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति । स वै दैवः
प्राणो यः सञ्चरꣳश्चासञ्चरꣳश्च न व्यथतेऽथो
न रिष्यति । स एवंवित्सर्वेषां भूतानामात्मा भवति । यथैषा
देवतैवꣳ स यथैतां देवताꣳ सर्वाणि भूतान्यवन्त्येवꣳ
हैवंविदꣳ सर्वाणि भूतान्यवन्ति । यदु किञ्चेमाः प्रजाः
शोचन्त्यमैवाऽऽसां तद्भवति पुण्यमेवामुं गच्छति न ह वै
देवान्पापं गच्छति ॥ २०॥
मन्त्र २१[I.v.21]
अथातो व्रतमीमाꣳसा । प्रजापतिर्ह कर्माणि ससृजे । तानि
सृष्टान्यन्योऽन्येनास्पर्धन्त वदिष्याम्येवाहमिति वाग्दध्रे
द्रक्ष्याम्यहमिति चक्षुः श्रोष्याम्यहमिति श्रोत्रम् । एवमन्यानि
कर्माणि यथाकर्म । तानि मृत्युः श्रमो भूत्वोपयेमे तान्याप्नोत्
तान्याप्त्वा मृत्युरवारुन्ध । तस्माच्छ्राम्यत्येव वाक् श्राम्यति
चक्षुः श्राम्यति श्रोत्रमथेममेव नाऽऽप्नोद् योऽयं
मध्यमः प्राणस्तानि ज्ञातुं दध्रिरेऽयं वै नः श्रेष्ठो
यः सञ्चरꣳश्चासञ्चरꣳश्च न व्यथतेऽथो न
रिष्यति । हन्तास्यैव सर्वे रूपमसामेति । त एतस्यैव सर्वे
रूपमभवꣳस्तस्मादेत एतेनाऽऽख्यायन्ते प्राणा इति । तेन ह वाव
तत्कुलमाचक्षते यस्मिन्कुले भवति य एवं वेद । य उ हैवंविदा
स्पर्धतेऽनुशुष्यत्यनुशुष्य हैवान्ततो म्रियत इत्यध्यात्मम् ॥ २१॥
मन्त्र २२[I.v.22]
अथाधिदैवतं ज्वलिष्याम्येवाहमित्यग्निर्दध्रे तप्स्याम्यहमित्यादित्यो
भास्याम्यहमिति चन्द्रमा एवमन्या देवता यथादैवतꣳ । स
यथैषां प्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुर्निम्लोचन्ति
ह्यन्या देवता न वायुः । सैषाऽनस्तमिता देवता यद्वायुः ॥ २२॥
मन्त्र २३[I.v.23]
अथैष श्लोको भवति यतश्चोदेति सूर्योऽस्तं यत्र च गच्छतीति
प्राणाद्वा एष उदेति प्राणेऽस्तमेति तं देवाश्चक्रिरे धर्मꣳ,
स एवाद्य स उ श्व इति । यद्वा एतेऽमुर्ह्यध्रियन्त तदेवाप्यद्य
कुर्वन्ति । तस्मादेकमेव व्रतं चरेत् प्राण्याच्चैवापान्याच्च नेन्मा
पाप्मा मृत्युराप्नवदिति । यद्यु चरेत् समापिपयिषेत् तेनो एतस्यै
देवतायै सायुज्यꣳ सलोकतां जयति ॥ २३॥
इति पञ्चमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ षष्ठं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[I.vi.1]
त्रयं वा इदं नाम रूपं कर्म । तेषां नाम्नां वागित्येतदेषामुक्थमतो
हि सर्वाणि नामान्युत्तिष्ठन्ति । एतदेषाꣳ सामैतद्धि सर्वैर्नामभिः
सममेतदेषां ब्रह्मैतद्धि सर्वाणि नामानि बिभर्ति ॥ १॥
मन्त्र २[I.vi.2]
अथ रूपाणां चक्षुरित्येतदेषामुक्थमतो हि सर्वाणि रूपाण्युत्तिष्ठन्ति ।
एतदेषाꣳ सामैतद्धि सर्वै रूपैः समम् । एतदेषां ब्रह्मैतद्धि
सर्वाणि रूपाणि बिभर्ति ॥ २॥
मन्त्र ३[I.vi.3]
अथ कर्मणामात्मेत्येतदेषामुक्थमतो हि सर्वाणि
कर्माण्युत्तिष्ठन्त्येतदेषाꣳ सामैतद्धि सर्वैः कर्मभिः समं
एतदेषां ब्रह्मैतद्धि सर्वाणि कर्माणि बिभर्ति । तदेतत्त्रयꣳ
सदेकमयमात्माऽऽत्मो एकः सन्नेतत्त्रयम् । तदेतदमृतꣳ सत्येन
छन्नम् । प्राणो वा अमृतं नामरूपे सत्यं ताभ्यामयं प्राणश्छन्नः ॥ ३॥
इति षष्ठं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
॥ इति बृहदारण्यकोपनिषदि प्रथमोऽध्यायः ॥
अथ द्वितीयोऽध्यायः ।
अथ प्रथमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[II.i.1]
ॐ दृप्तबालाकिर्हानूचानो गार्ग्य आस । स होवाचाजातशत्रुं काश्यं
ब्रह्म ते ब्रवाणीति । स होवाचाजातशत्रुः सहस्रमेतस्यां वाचि दद्मो
जनको जनक इति वै जना धावन्तीति ॥ १॥
मन्त्र २[II.i.2]
स होवाच गार्ग्यो य एवासावादित्ये पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । अतिष्ठाः सर्वेषां
भूतानां मूर्धा राजेति वा अहमेतमुपास इति । स य एतमेवमुपास्ते
ऽतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति ॥ २॥
मन्त्र ३[II.i.3]
स होवाच गार्ग्यो य एवासौ चन्द्रे पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । बृहन् पाण्डरवासाः
सोमो राजेति वा अहमेतमुपास इति । स य एतमेवमुपास्तेऽहरहर्ह
सुतः प्रसुतो भवति नास्यान्नं क्षीयते ॥ ३॥
मन्त्र ४[II.i.4]
स होवाच गार्ग्यो य एवासौ विद्युति पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठास्तेजस्वीति वा अहमेतमुपास
इति । स य एतमेवमुपास्ते तेजस्वी ह भवति तेजस्विनी हास्य प्रजा
भवति ॥ ४॥
मन्त्र ५[II.i.5]
स होवाच गार्ग्यो य एवायमाकाशे पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठाः । पूर्णमप्रवर्तीति
वा अहमेतमुपास इति । स य एतमेवमुपास्ते पूर्यते प्रजया
पशुभिर्नास्यास्माल्लोकात्प्रजोद्वर्तते ॥ ५॥
मन्त्र ६[II.i.6]
स होवाच गार्ग्यो य एवायं वायौ पुरुष एतमेवाहं ब्रह्मोपास
इति । स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । इन्द्रो
वैकुण्ठोऽपराजिता सेनेति वा अहमेतमुपास इति । स य एतमेवमुपास्ते
जिष्णुर्हापराजिष्णुर्भवत्यन्यतस्त्यजायी ॥ ६॥
मन्त्र ७[II.i.7]
स होवाच गार्ग्यो य एवायमग्नौ पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । विषासहिरिति
वा अहमेतमुपास इति । स य एतमेवमुपास्ते विषासहिर्ह भवति
विषासहिर्हास्य प्रजा भवति ॥ ७॥
मन्त्र ८[II.i.8]
स होवाच गार्ग्यो य एवायमप्सु पुरुष एतमेवाहं ब्रह्मोपास
इति । स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठाः । प्रतिरूप
इति वा अहमेतमुपास इति । स य एतमेवमुपास्ते प्रतिरूपꣳ
हैवैनमुपगच्छति नाप्रतिरूपमथो प्रतिरूपोऽस्माज्जायते ॥ ८॥
मन्त्र ९[II.i.9]
स होवाच गार्ग्यो य एवायमादर्शे पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । रोचिष्णुरिति
वा अहमेतमुपास इति । स य एतमेवमुपास्ते रोचिष्णुर्ह
भवति रोचिष्णुर्हास्य प्रजा भवत्यथो यैः सन्निगच्छति
सर्वाꣳस्तानतिरोचते ॥ ९॥
मन्त्र १०[II.i.10]
स होवाच गार्ग्यो य एवायं यन्तं पश्चाछब्दोऽनूदेत्येतमेवाहं
ब्रह्मोपास इति । स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । असुरिति
वा अहमेतमुपास इति । स य एतमेवमुपास्ते सर्वꣳ हैवास्मिꣳल्लोक
आयुरेति नैनं पुरा कालात्प्राणो जहाति ॥ १०॥
मन्त्र ११[II.i.11]
स होवाच गार्ग्यो य एवायं दिक्षु पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । द्वितीयोऽनपग इति
वा अहमेतमुपास इति । स य एतमेवमुपास्ते द्वितीयवान्ह भवति नास्माद्
गणश्छिद्यते ॥ ११॥
मन्त्र १२[II.i.12]
स होवाच गार्ग्यो य एवायं छायामयः पुरुष एतमेवाहं ब्रह्मोपास
इति । स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । मृत्युरिति वा
अहमेतमुपास इति । स य एतमेवमुपास्ते सर्वꣳ हैवास्मिꣳल्लोक
आयुरेति नैनं पुरा कालान्मृत्युरागच्छति ॥ १२॥
मन्त्र १३[II.i.13]
स होवाच गार्ग्यो य एवायमात्मनि पुरुष एतमेवाहं ब्रह्मोपास इति । स
होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा आत्मन्वीति वा अहमेतमुपास इति ।
स य एतमेवमुपास्त आत्मन्वी ह भवत्यात्मन्विनी हास्य प्रजा भवति ।
स ह तूष्णीमास गार्ग्यः ॥ १३॥
मन्त्र १४[II.i.14]
स होवाचाजातशत्रुरेतावन्नू ३ इत्येतावद्धीति । नैतावता विदितं
भवतीति । स होवाच गार्ग्य उप त्वा यानीति ॥ १४॥
मन्त्र १५[II.i.15]
स होवाचाजातशत्रुः प्रतिलोमं चैतद्यद्ब्राह्मणः
क्षत्रियमुपेयाद् ब्रह्म मे वक्ष्यतीति । व्येव त्वा
ज्ञपयिष्यामीति । तं पाणावादायोत्तस्थौ । तौ ह पुरुषꣳ
सुप्तमाजग्मतुस्तमेतैर्नामभिरामन्त्रयांचक्रे बृहन्पाण्डरवासः
सोम राजन्निति । स नोत्तस्थौ । तं पाणिनाऽऽपेषं बोधयांचकार ।
स होत्तस्थौ ॥ १५॥
मन्त्र १६[II.i.16]
स होवाचाजातशत्रुर्यत्रैष एतत् सुप्तोऽभूद् य एष विज्ञानमयः
पुरुषः क्वैष तदाऽभूत् कुत एतदागादिति । तदु ह न मेने गार्ग्यः ॥ १६॥
मन्त्र १७[II.i.17]
स होवाचाजातशत्रुर्यत्रैष एतत्।सुप्तोऽभूद् य एष विज्ञानमयः
पुरुषस्तदेषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तर्हृदय
आकाशस्तस्मिञ्छेते । तानि यदा गृह्णाति अथ हैतत्पुरुषः
स्वपिति नाम । तद्गृहीत एव प्राणो भवति गृहीता वाग् गृहीतं
चक्षुर्गृहीतꣳ श्रोत्रं गृहीतं मनः ॥ १७॥
मन्त्र १८[II.i.18]
स यत्रैतत्स्वप्न्यया चरति ते हास्य लोकास्तदुतेव महाराजो
भवत्युतेव महाब्राह्मण Vraja Loka Astro Spiritual Counselling उतेवोच्चावचं निगच्छति । स यथा
महाराजो जानपदान्गृहीत्वा स्वे जनपदे यथाकामं परिवर्तेतैवमेवैष
एतत्प्राणान्गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते ॥ १८॥ गृहीत्वा
स्वे शरीरे यथाकामम् परिवर्तते
मन्त्र १९[II.i.19]
अथ यदा सुषुप्तो भवति यदा न कस्यचन वेद हिता नाम नाड्यो
द्वासप्ततिः सहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते । ताभिः
प्रत्यवसृप्य पुरीतति शेते । स यथा कुमारो वा महाराजो वा
महाब्राह्मणो वाऽतिघ्नीमानन्दस्य गत्वा शयीतैवमेवैष एतच्छेते ॥ १९॥
मन्त्र २०[II.i.20]
स यथोर्णभिस्तन्तुनोच्चरेद् यथाऽग्नेः क्षुद्रा विष्फुलिङ्गा
व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे
देवाः सर्वाणि भूतानि व्युच्चरन्ति । सर्वे ॥। व्युच्चरन्ति
तस्योपनिषत्सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ॥ २०॥
इति प्रथमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ द्वितीयं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[II.ii.1]
यो ह वै शिशुꣳ साधानꣳ सप्रत्याधानꣳ सस्थूणꣳ
सदामं वेद सप्त ह द्विषतो भ्रातृव्यानवरुणद्ध्ययं वाव
शिशुर्योऽयं मध्यमः प्राणस्तस्येदमेवाऽऽधानमिदं प्रत्याधानं
प्राणः स्थूणाऽन्नं दाम ॥ १॥
मन्त्र २[II.ii.2]
तमेताः सप्ताक्षितय उपतिष्ठन्ते तद्या इमा अक्षꣳल्लोहिन्यो
राजयस्ताभिरेनꣳ रुद्रोऽन्वायत्तोऽथ या अक्षन्नापस्ताभिः पर्जन्यो
या कनीनका तयाऽऽदित्यो यत्कृष्णं, तेनाग्निर्यच्छुक्लं तेनेन्द्रो
ऽधरयैनं वर्तन्या पृथिव्यन्वायत्ता द्यौरुत्तरया । नास्यान्नं
क्षीयते य एवं वेद ॥ २॥
मन्त्र ३[II.ii.3]
तदेष श्लोको भवति । अर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन्यशो
निहितं विश्वरूपम् । तस्याऽऽसत ऋषयः सप्त तीरे वागष्टमी
ब्रह्मणा संविदानेति । अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इतीदं तच्छिरः
एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नः । तस्मिन्यशो निहितं
विश्वरूपमिति प्राणा वै यशो निहितं विश्वरूपं प्राणानेतदाह ।
तस्याऽऽसत ऋषयः सप्त तीर इति प्राणा वा ऋषयः प्राणाणेतदाह ।
वागष्टमी ब्रह्मणा संविदानेति वाग्घ्यष्टमी ब्रह्मणा संवित्ते ॥ ३॥
मन्त्र ४[II.ii.4]
इमावेव गोतमभरद्वाजावयमेव गोतमोऽयं भरद्वाज इमावेव
विश्वामित्रजमदग्नी अयमेव विश्वामित्रोऽयं जमदग्निरिमावेव
वसिष्ठकश्यपावयमेव वसिष्ठोऽयं कश्यपो वागेवात्रिर्वाचा
ह्यन्नमद्यतेऽत्तिर्ह वै नामैतद्यदत्रिरिति । सर्वस्यात्ता भवति
सर्वमस्यान्नं भवति य एवं वेद ॥ ४॥
इति द्वितीयं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ तृतीयं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[II.iii.1]
द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च मर्त्यं चामृतं च
स्थितं च यच्च सच्च त्यच्च ॥ १॥
मन्त्र २[II.iii.2]
तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्चैतन्मर्त्यमेतत्स्थितं
एतत्सत् । तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य
सत एष रसो य एष तपति सतो ह्येष रसः ॥ २॥
मन्त्र ३[II.iii.3]
अथामूर्तं वायुश्चान्तरिक्षं चैतदमृतमेतद्यदेतत्त्यत्
तस्यैतस्यामूर्तस्यै तस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो
य एष एतस्मिन्मण्डले पुरुषस्तस्य ह्येष रस । इत्यधिदैवतम् ॥ ३॥
मन्त्र ४[II.iii.4]
अथाध्यात्ममिदमेव मूर्तं यदन्यत्प्राणाच्च यश्चायमन्तरात्मन्नाकाश
एतन्मर्त्यमेतत्स्थितमेतत्सत् तस्यैतस्य मूर्तस्यै तस्य
मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः सतो ह्येष
रसः ॥ ४॥
मन्त्र ५[II.iii.5]
अथामूर्तं प्राणश्च यश्चायमन्तरात्मन्नाकाश एतदमृतमेतद्यद्
एतत्त्यं तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष
रसो योऽयं दक्षिणेऽक्षन्पुरुषस्त्यस्य ह्येष रसः ॥ ५॥
मन्त्र ६[II.iii.6]
तस्य हैतस्य पुरुषस्य रूपम् । यथा माहारजनं वासो यथा पाण्ड्वाविकं
यथेन्द्रगोपो यथाऽग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्तꣳ ।
सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति य एवं वेदा थात आदेशो
नेति नेति न ह्येतस्मादिति नेत्यन्यत् परमस्त्यथ नामधेयꣳ सत्यस्य
सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ॥ ६॥
इति तृतीयं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ चतुर्थं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[II.iv.1]
मैत्रेयीति होवाच याज्ञवल्क्य उद्यास्यन्वा अरेऽहमस्मात्स्थानादस्मि ।
हन्त तेऽनया कात्यायन्याऽन्तं करवाणीति ॥ १॥
मन्त्र २[II.iv.2]
सा होवाच मैत्रेयी यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन
पूर्णा स्यात् कथं तेनामृता स्यामिति । नेति होवाच याज्ञवल्क्यो
यथैवोपकरणवतां जीवितं तथैव ते जीवितꣳ स्यादमृतत्वस्य
तु नाऽऽशाऽस्ति वित्तेनेति ॥ २॥
मन्त्र ३[II.iv.3]
सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्याम् । यदेव
भगवान्वेद तदेव मे ब्रूहीति ॥ ३॥
मन्त्र ४[II.iv.4]
स होवाच याज्ञवल्क्यः प्रिया बतारे नः सती प्रियं भाषस एह्यास्स्व
व्याख्यास्यामि ते । व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ ४॥
मन्त्र ५[II.iv.5]
स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय
पतिः प्रियो भवति । न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु
कामाय जाया प्रिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया
भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्य
कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति ।
न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय
ब्रह्म प्रियं भवति । न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं
भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति । न वा अरे लोकानां
कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति । न
वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया
भवन्ति । न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु
कामाय भूतानि प्रियाणि भवन्ति । न वा अरे सर्वस्य कामाय सर्वं प्रियं
भवत्यात्मनस्तु कामाय सर्वं प्रियं भवत्यात्मा वा अरे द्रष्टव्यः
श्रोतव्यो मन्तव्यो निदिध्यासितव्यो । मैत्रेय्यात्मनो वा अरे दर्शनेन
श्रवणेन मत्या विज्ञानेनेदꣳ सर्वं विदितम् ॥ ५॥
मन्त्र ६[II.iv.6]
ब्रह्म तं परादाद्योऽन्यत्राऽऽत्मनो ब्रह्म वेद क्षत्रं तं
परादाद्योऽन्यत्राऽऽत्मनः क्षत्रं वेद लोकास्तं परादुर्योऽन्यत्रात्मनो
लोकान्वेद देवास्तं परादुर्योऽन्यत्रात्मनो देवान्वेद भूतानि तं
परादुर्योऽन्यत्रात्मनो भूतानि वेद सर्वं तं परादाद् योऽन्यत्रात्मनः
सर्वं वेदेदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमानि भूतानीदꣳ
सर्वं यदयमात्मा ॥ ६॥
मन्त्र ७[II.iv.7]
स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद् ग्रहणाय
दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ ७॥
मन्त्र ८[II.iv.8]
स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद् ग्रहणाय
शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ ८॥
मन्त्र ९[II.iv.9]
स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद् ग्रहणाय
वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ ९॥
मन्त्र १०[II.iv.10]
स यथाऽऽर्द्रैधाग्नेरभ्याहितात्पृथग्धूमा विनिश्चरन्त्येवं
वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद् यदृग्वेदो यजुर्वेदः
सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः
सूत्राण्यनुव्याख्यानानि व्याख्यानान्य्सामवेदसथर्वाङ्गिरससितिहासस्पुराणं
विद्यासुपनिषदस्श्लोकास्सूत्राणि अनुव्याख्यानानि व्याख्याननि अस्यैवैतानि
निःश्वसितानि ॥ १०॥
मन्त्र ११[II.iv.11]
स यथा सर्वासामपाꣳ समुद्र एकायनमेवꣳ सर्वेषाꣳ
स्पर्शानां त्वगेकायनमेवꣳ सर्वेषां गन्धानां नासिकैकायनं
एवꣳ सर्वेषाꣳ रसानां जिह्वैकायनमेवꣳ सर्वेषाꣳ
रूपाणां चक्षुरेकायनमेवꣳ सर्वेषाꣳ शब्दानाꣳ
श्रोत्रमेकायनमेवꣳ सर्वेषाꣳ सङ्कल्पानां मन एकायनं
एवꣳ सर्वासां विद्यानाꣳ हृदयमेकायनमेवꣳ सर्वेषां
कर्मणाꣳ हस्तावेकायनमेवꣳ सर्वेषामानन्दानामुपस्थ एकायनं
एवꣳ सर्वेषां विसर्गाणां पायुरेकायनमेवꣳ सर्वेषामध्वनां
पादावेकायनमेवꣳ सर्वेषां वदानां वागेकायनम् ॥ ११॥
मन्त्र १२[II.iv.12]
स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयेत न
हास्योद्ग्रहणायेव न हास्योद्ग्रहणायैव स्याद् यतो यतस्त्वाददीत
लवणमेवैवं वा अर इदं महद् भूतमनन्तमपारं विज्ञानघन
एवैतेभ्यो भूतेभ्यः समुत्थाय एतेभ्यस्भूतेभ्यस्समुत्थाय
तान्येवानुविनश्यति न प्रेत्य सञ्ज्ञाऽस्तीत्यरे ब्रवीमीति होवाच
याज्ञवल्क्यः ॥ १२॥
मन्त्र १३[II.iv.13]
सा होवाच मैत्रेय्यत्रैव मा भगवानमूमुहद् न प्रेत्य सञ्ज्ञाऽस्तीति ।
स होवाच न वा अरेऽहं मोहं ब्रवीम्यलं वा अर इदं विज्ञानाय ॥ १३॥
मन्त्र १४[II.iv.14]
यत्र हि द्वैतमिव भवति तदितर इतरं जिघ्रति तदितर इतरं
पश्यति तदितर इतरꣳ शृणोति तदितर इतरमभिवदति तदितर
इतरं मनुते तदितर इतरं विजानाति । यत्र वा अस्य सर्वमात्मैवाभूत्
तत्केन कं जिघ्रेत् तत्केन कं पश्येत् तत्केन कꣳ शृणुयात् तत्केन
कमभिवदेत् तत्केन कं मन्वीत तत्केन कं विजानीयात् । येनेदꣳ
सर्वं विजानाति तं केन विजानीयाद् विज्ञातारमरे केन विजानीयादिति ॥ १४॥
इति चतुर्थं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ पञ्चमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[II.v.1]
इयं पृथिवी सर्वेषां भूतानां मध्वस्यै पृथिव्यै सर्वाणि
भूतानि मधु यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः
पुरुषो यश्चायमध्यात्मꣳ शारीरस्तेजोमयोऽमृतमयः पुरुषः
अमृतमयस्पुरुषसयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदꣳ
सर्वम् ॥ १॥
मन्त्र २[II.v.2]
इमा आपः सर्वेषां भूतानां मध्वसामपाꣳ सर्वाणि भूतानि मधु
यश्चायमास्वप्सु तेजोमयोऽमृतमयः पुरुषः यश्चायमध्यात्मꣳ
रैतसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतं
इदं ब्रह्मेदꣳ सर्वम् ॥ २॥
मन्त्र ३[II.v.3]
अयमग्निः सर्वेषां भूतानां मध्वस्याग्नेः सर्वाणि भूतानि मधु
यश्चायमस्मिन्नग्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं
वाङ्मयस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतं
इदं ब्रह्मेदꣳ सर्वम् ॥ ३॥
मन्त्र ४[II.v.4]
अयं वायुः सर्वेषां भूतानां मध्वस्य वायोः सर्वाणि भूतानि मधु
यश्चायमस्मिन्वायौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं
प्राणस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतम्।
इदं ब्रह्मेदꣳ सर्वम् ॥ ४॥
मन्त्र ५[II.v.5]
अयमादित्यः सर्वेषां भूतानां मध्वस्याऽऽदित्यस्य सर्वाणि
भूतानि मधु यश्चायमस्मिन्नादित्ये तेजोमयोऽमृतमयः पुरुषो
यश्चायमध्यात्मं चाक्षुषस्तेजोमयोऽमृतमयः पुरुषोऽयमेव
स योऽयमात्मेदममृतमिदं ब्रह्मेदꣳ सर्वम् ॥ ५॥
मन्त्र ६[II.v.6]
इमा दिशः सर्वेषां भूतानां मध्वासां दिशाꣳ सर्वाणि भूतानि मधु
यश्चायमासु दिक्षु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मꣳ
श्रौत्रः प्रातिश्रुत्कस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स
योऽयमात्मेदममृतमिदं ब्रह्मेदꣳ सर्वम् ॥ ६॥
मन्त्र ७[II.v.7]
अयं चन्द्रः सर्वेषां भूतानां मध्वस्य चन्द्रस्य सर्वाणि
भूतानि मधु यश्चायमस्मिंश्चन्द्रे तेजोमयोऽमृतमयः पुरुषो
यश्चायमध्यात्मं मानसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स
योऽयमात्मेदममृतमिदं ब्रह्मेदꣳ सर्वम् ॥ ७॥
मन्त्र ८[II.v.8]
इयं विद्युत्सर्वेषां भूतानं मध्वस्यै विद्युतः सर्वाणि भूतानि मधु
यश्चायमस्यां विद्युति तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं
तैजसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतं
इदं ब्रह्मेदꣳ सर्वम् ॥ ८॥
मन्त्र ९[II.v.9]
अयꣳ स्तनयित्नुः सर्वेषां भूतानां मध्वस्य स्तनयित्नोः सर्वाणि
भूतानि मधु यश्चायमस्मिन्स्तनयित्नौ तेजोमयोऽमृतमयः पुरुषो
यश्चायमध्यात्मꣳ शाब्दः सौवरस्तेजोमयोऽमृतमयः पुरुषो
ऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदꣳ सर्वम् ॥ ९॥
मन्त्र १०[II.v.10]
अयमाकाशः सर्वेषां भूतानां मध्वस्याऽऽकाशस्य सर्वाणि
भूतानि मधु यश्चायमस्मिन्नाकाशे तेजोमयोऽमृतमयः पुरुषो
यश्चायमध्यात्मꣳ हृद्याकाशस्तेजोमयोऽमृतमयः पुरुषः
ऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदꣳ सर्वम् ॥ १०॥
मन्त्र ११[II.v.11]
अयं धर्मः सर्वेषां भूतानां मध्वस्य धर्मस्य सर्वाणि भूतानि मधु
यश्चायमस्मिन्धर्मे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं
धार्मस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतं
इदं ब्रह्मेदꣳ सर्वम् ॥ ११॥
मन्त्र १२[II.v.12]
इदꣳ सत्यꣳ सर्वेषां भूतानां मध्वस्य सत्यस्य सर्वाणि
भूतानि मधु यश्चायमस्मिन्सत्ये तेजोमयोऽमृतमयः पुरुषो
यश्चायमध्यात्मꣳ सात्यस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स
योऽयमात्मेदममृतमिदं ब्रह्मेदꣳ सर्वम् ॥ १२॥
मन्त्र १३[II.v.13]
इदं मानुषꣳ सर्वेषां भूतानां मध्वस्य मानुषस्य सर्वाणि
भूतानि मधु यश्चायमस्मिन्मानुषे तेजोमयोऽमृतमयः पुरुषो
यश्चायमध्यात्मं मानुषस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स
योऽयमात्मेदममृतमिदं ब्रह्मेदꣳ सर्वम् ॥ १३॥
मन्त्र १४[II.v.14]
अयमात्मा सर्वेषां भूतानां मध्वस्याऽऽत्मनः सर्वाणि भूतानि मधु
यश्चायमस्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषो यश्चायमात्मा
तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं
ब्रह्मेदꣳ सर्वम् ॥ १४॥
मन्त्र १५[II.v.15]
स वा अयमात्मा सर्वेषां भूतानामधिपतिः सर्वेषां भूतानाꣳ
राजा । तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिता
एवमेवास्मिन्नात्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः
सर्व एत आत्मानः समर्पिताः ॥ १५॥
मन्त्र १६[II.v.16]
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । उवाच
तदेतदृषिः पश्यन्नवोचत् । तद्वां नरा सनये दꣳस उग्रं
आविष्कृणोमि तन्यतुर्न वृष्टिम् । दध्यङ् ह यन्मध्वाथर्वणो वां
अश्वस्य शीर्ष्णा प्र यदीमुवाचेति ॥ १६॥
मन्त्र १७[II.v.17]
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः
पश्यन्नवोचत् । आथर्वणायाश्विनौ दधीचेऽश्व्यꣳ शिरः
प्रत्यैरयतम् । स वां मधु प्रवोचदृतायन् त्वाष्ट्रं यद् दस्रावपि
कक्ष्यं वामिति ॥ १७॥
मन्त्र १८[II.v.18]
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः
पश्यन्नवोचत् पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः । पुरः
स पक्षी भूत्वा पुरः पुरुष आविशदिति । स वा अयं पुरुषः सर्वासु
पूर्षु पुरिशयो नैनेन किंचनानावृतं नैनेन किंचनासंवृतम् ॥ १८॥
मन्त्र १९[II.v.19]
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः
पश्यन्नवोचत् । रूपꣳरूपं प्रतिरूपो बभूव तदस्य रूपं
प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः
शता दशेतिययं वै हरयोऽयं वै दश च सहस्रणि बहूनि
चानन्तानि च । तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा
ब्रह्म सर्वानुभूरित्यनुशासनम् ॥ १९॥
इति पञ्चमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ षष्ठं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[II.vi.1]
अथ वꣳशः पौतिमाष्यो गौपवनाद् गौपवनः पौतिमाष्यात्
पौतिमाष्यो गौपवनाद् गौपवनः कौशिकात् कौशिकः कौण्डिन्यात्
कौण्डिन्यः शाण्डिल्याच्छाण्डिल्यः कौशिकाच्च गौतमाच्च गौतमः ॥ १॥
मन्त्र २[II.vi.2]
आग्निवेश्यादग्निवेश्यः शाण्डिल्याच्चानभिम्लाताच्चानभिम्लात
आनभिम्लातादनभिम्लात अनभिम्लातादनभिम्लातो गौतमाद् गौतमः
सैतवप्राचीनयोग्याभ्याꣳ, सैतवप्राचीनयोग्यौ पाराशर्यात्
पाराशर्यो भारद्वाजाद् भारद्वाजो भारद्वाजाच्च गौतमाच्च
गौतमो भारद्वाजाद् भारद्वाजः पाराशर्यात् पाराशर्यो वैजवापायनाद्
वैजवापायनः कौशिकायनेः कौशिकायनिः ॥ २॥
मन्त्र ३[II.vi.3]
घृतकौशिकाद् घृतकौशिकः पाराशर्यायणात् पारशर्यायणः
पाराशर्यात् पाराशर्यो जातूकर्ण्याज् जातूकर्ण्य आसुरायणाच्च यास्काच्च्-
ऽऽसुरायणस्त्रैवणेस्त्रैवणिरौपजन्धनेरौपजन्धनिरासुरासुरिर्भारद्वाजाद्
भारद्वाज आत्रेयादत्रेयो माण्टेर्माण्टिर्गौतमाद् गौतमो गौतमाद् गौतमो
वात्स्याद् वात्स्यः शाण्डिल्याच्छाण्डिल्यः कैशोर्यात्काप्यात् कैशोर्यः
काप्यः कुमारहारितात् कुमारहारितो गालवाद् गालवो विदर्भीकौण्डिन्याद्
विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवाद् वत्सनपाद्बाभ्रवः
पथः सौभरात् पन्थाः सौभरोऽयास्यादाङ्गिरसादयास्य
आङ्गिरस आभूतेस्त्वाष्ट्रादाभूतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्राद्
विश्वरूपस्त्वाष्ट्रोऽश्विभ्यामश्विनौ दधीच आथर्वणाद्
दध्यङ्ङाथर्वणोऽथर्वणो दैवादथर्वा दैवो मृत्योः
प्राध्वꣳसनान् मृत्युः प्राध्वꣳसनः प्रध्वꣳसनात्
प्रध्वꣳसन एकर्षेः एकर्षिर्विप्रचित्तेर्विप्रचित्तिर्व्यष्टेर्व्यष्टिः
सनारोः सनारुः सनातनात् सनातनः सनगात् सनगः परमेष्ठिनः
परमेष्ठी ब्रह्मणो ब्रह्म स्वयम्भु ब्रह्मणे नमः ॥ ३॥
इति षष्ठं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
॥ इति बृहदारण्यकोपनिषदि द्वितीयोऽध्यायः ॥
अथ तृतीयोध्यायः ॥
अथ प्रथमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १ [III.i.1]
ॐ जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे । तत्र ह कुरुपञ्चालानां
ब्राह्मणा अभिसमेता बभूवुस्तस्य ह जनकस्य वैदेहस्य विजिज्ञासा
बभूव कः स्विदेषां ब्राह्मणानामनूचानतम इति । स ह गवाꣳ
सहस्रमवरुरोध दशदश पादा एकैकस्याः शृङ्गयोराबद्धा बभूवुः ॥ १॥
मन्त्र २ [III.i.2]
तान्होवाच ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठः स एता गा
उदजतामिति । ते ह ब्राह्मणा न दधृषुरथ ह याज्ञवल्क्यः स्वमेव
ब्रह्मचारिणमुवाचैताः सौम्योदज सामश्रवा३ इति । ता होदाचकार ।
ते ह ब्राह्मणाश्चुक्रुधुः कथं नु नो ब्रह्मिष्ठो ब्रुवीतेत्यथ ह
जनकस्य वैदेहस्य होताऽश्वलो बभूव । स हैनं पप्रच्छ त्वं
नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठोऽसी३ इति । स होवाच नमो वयं
ब्रह्मिष्ठाय कुर्मो गोकामा एव वयꣳ स्म इति । तꣳ ह तत एव
प्रष्टुं दध्रे होताऽश्वलः ॥ २॥
मन्त्र ३ [III.i.3]
याज्ञवल्क्येति होवाच यदिदꣳ सर्वं मृत्युनाऽऽप्तꣳ, सर्वं
मृत्युनाऽभिपन्नं केन यजमानो मृत्योराप्तिमतिमुच्यत इति ।
होत्रर्त्विजाऽइना वाचा वाग्वै यज्ञस्य होता । तद्येयं वाक् सोऽयमग्निः
स होता सा मुक्तिः साऽतिमुक्तिः ॥ ३॥
मन्त्र ४ [III.i.4]
याज्ञवल्क्येति होवाच यदिदꣳ सर्वमहोरात्राभ्यामाप्तꣳ,
सर्वमहोरात्राभ्यामभिपन्नं केन यजमानोऽहोरात्रयोराप्तिमतिमुच्यत
इत्यध्वर्युणर्त्विजा चक्षुषाऽऽदित्येन चक्षुर्वै
यज्ञस्याध्वर्युस्तद्यदिदं चक्षुः सोऽसावादित्यः सोऽध्वर्युः सा
मुक्तिः साऽतिमुक्तिः ॥ ४॥
मन्त्र ५ [III.i.5]
याज्ञवल्क्येति होवाच यदिदꣳ सर्वं
पूर्वपक्षापरपक्षाभ्यामाप्तꣳ, सर्वं
पूर्वपक्षापरपक्षाभ्यामभिपन्नं केन यजमानः
पूर्वपक्षापरपक्षयोराप्तिमतिमुच्यत इत्युद्गात्रर्त्विजा वायुना प्राणेन
प्राणो वै यज्ञस्योद्गाता । तद्योऽयं प्राणः स वायुः स उद्गाता सा मुक्तिः
साऽतिमुक्तिः ॥ ५॥
मन्त्र ६ [III.i.6]
याज्ञवल्क्येति होवाच यदिदमन्तरिक्षमनारम्बणमिव केनाऽऽक्रमेन
यजमानः स्वर्गं लोकमाक्रमत इति ब्रह्मणर्त्विजा मनसा चन्द्रेण
मनो वै यज्ञस्य ब्रह्मा । तद्यदिदं मनः सोऽसौ चन्द्रः स ब्रह्मा
सा मुक्तिः सातिमुक्तिरित्यतिमोक्षा अथ सम्पदः ॥ ६॥
मन्त्र ७ [III.i.7]
याज्ञवल्क्येति होवाच कतिभिरयमद्यर्ग्भिर्होतास्मिन्यज्ञे करिष्यतीति ।
तिसृभिरिति । कतमास्तास्तिस्र इति । पुरोनुवाक्या च याज्या च शस्यैव
तृतीया । किं ताभिर्जयतीति । यत् किञ्चेदं प्राणभृदिति ॥ ७॥
मन्त्र ८ [III.i.8]
याज्ञवल्क्येति होवाच कत्ययमद्याध्वर्युरस्मिन्यज्ञ आहुतीर्होष्यतीति ।
तिस्र इति । कतमास्तास्तिस्र इति । या हुता उज्ज्वलन्ति या हुता अतिनेदन्ते या
हुता अधिशेरते । किं ताभिर्जयतीति । या हुता उज्ज्वलन्ति देवलोकमेव
ताभिर्जयति दीप्यत इव हि देवलोको । या हुता अतिनेदन्ते पितृलोकमेव
ताभिर्जयत्यतीव हि पितृलोको । या हुता अधिशेरते मनुष्यलोकमेव
ताभिर्जयत्यध इव हि मनुष्यलोकः ॥ ८॥
मन्त्र ९ [III.i.9]
याज्ञवल्क्येति होवाच कतिभिरयमद्य ब्रह्मा यज्ञं दक्षिणतो
देवताभिर्गोपायतीत्येकयेति । कतमा सैकेति । मन एवेत्यनन्तं वै
मनो ंअन्ता विश्वे देवा अनन्तमेव स तेन लोकं जयति ॥ ९॥
मन्त्र १० [III.i.10]
याज्ञवल्क्येति होवाच कत्ययमद्योद्गाताऽस्मिन्यज्ञे स्तोत्रियाः स्तोष्यतीति ।
तिस्र इति । कतमास्तास्तिस्र इति । पुरोनुवाक्या च याज्या च शस्यैव
तृतीया कतमास्ता या अध्यात्ममिति । प्राण एव पुरोनुवाक्याऽपानो याज्या
व्यानः शस्या । किं ताभिर्जयतीति । पृथिवीलोकमेव पुरोनुवाक्यया
जयत्यन्तरिक्षलोकं याज्यया द्युलोकꣳ शस्यया ततो ह होताऽश्वल
उपरराम ॥ १०॥
इति प्रथमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ द्वितीयं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[III.ii.1]
अथ हैनं जारत्कारव आर्तभागः पप्रच्छ । याज्ञवल्क्येति होवाच
कति ग्रहाः कत्यतिग्रहा इत्यष्टौ ग्रहा अष्टावतिग्रहा इति ये तेऽष्टौ
ग्रहा अष्टावतिग्रहाः कतमे त इति ॥ १॥
मन्त्र २[III.ii.2]
प्राणो वै ग्रहः । सोऽपानेनातिग्राहेण गृहीतोऽपानेन हि
गन्धाञ्जिघ्रति ॥ २॥
मन्त्र ३[III.ii.3]
वाग्वै ग्रहः । स नाम्नातिग्राहेण गृहीतो वाचा हि नामान्यभिवदति ॥ ३॥
मन्त्र ४[III.ii.4]
जिह्वा वै ग्रहः । स रसेनातिग्राहेण गृहीतो जिह्वया हि रसान्विजानाति ॥ ४॥
मन्त्र ५[III.ii.5]
चक्षुर्वै ग्रहः । स रूपेणातिग्राहेण गृहीतश्चक्षुषा हि रूपाणि
पश्यति ॥ ५॥
मन्त्र ६[III.ii.6]
श्रोत्रं वै ग्रहः । स शब्देनातिग्राहेण गृहीतः श्रोत्रेण हि
शब्दाञ्शृणोति ।
मन्त्र ७[III.ii.7]
मनो वै ग्रहः । स कामेनातिग्राहेण गृहीतो मनसा हि कामान्कामयते ॥ ७॥
मन्त्र ८[III.ii.8]
हस्तौ वै ग्रहः । स कर्मणाऽतिग्राहेण गृहीतो हस्ताभ्याꣳ हि
कर्म करोति ॥ ८॥
मन्त्र ९[II.ii.9]
त्वग्वै ग्रहः । स स्पर्शेनातिग्राहेण गृहीतस्त्वचा हि स्पर्शान्वेदयत ।
इत्येतेऽष्टौ ग्रहा अष्टावतिग्रहाः ॥ ९॥
मन्त्र १०[III.ii.10]
याज्ञवल्क्येति होवाच यदिदꣳ सर्वं मृत्योरन्नं का स्वित्सा देवता
यस्या मृत्युरन्नमित्यग्निर्वै मृत्युः सोऽपामन्नमप पुनर्मृत्युं
जयति ॥ १०॥
मन्त्र ११[III.ii.11]
याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियत उदस्मात्प्राणाः
क्रामन्त्यहो३ नेति नेति होवाच याज्ञवल्क्योऽत्रैव समवनीयन्ते स
उच्छ्वयत्याध्मायति आध्मातो मृतः शेते ॥ ११॥
मन्त्र १२[III.ii.12]
याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियते किमेनं न जहातीति ।
नामेत्यनन्तं वै नामानन्ता विश्वे देवा अनन्तमेव स तेन लोकं जयति ॥ १२॥
मन्त्र १३[III.ii.13]
याज्ञवल्क्येति होवाच यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं
प्राणश्चक्षुरादित्यं मनश्चन्द्रं दिशः श्रोत्रं पृथिवीꣳ
शरीरमाकाशमात्मौषधीर्लोमानि वनस्पतीन्केशा अप्सु लोहितं च
रेतश्च निधीयते क्वायं तदा पुरुषो भवतीत्यहर सौम्य हस्तं
आर्तभागेति होवाऽऽचावामेवैतस्य वेदिष्यावो न नावेतत्सजन इति । तौ
होत्क्रम्य मन्त्रयां चक्राते तौ ह यदूचतुः कर्म हैव तदूचतुरथ
ह यत्प्रशꣳसतुः कर्म हैव तत् प्रशꣳसतुः पुण्यो वै पुण्येन
कर्मणा भवति पापः पापेनेति । ततो ह जारत्कारव आर्तभाग उपरराम ॥ १३॥
इति द्वितीयं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ तृतीयं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[III.iii.1]
अथ हैनं भुज्युर्लाह्यायनिः पप्रच्छ । याज्ञवल्क्येति
होवाच मद्रेषु चरकाः पर्यव्रजाम ते पतञ्चलस्य काप्यस्य
गृहानैम । तस्याऽऽसीद् दुहिता गन्धर्वगृहीता तमपृच्छाम
कोऽसीति । सोऽब्रवीत् सुधन्वाऽऽङ्गिरस इति । तं यदा
लोकानामन्तानपृच्छामाथैतदथैनमब्रूम क्व पारिक्षिता अभवन्निति
क्व पारिक्षिता अभवन् स त्वा पृच्छामि याज्ञवल्क्य क्व पारिक्षिता
अभवन्निति ॥ १॥
मन्त्र २[III.iii.2]
स होवाचोवाच वै सोऽगच्छन्वै ते तद् यत्राश्वमेधयाजिनो
गच्छन्तीति । क्व न्वश्वमेधयाजिनो गच्छन्तीति । द्वात्रिꣳशतं
वै देवरथाह्न्यान्ययं लोकस्तꣳ समन्तं पृथिवी द्विस्तावत्पर्येति
ताꣳ समन्तं पृथिवी द्विस्तावत्समुद्रः पर्येति । तद्यावती क्षुरस्य
धारा यावद्वा मक्षिकायाः पत्रं तावानन्तरेणाऽऽकाशस्तान् इन्द्रः
सुपर्णो भूत्वा वायवे प्रायच्छत् तान् वायुरात्मनि धित्वा तत्रागमयद्यत्र
अश्वमेधयाजिनोऽभवन्नित्येवमिव वै स वायुमेव प्रशशꣳस
तस्माद्वायुरेव व्यष्टिर्वायुः समष्टिरप पुनर्मृत्युं जयति य एवं
वेद । ततो ह भुज्युर्लाह्यायनिरुपरराम ॥ २॥
इति तृतीयं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ चतुर्थं ब्रह्मणम् ।
मन्त्र १[III.iv.1]
अथ हैनमूषस्तश्चाक्रायणः पप्रच्छ । याज्ञवल्क्येति होवाच
यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेत्येष त
आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरो । यः प्राणेन प्राणिति
स त आत्मा सर्वान्तरो योऽपानेनापानिति स त आत्मा सर्वान्तरो यो व्यानेन
व्यानिति स त आत्मा सर्वान्तरो य उदानेनोदानिति स त आत्मा सर्वान्तर
एष त आत्मा सर्वान्तरः ॥ १॥
मन्त्र २[III.iv.2]
स होवाचोषस्तश्चाक्रायणः यथा विब्रूयादसौ गौरसावश्व
इत्येवमेवैतद्व्यपदिष्टं भवति । यदेव साक्षादपरोक्षाद् ब्रह्म
य आत्मा सर्वान्तरः तं मे व्याचक्ष्वेति । एष त आत्मा सर्वान्तरः ।
कतमो याज्ञवल्क्य सर्वान्तरो । न दृष्टेर्द्रष्टारं पश्येर्न श्रुतेः
श्रोतारꣳ शृणुया न मतेर्मन्तारं मन्वीथा न विज्ञातेर्विज्ञातारं
विजानीया एष त आत्मा सर्वान्तरोऽतोऽन्यदार्तं ततो होषस्तस्चाक्रायण
उपरराम ॥ २॥
इति चतुर्थं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ पञ्चमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[III.v.1]
अथ हैनं कहोलः कौषीतकेयः पप्रच्छ पप्रच्छ याज्ञवल्क्येति
होवाच यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे
व्याचक्ष्वेत्येष त आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरो ।
योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येत्येतं वै तमात्मानं
विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च
व्युत्थायाथ भिक्षाचर्यं चरन्ति । या ह्येव पुत्रैषणा सा वित्तैषणा
या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतस्तस्माद्ब्राह्मणः
पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् । बाल्यं च पाण्डित्यं च
निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः । स
ब्राह्मणः केन स्याद् येन स्यात् तेनेदृश एवातोऽन्यदार्तम् । य एवं
वेद एवातोऽन्यदार्तम् । ततो ह कहोलः कौषीतकेय उपरराम ॥ १॥
इति पञ्चमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ षष्ठं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[III.vi.1]
अथ हैनं गार्गी वाचक्नवी पप्रच्छ याज्ञवल्क्येति होवाच
यदिदꣳ सर्वमप्स्वोतं च प्रोतं च कस्मिन्नु खल्वाप
ओताश्च प्रोताश्चेति । वायौ गार्गीति । कस्मिन्नु खलु वायुरोतश्च
प्रोतश्चेत्यन्तरिक्षलोकेषु गार्गीति । कस्मिन्नु खल्वन्तरिक्षलोका
ओताश्च प्रोताश्चेति । गन्धर्वलोकेषु गार्गीति । कस्मिन्नु गन्धर्वलोका
ओताश्च प्रोताश्चेत्यादित्यलोकेषु गार्गीति । कस्मिन् नु खल्वादित्यलोका
ओताश्च प्रोताश्चेति । चन्द्रलोकेषु गार्गीति । कस्मिन्नु खलु
चन्द्रलोका ओताश्च प्रोताश्चेति । नक्षत्रलोकेषु गार्गीति । कस्मिन्नु
खलु नक्षत्रलोका ओताश्च प्रोताश्चेति । देवलोकेषु गार्गीति ।
कस्मिन्नु खलु देवलोका ओताश्च प्रोताश्चेति इन्द्रलोकेषु गार्गीति ।
कस्मिन्नु खल्विन्द्रलोका ओताश्च प्रोताश्चेति । प्रजापतिलोकेषु
गार्गीति । कस्मिन्नु खलु प्रजापतिलोका ओताश्च प्रोताश्चेति ।
ब्रह्मलोकेषु गार्गीति । कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति ।
स होवाच गार्गि मातिप्राक्षीर्मा ते मूर्धा व्यपप्तदनतिप्रश्न्यां
वै देवतामतिपृच्छसि । गार्गि माऽतिप्राक्षीरिति । ततो ह गार्गी
वाचक्नव्युपरराम ॥ १॥
इति षष्ठं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ सप्तमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[III.vii.1]
अथ हैनमूद्दालक आरुणिः पप्रच्छ याज्ञवल्क्येति
होवाच मद्रेष्ववसाम पतञ्चलस्य काप्यस्य गृहेषु
यज्ञमधीयानास्तस्याऽऽसीद्भार्या गन्धर्वगृहीता । तमपृच्छाम
कोऽसीति । सोऽब्रवीत् कबन्ध आथर्वण इति । सोऽब्रवीत्पतञ्चलं
काप्यं याज्ञिकाꣳश्च वेत्थ नु त्वं काप्य तत्सूत्रं येनायं
च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि
भवन्तीति । सोऽब्रवीत्पतञ्चलः काप्यो नाहं तद् भगवन् वेदेति ।
सोऽब्रवीत् पतञ्चलं काप्यं याज्ञिकाꣳश्चः वेत्थ नु त्वं काप्य
तमन्तर्यामिणं य इमं च लोकं परं च लोकꣳ सर्वाणि च भूतानि
योऽन्तरो यमयतीति । सोऽब्रवीत् पतञ्चलः काप्यो नाहं तं भगवन्
वेदेति । सोऽब्रवीत् पतञ्चलं काप्यं याज्ञिकाꣳश्च यो वै तत्
काप्य सूत्रं विद्यात्तं चान्तर्यामिणमिति स ब्रह्मवित् स लोकवित् स
देववित् स वेदवित् स भूतवित् स आत्मवित् स सर्वविदिति तेभ्योऽब्रवीत्
तदहं वेद । तच्चेत्त्वं याज्ञवल्क्य सूत्रमविद्वाꣳस्तं
चान्तर्यामिणं ब्रह्मगवीरुदजसे मूर्धा ते विपतिष्यतीति । वेद वा अहं
गौतम तत्सूत्रं तं चान्तर्यामिणमिति । यो वा इदं कश्चिद्ब्रूयात् वेद
वेदेति । यथा वेत्थ तथा ब्रूहीति ॥ १॥
मन्त्र २[III.vii.2]
स होवाच वायुर्वै गौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायं
च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति ।
तस्माद्वै गौतम पुरुषं प्रेतमाहुर्व्यस्रꣳसिषतास्याङ्गानीति
वायुना हि गौतम सूत्रेण संदृब्धानि भवन्तीत्येवमेवैतद्
याज्ञवल्क्यान्तर्यामिणं ब्रूहीति ॥ २॥
मन्त्र ३[III.vii.3]
यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद
यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त
आत्माऽन्तर्याम्यमृतः ॥ ३॥
मन्त्र ४[III.vii.4]
योऽप्सु तिष्ठन्नद्भ्योऽन्तरो यमापो न विदुः यस्यापः शरीरं
योऽपोऽन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ ४॥
मन्त्र ५[III.vii.5]
योऽग्नौ तिष्ठन्नग्नेरन्तरो यमग्निर्न वेद यस्याग्निः शरीरं
योऽग्निमन्तरो यमयति एष त आत्मान्तर्याम्यमृतः ॥ ५॥
मन्त्र ६[III.vii.6]
योऽन्तरिक्षे तिष्ठन्नन्तरिक्षादन्तरो यमन्तरिक्षं न वेद
यस्यान्तरिक्षꣳ शरीरं योऽन्तरिक्षमन्तरो यमयत्येष त
आत्माऽन्तर्याम्यमृतः ॥ ६॥
मन्त्र ७[III.vii.7]
यो वायौ तिष्ठन्वायोरन्तरो यं वायुर्न वेद यस्य वायुः शरीरं यो
वायुमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ ७॥
मन्त्र ८[III.vii.8]
यो दिवि तिष्ठन्दिवोऽन्तरो यं द्यौर्न वेद यस्य द्यौः शरीरं यो
दिवमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ ८॥
मन्त्र ९[III.vii.9]
य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद यस्याऽऽदित्यः
शरीरं य आदित्यमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ ९॥
मन्त्र १०[III.vii.10]
यो दिक्षु तिष्ठन्दिग्भ्योऽन्तरो यं दिशो न विदुर्यस्य दिशः शरीरं
यो दिशोऽन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ १०॥
मन्त्र ११[III.vii.11]
यश्चन्द्रतारके तिष्ठꣳचन्द्रतारकादन्तरो यं चन्द्रतारकं
न वेद यस्य चन्द्रतारकꣳ शरीरं यश्चन्द्रतारकमन्तरो
यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ ११॥
मन्त्र १२[III.vii.12]
य आकाशे तिष्ठन्नाकाशादन्तरो यमाकाशो न वेद यस्याऽऽकाशः
शरीरं य आकाशमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ १२॥
मन्त्र १३[III.vii.13]
यस्तमसि तिष्ठꣳस्तमसोऽन्तरो यं तमो न वेद यस्य तमः
शरीरं यस्तमोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ १३॥
मन्त्र १४[III.vii.14]
यस्तेजसि तिष्ठꣳस्तेजसोऽन्तरो यं तेजो न वेद यस्य तेजः शरीरं
यस्तेजोऽन्तरो यमयत्य्स एष त आत्माऽन्तर्याम्यमृत इत्यधिदैवतं
अथाधिभूतम् ॥ १४॥
मन्त्र १५[III.vii.15]
यः सर्वेषु भूतेषु तिष्ठन्सर्वेभ्यो भूतेभ्योऽन्तरो यꣳ सर्वाणि
भूतानि न विदुर्यस्य सर्वाणि भुतानि शरीरं यः सर्वाणि भूतान्यन्तरो
यमयत्येष त आत्माऽन्तर्याम्यमृत इत्यधिभूतमथाध्यात्मम् ॥ १५॥
मन्त्र १६[III.vii.16]
यः प्राणे तिष्ठन्प्राणादन्तरो यं प्राणो न वेद यस्य प्राणः शरीरं
यः प्राणमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ १६॥
मन्त्र १७[III.vii.17]
यो वाचि तिष्ठन्वाचोऽन्तरो यं वाङ्न वेद यस्य वाक् शरीरं यो
वाचमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ १७॥
मन्त्र १८[III.vii.18]
यश्चक्षुषि तिष्ठꣳश्चक्षुषोऽन्तरो यं चक्षुर्न
वेद यस्य चक्षुः शरीरं यश्चक्षुरन्तरो यमयत्येष त
आत्माऽन्तर्याम्यमृतः ॥ १८॥
मन्त्र १९[III.vii.19]
यः श्रोत्रे तिष्ठञ्छ्रोत्रादन्तरो यꣳ श्रोत्रं न वेद
यस्य श्रोत्रꣳ शरीरं यः श्रोत्रमन्तरो यमयत्य्स एष त
आत्माऽन्तर्याम्यमृतः ॥ १९॥
मन्त्र २०[III.vii.20]
यो मनसि तिष्ठन्मनसोऽन्तरो यं मनो न वेद यस्य मनः शरीरं
यो मनोऽन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ २०॥
मन्त्र २१[III.vii.21]
यस्त्वचि तिष्ठꣳस्त्वचोऽन्तरो यं त्वङ्न वेद यस्य त्वक् शरीरं
यस्त्वचमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ २१॥
मन्त्र २२[III.vii.22]
यो विज्ञाने तिष्ठन्विज्ञानादन्तरो यꣳ विज्ञानं न वेद
यस्य विज्ञानꣳ शरीरं यो विज्ञानमन्तरो यमयत्येष त
आत्माऽन्तर्याम्यमृतः ॥ २२॥
मन्त्र २३[III.vii.23]
यो रेतसि तिष्ठन् रेतसोऽन्तरो यꣳ रेतो न वेद यस्य रेतः
शरीरं यो रेतोऽन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतोऽदृष्टो
द्रष्टाऽश्रुतः श्रोताऽमतो मन्ताऽविज्ञतो विज्ञाता । नान्योऽतोऽस्ति
द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति
विज्ञातैष त आत्माऽन्तर्याम्यमृतोऽतोऽन्यदार्तं ततो होद्दालक
आरुणिरुपरराम ॥ २३॥
इति सप्तमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ अष्टमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[III.viii.1]
अथ ह वाचक्नव्युवाच ब्राह्मणा भगवन्तो हन्ताहमिमं द्वौ
प्रश्नौ प्रक्ष्यामि तौ चेन्मे वक्ष्यति न वै जातु युष्माकमिमं
कश्चिद्ब्रह्मोद्यं जेतेति । पृच्छ गार्गीति ॥ १॥
मन्त्र २[III.viii.2]
सा होवाचाहं वै त्वा याज्ञवल्क्य यथा काश्यो वा वैदेहो वोग्रपुत्र
उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ सपत्नातिव्याधिनौ हस्ते
कृत्वोपोत्तिष्ठेदेवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यामुपोदस्थाम् ।
तौ मे ब्रूहीति । पृच्छ गार्गीति ॥ २॥
मन्त्र ३[III.viii.3]
सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा
द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते
कस्मिꣳस्तदोतं च प्रोतं चेति ॥ ३॥
मन्त्र ४[III.viii.4]
स होवाच यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या यदन्तरा
द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत
आकाशे तदोतं च प्रोतं चेति ॥ ४॥
मन्त्र ५[III.viii.5]
सा होवाच नमस्तेऽस्तु याज्ञवल्क्य यो म एतं व्यवोचोऽपरस्मै
धारयस्वेति । पृच्छ गार्गीति ॥ ५॥
मन्त्र ६[III.viii.6]
सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक् पृथिव्याः यदन्तरा
द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते
आचक्षते कस्मिꣳस्तदोतं च प्रोतं चेति ॥ ६॥
मन्त्र ७[III.viii.7]
स होवाच यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या यदन्तरा
द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत
आकाश एव तदोतं च प्रोतं चेति । कस्मिन्नु खल्वाकाश ओतश्च
प्रोतश्चेति ॥ ७॥
मन्त्र ८[III.viii.8]
स होवाचैतद्वै तदक्षरऽ गार्गि ब्राह्मणा
अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहमच्छायमतमो-
ऽवाय्वनाकाशमसङ्गं अचक्षुष्कमश्रोत्रमवाग्
अमनोऽतेजस्कमप्राणममुखममात्रं अनन्तरमबाह्यं न तदश्नाति
किं चन न तदश्नाति कश्चन ॥ ८॥
मन्त्र ९[III.viii.9]
एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ
तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ
विधृते तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गि
निमेषा मुहूर्ता अहोरात्राण्यर्धमासा मासा ऋतवः संवत्सरा इति
विधृतास्तिष्ठन्त्येतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या
नद्यः स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यां यां
च दिशमन्वेतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः
प्रशꣳसन्ति यजमानं देवा दर्वीं पितरोऽन्वायत्ताः ॥ ९॥
मन्त्र १०[III.viii.10]
यो वा एतदक्षरं गार्ग्यविदित्वाऽस्मिꣳल्लोके जुहोति यजते
तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति लोको भवति
यो वा एतदक्षरं गार्ग्यविदित्वाऽस्माल्लोकात्प्रैति स कृपणोऽथ य
एतदक्षरं गार्गि विदित्वाऽस्माल्लोकात्प्रैति स ब्राह्मणः ॥ १०॥
मन्त्र ११[III.viii.11]
तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्टृश्रुतꣳ श्रोत्त्रमतं
मन्त्रविज्ञातं विज्ञातृ नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति
श्रोतृ नान्यदतोऽस्ति मन्तृ नान्यदतोऽस्ति विज्ञात्त्रेतस्मिन्नु
खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति ॥ ११॥
मन्त्र १२[III.viii.12]
सा होवाच ब्राह्मणा भगवन्तस्तदेव बहु मन्येध्वं यदस्मान्नमस्कारेण
मुच्येध्वं न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति ततो ह
वाचक्नव्युपरराम ॥ १२॥
इत्यष्टमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ नवमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[III.ix.1]
अथ हैनं विदग्धः शाकल्यः पप्रच्छ कति देवा याज्ञवल्क्येति ।
स हैतयैव निविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविद्युच्यन्ते
त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेत्योमिति होवाच कत्येव
देवा याज्ञवल्क्येति । त्रयस्त्रिꣳशदित्योमिति होवाच । कत्येव देवा
याज्ञवल्क्येति । षडित्योमिति होवाच । कत्येव देवा याज्ञवल्क्येति ।
त्रय इत्योमिति होवाच । कत्येव देवा याज्ञवल्क्येत्य्द्वावित्योमिति होवाच ।
कत्येव देवा याज्ञवल्क्येत्यध्यर्ध इत्योमिति होवाच । कत्येव देवा
याज्ञवल्क्येत्येक इत्योमिति होवाच । कतमे ते त्रयश्च त्री च शता
त्रयश्च त्री च सहस्रेति ॥ १ ॥
मन्त्र २[III.ix.2]
स होवाच महिमान एवैषामेते त्रयस्त्रिꣳशत्त्वेव देवा इति कतमे
ते त्रयस्त्रिꣳशदित्यष्टौ वसव एकादश रुद्रा द्वादशाऽऽदित्यास्ते
एकत्रिꣳशदिन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिꣳशाविति ॥ २॥
मन्त्र ३[III.ix.3]
कतमे वसव इत्यग्निश्च पृथिवी च वायुश्चान्तरिक्षं
चाऽऽदित्यश्च द्यौश्च चन्द्रमाश्च नक्षत्राणि चैते वसव
एतेषु हीदं वसु सर्वꣳ हितमिति तस्माद्वसव इति ॥ ३॥
मन्त्र ४[III.ix.4]
कतमे रुद्रा इति । दशेमे पुरुषे प्राणा आत्मैकादशस्ते
यदाऽस्माच्छरीरान्मर्त्यादुत्क्रामन्त्यथ रोदयन्ति तद्यद्रोदयन्ति
तस्माद्रुद्रा इति ॥ ४॥
मन्त्र ५[III.ix.5]
कतम आदित्या इति । द्वादश वै मासाः संवत्सरस्यैत आदित्या एते
हीदꣳ सर्वमाददाना यन्ति ते यदिदꣳ सर्वमाददाना यन्ति
तस्मादादित्या इति ॥ ५॥
मन्त्र ६[III.ix.6]
कतम इन्द्रः कतमः प्रजापतिरिति । स्तनयित्नुरेवेन्द्रो यज्ञः
प्रजापतिरिति । कतमः स्तनयित्नुरित्यशनिरिति । कतमो यज्ञ इति ।
पशव इति ॥ ६॥
मन्त्र ७[III.ix.7]
कतमे षडित्यग्निश्च पृथिवी च वायुश्चान्तरिक्षं
चाऽऽदित्यश्च द्यौश्चैते षड् एते हीदꣳ सर्वं षडिति ॥ ७॥
मन्त्र ८[III.ix.8]
कतमे ते त्रयो देवा इति इम एव त्रयो लोका एषु हीमे सर्वे देवा इति ।
कतमौ तौ द्वौ देवावित्यन्नं चैव प्राणश्चेति । कतमोऽध्यर्ध
इति । योऽयं पवत इति ॥ ८॥
मन्त्र ९[III.ix.9]
तदाहुर्यदयमेक एव एक इवैव पवते ।आथ कथमध्यर्ध इति ।
यदस्मिन्निदꣳ सर्वमध्यार्ध्नोत् तेनाध्यर्ध इति । कतम एको देव
इति । प्राण इति स ब्रह्म त्यदित्याचक्षते ॥ ९॥
मन्त्र १०[III.ix.10]
पृथिव्येव यस्याऽऽयतनमग्निर्लोको मनो ज्योतिर्यो वै तं पुरुषं
विद्यात्सर्वस्याऽऽत्मनः परायणꣳ, परायणं स वै वेदिता स्याद्
याज्ञवल्क्य । वेद वा अहं तं पुरुषꣳ सर्वस्याऽऽत्मनः परायणं
यमात्थ य एवायꣳ शारीरः पुरुषः स एष । वदैव शाकल्य
तस्य का देवतेत्यमृतमिति होवाच ॥ १०॥
मन्त्र ११[III.ix.11]
काम एव यस्याऽऽयतनꣳ हृदयं लोको मनो ज्योतिर्यो वै तं
पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणꣳ, स वै वेदिता स्याद्
याज्ञवल्क्य । वेद वा अहं तं पुरुषꣳ सर्वस्याऽऽत्मनः परायणं
यमात्थ य एवायं काममयः पुरुषः स एष वदैव शाकल्य तस्य का
देवतेति । स्त्रिय इति होवाच ॥ ११॥
मन्त्र १२[III.ix.12]
रूपाण्येव यस्याऽऽयतनं चक्षुर्लोको मनो ज्योतिर्यो वै तं पुरुषं
विद्यात्सर्वस्याऽऽत्मनः परायणꣳ, स वै वेदिता स्याद् याज्ञवल्क्य ।
वेद वा अहं तं पुरुषꣳ सर्वस्याऽऽत्मनः परायणं यमात्थ
य एवासावादित्ये पुरुषः स एष वदैव शाकल्य तस्य का देवतेति ।
सत्यमिति होवाच ॥ १२॥
मन्त्र १३[III.ix.13]
आकाश एव यस्याऽऽयतनꣳ श्रोत्रं लोको मनो ज्योतिर्यो वै तं
पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणꣳ, स वै वेदिता स्याद्
याज्ञवल्क्य । वेद वा अहं तं पुरुषꣳ सर्वस्याऽऽत्मनः परायणं
यमात्थ य एवायꣳ श्रौत्रः प्रातिश्रुत्कः पुरुषः स एष वदैव
शाकल्य तस्य का देवतेति । दिश इति होवाच ॥ १३॥
मन्त्र १४[III.ix.14]
तम एव यस्याऽऽयतनꣳ हृदयं लोको मनो ज्योतिर्यो वै तं
पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणꣳ, स वै वेदिता स्याद्
याज्ञवल्क्य । वेद वा अहं तं पुरुषꣳ सर्वस्याऽऽत्मनः परायणं
यमात्थ य एवायं छायामयः पुरुषः स एष वदैव शाकल्य तस्य
का देवतेति । मृत्युरिति होवाच ॥ १४॥
मन्त्र १५[III.ix.15]
रूपाण्येव यस्याऽऽयतनं चक्षुर्लोको मनो ज्योतिर्यो वै तं पुरुषं
विद्यात्सर्वस्याऽऽत्मनः परायणꣳ, परायणं स वै वेदिता स्याद्
याज्ञवल्क्य । वेद वा अहं तं पुरुषꣳ सर्वस्याऽऽत्मनः परायणं
यमात्थ य एवायमादर्शे पुरुषः स एष वदैव शाकल्य तस्य का
देवतेत्यसुरिति होवाच ॥ १५॥
मन्त्र १६[III.ix.16]
आप एव यस्याऽऽयतनꣳ हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं
विद्यात्सर्वस्याऽऽत्मनः परायणꣳ, परायणं स वै वेदिता स्याद्
याज्ञवल्क्य । वेद वा अहं तं पुरुषꣳ सर्वस्याऽऽत्मनः परायणं
यमात्थ य एवायमप्सु पुरुषः स एष वदैव शाकल्य तस्य का देवतेति ।
वरुण इति होवाच ॥ १६॥
मन्त्र १७[III.ix.17]
रेत एव यस्याऽऽयतनꣳ हृदयं लोको मनो ज्योतिर्यो वै तं
पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणꣳ, स वै वेदिता स्याद्
याज्ञवल्क्य । वेद वा अहं तं पुरुषꣳ सर्वस्याऽऽत्मनः परायणं
यमात्थ य एवायं पुत्रमयः पुरुषः स एष वदैव शाकल्य तस्य
का देवतेति । प्रजापतिरिति होवाच ॥ १७॥
मन्त्र १८[III.ix.18]
शाकल्येति होवाच याज्ञवल्क्यस्त्वाꣳ स्विदिमे ब्राह्मणा
अङ्गारावक्षयणमक्रता३ इति ॥ १८॥
मन्त्र १९[III.ix.19]
याज्ञवल्क्येति होवाच शाकल्यो यदिदं कुरुपञ्चालानां
ब्राह्मणानत्यवादीः किं ब्रह्म विद्वानिति । दिशो वेद सदेवाः सप्रतिष्ठा
इति । यद्दिशो वेत्थ सदेवाः सप्रतिष्ठाः ॥ १९॥
मन्त्र २०[III.ix.20]
किन्देवतोऽस्यां प्राच्यां दिश्यसीत्यादित्यदेवत इति । स
आदित्यः कस्मिन्प्रतिष्ठित इति । चक्षुषीति । कस्मिन्नु चक्षुः
प्रतिष्ठितमिति । रूपेष्विति चक्षुषा हि रूपाणि पश्यति । कस्मिन्नु
रूपाणि प्रतिष्ठितानीति । हृदय इति होवाच हृदयेन हि रूपाणि जानाति
हृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्तीत्येवमेवैतद् याज्ञवल्क्य ॥ २०॥
मन्त्र २१[III.ix.21]
किन्देवतोऽस्यां दक्षिणायां दिश्यसीति । यमदेवत इति । स यमः
कस्मिन्प्रतिष्ठित इति । यज्ञ इति । कस्मिन्नु यज्ञः प्रतिष्ठित इति।
दक्षिणायामिति । कस्मिन्नु दक्षिणा प्रतिष्ठितेति श्रद्धायामिति यदा
ह्येव श्रद्धत्तेऽथ दक्षिणां ददाति श्रद्धायाꣳ ह्येव दक्षिणा
प्रतिष्ठितेति कस्मिन्नु श्रद्धा प्रतिष्ठितेति हृदय इति होवाच
हृदयेन हि श्रद्धां जानाति हृदये ह्येव श्रद्धा प्रतिष्ठिता
भवतीत्येवमेवैतद् याज्ञवल्क्य ॥ २१॥
मन्त्र २२[III.ix.22]
किन्देवतोऽस्यां प्रतीच्यां दिश्यसीति । वरुणदेवत इति । स वरुणः
कस्मिन् प्रतिष्ठित इत्यप्स्विति । कस्मिन्न्वापः प्रतिष्ठितेति रेतसीति ।
कस्मिन्नु रेतः प्रतिष्ठितेति इति हृदय इति तस्मादपि प्रतिरूपं
जातमाहुर्हृदयादिव सृप्तो हृदयादिव निर्मित इति हृदये ह्येव
रेतः प्रतिष्ठितं भवतीत्येवमेवैतद् याज्ञवल्क्य ॥ २२॥
मन्त्र २३[III.ix.23]
किन्देवतोऽस्यामुदीच्यां दिश्यसीति । सोमदेवत इति । स सोमः
कस्मिन्प्रतिष्ठित इति । दीक्षायामिति । कस्मिन्नु दीक्षा प्रतिष्ठितेति
सत्य इति तस्मादपि दीक्षितमाहुः सत्यं वदेति सत्ये ह्येव दीक्षा
प्रतिष्ठितेति कस्मिन्नु सत्यं प्रतिष्ठितमिति हृदय इति होवाच
हृदयेन हि सत्यं जानाति हृदये ह्येव सत्यं प्रतिष्ठितं
भवतीत्येवमेवैतद् याज्ञवल्क्य ॥ २३॥
मन्त्र २४[III.ix.24]
किन्देवतोऽस्यां ध्रुवायां दिश्यसीत्यग्निदेवत इति । सोऽग्निः
कस्मिन्प्रतिष्ठित इति वाचीति । कस्मिन्नु वाक्प्रतिष्ठितेति हृदय इति ।
कस्मिन्नु हृदयं प्रतिष्ठितमिति
मन्त्र २५[III.ix.25]
अहल्लिकेति होवाच याज्ञवल्क्यो यत्रैतदन्यत्रास्मन्मन्यासै ।
यद्ध्येतदन्यत्रास्मत्स्याच्छ्वानो वैनदद्युर्वयाꣳसि
वैनद्विमथ्नीरन्निति ॥ २५॥
मन्त्र २६[III.ix.26]
कस्मिन्नु त्वं चात्मा च प्रतिष्ठितौ स्थ इति । प्राण इति । कस्मिन्नु
प्राणः प्रतिष्ठित इत्यपान इति । कस्मिन्न्वपानः प्रतिष्ठित इति ।
व्यान इति । कस्मिन्नु व्यानः प्रतिष्ठित इत्युदान इति । कस्मिन्नूदानः
प्रतिष्ठित इति । समान इति । स एष नेति नेत्यात्माऽगृह्यो न
हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो
न व्यथते न रिष्यत्येतान्यष्टावायतनान्यष्टौ लोका अष्टौ देवा
अष्टौ पुरुषाः । स यस्तान्पुरुषान्निरुह्य प्रत्युह्यात्यक्रामत् तं
त्वौपनिषदं पुरुषं पृच्छामि । तं चेन्मे न विवक्ष्यसि मूर्धा
ते विपतिष्यतीति । तꣳ ह न मेने शाकल्यस्तस्य ह मूर्धा विपपात
अपि हास्य परिमोषिणोऽस्थीन्यपजह्रुरन्यन्मन्यमानाः ॥ २६॥
मन्त्र २७[III.ix.27]
अथ होवाच ब्राह्मणा भगवन्तो यो वः कामयते स मा पृच्छतु
सर्वे वा मा पृच्छत यो वः कामयते तं वः पृच्छामि सर्वान्वा
वः पृच्छामीति । ते ह ब्राह्मणा न दधृषुः ॥ २७॥
मन्त्र २८[III.ix.28]
तान्हैतैः श्लोकैः पप्रच्छ यथा वृक्षो वनस्पतिस्तथैव
पुरुषोऽमृषा तस्य लोमानि पर्णानि त्वगस्योत्पाटिका बहिः ॥ १॥ त्वच
एवास्य रुधिरं प्रस्यन्दि त्वच उत्पटः तस्मात्तदतृण्णात्प्रैति रसो
वृक्षादिवाऽऽहतात् ॥ २॥ माꣳसान्यस्य शकराणि किनाटꣳ
स्नाव तत्स्थिरम् । अस्थीन्यन्तरतो दारूणि मज्जा मज्जोपमा कृता ॥ ३॥
यद्वृक्षो वृक्णो रोहति मूलान्नवतरः पुनः मर्त्यः
स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥ ४॥ रेतस इति मा
वोचत जीवतस्तत्प्रजायते धानारुह इव वै वृक्षोऽञ्जसा प्रेत्य
सम्भवः ॥ ५॥ यत्समूलमावृहेयुर्वृक्षं न पुनराभवेत् । मर्त्यः
स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥ ६॥ जात एव न जायते
को न्वेनं जनयेत्पुनः विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणं
तिष्ठमानस्य तद्विद इति ॥ ७॥ ॥ २८ ॥
इति नवमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
॥ इति बृहदारण्यकोपनिषदि तृतीयोऽध्यायः ॥
अथ चतुर्थोऽध्यायः ।
अथ प्रथमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १ [IV.i.1]
ॐ जनको ह वैदेह आसां चक्रेऽथ ह याज्ञवल्क्य आवव्राज । तꣳ
होवाच याज्ञवल्क्य किमर्थमचारीः पशूनिच्छन्नण्वन्तानित्युभयमेव
सम्राड् इति होवाच ॥ १॥
मन्त्र २[IV.i.2]
यत्ते कश्चिदब्रवीत् तच्छृणवामेत्यब्रवीन् मे जित्वा शैलिनिर्वाग्वै
ब्रह्मेति । यथा मातृमान्पितृमानाचार्यवान्ब्रूयात् तथा
तच्छैलिरब्रवीद् वाग्वै ब्रह्मेत्यवदतो हि किꣳ स्यादित्यब्रवीत्तु ते
तस्याऽऽयतनं प्रतिष्ठाम् । न मेऽब्रवीदित्येकपाद्वा एतत् सम्राड् इति ।
स वै नो ब्रूहि याज्ञवल्क्य । वागेवाऽऽयतनमाकाशः प्रतिष्ठा
प्रज्ञेत्येनदुपासीत । का प्रज्ञता याज्ञवल्क्य । वागेव सम्राड्
इति होवाच वाचा वै सम्राड् बन्धुः प्रज्ञायत ऋग्वेदो यजुर्वेदः
सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः
सूत्राण्यनुव्याख्यानानि व्याख्यानानीष्टꣳ हुतमाशितं पायितमयं च
लोकः परश्च लोकः सर्वाणि च भूतानि वाचैव सर्वाणि च भूतानि
वाचा एव सम्राट् प्रज्ञायन्ते वाग्वै सम्राट् परमं ब्रह्म नैनं
वाग्जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति । देवो भूत्वा देवानप्येति य
एवं विद्वानेतदुपास्ते । हस्त्यृषभꣳ सहस्रं ददामीति होवाच
जनको वैदेहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य
हरेतेति ॥ २॥
मन्त्र ३[IV.i.3]
यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्म ऊदङ्कः शौल्बायनः
प्राणो वै ब्रह्मेति । यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्
तथा तच्छौल्वायनोऽब्रवीत् प्राणो वै ब्रह्मेत्यप्राणतो हि
किꣳ स्यादित्यब्रवीत्तु ते तस्याऽऽयतनं प्रतिष्ठाम् । न
मेऽब्रवीदित्येकपाद्वा एतत् सम्राड् इति । स वै नो ब्रूहि याज्ञवल्क्य ।
प्राण एवाऽऽयतनमाकाशः प्रतिष्ठा प्रियमित्येनदुपासीत ।
का प्रियता याज्ञवल्क्य । प्राण एव सम्राड् इति होवाच प्राणस्य
वै सम्राट् कामायायाज्यं याजयत्यप्रतिगृह्यस्य प्रतिगृह्णात्यपि
तत्र वधाशङ्कं भवति यां दिशमेति प्राणस्यैव सम्राट् कामाय
प्राणो वै सम्राट् परमं ब्रह्म । नैनं प्राणो जहाति सर्वाण्येनं
भूतान्यभिक्षरन्ति । देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते ।
हस्त्यृषभꣳ सहस्रं ददामीति होवाच जनको वैदेहः । स
होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ३॥
मन्त्र ४[IV.i.4]
यदेव ते कश्चिदब्रवीत् तच्छृणवामेत्यब्रवीन्मे
बर्कुर्वार्ष्णश्चक्षुर्वै ब्रह्मेति । यथा मातृमान्पितृमानाचार्यवान्
ब्रूयात् तथा तद्वार्ष्णोऽब्रवीत्च्चक्षुर्वै ब्रह्मेत्यपश्यतो
हि किꣳ स्यादित्यब्रवीत्तु ते तस्याऽऽयतनं प्रतिष्ठाम् । न
मेऽब्रवीदित्येकपाद्वा एतत् सम्राड् इति । स वै नो ब्रूहि याज्ञवल्क्य ।
चक्षुरेवाऽऽयतनमाकाशः प्रतिष्ठा सत्यमित्येतदुपासीत । का
सत्यता याज्ञवल्क्य । चक्षुरेव सम्राड् इति होवाच चक्षुषा वै
सम्राट् पश्यन्तमाहुरद्राक्षीरिति । स आहाद्राक्षमिति तत्सत्यं भवति
चक्षुर्वै सम्राट् परमं ब्रह्म नैनं चक्षुर्जहाति सर्वाण्येनं
भूतान्यभिक्षरन्ति । देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते ।
हस्त्यृषभꣳ सहस्रं ददामीति होवाच जनको वैदेहः । स
होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥४॥
मन्त्र ५[IV.i.5]
यदेव ते कश्चिदब्रवीत् तच्छृणवामेत्यब्रवीन्मे गर्दभीविपीतो
भारद्वाजः श्रोत्रं वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्
तथा तद्भारद्वाजोऽब्रवीच्छ्रोत्रं वै ब्रह्मेत्यशृण्वतो
हि किꣳ स्यादित्यब्रवीत्तु ते तस्याऽऽयतनं प्रतिष्ठाम् । न
मेऽब्रवीदित्येकपाद्वा एतत् सम्राड् इति । स वै नो ब्रूहि याज्ञवल्क्य ।
श्रोत्रमेवाऽऽयतनमाकाशः प्रतिष्ठाऽनन्तमित्येनदुपासीत ।
काऽनन्तता याज्ञवल्क्य । दिश एव सम्राड् इति होवाच तस्माद्वै
सम्राड् अपि यां काञ्च दिशं गच्छति नैवास्या अन्तं गच्छत्यनन्ता
हि दिशो दिशो वै सम्राट् श्रोत्रꣳश्रोत्रं वै सम्राट् परमं
ब्रह्म । नैनꣳ श्रोत्रं जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति ।
देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते । हस्त्यृषभꣳ
सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः
पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ५॥
मन्त्र ६[IV.i.6]
यदेव ते कश्चिदब्रवीत् तच्छृणवामेत्यब्रवीन्मे सत्यकामो जाबालो
मनो वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात् तथा
तज्जाबालो अब्रवीन् मनो वै ब्रह्मेत्यमनसो हि किꣳ स्यादित्यब्रवीत्तु
ते तस्याऽऽयतनं प्रतिष्ठाम् । न मेऽब्रवीदित्येकपाद्वा एतत् सम्राड्
इति । स वै नो ब्रूहि याज्ञवल्क्य । मन एवाऽऽयतनमाकाशः
प्रतिष्ठाऽऽनन्द इत्येनदुपासीत । काऽऽनन्दता याज्ञवल्क्य ।
मन एव सम्राड् इति होवाच मनसा वै सम्राट् स्त्रियमभिहार्यते तस्यां
प्रतिरूपः पुत्रो जायते स आनन्दो । मनो वै सम्राट् परमं ब्रह्म नैनं
मनो जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति । देवो भूत्वा देवानप्येति
य एवं विद्वानेतदुपास्ते । हस्त्यृषभꣳ सहस्रं ददामीति होवाच
जनको वैदेहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य
हरेतेति ॥ ६॥
मन्त्र ७[IV.i.7]
यदेव ते कश्चिदब्रवीत् तच्छृणवामेत्यब्रवीन्मे विदग्धः शाकल्यो
हृदयं वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्
तथा तच्छाकल्योऽब्रवीद् धृदयं वै ब्रह्मेत्यहृदयस्य हि
किꣳ स्यादित्यब्रवीत्तु ते तस्याऽऽयतनं प्रतिष्ठां । न
मेऽब्रवीदित्येकपाद्वा एतत् सम्राड् इति । स वै नो ब्रूहि याज्ञवल्क्य ।
हृदयमेवाऽऽयतनमाकाशः प्रतिष्ठा स्थितिरित्येनदुपासीत । का
स्थितिता याज्ञवल्क्य । हृदयमेव सम्राड् इति होवाच हृदयं वै
सम्राट् सर्वेषां भूतानामायतनꣳ हृदयं वै सम्राट्, सर्वेषां
भूतानां प्रतिष्ठा हृदये ह्येव सम्राट् सर्वाणि भूतानि प्रतिष्ठितानि
भवन्ति हृदयं वै सम्राट् परमं ब्रह्म नैनꣳ हृदयं
जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति । देवो भूत्वा देवानप्येति य
एवं विद्वानेतदुपास्ते । हस्त्यृषभꣳ सहस्रं ददामीति होवाच
जनको वैदेहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य
हरेतेति ॥ ७॥
इति प्रथमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ द्वितीयं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[IV.ii.1]
जनको ह वैदेहः कूर्चादुपावसर्पन्नुवाच नमस्तेऽस्तु याज्ञवल्क्यानु
मा शाधीति । स होवाच यथा वै सम्राण् महान्तमध्वानमेष्यन्रथं
वा नावं वा समाददीतैवमेवैताभिरुपनिषद्भिः समाहितात्माऽस्यसि
एवं वृन्दारक आढ्यः सन्नधीतवेद उक्तोपनिषत्क इतो विमुच्यमानः
क्व गमिष्यसीति । नाहं तद् भगवन् वेद यत्र गमिष्यामीत्यथ वै
तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति । ब्रवीतु भगवानिति ॥ १॥
मन्त्र २[IV.ii.2]
इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन्पुरुषस्तं वा एतमिन्धꣳ
सन्तमिन्द्र इत्याचक्षते परोक्षेणैव परोक्षप्रिया इव हि देवाः
प्रत्यक्षद्विषः ॥ २॥
मन्त्र ३[IV.ii.3]
अथैतद्वामेऽक्षणि पुरुषरूपमेषाऽस्य पत्नी विराट् तयोरेष
सꣳस्तावो य एषोऽन्तर्हृदय आकाशोऽथैनयोरेतदन्नं
य एषोऽन्तर्हृदये लोहितपिण्डोऽथैनयोरेतत्प्रावरणं
यदेतदन्तर्हृदये जालकमिवाथैनयोरेषा सृतिः सञ्चरणी
यैषा हृदयादूर्ध्वा नाड्युच्चरति । यथा केशः सहस्रधा
भिन्न एवमस्यैता हिता नाम नाड्योऽन्तर्हृदये प्रतिष्ठिता
भवन्त्येवमस्य एताशितास्नाम नाड्यसन्तर्हृदये प्रतिष्ठितास्भवन्ति
एताभिर्वा एतदास्रवदास्रवति तस्मादेष प्रविविक्ताहारतर इवैव
भवत्यस्माच्छारीरादात्मनः ॥ ३॥
मन्त्र ४[IV.ii.4]
तस्य प्राची दिक्प्राञ्चः प्राणाः दक्षिणा दिग्दक्षिणे प्राणाः प्रतीची
दिक्प्रत्यञ्चः प्राणा उदीची दिगुदञ्चः प्राणाः ऊर्ध्वा दिगूर्ध्वाः
प्राणाः अवाची दिगवाञ्चः प्राणाः सर्वा दिशः सर्वे प्राणाः । स एष
नेति नेत्याऽत्मागृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो
न हि सज्यतेऽसितो न व्यथते न रिष्यत्य्व्यथते असङ्गस्न हि
सज्यते असितस्न व्यथते न रिष्यति अभयं वै जनक प्राप्तोऽसीति
होवाच याज्ञवल्क्यः । स होवाच जनको वैदेहोऽभयं त्वा गच्छताद्
याज्ञवल्क्य यो नो भगवन्न् अभयं वेदयसे नमस्तेऽस्त्विमे विदेहा
अयमहमस्मि ॥ ४॥
इति द्वितीयं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ तृतीयं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[IV.iii.1]
जनकꣳ ह वैदेहं याज्ञवल्क्यो जगाम स मेने न वदिष्य
इति स मेने न वदिष्य इत्यथ ह यज्जनकश्च वैदेहो
याज्ञवल्क्यश्चाग्निहोत्रे समूदाते तस्मै ह याज्ञवल्क्यो वरं ददौ ।
स ह कामप्रश्नमेव वव्रे । तꣳ हास्मै ददौ । तꣳ ह सम्राडेव
पूर्वं पप्रच्छ ॥ १॥
मन्त्र २[IV.iii.2]
याज्ञवल्क्य किञ्ज्योतिरयं पुरुष इत्यादित्यज्योतिः सम्राड् इति
होवाचाऽऽदित्येनैवायं ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते
विपल्येतीत्येवमेवैतद् याज्ञवल्क्य ॥ २॥
मन्त्र ३[IV.iii.3]
अस्तमित आदित्ये याज्ञवल्क्य किञ्ज्योतिरेवायं पुरुष इति । चन्द्रमा
एवास्य ज्योतिर्भवतीति चन्द्रमसैवायं ज्योतिषास्ते पल्ययते कर्म
कुरुते विपल्येतीत्येवमेवैतद् याज्ञवल्क्य ॥ ३॥
मन्त्र ४[IV.iii.4]
अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते किञ्ज्योतिरेवायं पुरुष
इत्यग्निरेवास्य ज्योतिर्भवत्यग्निनैवायं ज्योतिषाऽऽस्ते पल्ययते
कर्म कुरुते विपल्येतीत्येवमेवैतद् याज्ञवल्क्य ॥ ४॥
मन्त्र ५[IV.iii.5]
अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ
किञ्ज्योतिरेवायं पुरुष इति । वागेवास्य ज्योतिर्भवतीति वाचैवायं
ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति । तस्माद्वै सम्राड् अपि
यत्र स्वः पाणिर्न विनिर्ज्ञायतेऽथ यत्र वागुच्चरत्युपैव तत्र
न्येतीत्येवमेवैतद् याज्ञवल्क्य ॥ ५॥
मन्त्र ६[IV.iii.6]
अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ शान्तायां
वाचि किञ्ज्योतिरेवायं पुरुष इत्यात्मैवास्य ज्योतिर्भवत्यात्मनैवायं
ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते विपल्येतीति ॥ ६॥
मन्त्र ७[IV.iii.7]
कतम आत्मेति । योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः
विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः पुरुषस्स समानः
सन्नुभौ लोकावनुसञ्चरति । ध्यायतीव लेलायतीव स हि स्वप्नो
भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणि ॥ ७॥
मन्त्र ८[IV.iii.8]
स वा अयं पुरुषो जायमानः शरीरमभिसम्पद्यमानः पाप्मभिः
सꣳसृज्यते । स उत्क्रामन्म्रियमाणः पाप्मनो विजहाति ॥ ८॥
मन्त्र ९[IV.iii.9]
तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवत इदं च परलोकस्थानं
च सन्ध्यं तृतीयꣳ स्वप्नस्थानं तस्मिन्सन्ध्ये स्थाने
तिष्ठन्नेते उभे स्थाने पश्यतीदं च परलोकस्थानं च अथ
यथाक्रमोऽयं परलोकस्थाने भवति तमाक्रममाक्रम्योभयान्पाप्मन
आनन्दाꣳश्च पश्यति । पश्यति स यत्र प्रस्वपित्यस्य लोकस्य
सर्वावतो मात्रामपादाय स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन
ज्योतिषा प्रस्वपित्यत्रायं पुरुषः स्वयं ज्योतिर्भवति ॥ ९॥
मन्त्र १०[IV.iii.10]
न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ
रथान्रथयोगान्पथः सृजते । न तत्राऽऽनन्दा मुदः प्रमुदो
भवन्त्यथाऽऽनन्दान्मुदः प्रमुदः सृजते । न तत्र वेशान्ताः
पुष्करिण्यः स्रवन्त्यो भवन्त्यथ वेशान्तान्पुष्करिणीः स्रवन्तीः
सृजते स हि कर्ता ॥ १०॥
मन्त्र ११[IV.iii.11]
तदेते श्लोका भवन्ति स्वप्नेन शारीरमभिप्रहत्या सुप्तः
सुप्तानभिचाकशीति । शुक्रमादाय पुनरैति स्थानꣳ हिरण्मयः
पुरुष एकहꣳसः ॥ ११॥
मन्त्र १२[IV.iii.12]
प्राणेन रक्षन्नपरं कुलायं बहिष्कुलायादमृतश्चरित्वा स
ईयतेऽमृतो यत्रकामꣳ हिरण्मयः पुरुष एकहꣳसः ॥ १२॥
मन्त्र १३[IV.iii.13]
स्वप्नान्त उच्चावचमीयमानो रूपाणि देवः कुरुते बहूनि । उतेव स्त्रीभिः
सह मोदमानो जक्षदुतेवापि भयानि पश्यन् ॥ १३॥
मन्त्र १४[IV.iii.14]
आराममस्य पश्यन्ति न तं पश्यति कश्चनेति । तं नाऽऽयतं
बोधयेदित्याहुः । दुर्भिषज्यꣳ हास्मै भवति यमेष न
प्रतिपद्यते ॥ १४॥ अथो खल्वाहुर्जागरितदेश एवास्यैष यानि ह्येव
जाग्रत् पश्यति तानि सुप्त इत्यत्रायं पुरुषः स्वयं ज्योतिर्भवति ।
सोऽहं भगवते सहस्रं ददाम्यत ऊर्ध्वं विमोक्षाय ब्रूहीति ॥ १४॥
मन्त्र १५[IV.iii.15]
स वा एष एतस्मिन्सम्प्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यं
च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नायैव एव स
यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुष
इत्येवमेवैतद् याज्ञवल्क्य । सोऽहं भगवते सहस्रं ददाम्यत
ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥ १५॥
मन्त्र १६[IV.iii.16]
स वा एष एतस्मिन्त्स्वप्ने रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च
पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव आद्रवति बुद्धान्ताय
एव स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययं
पुरुष इत्येवमेवैतद् याज्ञवल्क्य । सोऽहं भगवते सहस्रं ददाम्यत
ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥ १६॥
मन्त्र १७[IV.iii.17]
स वा एष एतस्मिन्बुद्धान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं
च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नान्तायैव ॥ १७॥ आद्रवति
स्वप्नान्ताय एव
मन्त्र १८[IV.iii.18]
तद्यथा महामत्स्य उभे कूलेऽनुसञ्चरति पूर्वं चापरं चैवमेवायं
पुरुष एतावुभावन्तावनुसञ्चरति स्वप्नान्तं च बुद्धान्तं च ॥
१८॥ अन्तौ अनुसञ्चरति स्वप्नान्तम् च बुद्धान्तम् च
मन्त्र १९[IV.iii.19]
तद्यथास्मिन्नाऽकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः
सꣳहत्य पक्षौ संलयायैव ध्रियत ध्रियते एवमेवायं पुरुष
एतस्मा अन्ताय धावति यत्र सुप्तो न कं चन कामं कामयते न कं
चन स्वप्नं पश्यति ॥ १९॥ स्वप्नम् पश्यति
मन्त्र २०[IV.iii.20]
ता वा अस्यैता हिता नाम नाड्यो यथा केशः सहस्रधा भिन्नस्तावताऽणिम्ना
तिष्ठन्ति शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णा ।
नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णासथ यत्रैनं घ्नन्तीव
जिनन्तीव हस्तीव विच्छाययति गर्तमिव पतति यदेव जाग्रद्भयं
पश्यति तदत्राविद्यया मन्यतेऽथ यत्र देव इव राजेवाहमेवेदꣳ
सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकाः ॥ २०॥
मन्त्र २१[IV.iii.21]
तद्वा अस्यैतदतिच्छन्दा अपहतपाप्माभयꣳ रूपम् । तद्यथा प्रियया
स्त्रिया सम्परिष्वक्तो न बाह्यं किं चन वेद नाऽऽन्तरमेवमेवायं
पुरुषः प्राज्ञेनाऽऽत्मना सम्परिष्वक्तो न बाह्यं किं चन वेद
नाऽऽन्तरम् । सम्परिष्वक्तस्न बाह्यम् किम् चन वेद न अन्तरं तद्वा
अस्यैतदाप्तकाममात्मकाममकामं रूपम् शोकान्तरम् ॥ २१॥
मन्त्र २२[IV.iii.22]
अत्र पिताऽपिता भवति माताऽमाता लोका अलोका देवा अदेवा वेदा अवेदा
अत्र स्तेनोऽस्तेनो भवति भ्रूणहाऽभ्रूणहा चाण्डालोऽचण्डालः
पौल्कसोऽपौल्कसो श्रमणोऽश्रमण स्तापसोऽतापसोऽनन्वागतं
पुण्येनानन्वागतं पापेन अश्रमणस्तापससतापससनन्वागतस्पुण्येन
अनन्वागतस्पापेन तीर्णो हि तदा सर्वाञ्छोकान्हृदयस्य भवति ॥ २२॥
मन्त्र २३[IV.iii.23]
यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति न हि
द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति
ततोऽन्यद्विभक्तं यत्पश्येत् ॥ २३॥
मन्त्र २४[IV.iii.24]
यद्वै तन्न जिघ्रति जिघ्रन्वै तन्न जिघ्रति न हि
घ्रातुर्घ्रातेर्विपरिलोपो विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति
ततोऽन्यद्विभक्तं यज्जिघ्रेत् ॥ २४॥
मन्त्र २५[IV.iii.25]
यद्वै तन्न रसयते रसयन्वै तन्न रसयते न हि रसयितू
रसयितेर्विपरिलोपो विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति
ततोऽन्यद्विभक्तं यद्रसयेत् ॥ २५॥
मन्त्र २६[IV.iii.26]
यद्वै तन्न वदति वदन्वै तन्न वदति न हि वक्तुर्वक्तेर्विपरिलोपो
विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्वदेत् ॥ २६॥
मन्त्र २७[IV.iii.27]
यद्वै तन्न शृणोति शृण्वन्वै तन्न शृणोति न हि श्रोतुः
श्रुतेर्विपरिलोपो विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति
ततोऽन्यद्विभक्तं यच्छृणुयात् ॥ २७॥
मन्त्र २८[IV.iii.28]
यद्वै तन्न मनुते मन्वानो वै तन्न मनुते न हि मन्तुर्मतेर्विपरिलोपो
विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं
यन्मन्वीत ॥ २८॥
मन्त्र २९[IV.iii.29]
यद्वै तन्न स्पृशति स्पृशन्वै तन्न स्पृशति न हि स्प्रष्टुः
स्पृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति
ततोऽन्यद्विभक्तं यत्स्पृशेत् ॥ २९॥
मन्त्र ३०[IV.iii.30]
यद्वै तन्न विजानाति विजानन्वै तन्न विजानाति न हि
विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति
ततोऽन्यद्विभक्तं यद्विजानीयात् ॥ ३०॥
मन्त्र ३१[IV.iii.31]
यत्र वा अन्यदिव स्यात् तत्रान्योऽन्यत्पश्येदन्योऽन्यज्जिघ्रेद्
अन्योऽन्यद्रसयेदन्योऽन्यद्वदेदन्योऽन्यच्छृणुयादन्योऽन्यन्मन्वीता
न्योऽन्यत्स्पृशेदन्योऽन्यद्विजानीयात् ॥ ३१॥
मन्त्र ३२[IV.iii.32]
सलिल एको द्रष्टाद्वैतो भवत्येष ब्रह्मलोकः सम्राड् इति
हैनमनुशशास याज्ञवल्क्य। एषास्य परमा गतिरेषास्य परमा सम्पद्
एषोऽस्य परमो लोक एषोऽस्य परम आनन्द एतस्यैवाऽऽनन्दस्यान्यानि
भूतानि मात्रामुपजीवन्ति ॥ ३२॥
मन्त्र ३३[IV.iii.33]
स यो मनूष्याणाꣳ राद्धः समृद्धो भवत्यन्येषामधिपतिः
सर्वैर्मानुष्यकैर्भोगैः सम्पन्नतमः अन्येषां सम्पन्नतमस्स
मनुष्याणां परम आनन्दोऽथ ये शतं मनुष्याणामानन्दाः स एकः
पितृणां जितलोकानामानन्दोऽथ ये शतं पितृणां जितलोकानामानन्दाः
स एको गन्धर्वलोक आनन्दोऽथ ये शतं गन्धर्वलोक आनन्दाः
स एकः कर्मदेवानामानन्दो ये कर्मणा देवत्वमभिसम्पद्यन्तेऽथ
ये शतं कर्मदेवानामानन्दाः स एक आजानदेवानामानन्दो यश्च
श्रोत्रियोऽवृजिनोऽकामहतोऽथ ये शतमाजानदेवानामानन्दाः
स एकः प्रजापतिलोक आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतो
अथ ये शतं प्रजापतिलोक आनन्दाः स एको ब्रह्मलोक आनन्दो यश्च
श्रोत्रियोऽवृजिनोऽकामहतोऽथैष एव परम आनन्द एष ब्रह्मलोकः
सम्राड् इति होवाच याज्ञवल्क्यः । सोऽहं भगवते सहस्रं ददाम्यत
ऊर्ध्वं विमोक्षायैव ब्रूहीत्यत्र ह याज्ञवल्क्यो बिभयांचकारः
मेधावी राजा सर्वेभ्यो माऽन्तेभ्य उदरौत्सीदिति ॥ ३३॥
मन्त्र ३४[IV.iii.34]
स वा एष एतस्मिन्स्वप्नान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं
च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव ॥ ३४॥
मन्त्र ३५[IV.iii.35]
तद्यथाऽनः सुसमाहितमुत्सर्जद्यायादेवमेवायꣳ शारीर आत्मा
प्राज्ञेनाऽऽत्मनाऽन्वारूढ उत्सर्जन्याति यत्रैतदूर्ध्वोच्छ्वासी
भवति ॥ ३५॥ उत्सर्जम् याति यत्रैतदूर्ध्वोच्छ्वासी भवति ॥ ३५॥
मन्त्र ३६[IV.iii.36]
स यत्रायमणिमानं न्येति जरया वोपतपता वाऽणिमानं निगच्छति
तद्यथाऽऽम्रं वोदुम्बरं वा पिप्पलं वा बन्धनात्प्रमुच्यत एवमेवायं
पुरुष एभ्योऽङ्गेभ्यः सम्प्रमुच्य पुनः प्रतिन्यायं प्रतियोन्याद्रवति
प्राणायैव ॥ ३६॥ प्राणाय एव
मन्त्र ३७[IV.iii.37]
तद्यथा राजानमायन्तमुग्राः प्रत्येनसः सूतग्रामण्योऽन्नैः
पानैरवसथैः प्रतिकल्पन्ते अयमायात्ययमागच्छतीत्येवꣳ
हैवंविदꣳ सर्वाणि भूतानि प्रतिकल्पन्त इदं
ब्रह्माऽऽयातीदमागच्छतीति ॥ ३७॥
मन्त्र ३८[IV.iii.38]
तद्यथा राजानं प्रयियासन्तमुग्राः प्रत्येनसः
सूतग्रामण्योऽभिसमायन्त्येवमेवेममात्मानमन्तकाले सर्वे प्राणा
अभिसमायन्ति यत्रैतदूर्ध्वोच्छ्वासी भवति ॥ ३८॥
इति तृतीयं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ चतुर्थं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[IV.iv.1]
स यत्रायमात्माऽबल्यं न्येत्य सम्मोहमिव न्येत्यथैनमेते प्राणा
अभिसमायन्ति स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति स
यत्रैष चाक्षुषः पुरुषः पराङ्पर्यावर्ततेऽथारूपज्ञो भवति ॥ १॥
मन्त्र २[IV.iv.2]
एकीभवति न पश्यतीत्याहुरेकीभवति न जिघ्रतीत्याहुरेकीभवति
न रसयतीत्याहुरेकीभवति न वदतीत्याहुरेकीभवति
न शृणोतीत्याहुरेकीभवति न मनुत इत्याहुरेकीभवति न
स्पृशतीत्याहुरेकीभवति न विजानातीत्याहुस्तस्य हैतस्य हृदयस्याग्रं
प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्ध्नो
वाऽन्येभ्यो वा शरीरदेशेभ्यस्तमुत्क्रामन्तं प्राणोऽनूत्क्रामति
प्राणमनूत्क्रामन्तꣳ सर्वे प्राणा अनूत्क्रामन्ति । सविज्ञानो भवति
सविज्ञानमेवान्ववक्रामति । तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा
च ॥ २॥
मन्त्र ३[IV.iv.3]
तद्यथा तृणजलायुका तृणस्यान्तं
गत्वाऽन्यमाक्रममाक्रम्यात्मानमुपसꣳहरत्येवमेवायमात्मेदꣳ
शरीरं निहत्याविद्यां
गमयित्वाऽन्यमाक्रममाक्रम्याऽऽत्मानमुपसꣳहरति ॥ ३॥
मन्त्र ४[IV.iv.4]
तद्यथा पेशस्कारी पेशसो मात्रामपादायान्यन्नवतरं कल्याणतरꣳ
रूपं तनुत एवमेवायमात्मेदꣳ शरीरं निहत्याविद्यां
गमयित्वाऽन्यन्नवतरं कल्याणतरꣳ रूपं कुरुते पित्र्यं वा
गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वाऽन्येषां वा भूतानाम् ॥
४॥ ब्राह्मम् वा प्राजापत्यम् वा दैवम् वा अन्येभ्यस्वा भूतेभ्यस्
मन्त्र ५[IV.iv.5]
स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः
श्रोत्रमयः पृथिवीमय आपोमयो वायुमय आकाशमयस्तेजोमयोऽतेजोमयः
काममयोऽकाममयः क्रोधमयोऽक्रोधमयो धर्ममयोऽधर्ममयः
सर्वमयस्श्रोत्रमयसाकाशमयस्वायुमयस्तेजोमय-
सापोमयस्पृथिवीमयस्क्रोधमयसक्रोधमय- शर्षमयसहर्षमयस्
तद्यदेतदिदम्मयोऽदोमय इति यथाकारी यथाचारी तथा भवति ।
साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यः पुण्येन कर्मणा
भवति पापः पापेन । अथो खल्वाहुः काममय एवायं पुरुष इति स
यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते
यत्कर्म कुरुते तदभिसम्पद्यते ॥ ५॥
मन्त्र ६[IV.iv.6]
तदेष श्लोको भवति । तदेव सक्तः सह कर्मणैति लिङ्गं मनो
यत्र निषक्तमस्य । प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् ।
तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मण् इति नु कामयमानोऽथाकामयमानो
योऽकामो निष्काम भवति आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति
ब्रह्मैव सन्ब्रह्माप्येति ॥ ६॥
मन्त्र ७[IV.iv.7]
तदेष श्लोको भवति यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि
श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुत इति ॥
तद्यथाऽहिनिर्व्लयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदꣳ
शरीरꣳ शेतेऽथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव
सोऽहं भगवते सहस्रं ददामीति होवाच जनको वैदेहः ॥ ७॥
मन्त्र ८[IV.iv.8]
तदेते श्लोका भवन्ति । अणुः पन्था विततः पुराणो माꣳ
स्पृष्टोऽनुवित्तो मयैव । तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गं
लोकमित ऊर्ध्वं विमुक्ताः ॥ ८॥
मन्त्र ९[IV.iv.9]
तस्मिञ्छुक्लमुत नीलमाहुः पिङ्गलꣳ हरितं लोहितं च । एष
पन्था ब्रह्मणा हानुवित्तस्तेनैति ब्रह्मवित्पुण्यकृत्तैजसश्च ॥ ९॥
मन्त्र १०[IV.iv.10]
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य
उ विद्यायाꣳ रताः ॥ १०॥
मन्त्र ११[IV.iv.11]
अनन्दा नाम ते लोका अन्धेन तमसाऽऽवृताः ताꣳस्ते
प्रेत्याभिगच्छन्त्यविद्वाꣳसोऽबुधो जनाः ॥ ११॥
मन्त्र १२[IV.iv.12]
आत्मानं चेद्विजानीयादयमस्मीति पूरुषः किमिच्छन्कस्य कामाय
शरीरमनुसञ्ज्वरेत् ॥ १२॥
मन्त्र १३[IV.iv.13]
यस्यानुवित्तः प्रतिबुद्ध आत्माऽस्मिन्सन्देह्ये गहने प्रविष्टः । स
विश्वकृत् स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव ॥ १३॥
मन्त्र १४[IV.iv.14]
इहैव सन्तोऽथ विद्मस्तद्वयं न चेदवेदिर्महती विनष्टिः । ये
तद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति ॥ १४॥
मन्त्र १५[IV.iv.15]
यदैतमनुपश्यत्यात्मानं देवमञ्जसा । ईशानं भूतभव्यस्य न ततो
विजुगुप्सते ॥ १५॥
मन्त्र १६[IV.iv.16]
यस्मादर्वाक्संवत्सरोऽहोभिः परिवर्तते । तद्देवा ज्योतिषां
ज्योतिरायुर्होपासतेऽमृतम् ॥ १६॥
मन्त्र १७[IV.iv.17]
यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमेव मन्य
आत्मानं विद्वान्ब्रह्मामृतोऽमृतम् ॥ १७॥
मन्त्र १८[IV.iv.18]
प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो
ये मनो विदुः । ते निचिक्युर्ब्रह्म पुराणमग्र्यम् ॥ १८॥
मन्त्र १९[IV.iv.19]
मनसैवानुद्रष्टव्यं नेह नानाऽस्ति किं चन । मृत्योः स
मृत्युमाप्नोति य इह नानेव पश्यति ॥ १९॥
मन्त्र २०[IV.iv.20]
एकधैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम् । विरजः पर आकाशादज
आत्मा महान्ध्रुवः ॥ २०॥
मन्त्र २१[IV.iv.21]
तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ।
नानुध्यायाद्बहूञ्छब्दान् वाचो विग्लापनꣳ हि तदिति ॥ २१॥
मन्त्र २२[IV.iv.22]
स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य
एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते सर्वस्य वशी सर्वस्येशानः
सर्वस्याधिपतिः स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयानेष
सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां
लोकानामसम्भेदाय । तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति
यज्ञेन दानेन तपसाऽनाशकेनैतमेव विदित्वा मुनिर्भवत्य्विदित्वा
मुनिस्भवति एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्त्येतद्ध स्म
वै तत्पूर्वे विद्वाꣳसः प्रजां न कामयन्ते किं प्रजया करिष्यामो
येषां नोऽयमात्माऽयं लोक इति । ते ह स्म पुत्रैषणायाश्च
वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति
या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते
एषणे एव भवतः । स एष नेति नेत्यात्माऽगृह्यो न हि गृह्यते
ऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते
न रिष्यत्येतमु हैवैते न तरत इत्यतः पापमकरवमित्यतः
कल्याणमकरवमित्युभे उ हैवैष एते तरति नैनं कृताकृते
तपतः ॥ २२॥
मन्त्र २३[IV.iv.23]
तदेतदृचाभ्युक्तम् । एष नित्यो महिमा ब्राह्मण Vraja Loka Astro Spiritual Counselling स्य न वर्धते कर्मणा
नो कनीयान् । तस्यैव स्यात् पदवित्तं विदित्वा न लिप्यते कर्मणा
पापकेनेति । तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो
भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्यति सर्वमात्मानं पश्यति नैनं पाप्मा
तरति सर्वं पाप्मानं तरति नैनं पाप्मा तपति सर्वं पाप्मानं तपति
विपापो विरजोऽविचिकित्सो ब्राह्मणो भवति एष ब्रह्मलोकः सम्राड् इति
होवाच याज्ञवल्क्यः । सोऽहं भगवते विदेहान्ददामि माम् चापि सह
दास्यायेति ॥ २३॥
मन्त्र २४[IV.iv.24]
स वा एष महानज आत्माऽन्नादो वसुदानो विन्दते वसु य एवं वेद ॥ २४॥
मन्त्र २५[IV.iv.25]
स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रह्माभयं वै
ब्रह्माभयꣳ हि वै ब्रह्म भवति य एवं वेद ॥ २५॥
इति चतुर्थं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
अथ पञ्चमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[IV.v.1]
अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर्मैत्रेयी च कात्यायनी च
तयोर्ह मैत्रेयी ब्रह्मवादिनी बभूव स्त्रीप्रज्ञैव तर्हि कात्यायन्यथ
ह याज्ञवल्क्योऽन्यद्वृत्तमुपाकरिष्यन् ॥ १॥
मन्त्र २[IV.v.2]
मैत्रेयीति होवाच याज्ञवल्क्यः प्रव्रजिष्यन्वा अरेऽहमस्मात्स्थानादस्मि ।
हन्त तेऽनया कत्यायान्याऽन्तं करवाणीति ॥ २॥
मन्त्र ३[IV.v.3]
सा होवाच मैत्रेयी यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन
पूर्णा स्यात् स्यां न्वहं तेनामृताऽऽहो३ नेति नेति होवाच याज्ञवल्क्यो
यथैवोपकरणवतां जीवितं तथैव ते जीवितꣳ स्यादमृतत्वस्य
तु नाऽऽशाऽस्ति वित्तेनेति ॥ ३॥
मन्त्र ४[IV.v.4]
सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्याम् । यदेव
भगवान्वेद तदेव मे ब्रूहीति ॥ ४॥
मन्त्र ५[IV.v.5]
स होवाच याज्ञवल्क्यः प्रिया वै खलु नो भवती सती प्रियमवृधद्
धन्त तर्हि भवत्येतद् व्याख्यास्यामि ते व्याचक्षाणस्य तु मे
निदिध्यासस्वेति ॥ ५॥
मन्त्र ६[IV.v.6]
स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय
पतिः प्रियो भवति । न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु
कामाय जाया प्रिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया
भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्य कामाय
वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति ॥ न वा अरे
पशूनां कामाय पशवः प्रिया भवन्ति आत्मनस्तु कामाय पशवः प्रिया
भवन्ति । न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु
कामाय ब्रह्म प्रियं भवति । न वा अरे क्षत्रस्य कामाय क्षत्रं
प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति । न वा अरे
लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति ।
न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः
प्रिया भवन्ति । न वा अरे वेदानां कामाय वेदाः प्रिया भवन्त्यात्मनस्तु
कामाय वेदाः प्रिया भवन्ति । न वा अरे भूतानां कामाय भूतानि प्रियाणि
भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति । न वा अरे सर्वस्य
कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवत्यात्मा
वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनि
खल्वरे दृष्टे श्रुते मते विज्ञात इदꣳ सर्वं विदितम् ।
मन्त्र ७[IV.v.7]
ब्रह्म तं परादाद् योऽन्यत्राऽऽत्मनो ब्रह्म वेद क्षत्रं तं परादाद्
योऽन्यत्राऽऽत्मनः क्षत्रं वेद लोकास्तं परादुः योऽन्यत्राऽऽत्मनो
लोकान्वेद देवास्तं परादुः योऽन्यत्रात्मनो देवान्वेद वेदास्तं
परादुर्योऽन्यत्रात्मनो वेदान्वेद भूतानि तं परादुर्योऽन्यत्राऽऽत्मनो
भूतानि वेद सर्वं तं परादाद् योऽन्यत्राऽऽत्मनः सर्वं वेदेदं
ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमे वेदा इमानि भूतानीदꣳ सर्वं
यदयमात्मा ॥ ७॥
मन्त्र ८[IV.v.8]
स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद् ग्रहणाय
दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ ८॥
मन्त्र ९[IV.v.9]
स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद् ग्रहणाय
शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ ९॥
मन्त्र १०[IV.v.10]
स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय
वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ १०॥
मन्त्र ११[IV.v.11]
स यथाऽऽर्द्रैधाग्नेरभ्याहितस्य पृथग्धूमा विनिश्चरन्त्येवं
वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः
सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः
सूत्राण्यनुव्याख्यानानि व्याख्यानानि इष्टꣳ हुतमाशितं पायितमयं
च लोकः परश्च लोकः सर्वाणि च भूतान्यस्यैवैतानि सर्वाणि
निःश्वसितानि ॥ ११॥ सामवेदसथर्वाङ्गिरससितिहासस्पुराणं
विद्यासुपनिषदस्श्लोकास्सूत्राणि अनुव्याख्यानानि व्याख्याननि दत्तं
मन्त्र १२[IV.v.12]
स यथा सर्वासामपाꣳ समुद्र एकायनमेवꣳ सर्वेषाꣳ
स्पर्शानां त्वगेकायनमेवꣳ सर्वेषां गन्धानां नासिकैकायनं
एवꣳ सर्वेषाꣳ रसानां जिह्वैकायनमेवꣳ सर्वेषाꣳ
रूपाणां चक्षुरेकायनमेवꣳ सर्वेषं शब्दानां श्रोत्रमेकायनं
एवꣳ सर्वेषाꣳ सङ्कल्पानां मन एकायनमेवꣳ सर्वासां
विद्यानाꣳ हृदयमेकायनमेवꣳ सर्वेषां कर्मणाꣳ
हस्तावेकायनमेवꣳ सर्वेषामानन्दानामुपस्थ एकायनमेवꣳ
सर्वेषां विसर्गाणां पायुरेकायनमेवꣳ सर्वेषामध्वनां
पादावेकायनमेवꣳ सर्वेषां वेदानां वागेकायनम् ॥ १२॥
मन्त्र १३[IV.v.13]
स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवै वं
वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एवैतेभ्यो
भूतेभ्यः समुत्थाय तान्येवानुविनयष्यतिति प्रज्ञानघनसेव
एतेभ्यस्भूतेभ्यस्समुत्थाय तानि एव अनुविनयति न प्रेत्य
सञ्ज्ञाऽस्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्यः ॥ १३॥
मन्त्र १४[IV.v.14]
सा होवाच मैत्रेय्यत्रैव मा भगवान्मोहान्तमापीपिपन् न वा अहमिमं
विजानामीति स होवाच न वा अरेऽहं मोहं ब्रवीम्यविनाशी वा
अरेऽयमात्माऽनुच्छित्तिधर्मा ॥ १४॥
मन्त्र १५[IV.v.15]
यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति तदितर इतरं
जिघ्रति तदितर इतरꣳ रसयते तदितर इतरमभिवदति तदितर
इतरꣳ शृणोति तदितर इतरं मनुते तदितर इतरꣳ स्पृशति
तदितर इतरं विजानाति । यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं
पश्येत् तत्केन कं जिघ्रेत् तत्केन कꣳ रसयेत् तत्केन कमभिवदेत्
तत्केन कꣳ शृणुयात् तत्केन कं मन्वीत तत्केन कꣳ स्पृशेत्
तत्केन कं विजानीयाद्येनेदꣳ सर्वं विजानाति तं केन विजानीयात्
स एष नेति नेत्याऽत्मागृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यते
ऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यति । विज्ञातारमरे
केन विजानीयादित्युक्तानुशासनासि मैत्रेय्येतावदरे खल्वमृतत्वमिति
होक्त्वा याज्ञवल्क्यो विजहार ॥ १५॥
इति पञ्चमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ षष्ठं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[IV.vi.1]
अथ वꣳशः पौतिमाष्यो गौपवनाद् गौपवनः पौतिमाष्यात्
पौतिमाष्यो गौपवनाद् गौपवनः कौशिकात् कौशिकः कौण्डिन्यात्
कौण्डिन्यः शाण्डिल्याच्छाण्डिल्यः कौशिकाच्च गौतमाच्च गौतमः ॥ १॥
मन्त्र २[IV.vi.2]
आग्निवेश्यादग्निवेश्यो गार्ग्याद् गार्ग्यो गार्ग्याद् गार्ग्यो गौतमाद् गौतमः
सैतवात् सैतवः पाराशर्यायणात् पाराशार्यायणो गार्ग्यायणाद् गार्ग्यायण
उद्दालकायनादुद्दालकायनो जाबालायनाज् जाबालायनो माध्यन्दिनायनान्
माध्यन्दिनायनः सौकरायणात् सौकरायणः काषायणात् काषायणः
सायकायनात् सायकायनः कौशिकायनेः कौशिकायनिः ॥ २॥
मन्त्र ३[IV.vi.3]
घृतकौशिकाद् घृतकौशिकः पाराशर्यायणात् पाराशर्यायणः
पाराशर्यात् पाराशर्यो जातूकर्ण्याज् जातूकर्ण्य आसुरायणाच्च यास्काच्चा
ऽऽसुरायणस्त्रैवणेस्त्रैवणिरौपजन्धनेरौपजन्धनिरासुरेरासुरिर्भारद्वाजाद्
भारद्वाज आत्रेयादात्रेयो माण्टेर्माण्टिर्गौतमाद् गौतमो गौतमाद् गौतमो
वात्स्याद् वात्स्यः शाण्डिल्याच्छाण्डिल्यः कैशोर्यात्काप्यात् कैशोर्यः
काप्यः कुमारहारितात् कुमारहारितो गालवाद् गालवो विदर्भीकौण्डिन्याद्
विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवाद् वत्सनपाद्बाभ्रव
पथः सौभरात् पन्थाः सौभरोऽयास्यादाङ्गिरसादयास्य
आङ्गिरस आभूतेस्त्वाष्ट्रादाभूतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्राद्
विश्वरूपस्त्वाष्ट्रोऽव्श्विभ्यामश्विनौ दधीच आथर्वणाद्
दध्यङ्ङाथर्वणोऽथर्वणो दैवादथर्वा दैवो मृत्योः
प्राध्वꣳसनान् मृत्युः प्राध्वꣳसनः प्रध्वꣳसनात्
प्रध्वꣳसन एकर्षेरेकर्षिर्विप्रचित्तेः विप्रचित्तिर्व्यष्टेर्व्यष्टिः
सनारोः सनारुः सनातनात् सनातनः सनगात् सनगः परमेष्ठिनः
परमेष्ठी ब्रह्मणो ब्रह्म स्वयम्भु ब्रह्मणे नमः ॥ ३॥
इति षष्ठं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
॥ इति बृहदारण्यकोपनिषदि चतुर्थोऽध्यायः ॥
अथ पञ्चमोऽध्यायः ।
अथ प्रथमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[V.i.1]
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय
पूर्णमेवावशिष्यते । ॐ३ खं ब्रह्म खं पुराणं वायुरं खमिति
ह स्माऽऽह कौरव्यायणीपुत्रो । वेदोऽयम्ं ब्राह्मणा विदुर्वेदैनेन
यद्वेदितव्यम् ॥ १॥
इति प्रथमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ द्वितीयं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[V.ii.1]
त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुर्देवा मनुष्या
असुरा उषित्वा ब्रह्मचर्यं देवा ऊचुर्ब्रवीतु नो भवानिति । तेभ्यो
हैतदक्षरमुवाच द इति व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति
होचुर्दाम्यतेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति ॥ १॥
मन्त्र २[V.ii.2]
अथ हैनं मनुष्या ऊचुर्ब्रवीतु नो भवानिति । तेभ्यो
हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति
होचुर्दत्तेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति ॥ २॥
मन्त्र ३[V.ii.3]
अथ हैनमसुरा ऊचुर्ब्रवीतु नो भवानिति । तेभ्यो हैतदेवाक्षरमुवाच
द इति व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति होचुर्दयध्वमिति न
आत्थेत्योमिति होवाच व्यज्ञासिष्टेति । तदेतदेवैषा दैवी वागनुवदति
स्तनयित्नुर्द द द इति दाम्यत दत्त दयध्वमिति । तदेतत्त्रयꣳ
शिक्षेद् दमं दानं दयामिति ॥ ३॥
इति द्वितीयं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ तृतीयं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[V.iii.1]
एष प्रजापतिर्यद्धृदयमेतद्ब्रह्मैतत्सर्वम् । तदेतत्त्र्यक्षरꣳ
हृदयमिति । हृ इत्येकमक्षरमभिहरन्त्यस्मै स्वाश्चान्ये च य
एवं वेद । द इत्येकमक्षरं ददत्यस्मै स्वाश्चान्ये च य एवं वेद ।
यमित्येकमक्षरमेति स्वर्गं लोकं य एवं वेद ॥ १॥
इति तृतीयं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ चतुर्थं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[V.iv.1]
तद्वै तदेतदेव तदास सत्यमेव । स यो हैतं महद्यक्षं
प्रथमजं वेद सत्यं ब्रह्मेति जयतीमाꣳल्लोकाञ् जित इन्न्वसावसद्
य एवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति सत्यꣳ
ह्येव ब्रह्म ॥ १॥
इति चतुर्थं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ पञ्चमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[V.v.1]
अप एवेदमग्र आसुस्ता आपः सत्यमसृजन्त सत्यं ब्रह्म
ब्रह्म प्रजापतिं प्रजापतिर्देवाꣳस्ते देवाः सत्यमेवोपासते
तदेतत्त्र्यक्षरꣳ सत्यमिति । स इत्येकमक्षरं तीत्येकमक्षरं
यमित्येकमक्षरम् । प्रथमोत्तमे अक्षरे सत्यं मध्यतोऽनृतं
तदेतदनृतमुभयतः सत्येन परिगृहीतꣳ सत्यभूयमेव भवति ।
नैनंविद्वाꣳसमनृतꣳ हिनस्ति ॥ १॥
मन्त्र २[V.v.2]
तद्यत्तत्सत्यमसौ स आदित्यो । य एष एतस्मिन्मण्डले पुरुषो
यश्चायं दक्षिणेऽक्षन् पुरुषस्तावेतावन्योऽन्यस्मिन्प्रतिष्ठितौ
रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः प्राणैरयममुष्मिन् स
यदोत्क्रमिष्यन्भवति शुद्धमेवैतन्मण्डलं पश्यति नैनमेते
रश्मयः प्रत्यायन्ति ॥ २॥
मन्त्र ३[V.v.3]
य एष एतस्मिन्मण्डले पुरुषस्तस्य भूरिति शिर एकꣳ शिर
एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे स्वरिति
प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे । तस्योपनिषदहरिति ।
हन्ति पाप्मानं जहाति च य एवं वेद ॥ ३॥
मन्त्र ४[V.v.4]
योऽयं दक्षिणेऽक्षन्पुरुषस्तस्य भूरिति शिरः एकꣳ शिर
एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे स्वरिति
प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे । तस्योपनिषदहमिति ।
हन्ति पाप्मानं जहाति च य एवं वेद ॥ ४॥
इति पज्ञ्चमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ षष्ठं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[V.vi.1]
मनोमयोऽयं पुरुषो भाःसत्यस्तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो
वा स एष सर्वस्य सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति
यदिदं किञ्च ॥ १॥
इति षष्ठं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ सप्तमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[V.vii.1]
विद्युद् ब्रह्मेत्याहुर्विदानाद्विद्युद् विद्यत्येनं पाप्मनो य एवं वेद
विद्युद्ब्रह्मेति । विद्युद्ध्येव ब्रह्म ॥ १॥
इति सप्तमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ अथाष्टमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[V.viii.1]
वाचं धेनुमुपासीत । तस्याश्चत्वारः स्तनाः स्वाहाकारो वषट्कारो
हन्तकारः स्वधाकारस्तस्यै द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं च
वषट्कारं च हन्तकारं मनुष्याः स्वधाकारं पितरः । तस्याः प्राण
ऋषभो मनो वत्सः ॥ १॥
इत्यष्टमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ नवमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[V.ix.1]
अयमाग्निर्वैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते
यदिदमद्यते । तस्यैष घोषो भवति यमेतत्कर्णावपिधाय शृणोति ।
स यदोत्क्रमिष्यन्भवति नैनं घोषꣳ शृणोति ॥ १॥
इति नवमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ दशमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[V.x.1]
यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति तस्मै स तत्र
विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्व आक्रमते । स
आदित्यमागच्छति तस्मै स तत्र विजिहीते यथालम्बरस्य खं तेन स
ऊर्ध्व आक्रमते । स चन्द्रमसमागच्छति तस्मै स तत्र विजिहीते यथा
दुन्दुभेः खं तेन स ऊर्ध्व आक्रमते । स लोकमागच्छत्यशोकमहिमं
तस्मिन्वसति शाश्वतीः समाः ॥ १॥
इति दशमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
एकादशं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[V.xi.1]
एतद्वै परमं तपो यद्व्याहितस्तप्यते परमꣳ हैव लोकं
जयति य एवं वेदैतद्वै परमं तपो यं प्रेतमरण्यꣳ हरन्ति
परमꣳ हैव लोकं जयति य एवं वेदैतद्वै परमं तपो यं
प्रेतमग्नावभ्यादधति परमꣳ हैव लोकं जयति य एवं वेद ॥ ११॥
इति एकादशं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ द्वादशं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् । [V.xii.1]
अन्नं ब्रह्मेत्येक आहुस्तन्न तथा
पूयति वा अन्नमृते प्राणात्
प्राणो ब्रह्मेत्येक आहुस्तन्न तथा
शुष्यति वै प्राण ऋतेऽन्नाद्
एते ह त्वेव देवते
एकधाभूयं भूत्वा
परमतां गच्छतस्तद्ध स्माऽऽह प्रातृदः पितरं
किꣳ स्विदेवैवं विदुषे साधु कुर्यां
किमेवास्मा असाधु कुर्यामिति ।
स ह स्माह पाणिना
मा
प्रातृद
कस्त्वेनयोरेकधाभूयं भूत्वा परमतां गच्छतीति ।
तस्मा उ हैतदुवाच
वीत्यन्नं वै वि
अन्ने हीमानि सर्वाणि भूतानि विष्टानि ।
रमिति
प्राणो वै रं
प्राणे हीमानि सर्वाणि भूतानि रमन्ते ।
सर्वाणि ह वा अस्मिन् भूतानि विशन्ति
सर्वाणि भूतानि रमन्ते
य एवं वेद ॥ १२॥
इति द्वादशं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ त्रयोदशं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[V.xiii.1]
उक्थं प्राणो वा उक्थं प्राणो हीदꣳ सर्वमुत्थापयत्युद्धास्मा
धस्मादुक्थविद्वीरस्तिष्ठत्युक्थस्य सायुज्यꣳ सलोकतां जयति य
एवं वेद ॥ १॥
मन्त्र २[V.xiii.2]
यजुः प्राणो वै यजुः प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते । युज्यन्ते
हास्मै सर्वाणि भूतानि श्रैष्ठ्याय यजुषः सायुज्यꣳ सलोकतां
जयति य एवं वेद ॥ २॥
मन्त्र ३[V.xiii.3]
साम प्राणो वै साम प्राणे हीमानि सर्वाणि भूतानि सम्यञ्चि । सम्यञ्चि
हास्मै सर्वाणि भूतानि श्रैष्ठ्याय कल्पन्ते साम्नः सायुज्यꣳ
सलोकतां जयति य एवं वेद ॥ ३॥
मन्त्र ४[V.xiii.4]
क्षत्रं प्राणो वै क्षत्रं प्राणो हि वै क्षत्रं त्रायते हैनं प्राणः
क्षणितोः । प्र क्षत्रमत्रमप्नोति क्षत्रस्य सायुज्यꣳ सलोकतां
जयति य एवं वेद ॥ ४॥
इति त्रयोदशं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ चतुर्दशं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[V.xiv.1]
भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराण्यष्टाक्षरꣳ ह वा एकं
गायत्र्यै पदमेतदु हैवास्या एतत् स यावदेषु त्रिषु लोकेषु तावद्ध
जयति योऽस्या एतदेवं पदं वेद ॥ १॥
मन्त्र २[V.xiv.2]
ऋचो यजूꣳषि सामानीत्यष्टावक्षराण्यष्टाक्षरꣳ ह वा एकं
गायत्र्यै पदम् । एतदु हैवास्या एतत् स यावतीयं त्रयी विद्या तावद्ध
जयति योऽस्या एतदेवं पदं वेद ॥ २॥
मन्त्र ३[V.xiv.3]
प्राणोऽपानो व्यान इत्यष्टावक्षराणि अष्टाक्षरꣳ ह वा एकं गायत्र्यै
पदमेतदु हैवास्या एतत् स यावदिदं प्राणि तावद्ध जयति योऽस्या
एतदेवं पदं वेद अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य
एष तपति यद्वै चतुर्थं तत्तुरीयं दर्शतं पदमिति ददृश
इव ह्येष परोरजा इति सर्वमु ह्येवैष रज उपर्युपरि तपत्येवꣳ
हैव श्रिया यशसा तपति योऽस्या एतदेवं पदं वेद ॥ ३॥
मन्त्र ४[V.xiv.4]
सैषा गायत्र्येतस्मिꣳस्तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता
तद्वै तत्सत्ये प्रतिष्ठितं चक्षुर्वै सत्यं चक्षुर्हि
वै सत्यं तस्माद्यदिदानीं द्वौ विवदमानावेयातामहम् अदर्शं
अहमश्रौषमिति य एव एवं ब्रूयादहम् अदर्शमिति तस्मा एव
श्रद्दध्याम । तद्वै तत्सत्यं बले प्रतिष्ठितं प्राणो वै बलं
तत्प्राणे प्रतिष्ठितं तस्मादाहुर्बलꣳ सत्यादोगीय इत्येवं वेषा
गायत्र्यध्यात्मं प्रतिष्ठिता । सा हैषा गयाꣳस्तत्रे प्राणा वै
गयास्तत्प्राणाꣳस्तत्रे तद्यद्गयाꣳस्तत्रे तस्माद् गायत्री नाम ।
स यामेवामूꣳ सावित्रीमन्वाहैषैव सा । स यस्मा अन्वाह तस्य
प्राणाꣳस्त्रायते ॥ ४॥
मन्त्र ५[V.xiv.5]
ताꣳ हैतामेके सावित्रीमनुष्टुभमन्वाहुर्वागनुष्टुब् एतद्वाचमनुब्रूम
इति । न तथा कुर्याद् गायत्रीमेवानुब्रूयाद् । यदि ह वा अप्येवंविद्बह्विव
प्रतिगृह्णाति न हैव तद्गायत्र्या एकं चन पदं प्रति ॥ ५॥
मन्त्र ६[V.xiv.6]
स य इमाꣳस्त्रींल्लोकान्पूर्णान्प्रतिगृह्णीयात् सोऽस्या एतत्प्रथमं
पदमाप्नुयाद् । अथ यावतीयं त्रयी विद्या यस्तावत्प्रतिगृह्णीयात्
सोऽऽस्या एतद्द्वितीयं पदमाप्नुयादथ यावदिदं प्राणि
यस्तावत्प्रतिगृह्णीयात् सोऽस्या एतत्तृतीयं पदमाप्नुयादथास्या
एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति नैव केन
चनाप्यं कुत उ एतावत्प्रतिगृह्णीयात् ॥ ६॥
मन्त्र ७[V.xiv.7]
तस्या उपस्थानं गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि न
हि पद्यसे । नमस्ते तुरीयाय दर्शताय पदाय परोरजसेऽसावदो मा
प्रापदिति यं द्विष्यादसावस्मै कामो मा समृद्धीति वा न हैवास्मै स
कामः समृद्ध्यते यस्मा एवमुपतिष्ठतेऽहमदः प्रापमिति वा ॥ ७॥
मन्त्र ८[V.xiv.8]
एतद्ध वै तज्जनको वैदेहो बुडिलमाश्वतराश्विमुवाच यन्नु हो
तद्गायत्रीविदब्रूथा अथ कथꣳ हस्ती भूतो वहसीति । मुखꣳ
ह्यस्याः सम्राण् न विदां चकारेति होवाच । तस्या अग्निरेव मुखं
यदि ह वा अपि बह्विवाग्नावभ्यादधति सर्वमेव तत्सन्दहत्येवꣳ
हैवैवंविद् यद्यपि बह्विव पापं कुरुते सर्वमेव तत्सम्प्साय शुद्धः
पूतोऽजरोऽमृतः सम्भवति ॥ ८॥
इति चतुर्दशं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ पञ्चदशं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[V.xv.1]
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत्त्वं पूषन्न् अपावृणु
सत्यधर्माय दृष्टये । पूषन्न् एकर्षे यम सूर्य प्राजापत्य
व्यूह रश्मीन् । समूह तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि ।
योऽसावसौ पुरुषः सोऽहमस्मि । वायुरनिलममृतमथेदं
भस्मान्तꣳ शरीरम् । ॐ३ क्रतो स्मर कृतꣳ स्मर क्रतो स्मर
कृतꣳ स्मर । अग्ने नय सुपथा रायेऽस्मान् विश्वानि देव वयुनानि
विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥ १॥
इति पञ्चदशं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
॥ इति बृहदारण्यकोपनिषदि पञ्चमोऽध्यायः ॥
अथ षष्ठोऽध्यायः ।
अथ प्रथमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
मन्त्र १[VI.i.1]
ॐ यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च
श्रेष्ठश्च स्वानां भवति । प्राणो वै ज्येष्ठश्च श्रेष्ठश्च ।
ज्येष्ठश्च श्रेष्ठश्च स्वानां भवत्यपि च येषां बुभूषति य
एवं वेद ॥ १॥
मन्त्र २[VI.i.2]
यो ह वै वसिष्ठां वेद वसिष्ठः स्वानां भवति । वाग्वै वसिष्ठा ।
वसिष्ठः स्वानां भवत्यपि च येषां बुभूषति , य एवं वेद ॥ २॥
मन्त्र ३[VI.i.3]
यो ह वै प्रतिष्ठां वेद प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे ।
चक्षुर्वै प्रतिष्ठा चक्षुषा हि समे च दुर्गे च प्रतितिष्ठति ।
प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे य एवं वेद ॥ ३॥
मन्त्र ४[VI.i.4]
यो ह वै सम्पदं वेद सꣳ हास्मै पद्यते यं कामं कामयते ।
श्रोत्रं वै सम्पच्छ्रोत्रे हीमे सर्वे वेदा अभिसम्पन्नाः । सꣳ
हास्मै पद्यते यं कामं कामयते य एवं वेद ॥ ४॥
मन्त्र ५[VI.i.5]
यो ह वा आयतनं वेदाऽऽयतनꣳ स्वानां भवति आयतनं जनानाम् ।
मनो वा आयतनमायतनꣳ स्वानां भवत्यायतनं जनानां य एवं
वेद ॥ ५॥
मन्त्र ६[VI.i.6]
यो ह वै प्रजातिं वेद प्रजायते ह प्रजया पशुभी रेतो वै प्रजातिः ।
प्रजायते ह प्रजया पशुभिर्य एवं वेद ॥ ६॥
मन्त्र ७[VI.i.7]
ते हेमे प्राणा अहꣳश्रेयसे विवदमाना ब्रह्म जग्मुस्तद्धोचुः को नो
वसिष्ठ इति । तद्धोवाच यस्मिन्व उत्क्रान्त इदꣳ शरीरं पापीयो
मन्यते स वो वसिष्ठ इति ॥ ७॥
मन्त्र ८[VI.i.8]
वाग्घोच्चक्राम । सा संवत्सरं प्रोष्या।आ।आगत्योवाच कथमशकत
मदृते जीवितुमिति । ते होचुर्यथाऽकला अवदन्तो वाचा प्राणन्तः
प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वाꣳसो मनसा
प्रजायमाना रेतसैवमजीविष्मेति । प्रविवेश ह वाक् ॥ ८॥
मन्त्र ९[VI.i.9]
चक्षुर्होच्चक्राम । तत्संवत्सरं प्रोष्याऽऽगत्योवाच कथमशकत
मदृते जीवितुमिति । ते होचुर्यथान्धा अपश्यन्तश्चक्षुषा
प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण विद्वाꣳसो
मनसा प्रजायमाना रेतसैवमजीविष्मेति । प्रविवेश ह चक्षुः ॥ ९॥
मन्त्र १०[VI.i.10]
श्रोत्रꣳ होच्चक्राम । तत्संवत्सरं प्रोष्याऽऽगत्योवाच
कथमशकत मदृते जीवितुमिति । ते होचुर्यथा बधिरा अशृण्वन्तः
श्रोत्रेण प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा
विद्वाꣳसो मनसा प्रजायमाना रेतसैवमजीविष्मेति । प्रविवेश ह
श्रोत्रम् ॥ १०॥
मन्त्र ११[VI.i.11]
मनो होच्चक्राम । तत्संवत्सरं प्रोष्याऽऽगत्योवाच कथमशकत
मदृते जीवितुमिति । ते होचुर्यथा मुग्धा अविद्वाꣳसो मनसा
प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः
श्रोत्रेण प्रजायमाना रेतसैवमजीविष्मेति । प्रविवेश ह मनः ॥ ११॥
मन्त्र १२[VI.i.12]
रेतो होच्चक्राम । तत्संवत्सरं प्रोष्याऽऽगत्योवाच कथमशकत
मदृते जीवितुमिति । ते होचुर्यथा क्लीबा अप्रजायमाना रेतसा प्राणन्तः
प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण
विद्वाꣳसो मनसैवमजीविष्मेति । प्रविवेश ह रेतः ॥ १२॥
मन्त्र १३[VI.i.13]
अथ ह प्राण उत्क्रमिष्यन् यथा महासुहयः सैन्धवः
पड्वीशशङ्कून्संवृहेदेवꣳ हैवेमान्प्राणान्संववर्ह । ते होचुर्मा
भगव उत्क्रमीर्न वै शक्ष्यामस्त्वदृते जीवितुमिति । तस्यो मे बलिं
कुरुतेति तथेति ॥ १३॥
मन्त्र १४[VI.i.14]
सा ह वागुवाच यद्वा अहं वसिष्ठाऽस्मि त्वं तद्वसिष्ठोऽसीति ।
यद् वा अहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठोऽसीति चक्षुर्यद्वा
अहꣳ सम्पदस्मि त्वं तत् सम्पदसीति श्रोत्रम् । यद् वा
अहमायतनमस्मि त्वं तदायतनमसीति मनो यद्वा अहं प्रजातिरस्मि
त्वं तत् प्रजातिरसीति रेतस्तस्यो मे किमन्नं किं वास इति । यदिदं
किञ्चाऽऽश्वभ्य आ कृमिभ्य आ कीटपतङ्गेभ्यस्तत्तेऽन्नमापो
वास इति । न ह वा अस्यानन्नं जग्धं भवति नानन्नं प्रतिगृहीतं
य एवमेतदनस्यान्नं वेद । तद् विद्वाꣳसः श्रोत्रिया अशिष्यन्त
आचामन्त्यशित्वाऽऽचामन्त्येतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते ॥ १४॥
इति प्रथमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ द्वितीयं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[VI.ii.1]
श्वेतकेतुर्ह वा आरुणेयः पञ्चालानां परिषदमाजगाम । स आजगाम
जैवलिं प्रवाहणं परिचारयमाणम् । तमुदीक्ष्याभ्युवाद कुमारा३ इति ।
स भोः ३ इति प्रतिशुश्राव अनुशिष्टोऽन्वसि पित्रेत्योमिति होवाच ॥ १॥
मन्त्र २[VI.ii.2]
वेत्थ यथेमाः प्रजाः प्रयत्यो विप्रतिपद्यन्ता३ इति । नेति होवाच ।
वेत्थो यथेमं लोकं पुनरापद्यन्ता३ इति । नेति हैवोवाच । वेत्थो
यथाऽसौ लोक एवं बहुभिः पुनःपुनः प्रयद्भिर्न सम्पूर्यता३ इति
नेति हैवोवाच । वेत्थो यतिथ्यामाहुत्याꣳ हुतायामापः पुरुषवाचो
भूत्वा समुत्थाय वदन्ती३ इति । नेति हैवोवाच । वेत्थो देवयानस्य वा
पथः प्रतिपदं पितृयाणस्य वा यत्कृत्वा देवयानं वा पन्थानं
प्रतिपद्यन्ते पितृयाणं वाऽपि हि न ऋषेर्वचः श्रुतं द्वे
सृती अशृणवं पितृणामहं देवानामुत मर्त्यानां ताभ्यामिदं
विश्वमेजत्समेति यदन्तरा पितरं मातरं चेति । नाहमत एकं चन
वेदेति होवाच ॥ २॥
मन्त्र ३[VI.ii.3]
अथैनं वसत्योपमन्त्रयां चक्रेऽनादृत्य वसतिं कुमारः
प्रदुद्राव । स आजगाम पितरं तꣳ होवाचेति वाव किल नो
भवान्पुराऽनुशिष्टानवोच इति । कथꣳ, सुमेध इति । पञ्च
मा प्रश्नान्राजन्यबन्धुरप्राक्षीत् ततो नैकञ्चन वेदेति । कतमे त
इति इम इति ह प्रतीकान्युदाजहार ॥ ३॥
मन्त्र ४[VI.ii.4]
स होवाच तथा नस्त्वं तात जानीथा यथा यदहं किञ्च वेद
सर्वमहं तत्तुभमवोचम् । प्रेहि तु तत्र प्रतीत्य ब्रह्मचर्यं
वत्स्याव इति । भवानेव गच्छत्विति । स आजगाम गौतमो यत्र
प्रवाहणस्य जैवलेरास । तस्मा आसनमाहृत्योदकमहारयां चकाराथ
हास्मा अर्घ्यं चकार । तꣳ होवाच वरं भगवते गौतमाय दद्म
इति ॥ ४॥
मन्त्र ५[VI.ii.5]
स होवाच प्रतिज्ञातो म एष वरो यां तु कुमारस्यान्ते
वाचमभाषथास्तां मे ब्रूहीति ॥ ५॥
मन्त्र ६[VI.ii.6]
स होवाच दैवेषु वै गौतम तद्वरेषु मानुषाणां ब्रूहीति ॥ ६॥
मन्त्र ७[VI.ii.7]
स होवाच विज्ञायते हास्ति हिरण्यस्यापात्तं गोअश्वानां दासीनां प्रवाराणां
परिधानस्य मा नो भवान्बहोरनन्तस्यापर्यन्तस्याभ्यवदान्यो भूदिति ।
स वै गौतम तीर्थेनेच्छासा इत्युपैम्यहं भवन्तमिति वाचा ह स्मैव
पूर्व उपयन्ति । स होपायनकीर्त्योवास ॥ ७॥
मन्त्र ८[VI.ii.8]
स होवाच तथा नस्त्वं गौतम माऽपराधास्तव च पितामहा यथेयं
विद्येतः पूर्वं न कस्मिꣳश्चन ब्राह्मण Vraja Loka Astro Spiritual Counselling उवास तां त्वहं तुभ्यं
वक्ष्यामि को हि त्वैवं ब्रुवन्तमर्हति प्रत्याख्यातुमिति ॥ ८॥
मन्त्र ९[VI.ii.9]
असौ वै लोकोऽग्निर्गौतम । तस्याऽऽदित्य एव समिद् रश्मयो धूमो
ऽहरर्चिर्दिशोऽङ्गारा अवान्तरदिशो विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ
देवाः श्रद्धां जुह्वति तस्या आहुत्यै सोमो राजा सम्भवति ॥ ९॥
मन्त्र १०[VI.ii.10]
पर्जन्यो वा अग्निर्गौतम । तस्य संवत्सर एव समिदभ्राणि धूमो
विद्युदर्चिरशनिरङ्गारा ह्रादुनयो विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ
देवाः सोमꣳ राजानं जुह्वति तस्या आहुत्यै वृष्टिः सम्भवति ॥ १०॥
मन्त्र ११[VI.ii.11]
अयं वै लोकोऽग्निर्गौतम । तस्य पृथिव्येव समिद्
अग्निर्धूमो रात्रिरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि
विष्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा वृष्टिं जुह्वति तस्या आहुत्या
अन्नꣳ सम्भवति ॥ ११॥
मन्त्र १२[VI.ii.12]
पुरुषो वा अग्निर्गौतम । तस्य व्यात्तमेव समित् प्राणो धूमो
वागर्चिश्चक्षुरङ्गाराः श्रोत्रं विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ
देवा अन्नं जुह्वति तस्या आहुत्यै रेतः सम्भवति ॥ १२॥
मन्त्र १३[VI.ii.13]
योषा वा आग्निर्गौतम । तस्या उपस्थ एव समिल्लोमानि
धूमो योनिरर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा
विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुत्यै पुरुषः
सम्भवति । स जीवति यावज्जीवत्यथ यदा म्रियते । १३॥
मन्त्र १४[VI.ii.14]
अथैनमग्नये हरन्ति । तस्याग्निरेवाग्निर्भवति समित्समिद्
धूमो धूमोऽर्चिरर्चिरङ्गारा अङ्गारा विस्फुलिङ्गा
विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवाः पुरुषं जुह्वति तस्या आहुत्यै
पुरुषो भास्वरवर्णः सम्भवति ॥ १४॥
मन्त्र १५[VI.ii.15]
ते य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धाꣳ सत्यमुपासते
तेऽर्चिरभिसम्भवन्त्यर्चिषोऽहोऽह्न आपूर्यमाणपक्षं
आपूर्यमाणपक्षाद्यान्षण्मासानुदङ्ङादित्य एति मासेभ्यो देवलोकं
देवलोकादादित्यमादित्याद्वैद्युतं तान्वैद्युतान्पुरुषो मानस एत्य
ब्रह्मलोकान् गमयति ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति ।
तेषां न पुनरावृत्तिः ।
मन्त्र १६[VI.ii.16]
अथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्ति ते
धूममभिसम्भवन्ति धूमाद्रात्रिꣳ, रात्रेरपक्षीयमाणपक्षं
अपक्षीयमाणपक्षाद्यान्षण्मासान्दक्षिणादित्य एति मासेभ्यः
पितृलोकं पितृलोकाच्चन्द्रं ते चन्द्रं प्राप्यान्नं
भवन्ति ताꣳस्तत्र देवा यथा सोमꣳ राजानमाप्यायस्व
अपक्षीयस्वेत्येवमेनाꣳस्तत्र भक्षयन्ति । तेषां यदा
तत्पर्यवैत्यथेममेवाऽऽकाशमभिनिष्पद्यन्ते आकाशाद्वायुं
वायोर्वृष्टिं वृष्टेः पृथिवीं ते पृथिवीं प्राप्यान्नं भवन्ति ते
पुनः पुरुषाग्नौ हूयन्ते ततो योषाग्नौ जायन्ते ते लोकान्प्रत्युथायिनस्त
एवमेवानुपरिवर्तन्तेऽथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा
यदिदं दन्दशूकम् ॥ १६॥
इति द्वितीयं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ तृतीयं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[VI.iii.1]
स यः कामयते महत्प्राप्नुयामित्युदगयन आपूर्यमाणपक्षस्य
पुण्याहे द्वादशाहमुपसद्व्रती भूत्वौदुम्बरे कꣳसे चमसे वा
सर्वौषधं फलानीति सम्भृत्य परिसमुह्य परिलिप्याग्निमुपसमाधाय
परिस्तीर्याऽऽवृताऽऽज्यꣳ सꣳस्कृत्य पुꣳसा नक्षत्रेण
मन्थꣳ सन्नीय जुहोति । यावन्तो देवास्त्वयि जातवेदस्तिर्यञ्चो
घ्नन्ति पुरुषस्य कामान् तेभ्योऽहं भागधेयं जुहोमि ते मा तृप्ताः
सर्वैः कामैस्तर्पयन्तु स्वाहा । या तिरश्ची निपद्यतेऽहं विधरणी
इति तां त्वा घृतस्य धारया यजे सꣳराधनीमहꣳ । स्वाहा ॥ १॥
मन्त्र २[VI.iii.2]
ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्यग्नौ हुत्वा मन्थे
सꣳस्रवमवनयति । प्राणाय स्वाहा वसिष्ठायै स्वाहेत्यग्नौ हुत्वा
मन्थे सꣳस्रवमवनयति । वाचे स्वाहा प्रतिष्ठायै स्वाहेत्यग्नौ
हुत्वा मन्थे सꣳस्रवमवनयति । चक्षुषे स्वाहा सम्पदे स्वाहेति
अग्नौ हुत्वा मन्थे सꣳस्रवमवनयति । श्रोत्राय स्वाहाऽऽयतनाय
स्वाहेत्यग्नौ हुत्वा मन्थे सꣳस्रवमवनयति । मनसे स्वाहा प्रजात्यै
स्वाहेत्यग्नौ हुत्वा मन्थे सꣳस्रवमवनयति । रेतसे स्वाहेति अग्नौ
हुत्वा मन्थे सꣳस्रवमवनयति ॥ २॥
मन्त्र ३[VI.iii.3]
अग्नये स्वाहेत्यग्नौ हुत्वा मन्थे सꣳस्रवमवनयति । सोमाय
स्वाहेत्यग्नौ हुत्वा मन्थे सꣳस्रवमवनयति । भूः स्वाहेत्यग्नौ
हुत्वा मन्थे सꣳस्रवमवनयति । भुवः स्वाहेत्यग्नौ हुत्वा
मन्थे सꣳस्रवमवनयति । स्वः स्वाहेत्यग्नौ हुत्वा मन्थे
सꣳस्रवमवनयति । भूर्भुवः स्वः स्वाहेत्यग्नौ हुत्वा
मन्थे सꣳस्रवमवनयति । ब्रह्मणे स्वाहेत्यग्नौ हुत्वा
मन्थे सꣳस्रवमवनयति । क्षत्राय स्वाहेत्यग्नौ हुत्वा
मन्थे सꣳस्रवमवनयति । भूताय स्वाहेत्यग्नौ हुत्वा मन्थे
सꣳस्रवमवनयति । भविष्यते स्वाहेत्यग्नौ हुत्वा मन्थे
सꣳस्रवमवनयति । विश्वाय स्वाहेत्यग्नौ हुत्वा मन्थे
सꣳस्रवमवनयति । सर्वाय स्वाहेत्यग्नौ हुत्वा मन्थे
सꣳस्रवमवनयति । प्रजापतये स्वाहेत्यग्नौ हुत्वा मन्थे
सꣳस्रवमवनयति ॥ ३॥
मन्त्र ४[VI.iii.4]
अथैनमभिमृशति भ्रमदसि ज्वलदसि
पूर्णमसि प्रस्तब्धमस्येकसभमसि हिङ्कृतमसि
हिङ्क्रियमाणमस्युद्गीथमस्युद्गीयमानमसि श्रावितमसि
प्रत्याश्रावितमस्यर्द्रे सन्दीप्तमसि विभूरसि प्रभूरस्यन्नमसि
ज्योतिरसि निधनमसि संवर्गोऽसीति ॥ ४॥
मन्त्र ५[VI.iii.5]
अथैनमुद्यच्छत्यमꣳस्यामꣳ हि ते महि । स हि
राजेशानोऽधिपतिः स माꣳ राजेशनोऽधिपतिं करोत्विति ॥ ५॥
मन्त्र ६[VI.iii.6]
अथैनमाचामति तत्सवितुर्वरेण्यम् । मधु वाता ऋतायते मधु
क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः । भूः स्वाहा । भर्गो
देवस्य धीमहि मधु नक्तमुतोषसो मधुमत्पार्थिवꣳ रजः । मधु
द्यौरस्तु नः पिता । भुवः स्वाहा । धियो यो नः प्रचोदयात् । मधुमान्नो
वनस्पतिर्मधुमाꣳ अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः । स्वः
स्वाहेति । सर्वां च सावित्रीमन्वाह सर्वाश्च मधुमतीरहमेवेदꣳ
सर्वं भूयासम् । भूर्भुवः स्वः स्वाहेत्यन्तत आचम्य पाणी प्रक्षाल्य
जघनेनाग्निं प्राक्षिराः संविशति । प्रातरादित्यमुपतिष्ठते
दिशामेकपुण्डरीकमसि अहं मनुष्याणामेकपुण्डरीकं भूयासमिति ।
यथेतमेत्य जघनेनाग्निमासीनो वꣳशं जपति ॥ ६॥
मन्त्र ७[VI.iii.7]
तꣳ हैतमूद्दालक आरुणिर्वाजसनेयाय याज्ञवल्क्यायान्तेवासिन
उक्त्वोवाचापि य एनꣳ शुष्के स्थाणौ निषिञ्चेज् शुष्के स्थाणौ
निषिञ्चेत् जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ७॥
मन्त्र ८[VI.iii.8]
एतमु हैव वाजसनेयो याज्ञवल्क्यो मधुकाय पैङ्ग्यायान्तेवासिन
उक्त्वोवाचापि य एनꣳ शुष्के स्थाणौ निषिञ्चेज् स्थाणौ निषिञ्चेत्
जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ८॥
मन्त्र ९[VI.iii.9]
एतमु हैव मधुकः पैङ्ग्यश्चूलाय भागवित्तयेऽन्तेवासिन
उक्त्वोवाचापि य एनꣳ शुष्के स्थाणौ निषिञ्चेज् जायेरञ्छाखाः
प्ररोहेयुः पलाशानीति ॥ ९॥
मन्त्र १०[VI.iii.10]
एतमु हैव चूलो भागवित्तिर्जानकय आयस्थूणायान्तेवासिन उक्त्वोवाचापि य
एनꣳ शुष्के स्थाणौ निषिञ्चेज् यसेनम् शुष्के स्थाणौ निषिञ्चेत्
जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ १०॥
मन्त्र ११[VI.iii.11]
एतमु हैव जानकिरयस्थूणः सत्यकामाय जाबालायान्तेवासिन उक्त्वोवाचापि
य एनꣳ शुष्के स्थाणौ निषिञ्चेज् जायेरञ्छाखाः प्ररोहेयुः
पलाशानीति ॥ ११॥
मन्त्र १२[VI.iii.12]
एतमु हैव सत्यकामो जाबालोऽन्तेवासिभ्य उक्त्वोवाचापि य एनꣳ
शुष्के स्थाणौ निषिञ्चेज् जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ।
तमेतं नापुत्राय वाऽनन्तेवासिने वा ब्रूयात् ॥ १२॥
मन्त्र १३[VI.iii.13]
चतुरौदुम्बरो भवत्यौदुम्बरः स्रुव औदुम्बरश्चमस औदुम्बर
इध्म औदुम्बर्या उपमन्थन्यौ । दश ग्राम्याणि धान्यानि भवन्ति
व्रीहियवास्तिलमाषा अणुप्रियङ्गवो गोधूमाश्च मसूराश्च खल्वाश्च
खलकुलाश्च तान्पिष्टान्दधनि मधुनि घृत उपसिञ्चत्याज्यस्य
जुहोति ॥ १३॥
इति तृतीयं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ चतुर्थं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[VI.iv.1]
एषां वै भूतानां पृथिवी रसः पृथिव्या आपोऽपामोषधय
ओषधीनां पुष्पाणि पुष्पाणां फलानि फलानां पुरुषः पुरुषस्य रेतः ॥ १॥
मन्त्र २[VI.iv.2]
स ह प्रजापतिरीक्षांचक्रे हन्तास्मै प्रतिष्ठां कल्पयानीति स
स्त्रियꣳ ससृजे । ताꣳ सृष्ट्वाऽध उपास्त तस्मात्स्त्रियमध
उपासीत स एतं प्राञ्चं ग्रावाणमात्मन एव समुदपारयत्
तेनैनामभ्यसृजत् ॥ २॥
मन्त्र ३[VI.iv.3]
तस्या वेदिरुपस्थो लोमानि बर्हिश्चर्माधिषवणे समिद्धो मध्यतस्तौ
मुष्कौ । स यावान्ह वै वाजपेयेन यजमानस्य लोको भवति तावानस्य
लोको भवति य एवं विद्वानधोपहासं चरत्यासाꣳ स्त्रीणाꣳ
सुकृतं वृङ्क्तेऽथ य इदमविद्वानधोपहासं चरत्याऽस्य स्त्रियः
सुकृतं वृञ्जते ॥ ३॥
मन्त्र ४[VI.iv.4]
एतद्ध स्म वै तद्विद्वानुद्दालक आरुणिराहैतद्ध स्म वै तद्विद्वान्नाको
मौद्गल्य आहैतद्ध स्म वै तद्विद्वान् कुमारहारित आह एतद् ध स्म
वै तद् विद्वान् कुमारहारितसाह बहवो मर्या ब्राह्मणायना निरिन्द्रिया
विसुकृतोऽस्माल्लोकात्प्रयन्ति य इदमविद्वाꣳसोऽधोपहासं चरन्तीति ।
बहु वा इदꣳ सुप्तस्य वा जाग्रतो वा रेतः स्कन्दति ॥ ४॥
मन्त्र ५[VI.iv.5]
तदभिमृशेदनु वा मन्त्रयेत यन्मेऽद्य रेतः पृथिवीमस्कान्त्सीद्
यदोषधीरप्यसरद् यदपः । इदमहं तद्रेत आददे
पुनर्मामैत्विन्द्रियं पुनस्तेजः पुनर्भगः । पुनरग्निर्धिष्ण्या
यथास्थानं कल्पन्तामित्यनामिकाङ्गुष्ठाभ्यामादायान्तरेण स्तनौ वा
भ्रुवौ वा निमृज्यात् ॥ ५॥
मन्त्र ६[VI.iv.6]
अथ यद्युदक आत्मानं पश्येत् तदभिमन्त्रयेत मयि तेज
इन्द्रियं यशो द्रविणꣳ सुकृतमिति । श्रीर्ह वा एषा स्त्रीणां
यन्मलोद्वासास्तस्मान्मलोद्वाससं यशस्विनीमभिक्रम्योपमन्त्रयेत ॥ ६॥
मन्त्र ७[VI.iv.7]
सा चेदस्मै न दद्यात् काममेनामवक्रिणीयात् सा चेदस्मै नैव दद्यात्
काममेनां यष्ट्या वा पाणिना वोपहत्यातिक्रामेदिन्द्रियेण ते यशसा यश
आदद इत्ययशा एव भवति ॥ ७॥
मन्त्र ८[VI.iv.8]
सा चेदस्मै दद्यादिन्द्रियेण ते यशसा यश आदधामीति यशस्विनावेव
भवतः ॥ ८॥
मन्त्र ९[VI.iv.9]
स यामिच्छेत् कामयेत मेति तस्यामर्थं निष्ठाय मुखेन मुखꣳ
सन्धायोपस्थमस्या अभिमृश्य जपेदङ्गादङ्गात्सम्भवसि
हृदयादधिजायसे । स त्वमङ्गकषायोऽसि दिग्धविद्धमिव
मादयेमाममूं मयीति ॥ ९॥
मन्त्र १०[VI.iv.10]
अथ यामिच्छेन् न गर्भं दधीतेति तस्यामर्थं निष्ठाय मुखेन
मुखꣳ सन्धायाभिप्राण्यापान्यादिन्द्रियेण ते रेतसा रेत आदद इत्यरेता
एव भवति ॥ १०॥
मन्त्र ११[VI.iv.11]
अथ यामिच्छेद् दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखꣳ
सन्धायापान्याभिप्राण्यादिन्द्रियेण ते रेतसा रेत आदधामीति गर्भिण्येव
भवति ॥ ११॥
मन्त्र १२[VI.iv.12]
अथ यस्य जायायै जारः स्यात् तं चेद् द्विष्यादामपात्रेऽग्निमुपसमाधाय
प्रतिलोमꣳ शरबर्हिस्तीर्त्वा तस्मिन्नेताः शरभृष्टीः
प्रतिलोमाः सर्पिषाऽक्ता जुहुयान् मम समिद्धेऽहौषीः प्राणापानौ
त आददेऽसाविति । मम समिद्धेऽहौषीः पुत्रपशूꣳस्त आददे
ऽसाविति । मम समिद्धेऽहौषीरिष्टासुकृते त आददेऽसाविति ।
मम समिद्धेऽहौषीराशापराकाशौ त आददेऽसाविति । स वा एष
निरिन्द्रियो विसुकृतोऽस्माल्लोकात्प्रैति यमेवंविद्ब्राह्मणः शपति ।
तस्मादेवंवित्छ्रोत्रियस्य दारेण नोपहासमिच्छेदुत ह्येवंवित्परो
भवति ॥ १२॥
मन्त्र १३[VI.iv.13]
अथ यस्य जायामार्तवं विन्देत् त्र्यहं कꣳसे न पिबेदहतवासा
नैनां वृषलो न वृषल्युपहन्यात् अपहन्यात् त्रिरात्रान्त आप्लुत्य
व्रीहीनवघातयेत् ॥ १३॥
मन्त्र १४[VI.iv.14]
स य इच्छेत् पुत्रो मे शुक्लो जायेत वेदमनुब्रुवीत सर्वमायुरियादिति
क्षीरौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै ॥ १४॥
मन्त्र १५[VI.iv.15]
अथ य इच्छेत् पुत्रो मे कपिलः पिङ्गलो जायेत द्वौ वेदावनुब्रुवीत
सर्वमायुरियादिति दध्योदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ
जनयितवै ॥ १५॥
मन्त्र १६[VI.iv.16]
अथ य इच्छेत् पुत्रो मे श्यामो लोहिताक्षो जायेत त्रीन्वेदाननुब्रुवीत
सर्वमायुरियादित्युदौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ
जनयितवै ॥ १६॥
मन्त्र १७[VI.iv.17]
अथ य इच्छेद् दुहिता मे पण्डिता जायेत सर्वमायुरियादिति तिलौदनं
पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै ॥ १७॥
मन्त्र १८[VI.iv.18]
अथ य इच्छेत् पुत्रो मे पण्डितो विगीतः समितिङ्गमः शुश्रूषितां
वाचं भाषिता जायेत सर्वान्वेदाननुब्रुवीत सर्वमायुरियादिति
माꣳसौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै ।
औक्षेण वाऽऽर्षभेण वा ॥ १८॥
मन्त्र १९[VI.iv.19]
अथाभिप्रातरेव स्थालीपाकावृताऽऽज्यं चेष्टित्वा
स्थालीपाकस्योपघातं जुहोत्यग्नये स्वाहाऽनुमतये स्वाहा देवाय सवित्रे
सत्यप्रसवाय स्वाहेति हुत्वोद्धृत्य प्राश्नाति । प्राश्येतरस्याः
प्रयच्छति । प्रक्षाल्य पाणी उदपात्रं पूरयित्वा तेनैनां
त्रिरभ्युक्षत्युत्तिष्ठातो विश्वावसोऽन्यामिच्छ प्रपूर्व्याꣳ सं
जायां पत्या सहेति ॥ १९॥
मन्त्र २०[VI.iv.20]
अथैनामभिपद्यतेऽमोऽहमस्मि सा त्वꣳ सा त्वमस्यमोऽहꣳ
सामाहमस्मि ऋक्त्वं द्यौरहं पृथिवी त्वम् । तावेहि सꣳरभावहै
सह रेतो दधावहै पुꣳसे पुत्राय वित्तय इति ॥ २०॥
मन्त्र २१[VI.iv.21]
अथास्या ऊरू विहापयति विजिहीथां द्यावापृथिवी इति । तस्यामर्थं
निष्ठाय मुखेन मुखꣳ सन्धाय त्रिरेनामनुलोमामनुमार्ष्टि
विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिꣳशतु आसिञ्चतु
प्रजापतिर्धाता गर्भं दधातु ते । गर्भं धेहि सिनीवालि गर्भं धेहि
पृथुष्टुके । गर्भं ते आश्विनौ देवावाधत्तां पुष्करस्रजौ ॥ २१॥
मन्त्र २२[VI.iv.22]
हिरण्मयी अरणी याभ्यां निर्मन्थतामाश्विनौ तं ते गर्भꣳ हवामहे
दशमे मासि सूतये । यथाऽग्निगर्भा पृथिवी यथा द्यौरिन्द्रेण
गर्भिणी वायुर्दिशां यथा गर्भ एवं गर्भं दधामि तेऽसाविति ॥ २२॥
मन्त्र २३[VI.iv.23]
सोष्यन्तीमद्भिरभ्युक्षति यथा वायुः पुष्करिणीꣳ समिङ्गयति
सर्वतः । एवा ते गर्भ एजतु सहावैतु जरायुणा । इन्द्रस्यायं व्रजः
कृतः सार्गलः सपरिश्रयः । तमीन्द्र निर्जहि गर्भेण सावराꣳ
सहेति ॥ २३॥
मन्त्र २४[VI.iv.24]
जातेऽग्निमुपसमाधायाङ्क आधाय कꣳसे पृषदाज्यꣳ सन्नीय
पृषदाज्यस्योपघातं जुहोत्यस्मिन्सहस्रं पुष्यासमेधमानः स्वे
गृहे । अस्योपसन्द्यां मा च्छैत्सीत् प्रजया च पशुभिश्च स्वाहा ।
मयि प्राणाꣳस्त्वयि मनसा जुहोमि स्वाहा । यत् कर्मणाऽत्यरीरिचं
यद्वा न्यूनमिहाकरम् । अग्निष्टत्स्विष्टकृद्विद्वान् स्विष्टꣳ सुहुतं
करोतु नः स्वाहेति ॥ २४॥
मन्त्र २५[VI.iv.25]
अथास्य दक्षिणं कर्णमभिनिधाय वाग्वागिति त्रिरथ दधि मधु
घृतꣳ सन्नीयानन्तर्हितेन जातरूपेण प्राशयति । भूस्ते दधामि
भुवस्ते दधामि स्वस्ते दधामि भूर्भुवः स्वः सर्वं त्वयि दधामीति ॥ २५॥
मन्त्र २६[VI.iv.26]
अथास्य नाम करोति वेदोऽसीति । तदस्यैतद्गुह्यमेव नाम भवति ॥ २६॥
मन्त्र २७[VI.iv.27]
अथैनं मात्रे प्रदाय स्तनं प्रयच्छति यस्ते स्तनः शशयो यो
मयोभूर्यो रत्नधा वसुविद्यः सुदत्रो येन विश्वा पुष्यसि वार्याणि
सरस्वति तमिह धातवे करिति ॥ २७॥
मन्त्र २८[VI.iv.28]
अथास्य मातरमभिमन्त्रयते । इलाऽसि मैत्रावरुणी वीरे वीरमजीजनत् ।
सा त्वं वीरवती भव याऽस्मान्वीरवतोऽकरदिति । तं वा एतमाहुरतिपिता
बताभूरतिपितामहो बताभूः । परमां बत काष्ठां प्रापयच्छ्रिया
यशसा ब्रह्मवर्चसेन य एवंविदो ब्राह्मण Vraja Loka Astro Spiritual Counselling स्य पुत्रो जायत इति ॥ २८॥
इति चतुर्थं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
अथ पञ्चमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ।
मन्त्र १[VI.v.1]
अथ वꣳशः । पौतिमाषीपुत्रः कात्यायनीपुत्रात् कात्यायनीपुत्रो
गौतमीपुत्राद् गौतमीपुत्रो भारद्वाजीपुत्राद् भारद्वाजीपुत्रः
पाराशरीपुत्रात् पाराशरीपुत्र औपस्वस्तीपुत्रादौपस्वस्तीपुत्रः
पाराशरीपुत्रात् पाराशरीपुत्रः कात्यायनीपुत्रात् कात्यायनीपुत्रः
कौशिकीपुत्रात् कौशिकीपुत्र आलम्बीपुत्राच्च वैयाघ्रपदीपुत्राच्च
वैयाघ्रपदीपुत्रः काण्वीपुत्राच्च कापीपुत्राच्च कापीपुत्रः ॥ १॥
मन्त्र २[VI.v.2]
आत्रेयीपुत्रादात्रेयीपुत्रो गौतमीपुत्राद् गौतमीपुत्रो भारद्वाजीपुत्राद्
भारद्वाजीपुत्रः पाराशरीपुत्रात् पाराशरीपुत्रो वात्सीपुत्राद् वात्सीपुत्रः
पाराशरीपुत्रात् पाराशरीपुत्रो वार्कारुणीपुत्राद् वार्कारुणीपुत्रो
वार्कारुणीपुत्राद् वार्कारुणीपुत्र आर्तभागीपुत्रादार्तभागीपुत्रः
शौङ्गीपुत्राच्चौङ्गीपुत्रः साङ्कृतीपुत्रात् साङ्कृतीपुत्र
आलम्बायनीपुत्रादालम्बायनीपुत्र आलम्बीपुत्रादालम्बीपुत्रो जायन्तीपुत्राज्
जायन्तीपुत्रो माण्डूकायनीपुत्रान् माण्डूकायनीपुत्रो माण्डूकीपुत्रान्
माण्डूकीपुत्रः शाण्डिलीपुत्राच्छाण्डिलीपुत्रो राथीतरीपुत्राद् राथीतरीपुत्रो
भालुकीपुत्राद् भालुकीपुत्रः क्रौञ्चिकीपुत्राभ्यां क्रौञ्चिकीपुत्रौ
वैदभृतीपुत्राद् वैदभृतीपुत्रः कार्शकेयीपुत्रात् कार्शकेयीपुत्रः
प्राचीनयोगीपुत्रात् प्राचीनयोगीपुत्रः साञ्जीवीपुत्रात् साञ्जीवीपुत्रः
प्राश्नीपुत्रादासुरिवासिनः प्राश्नीपुत्र आसुरायणादासुरायण आसुरेरासुरिः ॥ २॥
मन्त्र ३[VI.v.3]
याज्ञवल्क्याद् याज्ञवल्क्य ऊद्दालकादूद्दालकोऽरुणादरुण
उपवेशेरुपवेशिः कुश्रेः कुश्रिर्वाजश्रवसो वाजश्रवा जीह्वावतो
बाध्योगाज् जीह्वावान्बाध्योगोऽसिताद्वार्षगणादसितो वार्षगणो
हरितात्कश्यपाद्द् हरितः कश्यपः शिल्पात्कश्यपाच्छिल्पः
कश्यपः कश्यपान्नैध्रुवेः कश्यपो नैध्रुविर्वाचो वागम्भिण्याः
अम्भिण्यादित्यादादित्यानीमानि शुक्लानि यजूꣳषि वाजसनेयेन
याज्ञवल्क्येनाऽऽख्ययन्ते ॥ ३॥
मन्त्र ४[VI.v.4]
समानमा साञ्जीवीपुत्रात् सञ्जिवीपुत्रो माण्डूकायनेर्माण्डूकायनिर्माण्डव्यान्
माण्डव्यः कौत्सात् कौत्सो माहित्थेर्माहित्थिर्वामकक्षायणाद् वामकक्षायणः
शाण्डिल्याच्छाण्डिल्यो वात्स्याद् वात्स्यः कुश्रेः कुश्रिर्यज्ञवचसो
राजस्तम्बायनाद् यज्ञवचा राजस्तम्बायनस्तुरात्कावषेयात् तुरः
कावषेयः प्रजापतेः प्रजापतिर्ब्रह्मणो ब्रह्म स्वयम्भु । ब्रह्मणे
नमः ॥ ४॥
इति पञ्चमं ब्राह्मण Vraja Loka Astro Spiritual Counselling म् ॥
इति बृहदारण्यकोपनिषदि षष्ठोऽध्यायः ॥
इति वाजसनेयके बृहदारण्यकोपनिषत्समाप्ता ॥
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.