बृहत्पाराशरहोराशास्त्रम् ४१-४५
Brihat Parashara Hora Shastram
अथ विशेषधनयोगाऽध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ४१॥
अथाऽतः सम्प्रवक्ष्यामि धनयोगं विशेषतः ।
यस्मिन् योगे समुत्पन्नो निश्चितो धनवान् भवेत् ॥ १॥
पण्चमे भृगुजक्षेत्रे तस्मिन् शुक्रेण संयुते ।
लाभे भौमेन संयुक्ते बहुद्रव्यस्य नायकः ॥ २॥
पंचमे तु बुधक्षेत्रे तस्मिन् बुधयुतो सति ।
चन्द्रे भौमे गुरौ लाभे बहुद्रव्यस्य नायकः ॥ ३॥
पण्चमे च रविक्षेत्रे तस्मिन् रवियुते सति ।
लाभे शनीन्दुजीवाढ्ये बहुद्रव्यस्य नायकः ॥ ४॥
पंचमे तु शनिक्षेत्रे तस्मिन् शनियुते सति ।
लाभे रवीन्दुसंयुक्ते बहुद्रव्यस्य नायकः ॥ ५॥
पंचमे तु गुरुक्षेत्रे तस्मिन् गुरुयुते सति ।
लाभे चन्द्रसुते जातो बहुद्रव्यस्य नायकः ॥ ६॥
पंचमे तु कुजक्षेत्रे तस्मिन् कुजयुते सति ।
लाभस्थे भृगुपुत्रे तु बहुद्रव्यस्य नायकः ॥ ७॥
पंचमे तु शशिक्षेत्रे तस्मिन् शशियुते सति ।
शनौ लाभस्थिते जातो बहुद्रव्यस्य नायकः ॥ ८॥
भानुक्षेत्रगते लग्ने तस्मिन् भानुयुते पुनः ।
भौमेन गुरुणा युक्ते दृष्टे जातो युतो धनैः ॥ ९॥
चन्द्रक्षेत्रगते लग्ने तस्मिन् चन्द्रयुते सति ।
बुधेन गुरुणा युक्ते दृष्टे जातो धनी भवेत् ॥ १०॥
भौमक्षेत्रे गते लग्ने तस्मिन् भौमेन संयुते ।
सौम्यशुक्रार्कजैर्युक्ते दृष्टे श्रीमान्नरो भवेत् ॥ ११॥
बुधक्षेत्रगते लग्ने तस्मिन् बुधयुते सति ।
शनिजीवयुते दृष्टे जातो धनयुतो भवेत् ॥ १२॥
गुरुक्षेत्रगते लग्ने तस्मिन् गुरुयुते सति ।
बुधभौमयुते दृष्टे जायते धनवान्नरः ॥ १३॥
भृगुक्षेत्रगते लग्ने तस्मिन् भृगुयुते सति ।
शनिसौम्ययुते दृष्टे यो जातः स धनी भवेत् ॥ १४॥
शनिक्षेत्रगते लग्ने तस्मिन् शनियुते सति ।
भौमेन गुरुणा युक्ते दृष्टे जातो धनैर्युतः ॥ १५॥
धनदौ धर्मधीनाथौ ये वा ताभ्यां युता ग्रहाः ।
तेऽपि स्वस्वदशाकाले धनदा नाऽत्र संशयः ॥ १६॥
ग्रहाणामुक्तयोगेषु क्रूरसौम्यविभागतः ।
बलाबलविवेकेन फलमूह्यं विचक्षणैः ॥ १७॥
केन्द्रेशः पारिजातस्थस्तदा दाता भवेन्नरः ।
उत्तमे ह्युत्तमो दाता गोपुरे पुरुषत्वयुक् ॥ १८॥
सिंहासने भवेन्मान्यः शूरः पारावतांशके ।
सभाध्यक्षो देवलोके ब्रह्मलोके मुनिर्मत ।
ऐरावतांशके तृष्टो दिग्योगो नैव जायते ॥ १९॥
पारिजाते सुताधीशे विद्या चैव कुलोचिता ।
उत्तमे चोत्तमा ज्ञेया गोपुरे भुवनांकिता ॥ २०॥
सिंहासने तथा वाच्या साचिव्येन समन्विता ।
पारावते च विज्ञेया ब्रह्मविद्या द्विजोत्तम ॥ २१॥
सुतेशे देवलोकस्थे कर्मयोगश्च जायते ।
उपासना ब्रह्मलोके भक्तिस्त्वरावतांशके ॥ २२॥
धर्मेशे पारिजातस्थे तीर्थकृत्त्वत्र जन्मनि ।
पूर्वजन्मन्यपि ज्ञेयस्तीर्थकृच्चोत्तमांशके ॥ २३॥
गौपुरे मखकर्ता च परे चैवाऽत्र जन्मनि ।
सिंहासने भवेद्वीरः सत्यवादी जितेन्द्रियः ॥ २४॥
सर्वधर्मान् परित्यज्य ब्रह्मैकपदमाश्रितः ।
पारवते च परमो हंअश्चैवात्र जन्मनि ॥ २५॥
लगुडी वा त्रिदण्डी स्याद्देवलोके न संशयः ।
ब्रह्मलोके शक्रतदं याति कृत्वाऽश्वमेधकम् ॥ २६॥
ऐरावते तु धर्मात्मा स्वयं धर्मो भविष्यति ।
श्रीरामः कुन्तिपुत्राद्यो यथा जातो द्विजोत्तम ॥ २७॥
विष्णुस्थानं च केन्द्रं स्याल्लक्ष्मीस्थानं त्रिकोणकम् ।
तदीशयोश्च सम्बन्धाद्राजयोगः पुरोदितः ॥ २८॥
पारिजाते स्थितौ तौ चेन्नृपो लोकानुरक्षकः ।
उत्तमे चोत्तमो भूपो गजवाजिरथादिमान् ॥ २९॥
गोपुरे नृपशार्दूलः पूजितांध्रिर्नृपैर्भवेत् ।
सिंहासने चक्रवर्ती सर्वभूमिप्रपालकः ॥ ३०॥
अस्मिन् योगे हरिश्चन्द्रो मनुश्चैवोत्तमस्तथा ।
बलिर्वैश्वानरो जातस्तथान्ये चक्रवर्तिनः ॥ ३१॥
वर्तमानयुगे जातस्तथा राजा युधिष्ठिरः ।
भविता शालिवाहाद्यस्तथैव द्विजसत्तम ॥ ३२॥
पारावतांशकेऽप्येवं जाता मन्वादयस्तथा ।
विष्णोः सर्वेऽवताराश्च जायन्ते देवलोकके ॥ ३३॥
ब्रह्मलोकके तु ब्रह्माद्या जायन्ते विश्वपालकाः ।
ऐरावतांशके जातः पूर्व स्वायंभुवो मनुः ॥ ३४॥
अथ दारिद्र्ययोगाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ४२॥
बहवो धनदा योगा श्रुतास्त्वत्तो मया मुने ।
दरिद्रजन्मदान् योगान् कृपया कथय प्रभो ॥ १॥
लग्नेशे च व्ययस्थाने व्ययेशे लग्नमागते ।
मारकेशयुते दृष्टे निर्धनो जायते नरः ॥ २॥
लग्नेशे षष्ठभावस्थे षष्ठेशे लग्नमागते ।
मारकेशेन युग्दृष्टे धनहीनः प्रजायते ॥ ३॥
लग्नेन्दू केतुसंयुक्तौ लग्नपे निधनं गते ।
मारकेशयुते दृष्टे जातो वै निर्धनो भवेत् ॥ ४॥
षष्ठाष्टमव्ययगते लग्नपे पापसंयुते ।
धनेशे रिपुभे नीचे राजवंश्योऽपि निर्धनः ॥ ५॥
त्रिकेशेन समायुक्ते पापदृष्टे विलग्नपे ।
शनियुक्तेऽधवा सौम्यैरदृष्टे निर्धनो नरः ॥ ६॥
मन्त्रेशो धर्मनाथश्च क्रमात् षष्ठव्ययस्थितौ ।
दृष्टौ चेन्मारकेशेन निर्धनो जायते नरः ॥ ७॥
पापग्रहे लग्नगते राज्यधर्माधिपौ विना ।
मारकेशयुते दृष्टे जातः स्यन्निर्धनो भवेत् ॥ ८॥
त्रिकेशा यत्र भावस्था तद्भावेशास्त्रिकस्थिताः ।
पापदृष्टयुत बालो दुःखाक्रान्तश्च निर्धनः ॥ ९॥
चन्द्राक्रान्तनवंशेशो मारकेशयुतो यदि ।
मारकस्थानगो वाऽपि जातोऽत्र निर्धनो नरः ॥ १०॥
लग्नेशलग्नभागेशौ रिश्फरन्ध्रारिगौ यदि ।
मारकेशयुतौ दृष्टौ जातोऽसौ निर्धनो नरः ॥ ११॥
शुभस्थानगताः पापाः पापस्थानगताः शुभाः ।
निर्धनो जायते बालो भोजनेन प्रपीडितः ॥ १२॥
कोणेशदृष्टिहीना ये त्रिकेशैः संयुता ग्रहाः ।
ते सर्वे स्वदशाकाले धनहानिकराः स्मृताः ॥ १३॥
कारकाद् वा विलग्नाद् वा रन्ध्रेरिष्फे द्विजोत्तम ।
कारकाङ्गपयोदृष्ट्या धनहीनः प्रजायते ॥ १४॥
कारकेशो व्ययं स्वस्मात् लग्नेशो लग्नतो व्ययम् ।
वीक्षते चेत् तदा बालो व्ययशीलो भवेद्ध्रुवम् ॥ १५॥
अथ दारिद्र्ययोगांस्त् कथयामि सभङ्गकान् ।
धनसंस्थौ तु भौमार्की कथितौ धननाशकौ ॥ १६॥
बुधेक्षितौ महावित्तं कुरुतो नात्र संशयः ।
निःस्वतां कुरुते तत्र रविर्नित्यं यमेक्षितः ॥ १७॥
महाधनयुतं ख्यातं शन्यदृष्टः करोत्यसौ ।
शनिश्चापि रवेर्दृष्ट्या फलमेवं प्रयच्छति ॥ १८॥
अथायुर्दायाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ४३॥
धनाध्नाख्ययोगौ च कथितौ भवता मुने ।
नराणामायुषो ज्ञानं कथयस्व महामते ॥ १॥
साधु पृष्टं त्वया विप्र जनानां च हितेच्छया ।
कथयाम्यायुषो ज्ञानं दुर्ज्ञेयं यत् सुरैरपि ॥ २॥
आयुर्ज्ञानविभेदास्तु बहुभिर्बहुधोदिताः ।
तेषां सारांशमादाय प्र्वदामि तवाऽग्रतः ॥ ३॥
स्वोच्चनीचादिसंस्थित्या ग्रहा आयुःप्रदायकाः ।
स्वस्ववीर्यवशैर्नैवं नक्षत्राण् च राशयः ॥ ४॥
पिण्डायुः प्रथमं तत्र ग्रहस्थितिवशादहम् ।
कथयामि द्विजश्रेष्ठ श्रणुष्वेकाग्रमानसः ॥ ५॥
क्रमात् सूर्यादिखेटेषु स्वस्वोच्चस्थानगेष्विह ।
नन्देन्दवस्तच्वमितास्तिथयोऽर्काः शरेन्दवः ॥ ६॥
प्रकृयतो विंशतिश्चाब्दा आयुःपिण्डाः प्रकीर्तिताः ।
नीचगेष्वेतदर्धञ्च ज्ञेयं मध्येऽनुपाततः ॥ ७॥
स्वच्चशुद्धौ ग्रहः शोध्यः षड्भादूनो भमण्ड्लात् ।
स्वपिण्डगुणितो भक्तो भादिमानेन वत्सराः ॥ ८॥
अस्तगस्तु हरेत्स्वार्ध विना शुक्रशनैश्चरौ ।
वक्रचारं विना त्र्यांशां शज्ञुराशौ हरेद् ग्रहः ॥ ९॥
सर्वार्धत्रिचतुःपञ्चषष्ठभागं क्रमाद् ग्रहः ।
व्ययाद्वामं स्थितः पापो हरेत् सौम्यश्च तद्दलम् ॥ १०॥
एकभे तु बहुष्वेको हरेत्स्वांशां बली ग्रहः ।
नाऽत्र क्षीणस्य चन्द्रस्य पापत्वं मुनिभिः स्मृतम् ॥ ११॥
लग्नांशलिप्तिका हत्वा प्रत्येकं विहगायुषा ।
भाज्या मण्डललिप्ताभिर्लब्धं वर्षादि शोधयेत् ॥ १२॥
स्वायुषो लग्नगे सूर्ये मङ्गले च शनैश्चरे ।
तदर्धं शुभसंदृष्टे पातयेद् द्विजसत्तम ॥ १३॥
लग्नराशिसमाश्चाब्दा भागाद्यैरनुपाततः ।
मासादिका इतीच्छन्ति लग्नायुः केऽपि कोविदाः ॥ १४॥
लग्नादायोंऽशतुल्यः स्यादन्तरे चाऽनुपाततः ।
तत्पतौ बलसंयुक्ते राशितुल्यं च भाघिपे ॥ १५॥
अथ विप्र निसर्गायुः खेटानां कथयाम्यहम् ।
चन्द्रारज्ञसितेज्यार्कशनीनां क्रमशोब्दका ॥ १६॥
एकद्वयंकनखा धृत्यः कृतिः पंचाशदेव हि ।
जन्मकालात् क्रमाज् ज्ञेया दशाश्चैता निसर्गजाः ॥ १७॥
अथांशायु सलग्नानां खेटानां कथयाम्यहम् ।
नवांश्राशितुल्यानि खेटो वर्षाणि यच्छति ॥ १८॥
भादिं खगं खगैः सूर्यैर्हत्वा तद्भगणादिकम् ।
कृत्वाऽर्क्रशेषितं ज्ञेयमब्दाद्यंशायुषः स्फुटम् ॥ १९॥
पिण्डायुरिव तत्रापि हानिं कुर्याद् विचक्षणः ।
अत्राऽपरो विशेषोऽपि कैञ्चिद् विज्ञैरुदाहृतः ॥ २०॥
साधितायुः खगे स्वोच्चे स्वर्क्षे वा त्रिगुणं स्मृतम् ।
द्विगुणं स्वनवांशस्थे स्वद्रेष्काणे तथोत्तमे ॥ २१॥
उभयत्र गते खेटे कार्यं त्रिगुणमेव हि ।
हानिद्वयेऽर्धहानिः स्यादित्यायुः प्रस्फुटं नृणाम् ॥ २२॥
एवं संसाध्य चान्येषां हन्यात् स्वस्वपरायुषा ।
नृणां परायुषा भक्त्वा तेषामायुः स्फुटं भवेत् ॥ २३॥
अथायुः परमं वक्ष्ये नानाजातिसमुद्भवम् ।
अनन्तसंख्यं देवानामृषीणां च द्विजोत्तम ॥ २४॥
गृध्रोलूक्शुकध्वांक्षसर्पाणां च सहस्रकम् ।
श्येनवानरभल्लुकमण्डूकानां शतत्रयम् ॥ २५॥
पंचशदुत्तरशतं राक्षसानां प्रकीर्तितम् ।
नगणां कुञ्जराणां च विंशोत्तरशतं तथा ॥ २६॥
द्वात्रिंशद् घोटकानाञ्च पंचविंशत् खरोष्ट्रयोः ।
वृषाणां महिषाणां च चतुर्विंशतिवत्सरम् ॥ २७॥
विंशत्यायुर्मयूराणां छागादीनां च षोडश ।
हंसानां पंचनव च पिकानां द्वादशाब्दकाः ॥ २८॥
शुनां पारावतानां च कुक्कुटानां द्वादशाब्दकाः ।
बुद्बुदाद्यण्डजानां च परायुः सप्तवत्सराः ॥ २९॥
यदेतदधुना प्रोक्तं त्रिधायुद्विजसत्तम ।
तेषु किञ्च कदा ग्राह्यमिति ते कथयाम्यहम् ॥ ३०॥
विलग्नपे बलोपेते शुभदृष्टेंश्शसम्भवभ् ।
रवौ पिंडोद्भवं ग्राह्यं चन्द्रे नैसर्गिकं तथा ॥ ३१॥
बलसाम्ये द्वयोर्योगदलमायुः प्रकीर्तितम् ।
त्रयाणां त्रियुतेस्त्र्यंशसमं ज्ञेयं द्विजोत्तम ॥ ३२॥
अथाऽन्यदपि वक्ष्यामि श्र्रिणु त्वं द्विजसत्तम ।
कैश्चिल्लग्नाष्टमेशाभ्यां मन्देन्दुभ्यां तथैव च ॥ ३३॥
लग्नहोराविलग्नाभ्यां स्फुटमायुः प्रकीर्तितम् ।
आदौ लग्नाष्टमेशाभ्यां योगमेकं विचिन्तयेत् ॥ ३४॥
द्वितीयं मन्दचन्द्राभ्यां योगं पश्येद् द्विजोत्तम ।
लग्नहोराविलग्नाभ्यां तृतीयं परिचिन्तयेत् ॥ ३५॥
चरराशौ स्थितौ द्वौ चित् तदा दीर्घमुदाहृतम् ।
एकः स्थिरेऽपरो द्वन्द्वे दीर्घमायुस्तथापि हि ॥ ३६॥
एकश्चरे स्थिरेऽन्यश्चेत् तदामध्यमुदाहृतम् ।
द्वौ वा द्वन्द्वे स्थितौ विप्र मध्यमायुस्तथापि च ॥ ३७॥
एकश्चरेऽपरो द्वन्द्वे द्वौ वा स्थिरगतौ तदा ।
जातकस्य तदाऽल्पायुर्ज्ञेयमेवं द्विजोत्तम ॥ ३८॥
योगत्रयेण योगाभ्यां सिद्धं यद् ग्राह्यमेव तत् ।
योगत्रयविसंवादे लग्नहोराविलग्नतः ॥ ३९॥
लग्ने वा सप्तमे चन्द्रे ग्राह्यं मन्देन्दुतस्तदा ।
ह्रासो वृद्धिश्च कक्ष्याया विचिन्त्या सर्वदा बुधैः ॥ ४०॥
दीर्घे योगत्रयेणैवं नखचन्द्रसमाब्दकाः ।
योगद्वयेन वस्वाशा योगैकेन रसांककाः ॥ ४१॥
मध्ये योगत्रयेणैवं खाष्टतुल्याब्दकाः स्मृताः ।
द्व्यगा योगद्वयेनाऽत्रयोगैकेनाब्धिषण्मिताः ॥ ४२॥
अल्पे योगत्रयेणाऽत्रद्वात्रिंशन्मितवत्सराः ।
योगद्वयेन षट्त्रिंशात् योगैकेन च खाब्धयः ॥ ४३॥
एवं दीर्घसमाल्पेषु खाब्धयो रसवह्नयः ।
खण्डा दन्तमितास्तेभ्यः स्फुटमायुः प्रसाधयेत् ॥ ४४॥
पूर्ण राश्यादिगे चान्ते हानिर्मध्येऽनुपाततः ।
योगकारकखेटांशयोगस्तत्संख्यया हृतः ॥ ४५॥
लब्धांशास्तु यथाप्राप्तखण्डघ्नास्त्रिंशतोद्धृताः ।
लब्धवर्षादिभिर्हीनं प्राप्तायुः प्रस्फुटं भवेत् ॥ ४६॥
योगहेतौ शनौ कक्ष्याह्रासोऽन्यैर्वृद्धिरुच्यते ।
न स्वर्क्षतुङ्गगे नो वा पापमात्रयुतेक्षिते ॥ ४७॥
लग्नसप्तमगे जीवे शुभमात्रयुतेक्षिते ।
कथितस्यायुषो विप्र कक्ष्यावृद्धिः प्रजायते ॥ ४८॥
अनायुश्चेद् भवेदल्पमल्पान्मध्यं प्रजायते ।
मध्यमाज्जायते दीर्घं दीर्घायुश्चेत्ततोऽधिकम् ॥ ४९॥
योगहेतौ गुरवेवं कक्ष्यावृद्धेश्च लक्षणम् ।
एतस्माद् वैपरीत्येन कक्ष्याह्रासः शनौ भवेत् ॥ ५०॥
आयुषो बहुधा भेदाः कथिता भवताऽधुना ।
कतिधा सा कदाऽनायुरमितायुः कदा भवेत् ॥ ५१॥
बालारिष्टं योगारिष्टमल्पं मध्यञ्च दीर्घकम् ।
दिव्यं चैवाऽमितं चैवं सप्तधायुः प्रकीर्तितम् ॥ ५२॥
बालारिष्टे समा अष्टौ योगारिष्टे च विंशतिः ।
द्वात्रिंशद् वत्ररा अल्पे चतुष्षष्टिस्तु मध्यमे ॥ ५३॥
विंशाधिकश्तं दीर्घे दिव्ये वर्षसहस्रकम् ।
तदूर्ध्वममितं पुण्यैरमितैराप्यते जनैः ॥ ५४॥
चन्द्रेज्यौ च कुलीरांगे ज्न्!असिअतु केन्द्रसंस्थितौ ।
अन्ये त्र्यायारिगाः खेटा अमितायुस्तदा भवेत् ॥ ५५॥
सौम्याः केन्द्रत्रिकोणस्थाः पापास्त्र्यायारिगास्तथा ।
शुभराशौ स्थिते रन्ध्रे दिव्यमायुस्तदा भवेत् ॥ ५६॥
गोपुरांशे गुरौ केन्द्रे शुक्रे पारावतांशके ।
त्रिकोणे कर्कटे लग्ने युगान्तायुस्तदा द्विज ॥ ५७॥
देवलोकांशके मन्दे कुजे पारावतांशके ।
गुरौ सिंहासनांशेऽङ्गे जातो मुनिसमो भवेत् ॥ ५८॥
सुयोगैर्वर्ध्यते ह्यायुः कुयोगैर्हीयते तथा ।
अतो योगानहं वक्ष्ये पूर्णमध्याल्पकारकान् ॥ ५९॥
केन्द्रे शुभग्रहैर्युक्ते लग्नेशे च शुभान्विते ।
सन्दृष्टे गुरुणा वाऽपि पूर्णमायुयुस्तदा भवेत् ॥ ६०॥
केन्द्रस्थिते विलग्नेशे गुरुशुक्रसमन्विते ।
ताभ्यां निरीक्षिते वाऽपि पूर्णमायुर्विनिर्दिशेत् ॥ ६१॥
उच्चस्थितैस्त्रिभिः खेटैर्लग्नरन्ध्रशसंयुतैः ।
अष्टमे पापहीने च पूर्णमायुर्विनिर्दिशेत् ॥ ६२॥
अष्टमस्थैस्त्रिभि खेटैः स्वोच्चमित्रस्ववर्गगैः ।
लग्नेशे बलसंयुक्ते दीर्घमायुस्तदा भवेत् ॥ ६३॥
स्वभोच्चस्थेन केनापि नभौगेन समन्वितः ।
अष्टमेशः शनिर्वापि दीर्घमायुर्विनिर्दिशेत् ॥ ६४॥
त्रिषडायगतैः पापैः शुभैः केन्द्रत्रिकोणगैः ।
लग्नेशे बलसंयुक्ते दीर्घमायुर्विनिर्दिशेत् ॥ ६५॥
षट्सप्तरन्ध्रभवेषु शुभखेटयुतेषु च ।
त्रिभवेषु च पापेषु पूर्णमायुर्विनिर्दिशेत् ॥ ६६॥
शत्रुव्ययगताः पापा लग्नेशो यदि केन्द्रगः ।
रविमित्रं च रन्ध्रेशः पूर्णमायुस्तथापि हि ॥ ६७॥
आयुः स्थानस्थिताः पापाः कर्मेशः स्वोच्चगो यदा ।
तथापि दीर्घमायु स्यात् विज्ञेयं द्विजसत्तम ॥ ६८॥
द्विस्वभावगृहे लग्ने लग्नेशे केन्द्रसंस्थिते ।
स्वोच्चराशित्रिकोणे वा दीर्घमायुर्विनिर्दिशेत् ॥ ६९॥
द्विस्वभावगृहे लग्ने लग्नेशाद् बलसंयुतात् ।
द्वौ पापौ यदि केन्द्रस्थौ दीर्घमायुस्तदा भवेत् ॥ ७०॥
लग्नाष्टमेशयोर्मध्ये यः खेटः प्रबलो भवेत् ।
तस्मिन् केन्द्रगते दीर्घ मध्यं पणफरस्थिते ॥ ७१॥
आपोक्लिमे स्थिते स्वल्पमायुर्भवति निश्चितम् ।
लग्नेशे च रवेर्मित्रे दीर्घंमायुः समे समम् ॥ ७२॥
शत्रौ स्वल्पं वदेदित्थमष्टमेशादपि स्मृतम् ।
मित्रमध्याऽरिभावस्थे तस्मिन्नेवं फलं वदेत् ॥ ७३॥
सहजाधीशभूपुत्रौ द्वौ रन्ध्रेशशनैश्चरौ ।
अस्तौ वा पापदृग्युक्तौ स्वल्पमायुः प्रयच्छतः ॥ ७४॥
षष्ठेऽष्टमे व्यये वाऽपि लग्नेशे पापसंयुते ।
स्व पायुरनपत्यो वा शुभदृग्योगवर्जिते ॥ ७५॥
चतुष्ट्यगते पापे शुभदृष्टिविवर्जिते ।
बलहीने विग्लनेशे स्वल्पमायुर्विनिर्दिशेत् ॥ ७६॥
व्ययार्थौ पापसंयुक्तौ शुभदृग्योगवर्जितौ ।
स्वल्पमायुस्तदा ज्ञेयं निर्विशंकं द्विजोत्तम ॥ ७७॥
लग्नरन्ध्रेशयोरेवं दुःस्थयोर्बलहीनयोः ।
स्वल्पमायुर्बुधैर्ज्ञेयं मिश्रयोगाच्च मध्यमम् ॥ ७८॥
अथ मारकभेदाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ४४॥
बहुधाऽऽयुर्भवा योगाः कथिता भवताऽधुना ।
नृणां मारकभेदाश्च कथ्यन्तां कृपया मुने ॥ १॥
तृतीयमष्टमस्थानमायुःस्थानां द्वयं द्विज ।
मारकं तद्व्ययस्थानं द्वितीयं सप्तमं तथा ॥ २॥
तत्रापि सप्तमस्थानाद् द्वितीयं बलवत्तरम् ।
तयोरीशौ तत्र गताः पापिनस्तेन संयुताः ॥ ३॥
ये खेटाः पापिनस्ते च सर्वे मारकसंज्ञकाः ।
तेषां दशाविपाकेषु सम्भवे निधनं नृणाम् ॥ ४॥
अल्पमध्यमपूर्णायुः प्रमाणमिह योगजम् ।
विज्ञाय प्रथमं पुंसां मारकं परिचिन्तयेत् ॥ ५॥
अलाभे पुनरेतेषां सम्बन्धेन व्ययेशितुः ।
क्वचिच्छुभानां च दशस्वष्टमेशदशासु च ॥ ६॥
केवलानां च पापानां दशासु निधनं क्वचित् ।
अल्पनीयं बुधैर्नृणां मारकाणामदर्शने ॥ ७॥
सत्यपि स्वेन सम्बन्धे न हन्ति शुभभुक्तिषु ।
हन्ति सत्यप्यसम्बन्धे मारकः पापभुक्तिषु ॥ ८॥
मारकग्रहसम्बन्धान्निहन्ता पापकृच्छनिः ।
अतिक्रम्येतरान् सर्वान् भवत्यत्र न संशयः ॥ ९॥
अथाऽन्यदपि वक्ष्यामि द्विज मारकलक्षणम् ।
त्रिविधाश्चायुषो योगाः स्वल्पायुर्मध्यमोत्तमाः ॥ १०॥
द्वाविंशात् पूर्वमल्पायुर्मध्यमायुस्ततः परम् ।
चतुष्षष्ट्याः पुरस्तात् तु ततो दीर्घमुदाहृतम् ॥ ११॥
उत्तमायुः शतादूर्ध्वं ज्ञातव्यं द्विजसत्तम ।
जनैर्विंशतिवर्षान्त्यमायुर्ज्ञातं न शक्यते ॥ १२॥
जपहोमचिकित्साद्यैर्बालरक्षां हि कारयेत् ।
म्रियन्ते पितृदोषैश्च केचिन्मातृग्रहैरपि ॥ १३॥
केचित् स्वारिष्ट्योगाच्च त्रिविधा बालमृत्यवः ।
ततः परं नृणामायुर्गणयेद् द्विजसत्तम ॥ १४॥
अथाऽन्यदपि वक्ष्यामि नृणां मारकलक्षणम् ।
अल्पायुर्योगजातस्य विप्भे च मृतिर्भवेत् ॥ १५॥
मध्यायुर्योगजस्यैवं प्रत्यरौ च मृतिर्भवेत् ।
दीर्घायुर्योगजातस्य वधभे तु मृतिर्भवेत् ॥ १६॥
द्वाविंशत्र्यंशपश्चैव तथा वैनाशिकाधिपः ।
विपत्ताराप्रत्यरीशा वधभेशंस्तथैव च ॥ १७॥
आद्यान्तपौ च विज्ञेयौ चन्द्राक्रान्तगृहाद् द्विज ।
मारकौ पापखेटौ तौ शुभौ चेद्रोगदौ स्मृतौ ॥ १८॥
षष्ठाधिपदशायां च नृणां निधनसम्भवः ।
षष्ठाष्टरिष्फनाथानामपहारे मृतिर्भवेत् ॥ १९॥
मारका बहवः खेटा यदि वीर्यसमन्विताः ।
तत्तद्दशान्तरे विप्र रोगकष्टादिसंभवः ॥ २०॥
उक्ता ये मारकास्तेषु प्रबलो मुख्यमारकः ।
तदवस्थानुसारेण मृतिं वा कष्टमादिशेत् ॥ २१॥
रहुश्चेदथवा केतुर्लग्ने कामेऽष्टमे व्यये ।
मारकेशान्मदे वाऽपि मारकेशेन संयुतः ॥ २२॥
मारकः स च विज्ञेयः स्वदशान्तर्दशास्वपि ।
मकरे वृश्चिके जन्म राहुस्तस्य मृतिप्रदः ॥ २३॥
षष्ठाऽष्टरिष्फगो राहुस्तद्दये कष्टदो भवेत् ।
शुभग्रहयुतो दृष्टो न तदा कष्टकृन्मतः ॥ २४॥
लग्नात् तृतीयभावे तु बलिना रविणा युते ।
राजहेतुश्च मरणं तस्य ज्ञेयं द्विजोत्तम ॥ २५॥
त्रितीये चेन्दुना युक्ते दृष्टे वा यक्ष्मणा मृतिः ।
कुजेन व्रणशस्त्राग्निदाहाद्यैर्मरणं भवेत् ॥ २६॥
तृतीये शनिराहुभ्यां युक्ते दृष्टेऽपि वा द्विज ।
विषार्तितो मृतिर्वाच्या जलाद्वा वह्निपीडनात् ॥ २७॥
गर्तादुच्चात् प्रपतनाद् बन्धनाद् वा मृतिर्भवेत् ।
तृतीये चन्द्रमान्दिभ्यां युक्ते वा वीक्षिते द्विज ॥ २८॥
कृमिकुष्ठादिना तस्य मरणं भवति ध्रुवम् ।
तृतीये बुधसंयुक्ते वीक्षिते वापि तेन च ॥ २९॥
ज्वरेण मरणं तस्य विज्ञेयं द्विजसत्तम ।
तृतीये गुरुणा युक्ते दृष्टे शोफादिना मृतिः ॥ ३०॥
तृतीये भृगुयुग्दृष्टे मेहरोगेण तन्मृतिः ।
बहुखेटयुते तस्मिन् बहुरोगभवा मृतिः ॥ ३१॥
तृतीये च शुभैर्युक्ते शुभदेशे मृतिर्भवेत् ।
पापैश्च कीकटे देशे मिश्रैर्मिश्रस्थले मृतिः ॥ ३२॥
तृतीये गुरुशुक्राभ्यां युक्ते ज्ञानन वै मृतिः ।
अज्ञानेनाऽन्यखेटैश्च मृतिर्ज्ञेया द्विजोत्तम ॥ ३३॥
चरराशौ तृतीयस्थे परदेशे मृतिर्भवेत् ।
स्थिरराशौ स्वगेहे च द्विस्वभावे पथि द्विज ॥ ३४॥
लग्नादष्टमभावाच्च निमित्तं कथितं बुधैः ।
सूर्येऽष्टमेऽग्नितो मृत्युश्चन्द्रे मृत्युर्जलेन च ॥ ३५॥
शास्त्राद् भौमे ज्वराज् ज्ञे च गुरौ रोगात् क्षुधा भृगौ ।
पिपासया शनौ मृत्युर्विज्ञेयो द्विजसत्तम ॥ ३६॥
अष्टमे शुभदृग्युक्ते धर्मपे च शुभैर्युते ।
तीर्थे मृतिस्तदा ज्ञेया पापाख्यैरन्यथा मृतिः ॥ ३७॥
अग्न्यम्बुमिश्रत्र्यंशैर्ज्ञेयो मृत्युर्गृहाश्रितैः ।
परिणामः शवस्याऽत्र भस्मसंक्लेदशोषकैः ॥ ३८॥
व्यालवर्गदृकाणैस्तु विडम्बो भवति ध्रुवम् ।
शवस्य श्वशृगालाद्यैर्गृध्रकाकादिपक्षिभिः ॥ ३९॥
कर्कटे मध्यमोऽन्त्यश्च वृश्चिकाद्यद्वितीयकौ ।
मीनेऽन्तिमस्त्रिभागश्च व्यालवर्गाः प्रकीर्तिताः ॥ ४०॥
रविश्चन्द्रबलाक्रान्तत्र्यंशनाथे गुरौ जनः ।
देवलोकात् समायातो विज्ञेयो द्विजसत्तम ॥ ४१॥
शुक्रेन्द्वोः पितृलोकात्तु मर्त्याच्च रविभौमयोः ।
बुधाऽऽर्क्योर्नरकादेवं जन्मकालाद् वदेत् सुधिः ॥ ४२॥
गुरुश्चन्द्रसितौ सूर्यभौमौ ज्ञार्की यथाक्रमम् ।
देवेन्दुभूम्यधोलोकान् नयन्त्यस्तारिरन्ध्रगाः ॥ ४३॥
अथ तत्र ग्रहभावे रन्ध्रारित्र्यंशनाथयोः ।
यो बली स निजं लोकं नयत्यन्ते द्विजोत्तम ॥ ४४॥
तस्य स्वोच्चादि संस्थित्या वरमध्याऽधमाः क्रमात् ।
तत्तल्लोकेऽपि सञ्जाता विज्ञेया द्विजसत्तम ॥ ४५॥
अन्यान् मारकभेदांश्च राशिग्रहकृतान् द्विज ।
दशाध्यायप्रसंगेषु कथयिष्यामि सुव्रत ॥ ४६॥
अथ ग्रहावस्थाध्यायः - Vraja Loka Astro Spiritual Counselling ॥ ४५॥
अवस्थावशतः प्रोक्तं ग्रहाणां यत् फलं मुने ।
का साऽवस्था मुनिश्रेष्ठ कतिधा चेति कथ्ययाम् ॥ १॥
अवस्था विविधाः सन्ति ग्रहाणां दिवजसत्तम ।
सारभूताश्च यास्तासु बालाद्यास्ता वदाम्यहम् ॥ २॥
क्रमाद् बालः कुमारोऽथ युवा वृद्धस्तथा मृतः ।
षडंशैरसमे खेटः समे ज्ञेयो विपर्ययात् ॥ ३॥
फलं पादमितं बाले फलार्धं च कुमारके ।
यूनि पूर्णं फलं ज्ञेयं वृद्धे किञ्चित् मृते च खम् ॥ ४॥
स्वभोच्चयोः समसुहृद्भयोः शत्रुभनीचयोः ।
जाग्रत्स्वप्नसुषुप्त्याख्या अवस्था नामदृक्फलाः ॥ ५॥
जागरे च फलं पूर्णं स्वप्ने मध्यफलं तथा ।
सुषुप्तौ तु फलं शून्यं विज्ञेयं द्विजसत्तम ॥ ६॥
दीप्तः स्वस्थः प्रमुदितः शान्तो दीनोऽथ दुःखितः ।
विकलश्च खलः कोऽपीत्यवस्था नवधाऽपराः ॥ ७॥
स्वोच्चस्थः खेचरो दीप्तः स्वर्क्षे स्वस्थोऽधिमित्रभे ।
मुदितो मित्रभे शान्तः समभे दीन उच्यते ॥ ८॥
शत्रुभे दुःखितः प्रोक्तो विकलः पापसंयुतः ।
खलः खलगृहे ज्ञेयः कोपी स्यादर्कसंयुतः ॥ ९॥
यादृशो जन्मकाले यः खेटो यद्भावगो भवेत् ।
तादृशं तस्य भावस्य फलमुह्यं द्विजोत्तम ॥ १०॥
लज्जितो गर्वितश्चैव क्षुधितस्तृषितस्तथा ।
मुदितः क्षोभितश्चैव ग्रहभावाः प्रकीर्तिताः ॥ ११॥
पुत्रगेहगतः खेटो राहुकेतुयुतोऽथवा ।
रविमन्दकुजैर्युक्तो लज्जितो ग्रह उच्यते ॥ १२॥
तुङ्गस्थानगतो वाऽपि त्रिकोणेऽपि भवेत्पुनः ।
गर्वितः सोऽपि गदितो निर्विशंकं द्विजोत्तम ॥ १३॥
शत्रुगेही शत्रुयुक्तो रिपुदृष्टो भवेद्यदि ।
क्षुधितः स च विज्ञेयः शनियुक्तो यथा तथा ॥ १४॥
जलराशौ स्थितः खेटः शत्रुणा चाऽवलोकितः ।
शुभग्रहा न पश्यन्ति तृषितः स उदाहृतः ॥ १५॥
मित्रगेही मित्रयुक्तो मित्रेण च विलोकितः ।
गुरुणा सहितो यश्च मुदितः स प्रकीर्तितः ॥ १६॥
रविणा सहितो यश्च पापा पश्यन्ति सर्वथा ।
क्षोभितं तं विजानीयाच्छत्रुणा यदि वीक्षितः ॥ १७॥
येषु येषु च भावेषु ग्रहास्तिष्ठन्ति सर्वथा ।
क्षुधितः क्षोभितो वापि तद्भावफलनाशनः ॥ १८॥
एवं क्रमेण बोद्धव्यं सर्वभावेषु पण्डितैः ।
बलाऽबलविचारेण वक्तव्यः फलनिर्णयः ॥ १९॥
अन्योन्यं च मुदा युक्तं फलं मिश्रं वदेत्पुनः ।
बलहीने तदा हानिः सबले च महाफलम् ॥ २०॥
कर्मस्थाने स्थितो यस्य लज्जितस्तृषितस्तथा ।
क्षुधितः क्षोभितो वापि स नरो दुःखभाजनम् ॥ २१॥
सुतस्थाने भवेद्यस्य लज्जितो ग्रह एव च ।
सुतनाशो भवेत्तस्य एकस्तिष्ठति सर्वदा ॥ २२॥
क्षोभितस्तृषितश्चैव सप्तमे यस्य वा भवेत् ।
म्रियते तस्य नारी च सत्यमाहुर्द्विजोत्तम ॥ २३॥
नवालयारामसुखं नृपत्वं कलापटुत्वं विदधाति पुंसाम् ।
सदार्थलाभं व्यवहारवृद्धिं फलं विशेषादिह गर्वितस्य ॥ २४॥
भवति मुदितयोगे वासशालाविशाला ।
विमलवसनभूषाभूमियोषासु सौख्यम् ।
स्वजनजनविलासो भूमिपागारवासो ।
रिपुनिवहविनाशो बुद्धिविद्याविकाशः ॥ २५॥
दिशति लज्जितभाववशाद्रतिं विगतराममतिं विमतिक्षयम् ।
सुतगदागमनं गमनं वृथा कलिकथाभिरुचिं न रुचिं शुभे ॥ २६॥
संक्षोभितस्यापि फलं विशेषाद्द्रिद्रजातं कुमतिं च कष्टम् ।
करोति वित्तक्षयमंध्रिबाधां धनाप्तिबाधामवनीशकोपात् ॥ २७॥
क्षुधितखगवशाद्वै शोकमोहादिपातः ।
परिजनपरितापादाधिभीत्या कृशत्वम् ।
कलिरपि रिपुलोकैरर्थबाधा नराणा ।
मखिलब्बलनिरोधो बुद्धिरोधो विषादात् ॥ २८॥
तृषितखगभवे स्वादंगनासंगमध्ये ।
भवति गदविकारो दृष्टकार्याधिकारः ।
निजजनपरिवादादर्थहानिः कृशत्वम् ।
खलकृतपरितापो मानहानिः सदैव ॥ २९॥
शयनं चोपवेशं च नेत्रपाणिप्रकाशनम् ।
गमनागमनं चाऽथ सभायां वसतिं तथा ॥ ३०॥
आगमं भोजनं चैव नृत्यं लिप्सां च कौतुकम् ।
निद्रां ग्रहाणां चेष्टां च कथयामि तवाग्रितः ॥ ३१॥
यस्मिन्नृक्षे भवेत्खेटस्तेन तं परिपूरयेत् ।
पुनरंशेन सम्पूर्य स्वनक्षत्रं नियोजयेत् ॥ ३२॥
यातदण्डं तथा लग्नमेकीकृत्य सदा बुधः ।
रविभिस्तु हरेद् भागं शेषं कार्ये नियोजयेत् ॥ ३३॥
नाक्षत्रिकदशारीत्या पुनः पूरणमाचरेत् ।
नामाद्यस्वरसंख्याढ्यं हर्तव्यं रविभिस्ततः ॥ ३४॥
रवौ पञ्च तथा देयाश्चन्द्रे दद्याद्द्वयं तथा ।
कुजे द्वयं च संय्क्तं बुधे त्रीत्रि नियोजयेत् ॥ ३५॥
गुरौ बाणाः प्रदेयाश्च त्रयं दद्याच्च भार्गवे ।
शनौ त्रयमथो देयं राहौ दद्याच्चतुष्टयम् ॥ ३६॥
त्रिभिर्भक्तं च शेषांकैः सा पुनस्त्रिबिधा स्मृता ।
दष्टिश्चेष्टा विचेष्टा च तत्फलं तथयाम्यहम् ॥ ३७॥
दृष्टौ मध्यफलं ज्ञेयं चेष्टायां विपुलं फलम् ।
विचेष्टायां फलं स्वल्पमेवं दृष्टिफलं विदुः ॥ ३८॥
शुभाऽशुभं ग्रहाणां च समीक्ष्याऽथ बलाऽबलम् ।
तुङ्गस्थाने विशेषेण बलं ज्ञेयं तथा बुधैः ॥ ३९॥
मन्दाग्निरोगो बहुधा नराणां स्थूलत्वमन्ङ् घ्रेरपिपित्तकोपः ।
व्रणं गुदे शूलमुरःप्रदेशे यदोष्णभानुः शयनं प्रयातः ॥ ४०॥
दरिद्रताभारविहाराशाली विवादविद्याभिरतो नरः स्यात् ।
कथोरचित्तः खलु नष्टवित्तः सूर्यो यदा चेदुपवेशनस्थः ॥ ४१॥
नरः सदानन्दधरो विवेकी परोपकारी बलवित्तयुक्तः ।
महामुखी राजकृपाभिमानी दिवाधिनाथो यदि नेत्रपानौ ॥ ४२॥
उदारचित्तः परिपूर्णवित्तः सभासु वक्ता बहुपुण्यकर्त्ता ।
महाबली सुन्दरररूपशाली प्रकाशने जन्मनि पदिमनीशे ॥ ४३॥
प्रवासशाली किल दुःखमाली सदालसी धीधनवर्जितश्च ।
भयातुरः कोपपरो विशेषाद्दिवाधिनाथे गमने मनुष्यः ॥ ४४॥
परदाररतो जनतारहितो बहुधागमने गमनाभिरुचिः ।
खलताकुशलो मलिनो दिवसाधिपतौ मनुजः कुमतिः कृपणः ॥ ४५॥
सभागते हिते नरः परोपकारतत्परः ।
सदार्थरत्नपूरितो दिवाकरे गुणाकरः ।
वसुन्धरानवांबरालयान्वितो महाबली ।
विचित्रमित्रवत्सलः कृपाकलाधरः परः ॥ ४६॥
क्षोभितो रिपुगणैः सदा नरश्चञ्चलः खलमतिः कृशस्तथा ।
धर्मकर्मरहितो मदोद्धतश्चागमे दिनपतौ तदा तदा ॥ ४७॥
सदाङ्गसन्धिवेदनापराङ्गनाधनक्षयो ।
बलक्षयः पदे पदे यदा यदा हि भोजने ।
असत्यता शिरोव्यथा तथा वृथान्नभोजनम् ।
रवावसत्तथारतिः कुमार्गगामिनी मति ॥ ४८॥
विज्ञलोकैः स्दा मण्डितः पण्डितः काव्यविद्यानवद्यप्रलापान्वितः ।
राजपूज्यो धरामण्डले सर्वदा नृत्यलिप्सागते पद्मिनीनायके ॥ ४९॥
सर्वदानन्दधर्ता जनो ज्ञानवान् यज्ञकर्ता धराधीशसद्मस्थितः ।
पद्मबन्धावरातेर्भयं स्वाननः काव्यविद्याप्रलापी मुदा कौतुके ॥ ५०॥
निद्राभरारक्तनिभे भवेतां निद्रागते लोचनपद्मयुग्मे ।
रवौ विदेशे वसतिर्जनस्य कलत्रहानिः कातिधार्थनाशः ॥ ५१॥
जानुःकाले क्षपानाथे शयनं चेदुपागते ।
मानी शीतप्रधानश्च कामी वित्तविनाशकः ॥ ५२॥
रोगार्दितो मन्दमतिर्विशेषाद्वित्तेन हीनो मनुजः कठोरः ।
अकार्यकारी परवित्तहारी क्षपाकरे चेदुपवेशनस्थे ॥ ५३॥
नेत्रपाणौ क्षपानाथे महारोगी नरो भवेत् ।
अनल्पजल्पको धूर्तः कुकर्मनिरतः सदा ॥ ५४॥
यदा राकानाथे गतवति विकाशं च जनने ।
विकाशः संसारे विमलगुणराशेरवनिपात् ।
नवाशामाला स्यात्करितुरगलक्ष्म्या परिवृता ।
विभूषा योषाभिः सुखमनुदिनं तीर्थगमनम् ॥ ५५॥
सितेतरे पापरतो निशाकरे विशेषतः क्रूरकरो नरो भवेत् ।
सदाक्षिरोगैः परिपीड्यमानो वलक्षपक्षे गमने भयातुरः ॥ ५६॥
विधावागमगे मानी पादरोगी नरो भवेत् ।
गुप्तपापरतो दीनो मतितोषविवर्जितः ॥ ५७॥
सकलजनवदान्यो राजराजेन्द्रमान्यो ।
रतिपतिसमाकान्तिः शान्तिकृत्कामिनीनाम् ।
सपदि सदसि याते चारुबिम्बे शशंके ।
भवति परमरीतिप्रीतिविज्ञो गुणज्ञः ॥ ५८॥
विधावागमके मत्यों वावालो धर्मपूरितः ।
कृष्णपक्षे द्विभार्यः स्याद्रोगी दुष्टतरो हठी ॥ ५९॥
भोजने जनुषि पूर्णचन्द्रमा मानयानजनतासुखं नृणाम् ।
आतनोति वनितासुतासुखं सर्वमेव न सितेतरे शुभम् ॥ ६०॥
नृत्यलिप्सागते चन्द्रे सबले बलवान्नरः ।
गीतज्ञो हि रसज्ञश्च कृष्णे पापकरो भवेत् ॥ ६१॥
कौतकभवनं गतवति चन्द्रे भवति नृपत्वं वा धनपत्वम् ।
कामकलासु सदा कुशलत्वं वारवधूरतितमणपटुत्वम् ॥ ६२॥
निद्रागते जन्मनि मानवानां कलाधरे जीवयुते महत्त्वम् ।
हीनेऽङ्गनासञ्चितवित्तनाशः शिवालये रौति विचित्रमुच्चैः ॥ ६३॥
शयने वसुधापुत्रे व्रणयुक्तो जनो भवेत् ।
बहुना कण्डुना युक्तो दद्रुणा च विशेषतः ॥ ६४॥
बली सदा पापरतो नरः स्यादसत्यवादी नितरां प्रगल्भः ।
धनेन पूर्णो निजधर्महीनो धरासुतश्चेदुपवेशनस्थः ॥ ६५॥
यदा भूमिसुतो लग्ने नेत्रपाणिमुपागतः ।
दरिद्रता तदा पुंसामन्यभे नगरेशता ॥ ६६॥
प्रकाशो गुणस्यापि वासः प्रकाशे धराधीशभ्रतुः सदा मानवृद्धिः ।
सुते भूसुते पुत्रकान्तावियोगो भवेद्राहुणा दारुणो वा निपातः ॥ ६७॥
गमने गमनं कुरुतेऽनुदिनं व्रणजालभयं वनिताकलहः ।
बहुदद्रुककण्डुभयं बहुधा वसुधातनयो वसुहानिकरः ॥ ६८॥
आगमने गुणशाली मणिमालीवा करालकरवाली ।
गजहन्ता रिपुहन्ता परिजनसन्तापहारको भौमे ॥ ६९॥
तुङ्गे युद्धकलाकलापकुशलो धर्मध्वजो वित्तपः ।
कोणे भूमिसुते सभामुपगते विद्याविहीनः पुमान् ।
अन्तेऽपत्यकलत्रमित्ररहितः प्रोक्तेतरस्थानगे ।
ऽवश्यं राजसभाबुधो बहुधनी मानी च दानी जनः ॥ ७०॥
आगमे भवति भूमिजे जनो धर्मकर्मरहितो गदातुरः ।
कर्णमूलगुरुशूलरोगवानेव कातरमतिः कुसङ्गमी ॥ ७१॥
भोजने मिष्टभोजी च जनने सबले कुजे ।
नीचकर्मकरो नित्यं मनुजो मानवर्जितः ॥ ७२॥
नृत्यलिप्सागते भूसुते जन्मिनामिन्दिराराशिरायाति भूमीपतेः ।
स्वर्नरत्नप्रवालैः सदा मण्डिता वासशाला नराणां भवेत्सर्वदा ॥ ७३॥
कौतुकी भव्ति कौतुके कुजे मित्रपुत्रपरिपूरितो जनः ।
उच्चगे नृपतिगेहमण्डितः पूजितो गुणवरैर्गुणाकरैः ॥ ७४॥
निद्रावस्थां गते भौमे क्रोधी धीधनवर्जितः ।
धूर्तो धर्मपरिभ्रष्टो मनुष्यो गदपीडितः ॥ ७५॥
क्षुधातुरो भवेदंगे खञ्जो गुञ्जानिभेक्षणः ।
अन्यभे लम्पटो धूर्तो मनुजः शयने बुधे ॥ ७६॥
शशांकपुत्रे जनुरङ्गगेहे यदोपवेशे गुणराशिपूर्णः ।
पापेक्षिते पापयुते दरिद्रो हिते शुभे वित्तसुखी मनुष्यः ॥ ७७॥
विद्याविवेकरहितो हिततोषहीनो मनी ।
जनोभवति चन्द्रसुतेऽक्षि पाणौ ।
पुत्रालये सुतकलत्रसुखेन हीनः कन्या ।
प्रजा नृपतिगेहबुधो वरार्थः ॥ ७८॥
दाता दयालुः खलु पुण्यकर्ता विकाशने चन्द्रसुते मनुष्यः ।
अनेकविद्यार्णवपारङ्गता विवेकपूर्णः खलवर्गहन्ता ॥ ७९॥
गमनागमने भवतो गमने बहुधा वसुधाधिपतेर्भवने ।
भवनं च विचित्रमलं रमया विदि नुश्च जनुःसमये नितराम् ॥ ८०॥
सपदि विदि जनानामुच्चगे जन्मकाले ।
सदसि धनसमृद्धिः सर्वदा पुण्यवृद्धिः ।
धनपतिसमता वा भूपता मंत्रिता वा ।
हरिहरपदभक्तिः सात्त्विकी मुक्तिलब्धिः ॥ ८१॥
आगमे जनुषि जन्मिनां यदा चन्द्रजे भवति हीनसेवया ।
अर्थसिद्धिरपि पुत्रयुग्मता बालिका भवति मानदायिका ॥ ८२॥
भोजने चन्द्रजे जन्मकाले यदा जन्मिनानर्थहानिः सदा वादतः ।
राजभीत्या कृशत्वंचलत्वं मतेरङ्गसङ्गो न जाया न जायासुखम् ॥ ८३॥
नृत्यलिप्सागते चन्द्रजे मानवो मानयानप्रवालव्रजैः संयुतः ।
मित्रपुत्रप्रतापैः सभापण्डितः पापभे वारवामारतो लम्पटः ॥ ८४॥
कौतुके चन्द्रजे जन्मकाले नृणामंगभे गीतविद्याऽनवद्या भवेत् ।
सप्तमे नैधने वारवध्वा रतिः पुण्यभे पुण्ययुक्ता मतिः सद्गतिः ॥ ८५॥
निद्राश्रिते चन्द्रसुते न निद्रासुखं सदा व्याधिसमाधियोगः ।
सहोत्थवैकल्यमनल्पतापो निजेन वादो धनमाननाशः ॥ ८६॥
वचसामधिपे तु जनुःसमये शयने बलवानपि हीनरवः ।
अतिगौरतनुः खलुदीर्घहनुः सुतरामरिभीतियुतो मनुजः ॥ ८७॥
उपवेशं गतवति यदि जीवे वाचालो बहुगर्वपरीतः ।
क्षोणीपतिरिपुजनपतिर्तप्तः पदजंघास्यकरव्रणयुक्तः ॥ ८८॥
नेत्रपाणिं गते देवराजार्चिते रोगयुक्तो वियुक्तो वरार्थश्रिया ।
गीतनृत्यप्रियः कामुकः सर्वदा गौरवर्णो विवर्णोद्भवप्रीतियुक् ॥ ८९॥
गुणानामानन्दं विमलसुखकन्दं वितनुते ।
सदा तेजःपुञ्जं व्रजपतिनिकुञ्जं प्रतिगमम् ।
प्रकाशं चेदुच्चे द्रुतमुपगतो वासवगुरु ।
र्गुरुत्वं लोकानां धनपतिसमत्वं तनुभृताम् ॥ ९०॥
साहसी भवति मानवः सदा मित्रवर्गसुखपूरितो मुदा ।
पण्डितो विविधवित्तमण्डितो देवविद्यदि गुरौ गमं गते ॥ ९१॥
आगमने जनता वरजाया यस्य जनुःसमये हरिमाया ।
मुञ्चति नालमिहालयमद्धा देवगुरौ परितः परिबद्धा ॥ ९२॥
सुरगुरुसमवक्ता शुभ्रमुक्ताफलाढ्यः ।
सदसि सपदि पूर्णो वित्तमाणिक्यमानैः ।
गजतुरगरथाढ्यो देवताधीशपूज्यो ।
जनुषि विविधविद्यागर्वितो मानवः स्यात् ॥ ९३॥
नानावाहनमानयानपटलीसौख्यं गुरावागमे ।
भृत्यापत्यकलत्रमित्रजसुखं विद्याऽनवद्या भवेत् ।
क्षोणीपालसमानतानवरतं चाऽतीव हृद्या मतिः ।
काव्यानन्दरतिः सदा हिनगतिः सर्वत्र मानोन्नतिः ॥ ९४॥
भोजने भवति देवतागुरौ यस्य तस्य सततं सुभोजनम् ।
नैव मुञ्चति रमालयं तदा वाजिवारणरथैश्च मण्डितम् ॥ ९५॥
नृत्यलिप्सागते राजमानी धनी देवताधीशवन्द्यः सदा धर्मवित् ।
तन्त्रविज्ञो बुधैर्मण्डितः पंडितः शब्दविद्यानविद्यो हि सद्यो जनः ॥ ९६॥
कुतूहली सकौतुके माहाधनी जनः सदा ।
निजान्वये च भास्करः कृपाकलाधरः सुखी ।
निलिम्पराजपूजिते सुतेन भूनयेन वा ।
युतो महाबली धराधिपेन्द्रसद्मपण्डितः ॥ ९७॥
गुरौ निद्रागते यस्य मूर्खता सर्वकर्मणि ।
दरिद्रतापरिक्रन्तं भवनें पुण्यवर्जितम् ॥ ९८॥
जनो बलीयानपिदन्तरोगी भृगौ महारोषसमन्वितः स्यात् ।
धनेन हीनः शयनं प्रयाते वारांगनासंगमलम्पटश्च ॥ ९९॥
यदि भवेदुशना उपवेशने नवमणिव्रजकाञ्चनभूषणैः ।
सुखमजस्रमरिक्षय आदरादवनिपादपि मानसमुन्नतिः ॥ १००॥
नेत्रपाणिंगते लग्नगेहे कवौ सप्तमे मानभे यस्य तस्य ध्रुवम् ।
नेत्रपाते निपातो धनानामलं चान्यभे वासशाला विशाला भवेत् ॥ १०१॥
स्वालये तुंगभे मित्रभे भार्गवे तुंगमातंगलीलाकलापी जनः ।
भूपतेस्तुल्य एव प्रकाशं गते काव्यविद्याकलाकैतुकी गीतवित् ॥ १०२॥
गमने जनने शुक्रे तस्य माता न जीवति ।
आधियोगो वियोगश्च जनानामरिभीतितः ॥ १०३॥
आगमनं भृगुपुत्रे गतवति वित्तेश्वरो मनुजः ।
सत्तेर्थभ्रमशाली नित्योत्साही करांघ्रिरोगी च ॥ १०४॥
अनायासेनालं सपदि महसा याति सहसा ।
प्रगल्भत्वंराज्ञः सदसि गुणविज्ञः किल कवौ ।
सभायामायाते रिपुनिवहहन्ता धनपतेः ।
समत्वं वा दाता बलतुरगगन्ता नरवरः ॥ १०५॥
आगमे भार्गवे मागमो जन्मिनामर्थराशेररातेरतीव क्षतिः ।
पुत्रपातो निपातो जनानामपिव्याधिभीतिः प्रियाभोगहानिर्भवेत् ॥ १०६॥
क्षुधातुरो व्याधिनिपीडितः स्यादनेकधारातिभयर्द्दितश्च ।
कवौ यदा भोजनगे युवत्या महाधनी पण्डितमण्डितश्च ॥ १०७॥
काव्यविद्यानवद्या च हृद्या मतिः सर्वदा नृत्यलिप्सागते भार्गवे ।
शंखवीणामृदंगादिगानध्वनिव्रातनैपुण्यमेतस्य वित्तोन्नतिः ॥ १०८॥
कौतुकभवनं गतवति शुक्रे शक्रेशत्वं सदसि महत्त्वम् ।
हृद्या विद्या भविति च पुंसः पदमा निवसति सदमारतः ॥ १०९॥
परसेवारतो नित्यं निद्रामुपगते कवौ ।
परनिन्दापरो वीरो वाचालो भ्रमते महीम् ॥ ११०॥
क्षुत्पिपासापरिक्रान्तो विश्रान्तः शयने शनौ ।
वयसि प्रथमे रोगी ततो भाग्यवतां वरः ॥ १११॥
भानओः सुते चेदुपवेशनस्थे करालकारातिजनानुतप्ताः ।
अपायुशाली खलु दद्रुमाली नरोभिमानी नृपदण्डयुक्तः ॥ ११२॥
नयनपाणिगते रविनन्दने परमया रमया रमयायुतः ।
नृपतितो हिततो महितोषकृद्बहुकलाकलितो विमलोक्तिकृत् ॥ ११३॥
नानागुणप्रामधनाधिशाली सदा नरो बुद्धिविनोदमाली ।
प्रकाशने भानुसुते सुभानुः कृपानुतक्तो हरपादभक्तः ॥ ११४॥
महाधनी नन्दननन्दितः स्यादपायकारी रिपुभूमिहारी ।
गमे शनौ पण्डितराजाभावं धरापतेरायातने प्रयाति ॥ ११५॥
आगमने गर्दभपदयुक्तः पुत्रकलत्रसुखेन विमुक्तः ।
भानुसुते भ्रमते भुवि नित्यं दीनमना विजनाश्रयभावम् ॥ ११६॥
रत्नावलीकाञ्चनमौक्तिकानां व्रातेन नित्यं व्रजति प्रमोदम् ।
सभागते भानुसुते नितान्तं नयेन पूर्णो मनुजो महौजाः ॥ ११७॥
आगमे गदसमागमो नृणामब्जबन्धुतनये यदा तदा ।
मन्दमेव गमनं धरापतेर्याचनाविरहिता मतिः सदा ॥ ११८॥
संगते जनुषि भानुनन्दने भोजनं भवति भोजनं रसैः ।
संयुतं नयनमन्दता तता मोहतापपरितापिता मतिः ॥ ११९॥
नृत्यलिप्सागते मन्दे धर्मात्मा वित्तपूरितः ।
राजपूज्यो नरो धीरो महावीरो रणाङ्गणे ॥ १२०॥
भवति कौतकभावमुपागते रविसुते वसुधावसुपूरितः ।
अतिसुखी सुमुखीसुखपूरितः कवितयामलया कलयानरः ॥ १२१॥
निद्रागते वासरनाथपुत्रे धनी सदा चारुगुणैरुपेतः ।
पराक्रमी चण्डविपक्षहन्ता सुवारकान्तारतिरीतिविज्ञः ॥ १२२॥
यदागमो जन्मनि यस्य राहौ क्लेशाधिकत्वं शयनं प्रयाते ।
वृषेऽथ युग्मेऽपि च कन्यकायामजे समाजो धनधान्यराशेः ॥ १२३॥
उपवेशनमिह गतवति राहौ दद्रुगदेन जनः परितप्तः ।
राजसमाजयुतो बहुमानी वित्तसुखेन सदा रहितः स्यात् ॥ १२४॥
नेत्रपाणावगौ नेत्रे भवतो रोगपीडिते ।
दुष्टव्यालारिचौराणां भयं तस्य धनक्षयः ॥ १२५॥
प्रकाशने शुभासने स्थितिः कृतिः शुभा नृणाम् ।
धनोन्नतिर्गुणोन्नतिः सदा विदामगाविह ।
धराधिपाधिकारिता यशोलता तता भवे ।
न्नवीननीरदाकृतिर्विदेशतो महोन्नतिः ॥ १२६॥
गमने च यदा राहौ बहुसन्तानवान्नरः ।
पण्डितो धनवान् दाता राजपूज्यो नरो भवेत् ॥ १२७॥
राहावागमने क्रोधी सदा धीधनवर्जितः ।
कुटिलः कृपणः कामी नरो भवति सर्वथा ॥ १२८॥
सभागतो यदा राहुः पण्डितः कृपणो नरः ।
नानागुणपरिक्रान्तो वित्त सौख्यसमन्वितः ॥ १२९॥
चेदगावागमं यस्य याते तदा व्याकुलत्वं सदारातिभीत्या भयम् ।
महद्बन्धुवादो जनानां निपातो भवेद्वित्तहानिः शठत्वं कृशत्वम् ॥ १३०॥
भोजने भोजनेनालं विकलो मनुजो भवेत् ।
मन्दबुद्धिः क्रियाभीरुः स्त्रीपुत्रसुखवर्जितः ॥ १३१॥
नृत्यलिप्सागते राहौ महाव्याधिविवर्द्धनम् ।
नेत्ररोगी रिपोर्भीतिर्धनधर्मक्षयो नृणाम् ॥ १३२॥
कौतुके च यदा राहौ स्थानहीनो नरो भवेत् ।
परदाररतो नित्यं परवित्तापहारकः ॥ १३३॥
निद्रावस्थां गते राहौ गुणग्रामयुतो नरः ।
कान्तासन्तानवान् धीरो गर्वितो बहुवित्तवान् ॥ १३४॥
मेषे वृषेऽथ वा युग्मे कन्ययां शयनं गते ।
केतौ धनसमृद्धिः स्यादन्यभे रोगवर्धनम् ॥ १३५॥
उपवेशं गतौ केतौ दद्रुरोगविवर्द्धनम् ।
अरिवातनृपव्यालचैरशंका समन्ततः ॥ १३६॥
नेत्रपाणिं गते केतौ नेत्ररोगः प्रजायते ।
दुष्टसर्पादिभीतिश्च रिपुराजकुलादपि ॥ १३७॥
केतौ प्रकाशने संज्ञे धनवान् धार्मिकः सदा ।
नित्यं प्रवासी चोत्साही सात्त्विको राजसेवकः ॥ १३८॥
गमेच्छायां भवेत्केतुर्बहुपुत्रो महाधनः ।
पण्डितो गुणवान् दाता जायते च नरोत्तमः ॥ १३९॥
आगमने च यदा केतुर्नानारोगो धनक्षयः ।
दन्तघाती महारोगी पिशुनः परनिन्दकः ॥ १४०॥
सभावस्थां गते केतौ वाचालो बहुगर्वितः ।
कृपणो लम्पटश्चैव धूर्तविद्द्याविशारदः ॥ १४१॥
यदागमे भवेत्केतुः केतुः स्यात्पापकर्मणाम् ।
बन्धुवादरतो दुष्टो रिपुरोगनिपीडितः ॥ १४२॥
भोजने तु जनो नित्यं क्षुधया परिपीडितः ।
दरिद्रो रोगसंतप्तः केतौ भ्रामति मेदिनीम् ॥ १४३॥
नृत्यलिप्साङ्गते केतौ व्याधिना विकलो भवेत् ।
बुद्बुदाक्षो दुराघर्षो धूर्तोऽनर्थकरो नरः ॥ १४४॥
कौतुकी कौतुके केतौ नटवामारतिप्रियः ।
स्थानभ्रष्टो दुराचारी दरिद्रो भ्रमते महीम् ॥ १४५॥
निद्रावस्थां गते केतौ धनधान्यसुखं महत् ।
नानागुणविनोदेन कालो गच्छति जन्मिनाम् ॥ १४६॥
शयने द्विज भावेषु यत्र तिष्ठन्ति सद्ग्रहाः ।
नित्यं तस्य शुभज्ञानं निर्विशंकं वदेत् बुधः ॥ १४७॥
भोजने येषु भावेषु पापास्तिष्ठन्ति सर्वथा ।
तदा सर्वविनाशेऽपि नाऽत्र कार्या विचारणा ॥ १४८॥
निद्रायां च यदा पापो जायास्थाने शुभं वदेत् ।
यदि पापग्रहैर्दृष्टो न शुभं च कदाचन ॥ १४९॥
सुतस्थाने स्थितः पापो निद्रायां शयनेऽपि वा ।
तदा शुभं वदेत्तस्य नाऽत्र कार्या विचारणा ॥ १५०॥
मृत्युस्थानस्थितः पापो निद्रायां शयनेऽपि वा ।
तदा तस्याऽपमृत्युः स्याद्राजतः परतस्तथा ॥ १५१॥
शुभग्रहैर्यदा युक्तः शुभैर्वा यदि वीक्षितः ।
तदा तु मरणं तस्य गङ्गादौ च विशेषतः ॥ १५२॥
कर्मस्थाने यदा पापः शयने भोजनेऽपि वा ।
तदा कर्मविपाकः स्यान्नानादुःखप्रदायकः ॥ १५३॥
दशमस्थो निशानाथः कौतुके च प्रकाशने ।
तदैव राजयोगः स्यान्निर्विशकं द्विजोत्तम ॥ १५४॥
बलाऽबलविचारेण ज्ञातव्यञ्च शुभाऽशुभम् ।
एवं क्रमेण बोद्धव्यं सर्वाभावेषु बुद्धिमन् ॥ १५५॥
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.