The greatness of Krishna Devotees - Vraja Loka Astro Spiritual Center

The greatness of Krishna Devotees  As described in Srimad Bhagavatham  Vraja Loka Astro SPiitual Center     .. Shri Ganeshaya Namah.. .. ॐ S...

Friday, November 19, 2010

shrImadbhAgavatam - tRitIyaskandhaH श्रीमद्भागवतम् - तृतीयस्कन्धः - Third Conto

 

 

shrImadbhAgavatam - tRitIyaskandhaH

 श्रीमद्भागवतम् - तृतीयस्कन्धः

 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ तृतीयस्कन्धः ॥

 

॥ प्रथमोऽध्यायः - १ ॥

 

श्रीशुक उवाच

एवमेतत्पुरा पृष्टो मैत्रेयो भगवान् किल ।

क्षत्त्रा वनं प्रविष्टेन त्यक्त्वा स्वगृहमृद्धिमत् ॥ १॥

 

यद्वा अयं मन्त्रकृद्वो भगवानखिलेश्वरः ।

पौरवेन्द्रगृहं हित्वा प्रविवेशात्मसात्कृतम् ॥ २॥

 

राजोवाच

कुत्र क्षत्तुर्भगवता मैत्रेयेणास सङ्गमः ।

कदा वा सह संवाद एतद्वर्णय नः प्रभो ॥ ३॥

 

न ह्यल्पार्थोदयस्तस्य विदुरस्यामलात्मनः ।

तस्मिन् वरीयसि प्रश्नः साधुवादोपबृंहितः ॥ ४॥

 

सूत उवाच

स एवमृषिवर्योऽयं पृष्टो राज्ञा परीक्षिता ।

प्रत्याह तं सुबहुवित्प्रीतात्मा श्रूयतामिति ॥ ५॥

 

श्रीशुक उवाच

यदा तु राजा स्वसुतानसाधून्

पुष्णन्नधर्मेण विनष्टदृष्टिः ।

भ्रातुर्यविष्ठस्य सुतान् विबन्धून्

प्रवेश्य लाक्षाभवने ददाह ॥ ६॥

 

यदा सभायां कुरुदेवदेव्याः

केशाभिमर्शं सुतकर्म गर्ह्यम् ।

न वारयामास नृपः स्नुषायाः

स्वास्रैर्हरन्त्याः कुचकुङ्कुमानि ॥ ७॥

 

द्यूते त्वधर्मेण जितस्य साधोः

सत्यावलम्बस्य वनागतस्य ।

न याचतोऽदात्समयेन दायं

तमो जुषाणो यदजातशत्रोः ॥ ८॥

 

यदा च पार्थप्रहितः सभायां

जगद्गुरुर्यानि जगाद कृष्णः ।

न तानि पुंसाममृतायनानि

राजोरु मेने क्षतपुण्यलेशः ॥ ९॥

 

यदोपहूतो भवनं प्रविष्टो

मन्त्राय पृष्टः किल पूर्वजेन ।

अथाह तन्मन्त्रदृशां वरीयान्

यन्मन्त्रिणो वैदुरिकं वदन्ति ॥ १०॥

 

अजातशत्रोः प्रतियच्छ दायं

तितिक्षतो दुर्विषहं तवागः ।

सहानुजो यत्र वृकोदराहिः

श्वसन् रुषा यत्त्वमलं बिभेषि ॥ ११॥

 

पार्थांस्तु देवो भगवान्मुकुन्दो

गृहीतवान् सक्षितिदेवदेवः ।

आस्ते स्वपुर्यां यदुदेवदेवो

विनिर्जिताशेषनृदेवदेवः ॥ १२॥

 

स एष दोषः पुरुषद्विडास्ते

गृहान् प्रविष्टो यमपत्यमत्या ।

पुष्णासि कृष्णाद्विमुखो गतश्रीः

त्यजाश्वशैवं कुलकौशलाय ॥ १३॥

 

इत्यूचिवांस्तत्र सुयोधनेन

प्रवृद्धकोपस्फुरिताधरेण ।

असत्कृतः सत्स्पृहणीयशीलः

क्षत्ता सकर्णानुजसौबलेन ॥ १४॥

 

क एनमत्रोपजुहाव जिह्मं

दास्याः सुतं यद्बलिनैव पुष्टः ।

तस्मिन् प्रतीपः परकृत्य आस्ते

निर्वास्यतामाशु पुराच्छ्वसानः ॥ १५॥

 

स इत्थमत्युल्बणकर्णबाणैः

भ्रातुः पुरो मर्मसु ताडितोऽपि ।

स्वयं धनुर्द्वारि निधाय मायां

गतव्यथोऽयादुरुमानयानः ॥ १६॥

 

स निर्गतः कौरवपुण्यलब्धो

गजाह्वयात्तीर्थपदः पदानि ।

अन्वाक्रमत्पुण्यचिकीर्षयोर्व्यां

स्वधिष्ठितो यानि सहस्रमूर्तिः ॥ १७॥

 

पुरेषु पुण्योपवनाद्रिकुञ्जे-

ष्वपङ्कतोयेषु सरित्सरःसु ।

अनन्तलिङ्गैः समलङ्कृतेषु

चचार तीर्थायतनेष्वनन्यः ॥ १८॥

 

गां पर्यटन्मेध्यविविक्तवृत्तिः

सदाऽऽप्लुतोऽधःशयनोऽवधूतः ।

अलक्षितः स्वैरवधूतवेषो

व्रतानि चेरे हरितोषणानि ॥ १९॥

 

इत्थं व्रजन्भारतमेव वर्षं

कालेन यावद्गतवान्प्रभासम् ।

तावच्छशास क्षितिमेकचक्रा-

मेकातपत्रामजितेन पार्थः ॥ २०॥

 

तत्राथ शुश्राव सुहृद्विनष्टिं

वनं यथा वेणुजवह्निसंश्रयम् ।

संस्पर्धया दग्द्धमथानुशोचन्

सरस्वतीं प्रत्यगियाय तूष्णीम् ॥ २१॥

 

तस्यां त्रितस्योशनसो मनोश्च

पृथोरथाग्नेरसितस्य वायोः ।

तीर्थं सुदासस्य गवां गुहस्य

यच्छ्राद्धदेवस्य स आसिषेवे ॥ २२॥

 

अन्यानि चेह द्विजदेवदेवैः

कृतानि नानाऽऽयतनानि विष्णोः ।

प्रत्यङ्गमुख्याङ्कितमन्दिराणि

यद्दर्शनात्कृष्णमनुस्मरन्ति ॥ २३॥

 

ततस्त्वतिव्रज्य सुराष्ट्रमृद्धं

सौवीरमत्स्यान् कुरुजाङ्गलांश्च ।

कालेन तावद्यमुनामुपेत्य

तत्रोद्धवं भागवतं ददर्श ॥ २४॥

 

स वासुदेवानुचरं प्रशान्तं

बृहस्पतेः प्राक्तनयं प्रतीतम् ।

आलिङ्ग्य गाढं प्रणयेन भद्रं

स्वानामपृच्छद्भगवत्प्रजानाम् ॥ २५॥

 

कच्चित्पुराणौ पुरुषौ स्वनाभ्य-

पाद्मानुवृत्त्येह किलावतीर्णौ ।

आसात उर्व्याः कुशलं विधाय

कृतक्षणौ कुशलं शूरगेहे ॥ २६॥

 

कच्चित्कुरूणां परमः सुहृन्नो

भामः स आस्ते सुखमङ्ग शौरिः ।

यो वै स्वसॄणां पितृवद्ददाति

वरान् वदान्यो वरतर्पणेन ॥ २७॥

 

कच्चिद्वरूथाधिपतिर्यदूनां

प्रद्युम्न आस्ते सुखमङ्ग वीरः ।

यं रुक्मिणी भगवतोऽभिलेभे

आराध्य विप्रान् स्मरमादिसर्गे ॥ २८॥

 

कच्चित्सुखं सात्वतवृष्णिभोज-

दाशार्हकाणामधिपः स आस्ते ।

यमभ्यषिञ्चच्छतपत्रनेत्रो

नृपासनाशां परिहृत्य दूरात् ॥ २९॥

 

कच्चिद्धरेः सौम्य सुतः सदृक्ष

आस्तेऽग्रणी रथिनां साधु साम्बः ।

असूत यं जाम्बवती व्रताढ्या

देवं गुहं योंऽबिकया धृतोऽग्रे ॥ ३०॥

 

क्षेमं स कच्चिद्युयुधान आस्ते

यः फाल्गुनाल्लब्धधनूरहस्यः ।

लेभेऽञ्जसाधोक्षजसेवयैव

गतिं तदीयां यतिभिर्दुरापाम् ॥ ३१॥

 

कच्चिद्बुधः स्वस्त्यनमीव आस्ते

श्वफल्कपुत्रो भगवत्प्रपन्नः ।

यः कृष्णपादाङ्कितमार्गपांसु-

ष्वचेष्टत प्रेमविभिन्नधैर्यः ॥ ३२॥

 

कच्चिच्छिवं देवकभोजपुत्र्या

विष्णुप्रजाया इव देवमातुः ।

या वै स्वगर्भेण दधार देवं

त्रयी यथा यज्ञवितानमर्थम् ॥ ३३॥

 

अपिस्विदास्ते भगवान्सुखं वो

यः सात्वतां कामदुघोऽनिरुद्धः ।

यमामनन्ति स्म ह शब्दयोनिं

मनोमयं सत्त्वतुरीयतत्त्वम् ॥ ३४॥

 

अपिस्विदन्ये च निजात्मदैव-

मनन्यवृत्त्या समनुव्रता ये ।

हृदीकसत्यात्मजचारुदेष्ण-

गदादयः स्वस्ति चरन्ति सौम्य ॥ ३५॥

 

अपि स्वदोर्भ्यां विजयाच्युताभ्यां

धर्मेण धर्मः परिपाति सेतुम् ।

दुर्योधनोऽतप्यत यत्सभायां

साम्राज्यलक्ष्म्या विजयानुवृत्त्या ॥ ३६॥

 

किं वा कृताघेष्वघमत्यमर्षी

भीमोऽहिवद्दीर्घतमं व्यमुञ्चत् ।

यस्याङ्घ्रिपातं रणभूर्न सेहे

मार्गं गदायाश्चरतो विचित्रम् ॥ ३७॥

 

कच्चिद्यशोधा रथयूथपानां

गाण्डीवधन्वोपरतारिरास्ते ।

अलक्षितो यच्छरकूटगूढो

मायाकिरातो गिरिशस्तुतोष ॥ ३८॥

 

यमावुतस्वित्तनयौ पृथायाः

पार्थैर्वृतौ पक्ष्मभिरक्षिणीव ।

रेमात उद्दाय मृधे स्वरिक्थं

परात्सुपर्णाविव वज्रिवक्त्रात् ॥ ३९॥

 

अहो पृथापि ध्रियतेऽर्भकार्थे

राजर्षिवर्येण विनापि तेन ।

यस्त्वेकवीरोऽधिरथो विजिग्ये

धनुर्द्वितीयः ककुभश्चतस्रः ॥ ४०॥

 

सौम्यानुशोचे तमधःपतन्तं

भ्रात्रे परेताय विदुद्रुहे यः ।

निर्यापितो येन सुहृत्स्वपुर्या

अहं स्वपुत्रान्समनुव्रतेन ॥ ४१॥

 

सोऽहं हरेर्मर्त्यविडम्बनेन

दृशो नृणां चालयतो विधातुः ।

नान्योपलक्ष्यः पदवीं प्रसादा-

च्चरामि पश्यन् गतविस्मयोऽत्र ॥ ४२॥

 

नूनं नृपाणां त्रिमदोत्पथानां

महीं मुहुश्चालयतां चमूभिः ।

वधात्प्रपन्नार्तिजिहीर्षयेशो-

ऽप्युपैक्षताघं भगवान्कुरूणाम् ॥ ४३॥

 

अजस्य जन्मोत्पथनाशनाय

कर्माण्यकर्तुर्ग्रहणाय पुंसाम् ।

नन्वन्यथा कोऽर्हति देहयोगं

परो गुणानामुत कर्मतन्त्रम् ॥ ४४॥

 

तस्य प्रपन्नाखिललोकपाना-

मवस्थितानामनुशासने स्वे ।

अर्थाय जातस्य यदुष्वजस्य

वार्तां सखे कीर्तय तीर्थकीर्तेः ॥ ४५॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे विदुरोद्धवसंवादे प्रथमोऽध्यायः ॥ १॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ द्वितीयोऽध्यायः - २ ॥

 

श्रीशुक उवाच

इति भागवतः पृष्टः क्षत्त्रा वार्तां प्रियाश्रयाम् ।

प्रतिवक्तुं न चोत्सेह औत्कण्ठ्यात्स्मारितेश्वरः ॥ १॥

 

यः पञ्चहायनो मात्रा प्रातराशाय याचितः ।

तन्नैच्छद्रचयन्यस्य सपर्यां बाललीलया ॥ २॥

 

स कथं सेवया तस्य कालेन जरसं गतः ।

पृष्टो वार्तां प्रतिब्रूयाद्भर्तुः पादावनुस्मरन् ॥ ३॥

 

स मुहूर्तमभूत्तूष्णीं कृष्णाङ्घ्रिसुधया भृशम् ।

तीव्रेण भक्तियोगेन निमग्नः साधु निर्वृतः ॥ ४॥

 

पुलकोद्भिन्नसर्वाङ्गो मुञ्चन्मीलद्दृशा शुचः ।

पूर्णार्थो लक्षितस्तेन स्नेहप्रसरसम्प्लुतः ॥ ५॥

 

शनकैर्भगवल्लोकान्नृलोकं पुनरागतः ।

विमृज्य नेत्रे विदुरं प्रत्याहोद्धव उत्स्मयन् ॥ ६॥

 

उद्धव उवाच

कृष्णद्युमणिनिम्लोचे गीर्णेष्वजगरेण ह ।

किं नु नः कुशलं ब्रूयां गतश्रीषु गृहेष्वहम् ॥ ७॥

 

दुर्भगो बत लोकोऽयं यदवो नितरामपि ।

ये संवसन्तो न विदुर्हरिं मीना इवोडुपम् ॥ ८॥

 

इङ्गितज्ञाः पुरुप्रौढा एकारामाश्च सात्त्वताः ।

सात्त्वतामृषभं सर्वे भूतावासममंसत ॥ ९॥

 

देवस्य मायया स्पृष्टा ये चान्यदसदाश्रिताः ।

भ्राम्यते धीर्न तद्वाक्यैरात्मन्युप्तात्मनो हरौ ॥ १०॥

 

प्रदर्श्यातप्ततपसामवितृप्तदृशां नृणाम् ।

आदायान्तरधाद्यस्तु स्वबिम्बं लोकलोचनम् ॥ ११॥

 

यन्मर्त्यलीलौपयिकं स्वयोग-

मायाबलं दर्शयता गृहीतम् ।

विस्मापनं स्वस्य च सौभगर्द्धेः

परं पदं भूषणभूषणाङ्गम् ॥ १२॥

 

यद्धर्मसूनोर्बत राजसूये

निरीक्ष्य दृक्स्वस्त्ययनं त्रिलोकः ।

कार्त्स्न्येन चाद्येह गतं विधातु-

रर्वाक्सृतौ कौशलमित्यमन्यत ॥ १३॥

 

यस्यानुरागप्लुतहासरास-

लीलावलोकप्रतिलब्धमानाः ।

व्रजस्त्रियो दृग्भिरनुप्रवृत्त-

धियोऽवतस्थुः किल कृत्यशेषाः ॥ १४॥

 

स्वशान्तरूपेष्वितरैः स्वरूपै-

रभ्यर्द्यमानेष्वनुकम्पितात्मा ।

परावरेशो महदंशयुक्तो

ह्यजोऽपि जातो भगवान् यथाग्निः ॥ १५॥

 

मां खेदयत्येतदजस्य जन्म

विडम्बनं यद्वसुदेवगेहे ।

व्रजे च वासोऽरिभयादिव स्वयं

पुराद्व्यवात्सीद्यदनन्तवीर्यः ॥ १६॥

 

दुनोति चेतः स्मरतो ममैत-

द्यदाह पादावभिवन्द्य पित्रोः ।

ताताम्ब कंसादुरुशङ्कितानां

प्रसीदतं नोऽकृतनिष्कृतीनाम् ॥ १७॥

 

को वा अमुष्याङ्घ्रिसरोजरेणुं

विस्मर्तुमीशीत पुमान्विजिघ्रन् ।

यो विस्फुरद्भ्रूविटपेन भूमे-

र्भारं कृतान्तेन तिरश्चकार ॥ १८॥

 

दृष्टा भवद्भिर्ननु राजसूये

चैद्यस्य कृष्णं द्विषतोऽपि सिद्धिः ।

यां योगिनः संस्पृहयन्ति सम्य-

ग्योगेन कस्तद्विरहं सहेत ॥ १९॥

 

तथैव चान्ये नरलोकवीरा

य आहवे कृष्णमुखारविन्दम् ।

नेत्रैः पिबन्तो नयनाभिरामं

पार्थास्त्रपूताः पदमापुरस्य ॥ २०॥

 

स्वयं त्वसाम्यातिशयस्त्र्यधीशः

स्वाराज्यलक्ष्म्याऽऽप्तसमस्तकामः ।

बलिं हरद्भिश्चिरलोकपालैः

किरीटकोट्येडितपादपीठः ॥ २१॥

 

तत्तस्य कैङ्कर्यमलं भृतान्नो

विग्लापयत्यङ्ग यदुग्रसेनम् ।

तिष्ठन्निषण्णं परमेष्ठिधिष्ण्ये

न्यबोधयद्देव निधारयेति ॥ २२॥

 

अहो बकी यं स्तनकालकूटं

जिघांसयापाययदप्यसाध्वी ।

लेभे गतिं धात्र्युचितां ततोऽन्यं

कं वा दयालुं शरणं व्रजेम ॥ २३॥

 

मन्येऽसुरान्भागवतांस्त्र्यधीशे

संरम्भमार्गाभिनिविष्टचित्तान् ।

ये संयुगेऽचक्षत तार्क्ष्यपुत्र-

मंसे सुनाभायुधमापतन्तम् ॥ २४॥

 

वसुदेवस्य देवक्यां जातो भोजेन्द्रबन्धने ।

चिकीर्षुर्भगवानस्याः शमजेनाभियाचितः ॥ २५॥

 

ततो नन्दव्रजमितः पित्रा कंसाद्विबिभ्यता ।

एकादशसमास्तत्र गूढार्चिः सबलोऽवसत् ॥ २६॥

 

परीतो वत्सपैर्वत्सांश्चारयन्व्यहरद्विभुः ।

यमुनोपवने कूजद्द्विजसङ्कुलिताङ्घ्रिपे ॥ २७॥

 

कौमारीं दर्शयंश्चेष्टां प्रेक्षणीयां व्रजौकसाम् ।

रुदन्निव हसन्मुग्द्धबालसिंहावलोकनः ॥ २८॥

 

स एव गोधनं लक्ष्म्या निकेतं सितगोवृषम् ।

चारयन्ननुगान्गोपान् रणद्वेणुररीरमत् ॥ २९॥

 

प्रयुक्तान् भोजराजेन मायिनः कामरूपिणः ।

लीलया व्यनुदत्तांस्तान् बालः क्रीडनकानिव ॥ ३०॥

 

विपन्नान्विषपानेन निगृह्य भुजगाधिपम् ।

उत्थाप्यापाययद्गावस्तत्तोयं प्रकृतिस्थितम् ॥ ३१॥

 

अयाजयद्गोसवेन गोपराजं द्विजोत्तमैः ।

वित्तस्य चोरुभारस्य चिकीर्षन् सद्व्ययं विभुः ॥ ३२॥

 

वर्षतीन्द्रे व्रजः कोपाद्भग्नमानेऽतिविह्वलः ।

गोत्रलीलातपत्रेण त्रातो भद्रानुगृह्णता ॥ ३३॥

 

शरच्छशिकरैर्मृष्टं मानयन् रजनीमुखम् ।

गायन् कलपदं रेमे स्त्रीणां मण्डलमण्डनः ॥ ३४॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे विदुरोद्धवसंवादे द्वितीयोऽध्यायः ॥ २॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ तृतीयोऽध्यायः - ३ ॥

 

उद्धव उवाच

ततः स आगत्य पुरं स्वपित्रो-

श्चिकीर्षया शं बलदेवसंयुतः ।

निपात्य तुङ्गाद्रिपुयूथनाथं

हतं व्यकर्षद्व्यसुमोजसोर्व्याम् ॥ १॥

 

सान्दीपनेः सकृत्प्रोक्तं ब्रह्माधीत्य सविस्तरम् ।

तस्मै प्रादाद्वरं पुत्रं मृतं पञ्चजनोदरात् ॥ २॥

 

समाहुता भीष्मककन्यया ये

श्रियः सवर्णेन बुभूषयैषाम् ।

गान्धर्ववृत्त्या मिषतां स्वभागं

जह्रे पदं मूर्ध्नि दधत्सुपर्णः ॥ ३॥

 

ककुद्मतोऽविद्धनसो दमित्वा

स्वयंवरे नाग्नजितीमुवाह ।

तद्भग्नमानानपि गृध्यतोऽज्ञान्

जघ्नेऽक्षतः शस्त्रभृतः स्वशस्त्रैः ॥ ४॥

 

प्रियं प्रभुर्ग्राम्य इव प्रियाया

विधित्सुरार्च्छद् द्युतरुं यदर्थे ।

वज्र्याद्रवत्तं सगणो रुषान्धः

क्रीडामृगो नूनमयं वधूनाम् ॥ ५॥

 

सुतं मृधे खं वपुषा ग्रसन्तं

दृष्ट्वा सुनाभोन्मथितं धरित्र्या ।

आमन्त्रितस्तत्तनयाय शेषं

दत्त्वा तदन्तःपुरमाविवेश ॥ ६॥

 

तत्राहृतास्ता नरदेवकन्याः

कुजेन दृष्ट्वा हरिमार्तबन्धुम् ।

उत्थाय सद्यो जगृहुः प्रहर्ष-

व्रीडानुरागप्रहितावलोकैः ॥ ७॥

 

आसां मुहूर्त एकस्मिन्नानागारेषु योषिताम् ।

सविधं जगृहे पाणीननुरूपः स्वमायया ॥ ८॥

 

तास्वपत्यान्यजनयदात्मतुल्यानि सर्वतः ।

एकैकस्यां दश दश प्रकृतेर्विबुभूषया ॥ ९॥

 

कालमागधशाल्वादीननीकै रुन्धतः पुरम् ।

अजीघनत्स्वयं दिव्यं स्वपुंसां तेज आदिशत् ॥ १०॥

 

शम्बरं द्विविदं बाणं मुरं बल्वलमेव च ।

अन्यांश्च दन्तवक्त्रादीनवधीत्कांश्च घातयत् ॥ ११॥

 

अथ ते भ्रातृपुत्राणां पक्षयोः पतितान्नृपान् ।

चचाल भूः कुरुक्षेत्रं येषामापततां बलैः ॥ १२॥

 

सकर्णदुःशासनसौबलानां

कुमन्त्रपाकेन हतश्रियायुषम् ।

सुयोधनं सानुचरं शयानं

भग्नोरुमुर्व्यां न ननन्द पश्यन् ॥ १३॥

 

कियान्भुवोऽयं क्षपितोरुभारो

यद्द्रोणभीष्मार्जुनभीममूलैः ।

अष्टादशाक्षौहिणिको मदंशै-

रास्ते बलं दुर्विषहं यदूनाम् ॥ १४॥

 

मिथो यदैषां भविता विवादो

मध्वामदाताम्रविलोचनानाम् ।

नैषां वधोपाय इयानतोऽन्यो

मय्युद्यतेऽन्तर्दधते स्वयं स्म ॥ १५॥

 

एवं सञ्चिन्त्य भगवान्स्वराज्ये स्थाप्य धर्मजम् ।

नन्दयामास सुहृदः साधूनां वर्त्म दर्शयन् ॥ १६॥

 

उत्तरायां धृतः पूरोर्वंशः साध्वभिमन्युना ।

स वै द्रौण्यस्त्रसञ्च्छिन्नः पुनर्भगवता धृतः ॥ १७॥

 

अयाजयद्धर्मसुतमश्वमेधैस्त्रिभिर्विभुः ।

सोऽपि क्ष्मामनुजै रक्षन् रेमे कृष्णमनुव्रतः ॥ १८॥

 

भगवानपि विश्वात्मा लोकवेदपथानुगः ।

कामान् सिषेवे द्वार्वत्यामसक्तः साङ्ख्यमास्थितः ॥ १९॥

 

स्निग्द्धस्मितावलोकेन वाचा पीयूषकल्पया ।

चरित्रेणानवद्येन श्रीनिकेतेन चात्मना ॥ २०॥

 

इमं लोकममुं चैव रमयन् सुतरां यदून् ।

रेमे क्षणदया दत्तक्षणस्त्रीक्षणसौहृदः ॥ २१॥

 

तस्यैवं रममाणस्य संवत्सरगणान् बहून् ।

गृहमेधेषु योगेषु विरागः समजायत ॥ २२॥

 

दैवाधीनेषु कामेषु दैवाधीनः स्वयं पुमान् ।

को विश्रम्भेत योगेन योगेश्वरमनुव्रतः ॥ २३॥

 

पुर्यां कदाचित्क्रीडद्भिर्यदुभोजकुमारकैः ।

कोपिता मुनयः शेपुर्भगवन्मतकोविदाः ॥ २४॥

 

ततः कतिपयैर्मासैर्वृष्णिभोजान्धकादयः ।

ययुः प्रभासं संहृष्टा रथैर्देवविमोहिताः ॥ २५॥

 

तत्र स्नात्वा पितॄन् देवान् ऋषींश्चैव तदम्भसा ।

तर्पयित्वाथ विप्रेभ्यो गावो बहुगुणा ददुः ॥ २६॥

 

हिरण्यं रजतं शय्यां वासांस्यजिनकम्बलान् ।

यानं रथानिभान्कन्या धरां वृत्तिकरीमपि ॥ २७॥

 

अन्नं चोरुरसं तेभ्यो दत्त्वा भगवदर्पणम् ।

गोविप्रार्थासवः शूराः प्रणेमुर्भुवि मूर्धभिः ॥ २८॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धेविदुरोद्धवसंवादे तृतीयोऽध्यायः ॥ ३॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ चतुर्थोऽध्यायः - ४ ॥

 

उद्धव उवाच

अथ ते तदनुज्ञाता भुक्त्वा पीत्वा च वारुणीम् ।

तया विभ्रंशितज्ञाना दुरुक्तैर्मर्म पस्पृशुः ॥ १॥

 

तेषां मैरेयदोषेण विषमीकृतचेतसाम् ।

निम्लोचति रवावासीद्वेणूनामिव मर्दनम् ॥ २॥

 

भगवान् स्वात्ममायाया गतिं तामवलोक्य सः ।

सरस्वतीमुपस्पृश्य वृक्षमूलमुपाविशत् ॥ ३॥

 

अहं चोक्तो भगवता प्रपन्नार्तिहरेण ह ।

बदरीं त्वं प्रयाहीति स्वकुलं सञ्जिहीर्षुणा ॥ ४॥

 

अथापि तदभिप्रेतं जानन्नहमरिन्दम ।

पृष्ठतोऽन्वगमं भर्तुः पादविश्लेषणाक्षमः ॥ ५॥

 

अद्राक्षमेकमासीनं विचिन्वन् दयितं पतिम् ।

श्रीनिकेतं सरस्वत्यां कृतकेतमकेतनम् ॥ ६॥

 

श्यामावदातं विरजं प्रशान्तारुणलोचनम् ।

दोर्भिश्चतुर्भिर्विदितं पीतकौशाम्बरेण च ॥ ७॥

 

वाम ऊरावधिश्रित्य दक्षिणाङ्घ्रिसरोरुहम् ।

अपाश्रितार्भकाश्वत्थमकृशं त्यक्तपिप्पलम् ॥ ८॥

 

तस्मिन्महाभागवतो द्वैपायनसुहृत्सखा ।

लोकाननुचरन् सिद्ध आससाद यदृच्छया ॥ ९॥

 

तस्यानुरक्तस्य मुनेर्मुकुन्दः

प्रमोदभावानतकन्धरस्य ।

आश‍ृण्वतो मामनुरागहास-

समीक्षया विश्रमयन्नुवाच ॥ १०॥

 

श्रीभगवानुवाच

वेदाहमन्तर्मनसीप्सितं ते

ददामि यत्तद्दुरवापमन्यैः ।

सत्रे पुरा विश्वसृजां वसूनां

मत्सिद्धिकामेन वसो त्वयेष्टः ॥ ११॥

 

स एष साधो चरमो भवाना-

मासादितस्ते मदनुग्रहो यत् ।

यन्मां नृलोकान् रह उत्सृजन्तं

दिष्ट्या ददृश्वान् विशदानुवृत्त्या ॥ १२॥

 

पुरा मया प्रोक्तमजाय नाभ्ये

पद्मे निषण्णाय ममादिसर्गे ।

ज्ञानं परं मन्महिमावभासं

यत्सूरयो भागवतं वदन्ति ॥ १३॥

 

इत्यादृतोक्तः परमस्य पुंसः

प्रतिक्षणानुग्रहभाजनोऽहम् ।

स्नेहोत्थरोमा स्खलिताक्षरस्तं

मुञ्चञ्छुचः प्राञ्जलिराबभाषे ॥ १४॥

 

को न्वीश ते पादसरोजभाजां

सुदुर्लभोऽर्थेषु चतुर्ष्वपीह ।

तथापि नाहं प्रवृणोमि भूमन्

भवत्पदाम्भोजनिषेवणोत्सुकः ॥ १५॥

 

कर्माण्यनीहस्य भवोऽभवस्य ते

दुर्गाश्रयोऽथारिभयात्पलायनम् ।

कालात्मनो यत्प्रमदायुताश्रमः

स्वात्मन् रतेः खिद्यति धीर्विदामिह ॥ १६॥

 

मन्त्रेषु मां वा उपहूय यत्त्व-

मकुण्ठिताखण्डसदात्मबोधः ।

पृच्छेः प्रभो मुग्द्ध इवाप्रमत्तः

तन्नो मनो मोहयतीव देव ॥ १७॥

 

ज्ञानं परं स्वात्मरहःप्रकाशं

प्रोवाच कस्मै भगवान् समग्रम् ।

अपि क्षमं नो ग्रहणाय भर्तः

वदाञ्जसा यद्वृजिनं तरेम ॥ १८॥

 

इत्यावेदितहार्दाय मह्यं स भगवान् परः ।

आदिदेशारविन्दाक्ष आत्मनः परमां स्थितिम् ॥ १९॥

 

स एवमाराधितपादतीर्था-

दधीततत्त्वात्मविबोधमार्गः ।

प्रणम्य पादौ परिवृत्य देव-

मिहागतोऽहं विरहातुरात्मा ॥ २०॥

 

सोऽहं तद्दर्शनाह्लादवियोगार्तियुतः प्रभो ।

गमिष्ये दयितं तस्य बदर्याश्रममण्डलम् ॥ २१॥

 

यत्र नारायणो देवो नरश्च भगवान् ऋषिः ।

मृदु तीव्रं तपो दीर्घं तेपाते लोकभावनौ ॥ २२॥

 

श्रीशुक उवाच

इत्युद्धवादुपाकर्ण्य सुहृदां दुःसहं वधम् ।

ज्ञानेनाशमयत्क्षत्ता शोकमुत्पतितं बुधः ॥ २३॥

 

स तं महाभागवतं व्रजन्तं कौरवर्षभः ।

विश्रम्भादभ्यधत्तेदं मुख्यं कृष्णपरिग्रहे ॥ २४॥

 

विदुर उवाच

ज्ञानं परं स्वात्मरहःप्रकाशं

यदाह योगेश्वर ईश्वरस्ते ।

वक्तुं भवान्नोऽर्हति यद्धि विष्णो-

र्भृत्याः स्वभृत्यार्थकृतश्चरन्ति ॥ २५॥

 

उद्धव उवाच

ननु ते तत्त्वसंराध्य ऋषिः कौषारवोऽन्ति मे ।

साक्षाद्भगवताऽऽदिष्टो मर्त्यलोकं जिहासता ॥ २६॥

 

श्रीशुक उवाच

इति सह विदुरेण विश्वमूर्ते-

र्गुणकथया सुधया प्लावितोरुतापः ।

क्षणमिव पुलिने यमस्वसुस्तां

समुषित औपगविर्निशां ततोऽगात् ॥ २७॥

 

राजोवाच

निधनमुपगतेषु वृष्णिभोजे-

ष्वधिरथयूथपयूथपेषु मुख्यः ।

स तु कथमवशिष्ट उद्धवो य-

द्धरिरपि तत्यज आकृतिं त्र्यधीशः ॥ २८॥

 

श्रीशुक उवाच

ब्रह्मशापापदेशेन कालेनामोघवाञ्छितः ।

संहृत्य स्वकुलं नूनं त्यक्ष्यन् देहमचिन्तयत् ॥ २९॥

 

अस्माल्लोकादुपरते मयि ज्ञानं मदाश्रयम् ।

अर्हत्युद्धव एवाद्धा सम्प्रत्यात्मवतां वरः ॥ ३०॥

 

नोद्धवोऽण्वपि मन्न्यूनो यद्गुणैर्नार्दितः प्रभुः ।

अतो मद्वयुनं लोकं ग्राहयन्निह तिष्ठतु ॥ ३१॥

 

एवं त्रिलोकगुरुणा सन्दिष्टः शब्दयोनिना ।

बदर्याश्रममासाद्य हरिमीजे समाधिना ॥ ३२॥

 

विदुरोऽप्युद्धवाच्छ्रुत्वा कृष्णस्य परमात्मनः ।

क्रीडयोपात्तदेहस्य कर्माणि श्लाघितानि च ॥ ३३॥

 

देहन्यासं च तस्यैवं धीराणां धैर्यवर्धनम् ।

अन्येषां दुष्करतरं पशूनां विक्लवात्मनाम् ॥ ३४॥

 

आत्मानं च कुरुश्रेष्ठ कृष्णेन मनसेक्षितम् ।

ध्यायन् गते भागवते रुरोद प्रेमविह्वलः ॥ ३५॥

 

कालिन्द्याः कतिभिः सिद्ध अहोभिर्भरतर्षभ ।

प्रापद्यत स्वःसरितं यत्र मित्रासुतो मुनिः ॥ ३६॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे विदुरोद्धवसंवादे चतुर्थोऽध्यायः ॥ ४॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ पञ्चमोऽध्यायः - ५ ॥

 

श्रीशुक उवाच

द्वारि द्युनद्या ऋषभः कुरूणां

मैत्रेयमासीनमगाधबोधम् ।

क्षत्तोपसृत्याच्युतभावशुद्धः

पप्रच्छ सौशील्यगुणाभितृप्तः ॥ १॥

 

विदुर उवाच

सुखाय कर्माणि करोति लोको

न तैः सुखं वान्यदुपारमं वा ।

विन्देत भूयस्तत एव दुःखं

यदत्र युक्तं भगवान् वदेन्नः ॥ २॥

 

जनस्य कृष्णाद्विमुखस्य दैवा-

दधर्मशीलस्य सुदुःखितस्य ।

अनुग्रहायेह चरन्ति नूनं

भूतानि भव्यानि जनार्दनस्य ॥ ३॥

 

तत्साधुवर्यादिश वर्त्म शं नः

संराधितो भगवान् येन पुंसाम् ।

हृदि स्थितो यच्छति भक्तिपूते

ज्ञानं स तत्त्वाधिगमं पुराणम् ॥ ४॥

 

करोति कर्माणि कृतावतारो

यान्यात्मतन्त्रो भगवांस्त्र्यधीशः ।

यथा ससर्जाग्र इदं निरीहः

संस्थाप्य वृत्तिं जगतो विधत्ते ॥ ५॥

 

यथा पुनः स्वे ख इदं निवेश्य

शेते गुहायां स निवृत्तवृत्तिः ।

योगेश्वराधीश्वर एक एत-

दनुप्रविष्टो बहुधा यथाऽऽसीत् ॥ ६॥

 

क्रीडन्विधत्ते द्विजगोसुराणां

क्षेमाय कर्माण्यवतारभेदैः ।

मनो न तृप्यत्यपि श‍ृण्वतां नः

सुश्लोकमौलेश्चरितामृतानि ॥ ७॥

 

यैस्तत्त्वभेदैरधिलोकनाथो

लोकानलोकान् सह लोकपालान् ।

अचीक्लृपद्यत्र हि सर्वसत्त्व-

निकायभेदोऽधिकृतः प्रतीतः ॥ ८॥

 

येन प्रजानामुत आत्मकर्म-

रूपाभिधानां च भिदां व्यधत्त ।

नारायणो विश्वसृगात्मयोनि-

रेतच्च नो वर्णय विप्रवर्य ॥ ९॥

 

परावरेषां भगवन्व्रतानि

श्रुतानि मे व्यासमुखादभीक्ष्णम् ।

अतृप्नुम क्षुल्लसुखावहानां

तेषामृते कृष्णकथामृतौघात् ॥ १०॥

 

कस्तृप्नुयात्तीर्थपदोऽभिधाना-

त्सत्रेषु वः सूरिभिरीड्यमानात् ।

यः कर्णनाडीं पुरुषस्य यातो

भवप्रदां गेहरतिं छिनत्ति ॥ ११॥

 

मुनिर्विवक्षुर्भगवद्गुणानां

सखापि ते भारतमाह कृष्णः ।

यस्मिन्नृणां ग्राम्यसुखानुवादै-

र्मतिर्गृहीता नु हरेः कथायाम् ॥ १२॥

 

सा श्रद्दधानस्य विवर्धमाना

विरक्तिमन्यत्र करोति पुंसः ।

हरेः पदानुस्मृतिनिर्वृतस्य

समस्तदुःखाप्ययमाशु धत्ते ॥ १३॥

 

ताञ्छोच्यशोच्यानविदोऽनुशोचे

हरेः कथायां विमुखानघेन ।

क्षिणोति देवोऽनिमिषस्तु येषा-

मायुर्वृथा वादगतिस्मृतीनाम् ॥ १४॥

 

तदस्य कौषारव शर्म दातु-

र्हरेः कथामेव कथासु सारम् ।

उद्धृत्य पुष्पेभ्य इवार्तबन्धो

शिवाय नः कीर्तय तीर्थकीर्तेः ॥ १५॥

 

स विश्वजन्मस्थितिसंयमार्थे

कृतावतारः प्रगृहीतशक्तिः ।

चकार कर्माण्यतिपूरुषाणि

यानीश्वरः कीर्तय तानि मह्यम् ॥ १६॥

 

श्रीशुक उवाच

स एवं भगवान् पृष्टः क्षत्त्रा कौषारविर्मुनिः ।

पुंसां निःश्रेयसार्थेन तमाह बहुमानयन् ॥ १७॥

 

मैत्रेय उवाच

साधु पृष्टं त्वया साधो लोकान् साध्वनुगृह्णता ।

कीर्तिं वितन्वता लोके आत्मनोऽधोक्षजात्मनः ॥ १८॥

 

नैतच्चित्रं त्वयि क्षत्तर्बादरायणवीर्यजे ।

गृहीतोऽनन्यभावेन यत्त्वया हरिरीश्वरः ॥ १९॥

 

माण्डव्यशापाद्भगवान् प्रजासंयमनो यमः ।

भ्रातुः क्षेत्रे भुजिष्यायां जातः सत्यवतीसुतात् ॥ २०॥

 

भवान्भगवतो नित्यं सम्मतः सानुगस्य ह ।

यस्य ज्ञानोपदेशाय माऽऽदिशद्भगवान् व्रजन् ॥ २१॥

 

अथ ते भगवल्लीलायोगमायोरुबृंहिताः ।

विश्वस्थित्युद्भवान्तार्था वर्णयाम्यनुपूर्वशः ॥ २२॥

 

भगवानेक आसेदमग्र आत्माऽऽत्मनां विभुः ।

आत्मेच्छानुगतावात्मा नानामत्युपलक्षणः ॥ २३॥

 

स वा एष तदा द्रष्टा नापश्यद्‍दृश्यमेकराट् ।

मेनेऽसन्तमिवात्मानं सुप्तशक्तिरसुप्तदृक् ॥ २४॥

 

सा वा एतस्य सन्द्रष्टुः शक्तिः सदसदात्मिका ।

माया नाम महाभाग ययेदं निर्ममे विभुः ॥ २५॥

 

कालवृत्त्या तु मायायां गुणमय्यामधोक्षजः ।

पुरुषेणात्मभूतेन वीर्यमाधत्त वीर्यवान् ॥ २६॥

 

ततोऽभवन्महत्तत्त्वमव्यक्तात्कालचोदितात् ।

विज्ञानात्माऽऽत्मदेहस्थं विश्वं व्यञ्जंस्तमोनुदः ॥ २७॥

 

सोऽप्यंशगुणकालात्मा भगवद्‍दृष्टिगोचरः ।

आत्मानं व्यकरोदात्मा विश्वस्यास्य सिसृक्षया ॥ २८॥

 

महत्तत्त्वाद्विकुर्वाणादहन्तत्त्वं व्यजायत ।

कार्यकारणकर्त्रात्मा भूतेन्द्रियमनोमयः ॥ २९॥

 

वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा ।

अहन्तत्त्वाद्विकुर्वाणान्मनो वैकारिकादभूत् ।

वैकारिकाश्च ये देवा अर्थाभिव्यञ्जनं यतः ॥ ३०॥

 

तैजसानीन्द्रियाण्येव ज्ञानकर्ममयानि च ।

तामसो भूतसूक्ष्मादिर्यतः खं लिङ्गमात्मनः ॥ ३१॥

 

कालमायांशयोगेन भगवद्वीक्षितं नभः ।

नभसोऽनुसृतं स्पर्शं विकुर्वन्निर्ममेऽनिलम् ॥ ३२॥

 

अनिलोऽपि विकुर्वाणो नभसोरुबलान्वितः ।

ससर्ज रूपतन्मात्रं ज्योतिर्लोकस्य लोचनम् ॥ ३३॥

 

अनिलेनान्वितं ज्योतिर्विकुर्वत्परवीक्षितम् ।

आधत्ताम्भो रसमयं कालमायांशयोगतः ॥ ३४॥

 

ज्योतिषाम्भोऽनुसंसृष्टं विकुर्वद्ब्रह्मवीक्षितम् ।

महीं गन्धगुणामाधात्कालमायांशयोगतः ॥ ३५॥

 

भूतानां नभ आदीनां यद्यद्भव्यावरावरम् ।

तेषां परानुसंसर्गाद्यथा सङ्ख्यं गुणान् विदुः ॥ ३६॥

 

एते देवाः कला विष्णोः कालमायांशलिङ्गिनः ।

नानात्वात्स्वक्रियानीशाः प्रोचुः प्राञ्जलयो विभुम् ॥ ३७॥

 

देवा ऊचुः

नमाम ते देवपदारविन्दं

प्रपन्नतापोपशमातपत्रम् ।

यन्मूलकेता यतयोऽञ्जसोरु-

संसारदुःखं बहिरुत्क्षिपन्ति ॥ ३८॥

 

धातर्यदस्मिन् भव ईश जीवा-

स्तापत्रयेणोपहता न शर्म ।

आत्मन् लभन्ते भगवंस्तवाङ्घ्रि-

च्छायां सविद्यामत आश्रयेम ॥ ३९॥

 

मार्गन्ति यत्ते मुखपद्मनीडै-

श्छन्दःसुपर्णैरृषयो विविक्ते ।

यस्याघमर्षोदसरिद्वरायाः

पदं पदं तीर्थपदः प्रपन्नाः ॥ ४०॥

 

यच्छ्रद्धया श्रुतवत्या च भक्त्या

सम्मृज्यमाने हृदयेऽवधाय ।

ज्ञानेन वैराग्यबलेन धीरा

व्रजेम तत्तेऽङ्घ्रिसरोजपीठम् ॥ ४१॥

 

विश्वस्य जन्मस्थितिसंयमार्थे

कृतावतारस्य पदाम्बुजं ते ।

व्रजेम सर्वे शरणं यदीश

स्मृतं प्रयच्छत्यभयं स्वपुंसाम् ॥ ४२॥

 

यत्सानुबन्धेऽसति देहगेहे

ममाहमित्यूढदुराग्रहाणाम् ।

पुंसां सुदूरं वसतोऽपि पुर्यां

भजेम तत्ते भगवन् पदाब्जम् ॥ ४३॥

 

तान्वै ह्यसद्वृत्तिभिरक्षिभिर्ये

पराहृतान्तर्मनसः परेश ।

अथो न पश्यन्त्युरुगाय नूनं

ये ते पदन्यासविलासलक्ष्याः ॥ ४४॥

 

पानेन ते देव कथासुधायाः

प्रवृद्धभक्त्या विशदाशया ये ।

वैराग्यसारं प्रतिलभ्य बोधं

यथाञ्जसान्वीयुरकुण्ठधिष्ण्यम् ॥ ४५॥

 

तथापरे चात्मसमाधियोग-

बलेन जित्वा प्रकृतिं बलिष्ठाम् ।

त्वामेव धीराः पुरुषं विशन्ति

तेषां श्रमः स्यान्न तु सेवया ते ॥ ४६॥

 

तत्ते वयं लोकसिसृक्षयाद्य

त्वयानुसृष्टास्त्रिभिरात्मभिः स्म ।

सर्वे वियुक्ताः स्वविहारतन्त्रं

न शक्नुमस्तत्प्रतिहर्तवे ते ॥ ४७॥

 

यावद्बलिं तेऽज हराम काले

यथा वयं चान्नमदाम यत्र ।

यथोभयेषां त इमे हि लोका

बलिं हरन्तोऽन्नमदन्त्यनूहाः ॥ ४८॥

 

त्वं नः सुराणामसि सान्वयानां

कूटस्थ आद्यः पुरुषः पुराणः ।

त्वं देव शक्त्यां गुणकर्मयोनौ

रेतस्त्वजायां कविमादधेऽजः ॥ ४९॥

 

ततो वयं सत्प्रमुखा यदर्थे

बभूविमात्मन् करवाम किं ते ।

त्वं नः स्वचक्षुः परिदेहि शक्त्या

देव क्रियार्थे यदनुग्रहाणाम् ॥ ५०॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे विदुरोद्धवसंवादे पञ्चमोऽध्यायः ॥ ५॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ षष्ठोऽध्यायः - ६ ॥

 

ऋषिरुवाच

इति तासां स्वशक्तीनां सतीनामसमेत्य सः ।

प्रसुप्तलोकतन्त्राणां निशाम्य गतिमीश्वरः ॥ १॥

 

कालसञ्ज्ञां तदा देवीं बिभ्रच्छक्तिमुरुक्रमः ।

त्रयोविंशति तत्त्वानां गणं युगपदाविशत् ॥ २॥

 

सोऽनुप्रविष्टो भगवांश्चेष्टारूपेण तं गणम् ।

भिन्नं संयोजयामास सुप्तं कर्म प्रबोधयन् ॥ ३॥

 

प्रबुद्धकर्मा दैवेन त्रयोविंशतिको गणः ।

प्रेरितोऽजनयत्स्वाभिर्मात्राभिरधिपूरुषम् ॥ ४॥

 

परेण विशता स्वस्मिन्मात्रया विश्वसृग्गणः ।

चुक्षोभान्योन्यमासाद्य यस्मिन् लोकाश्चराचराः ॥ ५॥

 

हिरण्मयः स पुरुषः सहस्रपरिवत्सरान् ।

आण्डकोश उवासाप्सु सर्वसत्त्वोपबृंहितः ॥ ६॥

 

स वै विश्वसृजां गर्भो देवकर्मात्मशक्तिमान् ।

विबभाजात्मनाऽऽत्मानमेकधा दशधा त्रिधा ॥ ७॥

 

एष ह्यशेषसत्त्वानामात्मांशः परमात्मनः ।

आद्योऽवतारो यत्रासौ भूतग्रामो विभाव्यते ॥ ८॥

 

साध्यात्मः साधिदैवश्च साधिभूत इति त्रिधा ।

विराट् प्राणो दशविध एकधा हृदयेन च ॥ ९॥

 

स्मरन्विश्वसृजामीशो विज्ञापितमधोक्षजः ।

विराजमतपत्स्वेन तेजसैषां विवृत्तये ॥ १०॥

 

अथ तस्याभितप्तस्य कति चायतनानि ह ।

निरभिद्यन्त देवानां तानि मे गदतः श‍ृणु ॥ ११॥

 

तस्याग्निरास्यं निर्भिन्नं लोकपालोऽविशत्पदम् ।

वाचा स्वांशेन वक्तव्यं ययासौ प्रतिपद्यते ॥ १२॥

 

निर्भिन्नं तालु वरुणो लोकपालोऽविशद्धरेः ।

जिह्वयांशेन च रसं ययासौ प्रतिपद्यते ॥ १३॥

 

निर्भिन्ने अश्विनौ नासे विष्णोराविशतां पदम् ।

घ्राणेनांशेन गन्धस्य प्रतिपत्तिर्यतो भवेत् ॥ १४॥

 

निर्भिन्ने अक्षिणी त्वष्टा लोकपालोऽविशद्विभोः ।

चक्षुषांशेन रूपाणां प्रतिपत्तिर्यतो भवेत् ॥ १५॥

 

निर्भिन्नान्यस्य चर्माणि लोकपालोऽनिलोऽविशत् ।

प्राणेनांशेन संस्पर्शं येनासौ प्रतिपद्यते ॥ १६॥

 

कर्णावस्य विनिर्भिन्नौ धिष्ण्यं स्वं विविशुर्दिशः ।

श्रोत्रेणांशेन शब्दस्य सिद्धिं येन प्रपद्यते ॥ १७॥

 

त्वचमस्य विनिर्भिन्नां विविशुर्धिष्ण्यमोषधीः ।

अंशेन रोमभिः कण्डूं यैरसौ प्रतिपद्यते ॥ १८॥

 

मेढ्रं तस्य विनिर्भिन्नं स्वधिष्ण्यं क उपाविशत् ।

रेतसांशेन येनासावानन्दं प्रतिपद्यते ॥ १९॥

 

गुदं पुंसो विनिर्भिन्नं मित्रो लोकेश आविशत् ।

पायुनांशेन येनासौ विसर्गं प्रतिपद्यते ॥ २०॥

 

हस्तावस्य विनिर्भिन्नाविन्द्रः स्वर्पतिराविशत् ।

वार्तयांशेन पुरुषो यया वृत्तिं प्रपद्यते ॥ २१॥

 

पादावस्य विनिर्भिन्नौ लोकेशो विष्णुराविशत् ।

गत्या स्वांशेन पुरुषो यया प्राप्यं प्रपद्यते ॥ २२॥

 

बुद्धिं चास्य विनिर्भिन्नां वागीशो धिष्ण्यमाविशत् ।

बोधेनांशेन बोद्धव्यप्रतिपत्तिर्यतो भवेत् ॥ २३॥

 

हृदयं चास्य निर्भिन्नं चन्द्रमा धिष्ण्यमाविशत् ।

मनसांशेन येनासौ विक्रियां प्रतिपद्यते ॥ २४॥

 

आत्मानं चास्य निर्भिन्नमभिमानोऽविशत्पदम् ।

कर्मणांशेन येनासौ कर्तव्यं प्रतिपद्यते ॥ २५॥

 

सत्त्वं चास्य विनिर्भिन्नं महान् धिष्ण्यमुपाविशत् ।

चित्तेनांशेन येनासौ विज्ञानं प्रतिपद्यते ॥ २६॥

 

शीर्ष्णोऽस्य द्यौर्धरा पद्भ्यां खं नाभेरुदपद्यत ।

गुणानां वृत्तयो येषु प्रतीयन्ते सुरादयः ॥ २७॥

 

आत्यन्तिकेन सत्त्वेन दिवं देवाः प्रपेदिरे ।

धरां रजः स्वभावेन पणयो ये च ताननु ॥ २८॥

 

तार्तीयेन स्वभावेन भगवन्नाभिमाश्रिताः ।

उभयोरन्तरं व्योम ये रुद्रपार्षदां गणाः ॥ २९॥

 

मुखतोऽवर्तत ब्रह्म पुरुषस्य कुरूद्वह ।

यस्तून्मुखत्वाद्वर्णानां मुख्योऽभूद्ब्राह्मणो गुरुः ॥ ३०॥

 

बाहुभ्योऽवर्तत क्षत्रं क्षत्रियस्तदनुव्रतः ।

यो जातस्त्रायते वर्णान् पौरुषः कण्टकक्षतात् ॥ ३१॥

 

विशोऽवर्तन्त तस्योर्वोर्लोकवृत्तिकरीर्विभोः ।

वैश्यस्तदुद्भवो वार्तां नृणां यः समवर्तयत् ॥ ३२॥

 

पद्भ्यां भगवतो जज्ञे शुश्रूषा धर्मसिद्धये ।

तस्यां जातः पुरा शूद्रो यद्वृत्त्या तुष्यते हरिः ॥ ३३॥

 

एते वर्णाः स्वधर्मेण यजन्ति स्वगुरुं हरिम् ।

श्रद्धयाऽऽत्मविशुद्ध्यर्थं यज्जाताः सह वृत्तिभिः ॥ ३४॥

 

एतत्क्षत्तर्भगवतो दैवकर्मात्मरूपिणः ।

कः श्रद्दध्यादुपाकर्तुं योगमायाबलोदयम् ॥ ३५॥

 

अथापि कीर्तयाम्यङ्ग यथामति यथाश्रुतम् ।

कीर्तिं हरेः स्वां सत्कर्तुं गिरमन्याभिधासतीम् ॥ ३६॥

 

एकान्तलाभं वचसो नु पुंसां

सुश्लोकमौलेर्गुणवादमाहुः ।

श्रुतेश्च विद्वद्भिरुपाकृतायां

कथा सुधायामुपसम्प्रयोगम् ॥ ३७॥

 

आत्मनोऽवसितो वत्स महिमा कविनाऽऽदिना ।

संवत्सरसहस्रान्ते धिया योगविपक्वया ॥ ३८॥

 

अतो भगवतो माया मायिनामपि मोहिनी ।

यत्स्वयं चात्मवर्त्मात्मा न वेद किमुतापरे ॥ ३९॥

 

यतोऽप्राप्य न्यवर्तन्त वाचश्च मनसा सह ।

अहं चान्य इमे देवास्तस्मै भगवते नमः ॥ ४०॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां तृतीयस्कन्धे षष्ठोऽध्यायः ॥ ६॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ सप्तमोऽध्यायः - ७ ॥

 

श्रीशुक उवाच

एवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुधः ।

प्रीणयन्निव भारत्या विदुरः प्रत्यभाषत ॥ १॥

 

विदुर उवाच

ब्रह्मन् कथं भगवतश्चिन्मात्रस्याविकारिणः ।

लीलया चापि युज्येरन्निर्गुणस्य गुणाः क्रियाः ॥ २॥

 

क्रीडायामुद्यमोऽर्भस्य कामश्चिक्रीडिषान्यतः ।

स्वतस्तृप्तस्य च कथं निवृत्तस्य सदान्यतः ॥ ३॥

 

अस्राक्षीद्भगवान्विश्वं गुणमय्याऽऽत्ममायया ।

तया संस्थापयत्येतद्भूयः प्रत्यपिधास्यति ॥ ४॥

 

देशतः कालतो योऽसाववस्थातः स्वतोऽन्यतः ।

अविलुप्तावबोधात्मा स युज्येताजया कथम् ॥ ५॥

 

भगवानेक एवैष सर्वक्षेत्रेष्ववस्थितः ।

अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुतः ॥ ६॥

 

एतस्मिन् मे मनो विद्वन्खिद्यतेऽज्ञानसङ्कटे ।

तन्नः पराणुद विभो कश्मलं मानसं महत् ॥ ७॥

 

श्रीशुक उवाच

स इत्थं चोदितः क्षत्त्रा तत्त्वजिज्ञासुना मुनिः ।

प्रत्याह भगवच्चित्तः स्मयन्निव गतस्मयः ॥ ८॥

 

मैत्रेय उवाच

सेयं भगवतो माया यन्नयेन विरुध्यते ।

ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धनम् ॥ ९॥

 

यदर्थेन विनामुष्य पुंस आत्मविपर्ययः ।

प्रतीयत उपद्रष्टुः स्वशिरश्छेदनादिकः ॥ १०॥

 

यथा जले चन्द्रमसः कम्पादिस्तत्कृतो गुणः ।

दृश्यतेऽसन्नपि द्रष्टुरात्मनोऽनात्मनो गुणः ॥ ११॥

 

स वै निवृत्तिधर्मेण वासुदेवानुकम्पया ।

भगवद्भक्तियोगेन तिरोधत्ते शनैरिह ॥ १२॥

 

यदेन्द्रियोपरामोऽथ द्रष्ट्रात्मनि परे हरौ ।

विलीयन्ते तदा क्लेशाः संसुप्तस्येव कृत्स्नशः ॥ १३॥

 

अशेषसङ्क्लेशशमं विधत्ते

गुणानुवादश्रवणं मुरारेः ।

कुतः पुनस्तच्चरणारविन्द-

परागसेवा रतिरात्मलब्धा ॥ १४॥

 

विदुर उवाच

सञ्छिन्नः संशयो मह्यं तव सूक्तासिना विभो ।

उभयत्रापि भगवन् मनो मे सम्प्रधावति ॥ १५॥

 

साध्वेतद्व्याहृतं विद्वन्नात्ममायायनं हरेः ।

आभात्यपार्थं निर्मूलं विश्वमूलं न यद्बहिः ॥ १६॥

 

यश्च मूढतमो लोके यश्च बुद्धेः परं गतः ।

तावुभौ सुखमेधेते क्लिश्यत्यन्तरितो जनः ॥ १७॥

 

अर्थाभावं विनिश्चित्य प्रतीतस्यापि नात्मनः ।

तां चापि युष्मच्चरणसेवयाहं पराणुदे ॥ १८॥

 

यत्सेवया भगवतः कूटस्थस्य मधुद्विषः ।

रतिरासो भवेत्तीव्रः पादयोर्व्यसनार्दनः ॥ १९॥

 

दुरापा ह्यल्पतपसः सेवा वैकुण्ठवर्त्मसु ।

यत्रोपगीयते नित्यं देवदेवो जनार्दनः ॥ २०॥

 

सृष्ट्वाग्रे महदादीनि सविकाराण्यनुक्रमात् ।

तेभ्यो विराजमुद्धृत्य तमनु प्राविशद्विभुः ॥ २१॥

 

यमाहुराद्यं पुरुषं सहस्राङ्घ्र्यूरुबाहुकम् ।

यत्र विश्व इमे लोकाः सविकासं समासते ॥ २२॥

 

यस्मिन् दशविधः प्राणः सेन्द्रियार्थेन्द्रियस्त्रिवृत् ।

त्वयेरितो यतो वर्णास्तद्विभूतीर्वदस्व नः ॥ २३॥

 

यत्र पुत्रैश्च पौत्रैश्च नप्तृभिः सह गोत्रजैः ।

प्रजा विचित्राकृतय आसन् याभिरिदं ततम् ॥ २४॥

 

प्रजापतीनां स पतिश्चक्लृपे कान् प्रजापतीन् ।

सर्गांश्चैवानुसर्गांश्च मनून्मन्वन्तराधिपान् ॥ २५॥

 

एतेषामपि वंशांश्च वंशानुचरितानि च ।

उपर्यधश्च ये लोका भूमेर्मित्रात्मजासते ॥ २६॥

 

तेषां संस्थां प्रमाणं च भूर्लोकस्य च वर्णय ।

तिर्यङ्मानुषदेवानां सरीसृपपतत्त्रिणाम् ।

वद नः सर्गसंव्यूहं गार्भस्वेदद्विजोद्भिदाम् ॥ २७॥

 

गुणावतारैर्विश्वस्य सर्गस्थित्यप्ययाश्रयम् ।

सृजतः श्रीनिवासस्य व्याचक्ष्वोदारविक्रमम् ॥ २८॥

 

वर्णाश्रमविभागांश्च रूपशीलस्वभावतः ।

ऋषीणां जन्मकर्मादि वेदस्य च विकर्षणम् ॥ २९॥

 

यज्ञस्य च वितानानि योगस्य च पथः प्रभो ।

नैष्कर्म्यस्य च साङ्ख्यस्य तन्त्रं वा भगवत्स्मृतम् ॥ ३०॥

 

पाखण्डपथवैषम्यं प्रतिलोमनिवेशनम् ।

जीवस्य गतयो याश्च यावतीर्गुणकर्मजाः ॥ ३१॥

 

धर्मार्थकाममोक्षाणां निमित्तान्यविरोधतः ।

वार्ताया दण्डनीतेश्च श्रुतस्य च विधिं पृथक् ॥ ३२॥

 

श्राद्धस्य च विधिं ब्रह्मन् पितॄणां सर्गमेव च ।

ग्रहनक्षत्रताराणां कालावयवसंस्थितिम् ॥ ३३॥

 

दानस्य तपसो वापि यच्चेष्टापूर्तयोः फलम् ।

प्रवासस्थस्य यो धर्मो यश्च पुंस उतापदि ॥ ३४॥

 

येन वा भगवांस्तुष्येद्धर्मयोनिर्जनार्दनः ।

सम्प्रसीदति वा येषामेतदाख्याहि चानघ ॥ ३५॥

 

अनुव्रतानां शिष्याणां पुत्राणां च द्विजोत्तम ।

अनापृष्टमपि ब्रूयुर्गुरवो दीनवत्सलाः ॥ ३६॥

 

तत्त्वानां भगवंस्तेषां कतिधा प्रतिसङ्क्रमः ।

तत्रेमं क उपासीरन् क उ स्विदनुशेरते ॥ ३७॥

 

पुरुषस्य च संस्थानं स्वरूपं वा परस्य च ।

ज्ञानं च नैगमं यत्तद्गुरुशिष्यप्रयोजनम् ॥ ३८॥

 

निमित्तानि च तस्येह प्रोक्तान्यनघ सूरिभिः ।

स्वतो ज्ञानं कुतः पुंसां भक्तिर्वैराग्यमेव वा ॥ ३९॥

 

एतान्मे पृच्छतः प्रश्नान् हरेः कर्मविवित्सया ।

ब्रूहि मेऽज्ञस्य मित्रत्वादजया नष्टचक्षुषः ॥ ४०॥

 

सर्वे वेदाश्च यज्ञाश्च तपो दानानि चानघ ।

जीवाभयप्रदानस्य न कुर्वीरन् कलामपि ॥ ४१॥

 

श्रीशुक उवाच

स इत्थमापृष्टपुराणकल्पः

कुरुप्रधानेन मुनिप्रधानः ।

प्रवृद्धहर्षो भगवत्कथायां

सञ्चोदितस्तं प्रहसन्निवाह ॥ ४२॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां तृतीयस्कन्धे सप्तमोऽध्यायः ॥ ७॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ अष्टमोऽध्यायः - ८ ॥

 

मैत्रेय उवाच

सत्सेवनीयो बत पूरुवंशो

यल्लोकपालो भगवत्प्रधानः ।

बभूविथेहाजितकीर्तिमालां

पदे पदे नूतनयस्यभीक्ष्णम् ॥ १॥

 

सोऽहं नृणां क्षुल्लसुखाय दुःखं

महद्गतानां विरमाय तस्य ।

प्रवर्तये भागवतं पुराणं

यदाह साक्षाद्भगवान् ऋषिभ्यः ॥ २॥

 

आसीनमुर्व्यां भगवन्तमाद्यं

सङ्कर्षणं देवमकुण्ठसत्त्वम् ।

विवित्सवस्तत्त्वमतःपरस्य

कुमारमुख्या मुनयोऽन्वपृच्छन् ॥ ३॥

 

स्वमेव धिष्ण्यं बहु मानयन्तं

यं वासुदेवाभिधमामनन्ति ।

प्रत्यग्धृताक्षाम्बुजकोशमीष-

दुन्मीलयन्तं विबुधोदयाय ॥ ४॥

 

स्वर्धुन्युदार्द्रैः स्वजटाकलापै-

रुपस्पृशन्तश्चरणोपधानम् ।

पद्मं यदर्चन्त्यहिराजकन्याः

सप्रेमनानाबलिभिर्वरार्थाः ॥ ५॥

 

मुहुर्गृणन्तो वचसानुराग-

स्खलत्पदेनास्य कृतानि तज्ज्ञाः ।

किरीटसाहस्रमणिप्रवेक-

प्रद्योतितोद्दामफणासहस्रम् ॥ ६॥

 

प्रोक्तं किलैतद्भगवत्तमेन

निवृत्तिधर्माभिरताय तेन ।

सनत्कुमाराय स चाह पृष्टः

साङ्ख्यायनायाङ्ग धृतव्रताय ॥ ७॥

 

साङ्ख्यायनः पारमहंस्यमुख्यो

विवक्षमाणो भगवद्विभूतीः ।

जगाद सोऽस्मद्गुरवेऽन्विताय

पराशरायाथ बृहस्पतेश्च ॥ ८॥

 

प्रोवाच मह्यं स दयालुरुक्तो

मुनिः पुलस्त्येन पुराणमाद्यम् ।

सोऽहं तवैतत्कथयामि वत्स

श्रद्धालवे नित्यमनुव्रताय ॥ ९॥

 

उदाप्लुतं विश्वमिदं तदासी-

द्यन्निद्रयाऽऽमीलितदृङ् न्यमीलयत् ।

अहीन्द्रतल्पेऽधिशयान एकः

कृतक्षणः स्वात्मरतौ निरीहः ॥ १०॥

 

सोऽन्तःशरीरेऽर्पितभूतसूक्ष्मः

कालात्मिकां शक्तिमुदीरयाणः ।

उवास तस्मिन् सलिले पदे स्वे

यथानलो दारुणि रुद्धवीर्यः ॥ ११॥

 

चतुर्युगानां च सहस्रमप्सु

स्वपन् स्वयोदीरितया स्वशक्त्या ।

कालाख्ययाऽऽसादितकर्मतन्त्रो

लोकानपीतान् ददृशे स्वदेहे ॥ १२॥

 

तस्यार्थसूक्ष्माभिनिविष्टदृष्टे-

रन्तर्गतोऽर्थो रजसा तनीयान् ।

गुणेन कालानुगतेन विद्धः

सूष्यंस्तदाभिद्यत नाभिदेशात् ॥ १३॥

 

स पद्मकोशः सहसोदतिष्ठ-

त्कालेन कर्मप्रतिबोधनेन ।

स्वरोचिषा तत्सलिलं विशालं

विद्योतयन्नर्क इवात्मयोनिः ॥ १४॥

 

तल्लोकपद्मं स उ एव विष्णुः

प्रावीविशत्सर्वगुणावभासम् ।

तस्मिन् स्वयं वेदमयो विधाता

स्वयम्भुवं यं स्म वदन्ति सोऽभूत् ॥ १५॥

 

तस्यां स चाम्भोरुहकर्णिकाया-

मवस्थितो लोकमपश्यमानः ।

परिक्रमन् व्योम्नि विवृत्तनेत्र-

श्चत्वारि लेभेऽनुदिशं मुखानि ॥ १६॥

 

तस्माद्युगान्तश्वसनावघूर्ण-

जलोर्मिचक्रात्सलिलाद्विरूढम् ।

उपाश्रितः कञ्जमु लोकतत्त्वं

नात्मानमद्धाविददादिदेवः ॥ १७॥

 

क एष योऽसावहमब्जपृष्ठ

एतत्कुतो वाब्जमनन्यदप्सु ।

अस्ति ह्यधस्तादिह किञ्चनैत-

दधिष्ठितं यत्र सता नु भाव्यम् ॥ १८॥

 

स इत्थमुद्वीक्ष्य तदब्जनाल-

नाडीभिरन्तर्जलमाविवेश ।

नार्वाग्गतस्तत्खरनालनाल-

नाभिं विचिन्वंस्तदविन्दताजः ॥ १९॥

 

तमस्यपारे विदुरात्मसर्गं

विचिन्वतोऽभूत्सुमहांस्त्रिणेमिः ।

यो देहभाजां भयमीरयाणः

परिक्षिणोत्यायुरजस्य हेतिः ॥ २०॥

 

ततो निवृत्तोऽप्रतिलब्धकामः

स्वधिष्ण्यमासाद्य पुनः स देवः ।

शनैर्जितश्वासनिवृत्तचित्तो

न्यषीददारूढसमाधियोगः ॥ २१॥

 

कालेन सोऽजः पुरुषायुषाभि-

प्रवृत्तयोगेन विरूढबोधः ।

स्वयं तदन्तर्हृदयेऽवभात-

मपश्यतापश्यत यन्न पूर्वम् ॥ २२॥

 

मृणालगौरायतशेषभोग-

पर्यङ्क एकं पुरुषं शयानम् ।

फणातपत्रायुतमूर्धरत्न-

द्युभिर्हतध्वान्तयुगान्ततोये ॥ २३॥

 

प्रेक्षां क्षिपन्तं हरितोपलाद्रेः

सन्ध्याभ्रनीवेरुरुरुक्ममूर्ध्नः ।

रत्नोदधारौषधिसौमनस्य-

वनस्रजो वेणुभुजाङ्घ्रिपाङ्घ्रेः ॥ २४॥

 

आयामतो विस्तरतः स्वमान-

देहेन लोकत्रयसङ्ग्रहेण ।

विचित्रदिव्याभरणांशुकानां

कृतश्रियापाश्रितवेषदेहम् ॥ २५॥

 

पुंसां स्वकामाय विविक्तमार्गै-

रभ्यर्चतां कामदुघाङ्घ्रिपद्मम् ।

प्रदर्शयन्तं कृपया नखेन्दु-

मयूखभिन्नाङ्गुलिचारुपत्रम् ॥ २६॥

 

मुखेन लोकार्तिहरस्मितेन

परिस्फुरत्कुण्डलमण्डितेन ।

शोणायितेनाधरबिम्बभासा

प्रत्यर्हयन्तं सुनसेन सुभ्र्वा ॥ २७॥

 

कदम्बकिञ्जल्कपिशङ्गवाससा

स्वलङ्कृतं मेखलया नितम्बे ।

हारेण चानन्तधनेन वत्स

श्रीवत्सवक्षःस्थलवल्लभेन ॥ २८॥

 

परार्ध्यकेयूरमणिप्रवेक-

पर्यस्तदोर्दण्डसहस्रशाखम् ।

अव्यक्तमूलं भुवनाङ्घ्रिपेन्द्र-

महीन्द्रभोगैरधिवीतवल्शम् ॥ २९॥

 

चराचरौको भगवन् महीध्र-

महीन्द्रबन्धुं सलिलोपगूढम् ।

किरीटसाहस्रहिरण्यश‍ृङ्ग-

माविर्भवत्कौस्तुभरत्नगर्भम् ॥ ३०॥

 

निवीतमाम्नायमधुव्रतश्रिया

स्वकीर्तिमय्या वनमालया हरिम् ।

सूर्येन्दुवाय्वग्न्यगमं त्रिधामभिः

परिक्रमत्प्राधनिकैर्दुरासदम् ॥ ३१॥

 

तर्ह्येव तन्नाभिसरःसरोज-

मात्मानमम्भः श्वसनं वियच्च ।

ददर्श देवो जगतो विधाता

नातः परं लोकविसर्गदृष्टिः ॥ ३२॥

 

स कर्मबीजं रजसोपरक्तः

प्रजाः सिसृक्षन्नियदेव दृष्ट्वा ।

अस्तौद्विसर्गाभिमुखस्तमीड्य-

मव्यक्तवर्त्मन्यभिवेशितात्मा ॥ ३३॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां तृतीयस्कन्धे अष्टमोऽध्यायः ॥ ८॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ नवमोऽध्यायः - ९ ॥

 

ब्रह्मोवाच

ज्ञातोऽसि मेऽद्य सुचिरान्ननु देहभाजां

न ज्ञायते भगवतो गतिरित्यवद्यम् ।

नान्यत्त्वदस्ति भगवन्नपि तन्न शुद्धं

मायागुणव्यतिकराद्यदुरुर्विभासि ॥ १॥

 

रूपं यदेतदवबोधरसोदयेन

शश्वन्निवृत्ततमसः सदनुग्रहाय ।

आदौ गृहीतमवतारशतैकबीजं

यन्नाभिपद्मभवनादहमाविरासम् ॥ २॥

 

नातःपरं परम यद्भवतः स्वरूप-

मानन्दमात्रमविकल्पमविद्धवर्चः ।

पश्यामि विश्वसृजमेकमविश्वमात्मन्

भूतेन्द्रियात्मकमदस्त उपाश्रितोऽस्मि ॥ ३॥

 

तद्वा इदं भुवनमङ्गल मङ्गलाय

ध्याने स्म नो दर्शितं त उपासकानाम् ।

तस्मै नमो भगवतेऽनुविधेम तुभ्यं

योऽनादृतो नरकभाग्भिरसत्प्रसङ्गैः ॥ ४॥

 

ये तु त्वदीयचरणाम्बुजकोशगन्धं

जिघ्रन्ति कर्णविवरैः श्रुतिवातनीतम् ।

भक्त्या गृहीतचरणः परया च तेषां

नापैषि नाथ हृदयाम्बुरुहात्स्वपुंसाम् ॥ ५॥

 

तावद्भयं द्रविणदेहसुहृन्निमित्तं

शोकः स्पृहा परिभवो विपुलश्च लोभः ।

तावन्ममेत्यसदवग्रह आर्तिमूलं

यावन्न तेऽङ्घ्रिमभयं प्रवृणीत लोकः ॥ ६॥

 

दैवेन ते हतधियो भवतः प्रसङ्गात्

सर्वाशुभोपशमनाद्विमुखेन्द्रिया ये ।

कुर्वन्ति कामसुखलेशलवाय दीनाः

लोभाभिभूतमनसोऽकुशलानि शश्वत् ॥ ७॥

 

क्षुत्तृट् त्रिधातुभिरिमा मुहुरर्द्यमानाः

शीतोष्णवातवरषैरितरेतराच्च ।

कामाग्निनाच्युत रुषा च सुदुर्भरेण

सम्पश्यतो मन उरुक्रम सीदते मे ॥ ८॥

 

यावत्पृथक्त्वमिदमात्मन इन्द्रियार्थ-

मायाबलं भगवतो जन ईश पश्येत् ।

तावन्न संसृतिरसौ प्रतिसङ्क्रमेत

व्यर्थापि दुःखनिवहं वहती क्रियार्था ॥ ९॥

 

अह्न्यापृतार्तकरणा निशि निःशयाना

नानामनोरथधिया क्षणभग्ननिद्राः ।

दैवाहतार्थरचना ऋषयोऽपि देव

युष्मत्प्रसङ्गविमुखा इह संसरन्ति ॥ १०॥

 

त्वं भावयोगपरिभावितहृत्सरोज

आस्से श्रुतेक्षितपथो ननु नाथ पुंसाम् ।

यद्यद्धिया त उरुगाय विभावयन्ति

तत्तद्वपुः प्रणयसे सदनुग्रहाय ॥ ११॥

 

नातिप्रसीदति तथोपचितोपचारै-

राराधितः सुरगणैर्हृदि बद्धकामैः ।

यत्सर्वभूतदययासदलभ्ययैको

नानाजनेष्ववहितः सुहृदन्तरात्मा ॥ १२॥

 

पुंसामतो विविधकर्मभिरध्वराद्यैः

दानेन चोग्रतपसा व्रतचर्यया च ।

आराधनं भगवतस्तव सत्क्रियार्थो

धर्मोऽर्पितः कर्हिचिद्ध्रियते न यत्र ॥ १३॥

 

शश्वत्स्वरूपमहसैव निपीतभेद-

मोहाय बोधधिषणाय नमः परस्मै ।

विश्वोद्भवस्थितिलयेषु निमित्तलीला-

रासाय ते नम इदं चकृमेश्वराय ॥ १४॥

 

यस्यावतारगुणकर्मविडम्बनानि

नामानि येऽसुविगमे विवशा गृणन्ति ।

ते नैकजन्मशमलं सहसैव हित्वा

संयान्त्यपावृतमृतं तमजं प्रपद्ये ॥ १५॥

 

यो वा अहं च गिरिशश्च विभुः स्वयं च

स्थित्युद्भवप्रलयहेतव आत्ममूलम् ।

भित्त्वा त्रिपाद्ववृध एक उरुप्ररोह-

स्तस्मै नमो भगवते भुवनद्रुमाय ॥ १६॥

 

लोको विकर्मनिरतः कुशले प्रमत्तः

कर्मण्ययं त्वदुदिते भवदर्चने स्वे ।

यस्तावदस्य बलवानिह जीविताशां

सद्यश्छिनत्त्यनिमिषाय नमोऽस्तु तस्मै ॥ १७॥

 

यस्माद्बिभेम्यहमपि द्विपरार्धधिष्ण्य-

मध्यासितः सकललोकनमस्कृतं यत् ।

तेपे तपो बहुसवोऽवरुरुत्समान-

स्तस्मै नमो भगवतेऽधिमखाय तुभ्यम् ॥ १८॥

 

तिर्यङ्मनुष्यविबुधादिषु जीवयोनि-

ष्वात्मेच्छयाऽऽत्मकृतसेतुपरीप्सया यः ।

रेमे निरस्तरतिरप्यवरुद्धदेह-

स्तस्मै नमो भगवते पुरुषोत्तमाय ॥ १९॥

 

योऽविद्ययानुपहतोऽपि दशार्धवृत्त्या

निद्रामुवाह जठरीकृतलोकयात्रः ।

अन्तर्जलेऽहिकशिपुस्पर्शानुकूलां

भीमोर्मिमालिनि जनस्य सुखं विवृण्वन् ॥ २०॥

 

यन्नाभिपद्मभवनादहमासमीड्य

लोकत्रयोपकरणो यदनुग्रहेण ।

तस्मै नमस्त उदरस्थभवाय योग-

निद्रावसानविकसन्नलिनेक्षणाय ॥ २१॥

 

सोऽयं समस्तजगतां सुहृदेक आत्मा

सत्त्वेन यन्मृडयते भगवान् भगेन ।

तेनैव मे दृशमनुस्पृशताद्यथाहं

स्रक्ष्यामि पूर्ववदिदं प्रणतप्रियोऽसौ ॥ २२॥

 

एष प्रपन्नवरदो रमयाऽऽत्मशक्त्या

यद्यत्करिष्यति गृहीतगुणावतारः ।

तस्मिन् स्वविक्रममिदं सृजतोऽपि चेतो

युञ्जीत कर्मशमलं च यथा विजह्याम् ॥ २३॥

 

नाभिह्रदादिह सतोऽम्भसि यस्य पुंसो

विज्ञानशक्तिरहमासमनन्तशक्तेः ।

रूपं विचित्रमिदमस्य विवृण्वतो मे

मा रीरिषीष्ट निगमस्य गिरां विसर्गः ॥ २४॥

 

सोऽसावदभ्रकरुणो भगवान् विवृद्ध-

प्रेमस्मितेन नयनाम्बुरुहं विजृम्भन् ।

उत्थाय विश्वविजयाय च नो विषादं

माध्व्या गिरापनयतात्पुरुषः पुराणः ॥ २५॥

 

मैत्रेय उवाच

स्वसम्भवं निशाम्यैवं तपोविद्यासमाधिभिः ।

यावन्मनो वचः स्तुत्वा विरराम स खिन्नवत् ॥ २६॥

 

अथाभिप्रेतमन्वीक्ष्य ब्रह्मणो मधुसूदनः ।

विषण्णचेतसं तेन कल्पव्यतिकराम्भसा ॥ २७॥

 

लोकसंस्थानविज्ञान आत्मनः परिखिद्यतः ।

तमाहागाधया वाचा कश्मलं शमयन्निव ॥ २८॥

 

श्रीभगवानुवाच

मा वेदगर्भ गास्तन्द्रीं सर्ग उद्यममावह ।

तन्मयाऽऽपादितं ह्यग्रे यन्मां प्रार्थयते भवान् ॥ २९॥

 

भूयस्त्वं तप आतिष्ठ विद्यां चैव मदाश्रयाम् ।

ताभ्यामन्तर्हृदि ब्रह्मन् लोकान् द्रक्ष्यस्यपावृतान् ॥ ३०॥

 

तत आत्मनि लोके च भक्तियुक्तः समाहितः ।

द्रष्टासि मां ततं ब्रह्मन् मयि लोकांस्त्वमात्मनः ॥ ३१॥

 

यदा तु सर्वभूतेषु दारुष्वग्निमिव स्थितम् ।

प्रतिचक्षीत मां लोको जह्यात्तर्ह्येव कश्मलम् ॥ ३२॥

 

यदा रहितमात्मानं भूतेन्द्रियगुणाशयैः ।

स्वरूपेण मयोपेतं पश्यन् स्वाराज्यमृच्छति ॥ ३३॥

 

नानाकर्मवितानेन प्रजा बह्वीः सिसृक्षतः ।

नात्मावसीदत्यस्मिंस्ते वर्षीयान्मदनुग्रहः ॥ ३४॥

 

ऋषिमाद्यं न बध्नाति पापीयांस्त्वां रजो गुणः ।

यन्मनो मयि निर्बद्धं प्रजाः संसृजतोऽपि ते ॥ ३५॥

 

ज्ञातोऽहं भवता त्वद्य दुर्विज्ञेयोऽपि देहिनाम् ।

यन्मां त्वं मन्यसेऽयुक्तं भूतेन्द्रियगुणात्मभिः ॥ ३६॥

 

तुभ्यं मद्विचिकित्सायामात्मा मे दर्शितोऽबहिः ।

नालेन सलिले मूलं पुष्करस्य विचिन्वतः ॥ ३७॥

 

यच्चकर्थाङ्ग मत्स्तोत्रं मत्कथाभ्युदयाङ्कितम् ।

यद्वा तपसि ते निष्ठा स एष मदनुग्रहः ॥ ३८॥

 

प्रीतोऽहमस्तु भद्रं ते लोकानां विजयेच्छया ।

यदस्तौषीर्गुणमयं निर्गुणं मानुवर्णयन् ॥ ३९॥

 

य एतेन पुमान्नित्यं स्तुत्वा स्तोत्रेण मां भजेत् ।

तस्याशु सम्प्रसीदेयं सर्वकामवरेश्वरः ॥ ४०॥

 

पूर्तेन तपसा यज्ञैर्दानैर्योगसमाधिना ।

राद्धं निःश्रेयसं पुंसां मत्प्रीतिस्तत्त्वविन्मतम् ॥ ४१॥

 

अहमात्माऽऽत्मनां धातः प्रेष्ठः सन् प्रेयसामपि ।

अतो मयि रतिं कुर्याद्देहादिर्यत्कृते प्रियः ॥ ४२॥

 

सर्ववेदमयेनेदमात्मनाऽऽत्माऽऽत्मयोनिना ।

प्रजाः सृज यथा पूर्वं याश्च मय्यनुशेरते ॥ ४३॥

 

मैत्रेय उवाच

तस्मा एवं जगत्स्रष्ट्रे प्रधानपुरुषेश्वरः ।

व्यज्येदं स्वेन रूपेण कञ्जनाभस्तिरोदधे ॥ ४४॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां तृतीयस्कन्धे नवमोऽध्यायः ॥ ९॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ दशमोऽध्यायः - १० ॥

 

विदुर उवाच

अन्तर्हिते भगवति ब्रह्मा लोकपितामहः ।

प्रजाः ससर्ज कतिधा दैहिकीर्मानसीर्विभुः ॥ १॥

 

ये च मे भगवन् पृष्टास्त्वय्यर्था बहुवित्तम ।

तान् वदस्वानुपूर्व्येण छिन्धि नः सर्वसंशयान् ॥ २॥

 

सूत उवाच

एवं सञ्चोदितस्तेन क्षत्त्रा कौषारवो मुनिः ।

प्रीतः प्रत्याह तान् प्रश्नान् हृदिस्थानथ भार्गव ॥ ३॥

 

मैत्रेय उवाच

विरिञ्चोऽपि तथा चक्रे दिव्यं वर्षशतं तपः ।

आत्मन्यात्मानमावेश्य यदाह भगवानजः ॥ ४॥

 

तद्विलोक्याब्जसम्भूतो वायुना यदधिष्ठितः ।

पद्ममम्भश्च तत्कालकृतवीर्येण कम्पितम् ॥ ५॥

 

तपसा ह्येधमानेन विद्यया चात्मसंस्थया ।

विवृद्धविज्ञानबलो न्यपाद्वायुं सहाम्भसा ॥ ६॥

 

तद्विलोक्य वियद्व्यापि पुष्करं यदधिष्ठितम् ।

अनेन लोकान् प्राग्लीनान् कल्पितास्मीत्यचिन्तयत् ॥ ७॥

 

पद्मकोशं तदाऽऽविश्य भगवत्कर्मचोदितः ।

एकं व्यभाङ्क्षीदुरुधा त्रिधा भाव्यं द्विसप्तधा ॥ ८॥

 

एतावाञ्जीवलोकस्य संस्थाभेदः समाहृतः ।

धर्मस्य ह्यनिमित्तस्य विपाकः परमेष्ठ्यसौ ॥ ९॥

 

विदुर उवाच

यदात्थ बहुरूपस्य हरेरद्भुतकर्मणः ।

कालाख्यं लक्षणं ब्रह्मन् यथा वर्णय नः प्रभो ॥ १०॥

 

मैत्रेय उवाच

गुणव्यतिकराकारो निर्विशेषोऽप्रतिष्ठितः ।

पुरुषस्तदुपादानमात्मानं लीलयासृजत् ॥ ११॥

 

विश्वं वै ब्रह्म तन्मात्रं संस्थितं विष्णुमायया ।

ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्तिना ॥ १२॥

 

यथेदानीं तथाग्रे च पश्चादप्येतदीदृशम् ।

सर्गो नवविधस्तस्य प्राकृतो वैकृतस्तु यः ॥ १३॥

 

कालद्रव्यगुणैरस्य त्रिविधः प्रतिसङ्क्रमः ।

आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः ॥ १४॥

 

द्वितीयस्त्वहमो यत्र द्रव्यज्ञानक्रियोदयः ।

भूतसर्गस्तृतीयस्तु तन्मात्रो द्रव्यशक्तिमान् ॥ १५॥

 

चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः ।

वैकारिको देवसर्गः पञ्चमो यन्मयं मनः ॥ १६॥

 

षष्ठस्तु तमसः सर्गो यस्त्वबुद्धिकृतः प्रभो ।

षडिमे प्राकृताः सर्गा वैकृतानपि मे श‍ृणु ॥ १७॥

 

रजोभाजो भगवतो लीलेयं हरिमेधसः ।

सप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषां च यः ॥ १८॥

 

वनस्पत्योषधिलता त्वक्सारा वीरुधो द्रुमाः ।

उत्स्रोतसस्तमःप्राया अन्तःस्पर्शा विशेषिणः ॥ १९॥

 

तिरश्चामष्टमः सर्गः सोऽष्टाविंशद्विधो मतः ।

अविदो भूरितमसः घ्राणज्ञा हृद्यवेदिनः ॥ २०॥

 

गौरजो महिषः कृष्णः सूकरो गवयो रुरुः ।

द्विशफाः पशवश्चेमे अविरुष्ट्रश्च सत्तम ॥ २१॥

 

खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा ।

एते चैकशफाः क्षत्तः श‍ृणु पञ्चनखान् पशून् ॥ २२॥

 

श्वा सृगालो वृको व्याघ्रो मार्जारः शशशल्लकौ ।

सिंहः कपिर्गजः कूर्मो गोधा च मकरादयः ॥ २३॥

 

कङ्कगृध्रबकश्येनभासभल्लूकबर्हिणः ।

हंससारसचक्राह्वकाकोलूकादयः खगाः ॥ २४॥

 

अर्वाक्स्रोतस्तु नवमः क्षत्तरेकविधो नृणाम् ।

रजोऽधिकाः कर्मपरा दुःखे च सुखमानिनः ॥ २५॥

 

वैकृतास्त्रय एवैते देवसर्गश्च सत्तम ।

वैकारिकस्तु यः प्रोक्तः कौमारस्तूभयात्मकः ॥ २६॥

 

देवसर्गश्चाष्टविधो विबुधाः पितरोऽसुराः ।

गन्धर्वाप्सरसः सिद्धा यक्षरक्षांसि चारणाः ॥ २७॥

 

भूतप्रेतपिशाचाश्च विद्याध्राः किन्नरादयः ।

दशैते विदुराख्याताः सर्गास्ते विश्वसृक्कृताः ॥ २८॥

 

अतः परं प्रवक्ष्यामि वंशान् मन्वन्तराणि च ।

एवं रजःप्लुतः स्रष्टा कल्पादिष्वात्मभूर्हरिः ।

सृजत्यमोघसङ्कल्प आत्मैवात्मानमात्मना ॥ २९॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां तृतीयस्कन्धे दशमोऽध्यायः ॥ १०॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकादशोऽध्यायः - ११ ॥

 

मैत्रेय उवाच

चरमः सद्विशेषाणामनेकोऽसंयुतः सदा ।

परमाणुः स विज्ञेयो नृणामैक्यभ्रमो यतः ॥ १॥

 

सत एव पदार्थस्य स्वरूपावस्थितस्य यत् ।

कैवल्यं परममहानविशेषो निरन्तरः ॥ २॥

 

एवं कालोऽप्यनुमितः सौक्ष्म्ये स्थौल्ये च सत्तम ।

संस्थानभुक्त्या भगवानव्यक्तो व्यक्तभुग्विभुः ॥ ३॥

 

स कालः परमाणुर्वै यो भुङ्क्ते परमाणुताम् ।

सतोऽविशेषभुग्यस्तु स कालः परमो महान् ॥ ४॥

 

अणुर्द्वौ परमाणू स्यात्त्रसरेणुस्त्रयः स्मृतः ।

जालार्करश्म्यवगतः खमेवानुपतन्नगात् ॥ ५॥

 

त्रसरेणुत्रिकं भुङ्क्ते यः कालः स त्रुटिः स्मृतः ।

शतभागस्तु वेधः स्यात्तैस्त्रिभिस्तु लवः स्मृतः ॥ ६॥

 

निमेषस्त्रिलवो ज्ञेय आम्नातस्ते त्रयः क्षणः ।

क्षणान् पञ्च विदुः काष्ठां लघु ता दश पञ्च च ॥ ७॥

 

लघूनि वै समाम्नाता दश पञ्च च नाडिका ।

ते द्वे मुहूर्तः प्रहरः षड्यामः सप्त वा नृणाम् ॥ ८॥

 

द्वादशार्धपलोन्मानं चतुर्भिश्चतुरङ्गुलैः ।

स्वर्णमाषैः कृतच्छिद्रं यावत्प्रस्थजलप्लुतम् ॥ ९॥

 

यामाश्चत्वारश्चत्वारो मर्त्यानामहनी उभे ।

पक्षः पञ्चदशाहानि शुक्लः कृष्णश्च मानद ॥ १०॥

 

तयोः समुच्चयो मासः पितॄणां तदहर्निशम् ।

द्वौ तावृतुः षडयनं दक्षिणं चोत्तरं दिवि ॥ ११॥

 

अयने चाहनी प्राहुर्वत्सरो द्वादश स्मृतः ।

संवत्सरशतं नॄणां परमायुर्निरूपितम् ॥ १२॥

 

ग्रहर्क्षतारा चक्रस्थः परमाण्वादिना जगत् ।

संवत्सरावसानेन पर्येत्यनिमिषो विभुः ॥ १३॥

 

संवत्सरः परिवत्सर इडावत्सर एव च ।

अनुवत्सरो वत्सरश्च विदुरैवं प्रभाष्यते ॥ १४॥

 

यः सृज्यशक्तिमुरुधोच्छ्वसयन् स्वशक्त्या

पुंसोऽभ्रमाय दिवि धावति भूतभेदः ।

कालाख्यया गुणमयं क्रतुभिर्वितन्वन्

तस्मै बलिं हरत वत्सरपञ्चकाय ॥ १५॥

 

विदुर उवाच

पितृदेवमनुष्याणामायुः परमिदं स्मृतम् ।

परेषां गतिमाचक्ष्व ये स्युः कल्पाद्बहिर्विदः ॥ १६॥

 

भगवान् वेद कालस्य गतिं भगवतो ननु ।

विश्वं विचक्षते धीरा योगराद्धेन चक्षुषा ॥ १७॥

 

मैत्रेय उवाच

कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ।

दिव्यैर्द्वादशभिर्वर्षैः सावधानं निरूपितम् ॥ १८॥

 

चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम् ।

सङ्ख्यातानि सहस्राणि द्विगुणानि शतानि च ॥ १९॥

 

सन्ध्यांशयोरन्तरेण यः कालः शतसङ्ख्ययोः ।

तमेवाहुर्युगं तज्ज्ञा यत्र धर्मो विधीयते ॥ २०॥

 

धर्मश्चतुष्पान्मनुजान् कृते समनुवर्तते ।

स एवान्येष्वधर्मेण व्येति पादेन वर्धता ॥ २१॥

 

त्रिलोक्या युगसाहस्रं बहिराब्रह्मणो दिनम् ।

तावत्येव निशा तात यन्निमीलति विश्वसृक् ॥ २२॥

 

निशावसान आरब्धो लोककल्पोऽनुवर्तते ।

यावद्दिनं भगवतो मनून् भुञ्जंश्चतुर्दश ॥ २३॥

 

स्वं स्वं कालं मनुर्भुङ्क्ते साधिकां ह्येकसप्ततिम् ।

मन्वन्तरेषु मनवस्तद्वंश्या ऋषयः सुराः ।

भवन्ति चैव युगपत्सुरेशाश्चानु ये च तान् ॥ २४॥

 

एष दैनन्दिनः सर्गो ब्राह्मस्त्रैलोक्यवर्तनः ।

तिर्यङ्नृपितृदेवानां सम्भवो यत्र कर्मभिः ॥ २५॥

 

मन्वन्तरेषु भगवान् बिभ्रत्सत्त्वं स्वमूर्तिभिः ।

मन्वादिभिरिदं विश्वमवत्युदितपौरुषः ॥ २६॥

 

तमोमात्रामुपादाय प्रतिसंरुद्धविक्रमः ।

कालेनानुगताशेष आस्ते तूष्णीं दिनात्यये ॥ २७॥

 

तमेवान्वपिधीयन्ते लोका भूरादयस्त्रयः ।

निशायामनुवृत्तायां निर्मुक्तशशिभास्करम् ॥ २८॥

 

त्रिलोक्यां दह्यमानायां शक्त्या सङ्कर्षणाग्निना ।

यान्त्यूष्मणा महर्लोकाज्जनं भृग्वादयोऽर्दिताः ॥ २९॥

 

तावत्त्रिभुवनं सद्यः कल्पान्तैधितसिन्धवः ।

प्लावयन्त्युत्कटाटोपचण्डवातेरितोर्मयः ॥ ३०॥

 

अन्तः स तस्मिन् सलिल आस्तेऽनन्तासनो हरिः ।

योगनिद्रानिमीलाक्षः स्तूयमानो जनालयैः ॥ ३१॥

 

एवं विधैरहोरात्रैः कालगत्योपलक्षितैः ।

अपक्षितमिवास्यापि परमायुर्वयः शतम् ॥ ३२॥

 

यदर्धमायुषस्तस्य परार्धमभिधीयते ।

पूर्वः परार्धोऽपक्रान्तो ह्यपरोऽद्य प्रवर्तते ॥ ३३॥

 

पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महानभूत् ।

कल्पो यत्राभवद्ब्रह्मा शब्दब्रह्मेति यं विदुः ॥ ३४॥

 

तस्यैव चान्ते कल्पोऽभूद्यं पाद्ममभिचक्षते ।

यद्धरेर्नाभिसरस आसील्लोकसरोरुहम् ॥ ३५॥

 

अयं तु कथितः कल्पो द्वितीयस्यापि भारत ।

वाराह इति विख्यातो यत्रासीत्सूकरो हरिः ॥ ३६॥

 

कालोऽयं द्विपरार्धाख्यो निमेष उपचर्यते ।

अव्याकृतस्यानन्तस्य ह्यनादेर्जगदात्मनः ॥ ३७॥

 

कालोऽयं परमाण्वादिर्द्विपरार्धान्त ईश्वरः ।

नैवेशितुं प्रभुर्भूम्न ईश्वरो धाममानिनाम् ॥ ३८॥

 

विकारैः सहितो युक्तैर्विशेषादिभिरावृतः ।

आण्डकोशो बहिरयं पञ्चाशत्कोटि विस्तृतः ॥ ३९॥

 

दशोत्तराधिकैर्यत्र प्रविष्टः परमाणुवत् ।

लक्ष्यतेऽन्तर्गताश्चान्ये कोटिशो ह्यण्डराशयः ॥ ४०॥

 

तदाहुरक्षरं ब्रह्म सर्वकारणकारणम् ।

विष्णोर्धाम परं साक्षात्पुरुषस्य महात्मनः ॥ ४१॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां तृतीयस्कन्धीकादशोऽध्यायः ॥ ११॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ द्वादशोऽध्यायः - १२ ॥

 

मैत्रेय उवाच

इति ते वर्णितः क्षत्तः कालाख्यः परमात्मनः ।

महिमा वेदगर्भोऽथ यथास्राक्षीन्निबोध मे ॥ १॥

 

ससर्जाग्रेऽन्धतामिस्रमथ तामिस्रमादिकृत् ।

महामोहं च मोहं च तमश्चाज्ञानवृत्तयः ॥ २॥

 

दृष्ट्वा पापीयसीं सृष्टिं नात्मानं बह्वमन्यत ।

भगवद्ध्यानपूतेन मनसान्यां ततोऽसृजत् ॥ ३॥

 

सनकं च सनन्दं च सनातनमथात्मभूः ।

सनत्कुमारं च मुनीन्निष्क्रियानूर्ध्वरेतसः ॥ ४॥

 

तान् बभाषे स्वभूः पुत्रान् प्रजाः सृजत पुत्रकाः ।

तन्नैच्छन्मोक्षधर्माणो वासुदेवपरायणाः ॥ ५॥

 

सोऽवध्यातः सुतैरेवं प्रत्याख्यातानुशासनैः ।

क्रोधं दुर्विषहं जातं नियन्तुमुपचक्रमे ॥ ६॥

 

धिया निगृह्यमाणोऽपि भ्रुवोर्मध्यात्प्रजापतेः ।

सद्योऽजायत तन्मन्युः कुमारो नीललोहितः ॥ ७॥

 

स वै रुरोद देवानां पूर्वजो भगवान् भवः ।

नामानि कुरु मे धातः स्थानानि च जगद्गुरो ॥ ८॥

 

इति तस्य वचः पाद्मो भगवान् परिपालयन् ।

अभ्यधाद्भद्रया वाचा मा रोदीस्तत्करोमि ते ॥ ९॥

 

यदरोदीः सुरश्रेष्ठ सोद्वेग इव बालकः ।

ततस्त्वामभिधास्यन्ति नाम्ना रुद्र इति प्रजाः ॥ १०॥

 

हृदिन्द्रियाण्यसुर्व्योम वायुरग्निर्जलं मही ।

सूर्यश्चन्द्रस्तपश्चैव स्थानान्यग्रे कृतानि मे ॥ ११॥

 

मन्युर्मनुर्महिनसो महाञ्छिव ऋतध्वजः ।

उग्ररेता भवः कालो वामदेवो धृतव्रतः ॥ १२॥

 

धीर्वृत्तिरुशनोमा च नियुत्सर्पिरिलाम्बिका ।

इरावती सुधा दीक्षा रुद्राण्यो रुद्र ते स्त्रियः ॥ १३॥

 

गृहाणैतानि नामानि स्थानानि च सयोषणः ।

एभिः सृज प्रजा बह्वीः प्रजानामसि यत्पतिः ॥ १४॥

 

इत्यादिष्टः स्वगुरुणा भगवान्नीललोहितः ।

सत्त्वाकृतिस्वभावेन ससर्जात्मसमाः प्रजाः ॥ १५॥

 

रुद्राणां रुद्रसृष्टानां समन्ताद्ग्रसतां जगत् ।

निशाम्यासङ्ख्यशो यूथान् प्रजापतिरशङ्कत ॥ १६॥

 

अलं प्रजाभिः सृष्टाभिरीदृशीभिः सुरोत्तम ।

मया सह दहन्तीभिर्दिशश्चक्षुर्भिरुल्बणैः ॥ १७॥

 

तप आतिष्ठ भद्रं ते सर्वभूतसुखावहम् ।

तपसैव यथा पूर्वं स्रष्टा विश्वमिदं भवान् ॥ १८॥

 

तपसैव परं ज्योतिर्भगवन्तमधोक्षजम् ।

सर्वभूतगुहावासमञ्जसा विन्दते पुमान् ॥ १९॥

 

मैत्रेय उवाच

एवमात्मभुवाऽऽदिष्टः परिक्रम्य गिरां पतिम् ।

बाढमित्यमुमामन्त्र्य विवेश तपसे वनम् ॥ २०॥

 

अथाभिध्यायतः सर्गं दशपुत्राः प्रजज्ञिरे ।

भगवच्छक्तियुक्तस्य लोकसन्तानहेतवः ॥ २१॥

 

मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।

भृगुर्वसिष्ठो दक्षश्च दशमस्तत्र नारदः ॥ २२॥

 

उत्सङ्गान्नारदो जज्ञे दक्षोऽङ्गुष्ठात्स्वयम्भुवः ।

प्राणाद्वसिष्ठः सञ्जातो भृगुस्त्वचि करात्क्रतुः ॥ २३॥

 

पुलहो नाभितो जज्ञे पुलस्त्यः कर्णयोः ऋषिः ।

अङ्गिरा मुखतोऽक्ष्णोऽत्रिर्मरीचिर्मनसोऽभवत् ॥ २४॥

 

धर्मः स्तनाद्दक्षिणतो यत्र नारायणः स्वयम् ।

अधर्मः पृष्ठतो यस्मान्मृत्युर्लोकभयङ्करः ॥ २५॥

 

हृदि कामो भ्रुवः क्रोधो लोभश्चाधरदच्छदात् ।

आस्याद्वाक्सिन्धवो मेढ्रान्निरृतिः पायोरघाश्रयः ॥ २६॥

 

छायायाः कर्दमो जज्ञे देवहूत्याः पतिः प्रभुः ।

मनसो देहतश्चेदं जज्ञे विश्वकृतो जगत् ॥ २७॥

 

वाचं दुहितरं तन्वीं स्वयम्भूर्हरतीं मनः ।

अकामां चकमे क्षत्तः सकाम इति नः श्रुतम् ॥ २८॥

 

तमधर्मे कृतमतिं विलोक्य पितरं सुताः ।

मरीचिमुख्या मुनयो विश्रम्भात्प्रत्यबोधयन् ॥ २९॥

 

नैतत्पूर्वैः कृतं त्वद्य न करिष्यन्ति चापरे ।

यत्त्वं दुहितरं गच्छेरनिगृह्याङ्गजं प्रभुः ॥ ३०॥

 

तेजीयसामपि ह्येतन्न सुश्लोक्यं जगद्गुरो ।

यद्वृत्तमनुतिष्ठन् वै लोकः क्षेमाय कल्पते ॥ ३१॥

 

तस्मै नमो भगवते य इदं स्वेन रोचिषा ।

आत्मस्थं व्यञ्जयामास स धर्मं पातुमर्हति ॥ ३२॥

 

स इत्थं गृणतः पुत्रान् पुरो दृष्ट्वा प्रजापतीन् ।

प्रजापतिपतिस्तन्वं तत्याज व्रीडितस्तदा ।

तां दिशो जगृहुर्घोरां नीहारं यद्विदुस्तमः ॥ ३३॥

 

कदाचिद्ध्यायतः स्रष्टुर्वेदा आसंश्चतुर्मुखात् ।

कथं स्रक्ष्याम्यहं लोकान् समवेतान्यथा पुरा ॥ ३४॥

 

चातुर्होत्रं कर्मतन्त्रमुपवेदनयैः सह ।

धर्मस्य पादाश्चत्वारस्तथैवाश्रमवृत्तयः ॥ ३५॥

 

विदुर उवाच

स वै विश्वसृजामीशो वेदादीन् मुखतोऽसृजत् ।

यद्यद्येनासृजद्देवस्तन्मे ब्रूहि तपोधन ॥ ३६॥

 

मैत्रेय उवाच

ऋग्यजुःसामाथर्वाख्यान् वेदान् पूर्वादिभिर्मुखैः ।

शास्त्रमिज्यां स्तुतिस्तोमं प्रायश्चित्तं व्यधात्क्रमात् ॥ ३७॥

 

आयुर्वेदं धनुर्वेदं गान्धर्वं वेदमात्मनः ।

स्थापत्यं चासृजद्वेदं क्रमात्पूर्वादिभिर्मुखैः ॥ ३८॥

 

इतिहासपुराणानि पञ्चमं वेदमीश्वरः ।

सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्वदर्शनः ॥ ३९॥

 

षोडश्युक्थौ पूर्ववक्त्रात्पुरीष्यग्निष्टुतावथ ।

आप्तोर्यामातिरात्रौ च वाजपेयं सगोसवम् ॥ ४०॥

 

विद्या दानं तपः सत्यं धर्मस्येति पदानि च ।

आश्रमांश्च यथासङ्ख्यमसृजत्सह वृत्तिभिः ॥ ४१॥

 

सावित्रं प्राजापत्यं च ब्राह्मं चाथ बृहत्तथा ।

वार्तासञ्चयशालीनशिलोञ्छ इति वै गृहे ॥ ४२॥

 

वैखानसा वालखिल्यौदुम्बराः फेनपा वने ।

न्यासे कुटीचकः पूर्वं बह्वोदो हंसनिष्क्रियौ ॥ ४३॥

 

आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्तथैव च ।

एवं व्याहृतयश्चासन् प्रणवो ह्यस्य दह्रतः ॥ ४४॥

 

तस्योष्णिगासील्लोमभ्यो गायत्री च त्वचो विभोः ।

त्रिष्टुम्मांसात्स्नुतोऽनुष्टुब्जगत्यस्थ्नः प्रजापतेः ॥ ४५॥

 

मज्जायाः पङ्क्तिरुत्पन्ना बृहती प्राणतोऽभवत् ।

स्पर्शस्तस्याभवज्जीवः स्वरो देह उदाहृतः ॥ ४६॥

 

ऊष्माणमिन्द्रियाण्याहुरन्तःस्था बलमात्मनः ।

स्वराः सप्तविहारेण भवन्ति स्म प्रजापतेः ॥ ४७॥

 

शब्दब्रह्मात्मनस्तस्य व्यक्ताव्यक्तात्मनः परः ।

ब्रह्मावभाति विततो नानाशक्त्युपबृंहितः ॥ ४८॥

 

ततोऽपरामुपादाय स सर्गाय मनो दधे ।

ऋषीणां भूरिवीर्याणामपि सर्गमविस्तृतम् ॥ ४९॥

 

ज्ञात्वा तद्धृदये भूयश्चिन्तयामास कौरव ।

अहो अद्भुतमेतन्मे व्यापृतस्यापि नित्यदा ॥ ५०॥

 

न ह्येधन्ते प्रजा नूनं दैवमत्र विघातकम् ।

एवं युक्तकृतस्तस्य दैवं चावेक्षतस्तदा ॥ ५१॥

 

कस्य रूपमभूद्द्वेधा यत्कायमभिचक्षते ।

ताभ्यां रूपविभागाभ्यां मिथुनं समपद्यत ॥ ५२॥

 

यस्तु तत्र पुमान् सोऽभून्मनुः स्वायम्भुवः स्वराट् ।

स्त्री याऽऽसीच्छतरूपाऽऽख्या महिष्यस्य महात्मनः ॥ ५३॥

 

तदा मिथुनधर्मेण प्रजा ह्येधाम्बभूविरे ।

स चापि शतरूपायां पञ्चापत्यान्यजीजनत् ॥ ५४॥

 

प्रियव्रतोत्तानपादौ तिस्रः कन्याश्च भारत ।

आकूतिर्देवहूतिश्च प्रसूतिरिति सत्तम ॥ ५५॥

 

आकूतिं रुचये प्रादात्कर्दमाय तु मध्यमाम् ।

दक्षायादात्प्रसूतिं च यत आपूरितं जगत् ॥ ५६॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायान्तृतीयस्कन्धे द्वादशोऽध्यायः ॥ १२॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ त्रयोदशोऽध्यायः - १३ ॥

 

श्रीशुक उवाच

निशम्य वाचं वदतो मुनेः पुण्यतमां नृप ।

भूयः पप्रच्छ कौरव्यो वासुदेवकथादृतः ॥ १॥

 

विदुर उवाच

स वै स्वायम्भुवः सम्राट् प्रियः पुत्रः स्वयम्भुवः ।

प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने ॥ २॥

 

चरितं तस्य राजर्षेरादिराजस्य सत्तम ।

ब्रूहि मे श्रद्दधानाय विष्वक्सेनाश्रयो ह्यसौ ॥ ३॥

 

श्रुतस्य पुंसां सुचिरश्रमस्य

नन्वञ्जसा सूरिभिरीडितोऽर्थः ।

यत्तद्गुणानुश्रवणं मुकुन्द-

पादारविन्दं हृदयेषु येषाम् ॥ ४॥

 

श्रीशुक उवाच

इति ब्रुवाणं विदुरं विनीतं

सहस्रशीर्ष्णश्चरणोपधानम् ।

प्रहृष्टरोमा भगवत्कथायां

प्रणीयमानो मुनिरभ्यचष्ट ॥ ५॥

 

मैत्रेय उवाच

यदा स्वभार्यया साकं जातः स्वायम्भुवो मनुः ।

प्राञ्जलिः प्रणतश्चेदं वेदगर्भमभाषत ॥ ६॥

 

त्वमेकः सर्वभूतानां जन्मकृद्वृत्तिदः पिता ।

अथापि नः प्रजानां ते शुश्रूषा केन वा भवेत् ॥ ७॥

 

तद्विधेहि नमस्तुभ्यं कर्मस्वीड्यात्मशक्तिषु ।

यत्कृत्वेह यशो विष्वगमुत्र च भवेद्गतिः ॥ ८॥

 

ब्रह्मोवाच

प्रीतस्तुभ्यमहं तात स्वस्ति स्ताद्वां क्षितीश्वर ।

यन्निर्व्यलीकेन हृदा शाधि मेऽत्यात्मनार्पितम् ॥ ९॥

 

एतावत्यात्मजैर्वीर कार्या ह्यपचितिर्गुरौ ।

शक्त्याप्रमत्तैर्गृह्येत सादरं गतमत्सरैः ॥ १०॥

 

स त्वमस्यामपत्यानि सदृशान्यात्मनो गुणैः ।

उत्पाद्य शास धर्मेण गां यज्ञैः पुरुषं यज ॥ ११॥

 

परं शुश्रूषणं मह्यं स्यात्प्रजारक्षया नृप ।

भगवांस्ते प्रजाभर्तुर्हृषीकेशोऽनुतुष्यति ॥ १२॥

 

येषां न तुष्टो भगवान् यज्ञलिङ्गो जनार्दनः ।

तेषां श्रमो ह्यपार्थाय यदात्मा नादृतः स्वयम् ॥ १३॥

 

मनुरुवाच

आदेशेऽहं भगवतो वर्तेयामीवसूदन ।

स्थानं त्विहानुजानीहि प्रजानां मम च प्रभो ॥ १४॥

 

यदोकः सर्वसत्त्वानां मही मग्ना महाम्भसि ।

अस्या उद्धरणे यत्नो देव देव्या विधीयताम् ॥ १५॥

 

मैत्रेय उवाच

परमेष्ठी त्वपां मध्ये तथा सन्नामवेक्ष्य गाम् ।

कथमेनां समुन्नेष्य इति दध्यौ धिया चिरम् ॥ १६॥

 

सृजतो मे क्षितिर्वार्भिः प्लाव्यमाना रसां गता ।

अथात्र किमनुष्ठेयमस्माभिः सर्गयोजितैः ।

यस्याहं हृदयादासं स ईशो विदधातु मे ॥ १७॥

 

इत्यभिध्यायतो नासाविवरात्सहसानघ ।

वराहतोको निरगादङ्गुष्ठपरिमाणकः ॥ १८॥

 

तस्याभिपश्यतः खस्थः क्षणेन किल भारत ।

गजमात्रः प्रववृधे तदद्भुतमभून्महत् ॥ १९॥

 

मरीचिप्रमुखैर्विप्रैः कुमारैर्मनुना सह ।

दृष्ट्वा तत्सौकरं रूपं तर्कयामास चित्रधा ॥ २०॥

 

किमेतत्सौकरव्याजं सत्त्वं दिव्यमवस्थितम् ।

अहो बताश्चर्यमिदं नासाया मे विनिःसृतम् ॥ २१॥

 

दृष्टोऽङ्गुष्ठशिरोमात्रः क्षणाद्गण्डशिलासमः ।

अपि स्विद्भगवानेष यज्ञो मे खेदयन्मनः ॥ २२॥

 

इति मीमांसतस्तस्य ब्रह्मणः सह सूनुभिः ।

भगवान् यज्ञपुरुषो जगर्जागेन्द्रसन्निभः ॥ २३॥

 

ब्रह्माणं हर्षयामास हरिस्तांश्च द्विजोत्तमान् ।

स्वगर्जितेन ककुभः प्रतिस्वनयता विभुः ॥ २४॥

 

निशम्य ते घर्घरितं स्वखेद-

क्षयिष्णु मायामयसूकरस्य ।

जनस्तपःसत्यनिवासिनस्ते

त्रिभिः पवित्रैर्मुनयोऽगृणन् स्म ॥ २५॥

 

तेषां सतां वेदवितानमूर्तिः

ब्रह्मावधार्यात्मगुणानुवादम् ।

विनद्य भूयो विबुधोदयाय

गजेन्द्रलीलो जलमाविवेश ॥ २६॥

 

उत्क्षिप्तवालः खचरः कठोरः

सटा विधुन्वन् खररोमशत्वक् ।

खुराहताभ्रः सितदंष्ट्र ईक्षा-

ज्योतिर्बभासे भगवान् महीध्रः ॥ २७॥

 

घ्राणेन पृथ्व्याः पदवीं विजिघ्रन्

क्रोडापदेशः स्वयमध्वराङ्गः ।

करालदंष्ट्रोऽप्यकरालदृग्भ्या-

मुद्वीक्ष्य विप्रान् गृणतोऽविशत्कम् ॥ २८॥

 

स वज्रकूटाङ्गनिपातवेग-

विशीर्णकुक्षिः स्तनयन्नुदन्वान् ।

उत्सृष्टदीर्घोर्मिभुजैरिवार्त-

श्चुक्रोश यज्ञेश्वर पाहि मेति ॥ २९॥

 

खुरैः क्षुरप्रैर्दरयंस्तदाप

उत्पारपारं त्रिपरू रसायाम् ।

ददर्श गां तत्र सुषुप्सुरग्रे

यां जीवधानीं स्वयमभ्यधत्त ॥ ३०॥

 

(पातालमूलेश्वरभोगसंहतौ

विन्यस्य पादौ पृथिवीं च बिभ्रतः ।

यस्योपमानो न बभूव सोऽच्युतो

ममास्तु माङ्गल्यविवृद्धये हरिः ॥)

स्वदंष्ट्रयोद्धृत्य महीं निमग्नां

स उत्थितः संरुरुचे रसायाः ।

तत्रापि दैत्यं गदयाऽऽपतन्तं

सुनाभसन्दीपिततीव्रमन्युः ॥ ३१॥

 

जघान रुन्धानमसह्यविक्रमं

स लीलयेभं मृगराडिवाम्भसि ।

तद्रक्तपङ्काङ्कितगण्डतुण्डो

यथा गजेन्द्रो जगतीं विभिन्दन् ॥ ३२॥

 

तमालनीलं सितदन्तकोट्या

क्ष्मामुत्क्षिपन्तं गजलीलयाङ्ग ।

प्रज्ञाय बद्धाञ्जलयोऽनुवाकैः

विरिञ्चिमुख्या उपतस्थुरीशम् ॥ ३३॥

 

ऋषय ऊचुः

जितं जितं तेऽजितयज्ञभावन

त्रयीं तनुं स्वां परिधुन्वते नमः ।

यद्रोमगर्तेषु निलिल्युरध्वरा-

स्तस्मै नमः कारणसूकराय ते ॥ ३४॥

 

रूपं तवैतन्ननु दुष्कृतात्मनां

दुर्दर्शनं देव यदध्वरात्मकम् ।

छन्दांसि यस्य त्वचि बर्हिरोम-

स्वाज्यं दृशि त्वङ्घ्रिषु चातुर्होत्रम् ॥ ३५॥

 

स्रक्तुण्ड आसीत्स्रुव ईश नासयो-

रिडोदरेचमसाः कर्णरन्ध्रे ।

प्राशित्रमास्ये ग्रसने ग्रहास्तु ते

यच्चर्वणं ते भगवन्नग्निहोत्रम् ॥ ३६॥

 

दीक्षानुजन्मोपसदः शिरोधरं

त्वं प्रायणीयोदयनीयदंष्ट्रः ।

जिह्वा प्रवर्ग्यस्तव शीर्षकं क्रतोः

सभ्यावसथ्यं चितयोऽसवो हि ते ॥ ३७॥

 

सोमस्तु रेतः सवनान्यवस्थितिः

संस्था विभेदास्तव देव धातवः ।

सत्राणि सर्वाणि शरीरसन्धि-

स्त्वं सर्वयज्ञक्रतुरिष्टिबन्धनः ॥ ३८॥

 

नमो नमस्तेऽखिलमन्त्रदेवता-

द्रव्याय सर्वक्रतवे क्रियात्मने ।

वैराग्यभक्त्याऽऽत्मजयानुभावित-

ज्ञानाय विद्यागुरवे नमो नमः ॥ ३९॥

 

दंष्ट्राग्रकोट्या भगवंस्त्वया धृता

विराजते भूधर भूः सभूधरा ।

यथा वनान्निःसरतो दता धृता

मतङ्गजेन्द्रस्य सपत्रपद्मिनी ॥ ४०॥

 

त्रयीमयं रूपमिदं च सौकरं

भूमण्डलेनाथ दता धृतेन ते ।

चकास्ति श‍ृङ्गोढघनेन भूयसा

कुलाचलेन्द्रस्य यथैव विभ्रमः ॥ ४१॥

 

संस्थापयैनां जगतां सतस्थुषां

लोकाय पत्नीमसि मातरं पिता ।

विधेम चास्यै नमसा सह त्वया

यस्यां स्वतेजोऽग्निमिवारणावधाः ॥ ४२॥

 

कः श्रद्दधीतान्यतमस्तव प्रभो

रसां गताया भुव उद्विबर्हणम् ।

न विस्मयोऽसौ त्वयि विश्वविस्मये

यो माययेदं ससृजेऽतिविस्मयम् ॥ ४३॥

 

विधुन्वता वेदमयं निजं वपुः

जनस्तपःसत्यनिवासिनो वयम् ।

सटाशिखोद्धूतशिवाम्बुबिन्दुभिः

विमृज्यमाना भृशमीश पाविताः ॥ ४५॥

 

स वै बत भ्रष्टमतिस्तवैष ते

यः कर्मणां पारमपारकर्मणः ।

यद्योगमायागुणयोगमोहितं

विश्वं समस्तं भगवन् विधेहि शम् ॥ ४५॥

 

मैत्रेय उवाच

इत्युपस्थीयमानस्तैः मुनिभिर्ब्रह्मवादिभिः ।

सलिले स्वखुराक्रान्त उपाधत्तावितावनिम् ॥ ४६॥

 

स इत्थं भगवानुर्वीं विष्वक्सेनः प्रजापतिः ।

रसाया लीलयोन्नीतामप्सु न्यस्य ययौ हरिः ॥ ४७॥

 

य एवमेतां हरिमेधसो हरेः

कथां सुभद्रां कथनीयमायिनः ।

श‍ृण्वीत भक्त्या श्रवयेत वोशतीं

जनार्दनोऽस्याशु हृदि प्रसीदति ॥ ४८॥

 

तस्मिन् प्रसन्ने सकलाशिषां प्रभौ

किं दुर्लभं ताभिरलं लवात्मभिः ।

अनन्यदृष्ट्या भजतां गुहाशयः

स्वयं विधत्ते स्वगतिं परः पराम् ॥ ४९॥

 

को नाम लोके पुरुषार्थसारवित्

पुरा कथानां भगवत्कथासुधाम् ।

आपीय कर्णाञ्जलिभिर्भवापहा-

महो विरज्येत विना नरेतरम् ॥ ५०॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे वराहप्रादुर्भावानुवर्णने त्रयोदशोऽध्यायः ॥ १३॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ चतुर्दशोऽध्यायः - १४ ॥

 

श्रीशुक उवाच

निशम्य कौषारविणोपवर्णितां

हरेः कथां कारणसूकरात्मनः ।

पुनः स पप्रच्छ तमुद्यताञ्जलि-

र्नचातितृप्तो विदुरो धृतव्रतः ॥ १॥

 

विदुर उवाच

तेनैव तु मुनिश्रेष्ठ हरिणा यज्ञमूर्तिना ।

आदिदैत्यो हिरण्याक्षो हत इत्यनुशुश्रुम ॥ २॥

 

तस्य चोद्धरतः क्षोणीं स्वदंष्ट्राग्रेण लीलया ।

दैत्यराजस्य च ब्रह्मन् कस्माद्धेतोरभून्मृधः ॥ ३॥

 

(श्रद्दधानाय भक्ताय ब्रूहि तज्जन्म विस्तरम् ।

ऋषे न तृप्यति मनः परं कौतूहलं हि मे ॥)

मैत्रेय उवाच

साधु वीर त्वया पृष्टमवतारकथां हरेः ।

यत्त्वं पृच्छसि मर्त्यानां मृत्युपाशविशातनीम् ॥ ४॥

 

ययोत्तानपदः पुत्रो मुनिना गीतयार्भकः ।

मृत्योः कृत्वैव मूर्ध्न्यङ्घ्रिमारुरोह हरेः पदम् ॥ ५॥

 

अथात्रापीतिहासोऽयं श्रुतो मे वर्णितः पुरा ।

ब्रह्मणा देवदेवेन देवानामनुपृच्छताम् ॥ ६॥

 

दितिर्दाक्षायणी क्षत्तर्मारीचं कश्यपं पतिम् ।

अपत्यकामा चकमे सन्ध्यायां हृच्छयार्दिता ॥ ७॥

 

इष्ट्वाग्निजिह्वं पयसा पुरुषं यजुषां पतिम् ।

निम्लोचत्यर्क आसीनमग्न्यगारे समाहितम् ॥ ८॥

 

दितिरुवाच

एष मां त्वत्कृते विद्वन् काम आत्तशरासनः ।

दुनोति दीनां विक्रम्य रम्भामिव मतङ्गजः ॥ ९॥

 

तद्भवान् दह्यमानायां सपत्नीनां समृद्धिभिः ।

प्रजावतीनां भद्रं ते मय्यायुङ्क्तामनुग्रहम् ॥ १०॥

 

भर्तर्याप्तोरुमानानां लोकानाविशते यशः ।

पतिर्भवद्विधो यासां प्रजया ननु जायते ॥ ११॥

 

पुरा पिता नो भगवान् दक्षो दुहितृवत्सलः ।

कं वृणीत वरं वत्सा इत्यपृच्छत नः पृथक् ॥ १२॥

 

स विदित्वाऽऽत्मजानां नो भावं सन्तानभावनः ।

त्रयोदशाददात्तासां यास्ते शीलमनुव्रताः ॥ १३॥

 

अथ मे कुरु कल्याण कामं कञ्जविलोचन ।

आर्तोपसर्पणं भूमन्नमोघं हि महीयसि ॥ १४॥

 

इति तां वीर मारीचः कृपणां बहुभाषिणीम् ।

प्रत्याहानुनयन् वाचा प्रवृद्धानङ्गकश्मलाम् ॥ १५॥

 

एष तेऽहं विधास्यामि प्रियं भीरु यदिच्छसि ।

तस्याः कामं न कः कुर्यात्सिद्धिस्त्रैवर्गिकी यतः ॥ १६॥

 

सर्वाश्रमानुपादाय स्वाश्रमेण कलत्रवान् ।

व्यसनार्णवमत्येति जलयानैर्यथार्णवम् ॥ १७॥

 

यामाहुरात्मनो ह्यर्धं श्रेयस्कामस्य मानिनि ।

यस्यां स्वधुरमध्यस्य पुमांश्चरति विज्वरः ॥ १८॥

 

यामाश्रित्येन्द्रियारातीन् दुर्जयानितराश्रमैः ।

वयं जयेम हेलाभिर्दस्यून् दुर्गपतिर्यथा ॥ १९॥

 

न वयं प्रभवस्तां त्वामनुकर्तुं गृहेश्वरि ।

अप्यायुषा वा कार्त्स्न्येन ये चान्ये गुणगृध्नवः ॥ २०॥

 

अथापि काममेतं ते प्रजात्यै करवाण्यलम् ।

यथा मां नातिरोचन्ति मुहूर्तं प्रतिपालय ॥ २१॥

 

एषा घोरतमा वेला घोराणां घोरदर्शना ।

चरन्ति यस्यां भूतानि भूतेशानुचराणि ह ॥ २२॥

 

एतस्यां साध्वि सन्ध्यायां भगवान् भूतभावनः ।

परीतो भूतपर्षद्भिर्वृषेणाटति भूतराट् ॥ २३॥

 

श्मशानचक्रानिलधूलिधूम्र-

विकीर्णविद्योतजटाकलापः ।

भस्मावगुण्ठामलरुक्मदेहो

देवस्त्रिभिः पश्यति देवरस्ते ॥ २४॥

 

न यस्य लोके स्वजनः परो वा

नात्यादृतो नोत कश्चिद्विगर्ह्यः ।

वयं व्रतैर्यच्चरणापविद्धा-

माशास्महेऽजां बत भुक्तभोगाम् ॥ २५॥

 

यस्यानवद्याचरितं मनीषिणो

गृणन्त्यविद्यापटलं बिभित्सवः ।

निरस्तसाम्यातिशयोऽपि यत्स्वयं

पिशाचचर्यामचरद्गतिः सताम् ॥ २६॥

 

हसन्ति यस्याचरितं हि दुर्भगाः

स्वात्मन् रतस्याविदुषः समीहितम् ।

यैर्वस्त्रमाल्याभरणानुलेपनैः

श्वभोजनं स्वात्मतयोपलालितम् ॥ २७॥

 

ब्रह्मादयो यत्कृतसेतुपाला

यत्कारणं विश्वमिदं च माया ।

आज्ञाकरी तस्य पिशाचचर्या

अहो विभूम्नश्चरितं विडम्बनम् ॥ २८॥

 

मैत्रेय उवाच

सैवं संविदिते भर्त्रा मन्मथोन्मथितेन्द्रिया ।

जग्राह वासो ब्रह्मर्षेर्वृषलीव गतत्रपा ॥ २९॥

 

स विदित्वाथ भार्यायास्तं निर्बन्धं विकर्मणि ।

नत्वा दिष्टाय रहसि तयाथोपविवेश ह ॥ ३०॥

 

अथोपस्पृश्य सलिलं प्राणानायम्य वाग्यतः ।

ध्यायञ्जजाप विरजं ब्रह्मज्योतिः सनातनम् ॥ ३१॥

 

दितिस्तु व्रीडिता तेन कर्मावद्येन भारत ।

उपसङ्गम्य विप्रर्षिमधोमुख्यभ्यभाषत ॥ ३२॥

 

दितिरुवाच

मा मे गर्भमिमं ब्रह्मन् भूतानामृषभोऽवधीत् ।

रुद्रः पतिर्हि भूतानां यस्याकरवमंहसम् ॥ ३३॥

 

नमो रुद्राय महते देवायोग्राय मीढुषे ।

शिवाय न्यस्तदण्डाय धृतदण्डाय मन्यवे ॥ ३४॥

 

स नः प्रसीदतां भामो भगवानुर्वनुग्रहः ।

व्याधस्याप्यनुकम्प्यानां स्त्रीणां देवः सतीपतिः ॥ ३५॥

 

मैत्रेय उवाच

स्वसर्गस्याशिषं लोक्यामाशासानां प्रवेपतीम् ।

निवृत्तसन्ध्यानियमो भार्यामाह प्रजापतिः ॥ ३६॥

 

कश्यप उवाच

अप्रायत्यादात्मनस्ते दोषान् मौहूर्तिकादुत ।

मन्निदेशातिचारेण देवानां चातिहेलनात् ॥ ३७॥

 

भविष्यतस्तवाभद्रावभद्रे जाठराधमौ ।

लोकान् सपालांस्त्रींश्चण्डि मुहुराक्रन्दयिष्यतः ॥ ३८॥

 

प्राणिनां हन्यमानानां दीनानामकृतागसाम् ।

स्त्रीणां निगृह्यमाणानां कोपितेषु महात्मसु ॥ ३९॥

 

तदा विश्वेश्वरः क्रुद्धो भगवान् लोकभावनः ।

हनिष्यत्यवतीर्यासौ यथाद्रीन् शतपर्वधृक् ॥ ४०॥

 

दितिरुवाच

वधं भगवता साक्षात्सुनाभोदारबाहुना ।

आशासे पुत्रयोर्मह्यं मा क्रुद्धाद्ब्राह्मणाद्विभो ॥ ४१॥

 

न ब्रह्मदण्डदग्द्धस्य न भूतभयदस्य च ।

नारकाश्चानुगृह्णन्ति यां यां योनिमसौ गतः ॥ ४२॥

 

कश्यप उवाच

कृतशोकानुतापेन सद्यः प्रत्यवमर्शनात् ।

भगवत्युरुमानाच्च भवे मय्यपि चादरात् ॥ ४३॥

 

पुत्रस्यैव तु पुत्राणां भवितैकः सतां मतः ।

गास्यन्ति यद्यशः शुद्धं भगवद्यशसा समम् ॥ ४४॥

 

योगैर्हेमेव दुर्वर्णं भावयिष्यन्ति साधवः ।

निर्वैरादिभिरात्मानं यच्छीलमनुवर्तितुम् ॥ ४५॥

 

यत्प्रसादादिदं विश्वं प्रसीदति यदात्मकम् ।

स स्वदृग्भगवान् यस्य तोष्यतेऽनन्यया दृशा ॥ ४६॥

 

स वै महाभागवतो महात्मा

महानुभावो महतां महिष्ठः ।

प्रवृद्धभक्त्या ह्यनुभाविताशये

निवेश्य वैकुण्ठमिमं विहास्यति ॥ ४७॥

 

अलम्पटः शीलधरो गुणाकरो

हृष्टः परर्द्ध्या व्यथितो दुःखितेषु ।

अभूतशत्रुर्जगतः शोकहर्ता

नैदाघिकं तापमिवोडुराजः ॥ ४८॥

 

अन्तर्बहिश्चामलमब्जनेत्रं

स्वपूरुषेच्छानुगृहीतरूपम् ।

पौत्रस्तव श्रीललनाललामं

द्रष्टा स्फुरत्कुण्डलमण्डिताननम् ॥ ४९॥

 

मैत्रेय उवाच

श्रुत्वा भागवतं पौत्रममोदत दितिर्भृशम् ।

पुत्रयोश्च वधं कृष्णाद्विदित्वाऽऽसीन्महामनाः ॥ ५०॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे दितिकश्यपसंवादे चतुर्दशोऽध्यायः ॥ १४॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ पञ्चदशोऽध्यायः - १५ ॥

 

मैत्रेय उवाच

प्राजापत्यं तु तत्तेजः परतेजोहनं दितिः ।

दधार वर्षाणि शतं शङ्कमाना सुरार्दनात् ॥ १॥

 

लोके तेन हतालोके लोकपाला हतौजसः ।

न्यवेदयन् विश्वसृजे ध्वान्तव्यतिकरं दिशाम् ॥ २॥

 

देवा ऊचुः

तम एतद्विभो वेत्थ संविग्ना यद्वयं भृशम् ।

न ह्यव्यक्तं भगवतः कालेनास्पृष्टवर्त्मनः ॥ ३॥

 

देवदेव जगद्धातर्लोकनाथशिखामणे ।

परेषामपरेषां त्वं भूतानामसि भाववित् ॥ ४॥

 

नमो विज्ञानवीर्याय माययेदमुपेयुषे ।

गृहीतगुणभेदाय नमस्तेऽव्यक्तयोनये ॥ ५॥

 

ये त्वानन्येन भावेन भावयन्त्यात्मभावनम् ।

आत्मनि प्रोतभुवनं परं सदसदात्मकम् ॥ ६॥

 

तेषां सुपक्वयोगानां जितश्वासेन्द्रियात्मनाम् ।

लब्धयुष्मत्प्रसादानां न कुतश्चित्पराभवः ॥ ७॥

 

यस्य वाचा प्रजाः सर्वा गावस्तन्त्येव यन्त्रिताः ।

हरन्ति बलिमायत्तास्तस्मै मुख्याय ते नमः ॥ ८॥

 

स त्वं विधत्स्व शं भूमंस्तमसा लुप्तकर्मणाम् ।

अदभ्रदयया दृष्ट्या आपन्नानर्हसीक्षितुम् ॥ ९॥

 

एष देव दितेर्गर्भ ओजः काश्यपमर्पितम् ।

दिशस्तिमिरयन् सर्वा वर्धतेऽग्निरिवैधसि ॥ १०॥

 

मैत्रेय उवाच

स प्रहस्य महाबाहो भगवान् शब्दगोचरः ।

प्रत्याचष्टात्मभूर्देवान् प्रीणन् रुचिरया गिरा ॥ ११॥

 

ब्रह्मोवाच

मानसा मे सुता युष्मत्पूर्वजाः सनकादयः ।

चेरुर्विहायसा लोकाल्लोकेषु विगतस्पृहाः ॥ १२॥

 

त एकदा भगवतो वैकुण्ठस्यामलात्मनः ।

ययुर्वैकुण्ठनिलयं सर्वलोकनमस्कृतम् ॥ १३॥

 

वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठमूर्तयः ।

येऽनिमित्तनिमित्तेन धर्मेणाराधयन् हरिम् ॥ १४॥

 

यत्र चाद्यः पुमानास्ते भगवान् शब्दगोचरः ।

सत्त्वं विष्टभ्य विरजं स्वानां नो मृडयन् वृषः ॥ १५॥

 

यत्र नैःश्रेयसं नाम वनं कामदुघैर्द्रुमैः ।

सर्वर्तुश्रीभिर्विभ्राजत्कैवल्यमिव मूर्तिमत् ॥ १६॥

 

वैमानिकाः सललनाश्चरितानि यत्र

गायन्ति यत्र शमलक्षपणानि भर्तुः ।

अन्तर्जलेऽनुविकसन्मधुमाधवीनां

गन्धेन खण्डितधियोऽप्यनिलं क्षिपन्तः ॥ १७॥

 

पारावतान्यभृतसारसचक्रवाक-

दात्यूहहंसशुकतित्तिरिबर्हिणां यः ।

कोलाहलो विरमतेऽचिरमात्रमुच्चैः

भृङ्गाधिपे हरिकथामिव गायमाने ॥ १८॥

 

मन्दारकुन्दकुरबोत्पलचम्पकार्ण-

पुन्नागनागबकुलाम्बुजपारिजाताः ।

गन्धेऽर्चिते तुलसिकाभरणेन तस्या

यस्मिंस्तपः सुमनसो बहु मानयन्ति ॥ १९॥

 

यत्सङ्कुलं हरिपदानतिमात्रदृष्टै-

र्वैदूर्यमारकतहेममयैर्विमानैः ।

येषां बृहत्कटितटाः स्मितशोभिमुख्यः

कृष्णात्मनां न रज आदधुरुत्स्मयाद्यैः ॥ २०॥

 

श्री रूपिणी क्वणयती चरणारविन्दं

लीलाम्बुजेन हरिसद्मनि मुक्तदोषा ।

संलक्ष्यते स्फटिककुड्य उपेतहेम्नि

सम्मार्जतीव यदनुग्रहणेऽन्ययत्नः ॥ २१॥

 

वापीषु विद्रुमतटास्वमलामृताप्सु

प्रेष्यान्विता निजवने तुलसीभिरीशम् ।

अभ्यर्चती स्वलकमुन्नसमीक्ष्य वक्त्र-

मुच्छेषितं भगवतेत्यमताङ्ग यच्छ्रीः ॥ २२॥

 

यन्न व्रजन्त्यघभिदो रचनानुवादात्

श‍ृण्वन्ति येऽन्यविषयाः कुकथा मतिघ्नीः ।

यास्तु श्रुता हतभगैर्नृभिरात्तसारा-

स्तांस्तान् क्षिपन्त्यशरणेषु तमःसु हन्त ॥ २३॥

 

येऽभ्यर्थितामपि च नो नृगतिं प्रपन्नाः

ज्ञानं च तत्त्वविषयं सह धर्म यत्र ।

नाराधनं भगवतो वितरन्त्यमुष्य

सम्मोहिता विततया बत मायया ते ॥ २४॥

 

यच्च व्रजन्त्यनिमिषामृषभानुवृत्त्या

दूरे यमा ह्युपरि नः स्पृहणीयशीलाः ।

भर्तुर्मिथः सुयशसः कथनानुराग-

वैक्लव्यबाष्पकलया पुलकीकृताङ्गाः ॥ २५॥

 

तद्विश्वगुर्वधिकृतं भुवनैकवन्द्यं

दिव्यं विचित्रविबुधाग्र्यविमानशोचिः ।

आपुः परां मुदमपूर्वमुपेत्य योग-

मायाबलेन मुनयस्तदथो विकुण्ठम् ॥ २६॥

 

तस्मिन्नतीत्य मुनयः षडसज्जमानाः

कक्षाः समानवयसावथ सप्तमायाम् ।

देवावचक्षत गृहीतगदौ परार्ध्य-

केयूरकुण्डलकिरीटविटङ्कवेषौ ॥ २७॥

 

मत्तद्विरेफवनमालिकया निवीतौ

विन्यस्तयासितचतुष्टयबाहुमध्ये ।

वक्त्रं भ्रुवा कुटिलया स्फुटनिर्गमाभ्यां

रक्तेक्षणेन च मनाग्रभसं दधानौ ॥ २८॥

 

द्वार्येतयोर्निविविशुर्मिषतोरपृष्ट्वा

पूर्वा यथा पुरटवज्रकपाटिका याः ।

सर्वत्र तेऽविषमया मुनयः स्वदृष्ट्या

ये सञ्चरन्त्यविहता विगताभिशङ्काः ॥ २९॥

 

तान् वीक्ष्य वातरशनांश्चतुरः कुमारान्

वृद्धान् दशार्धवयसो विदितात्मतत्त्वान् ।

वेत्रेण चास्खलयतामतदर्हणांस्तौ

तेजो विहस्य भगवत्प्रतिकूलशीलौ ॥ ३०॥

 

ताभ्यां मिषत्स्वनिमिषेषु निषिध्यमानाः

स्वर्हत्तमा ह्यपि हरेः प्रतिहारपाभ्याम् ।

ऊचुस्सुहृत्तमदिदृक्षितभङ्ग ईषत्

कामानुजेन सहसा त उपप्लुताक्षाः ॥ ३१॥

 

मुनय ऊचुः

को वामिहैत्य भगवत्परिचर्ययोच्चैः

तद्धर्मिणां निवसतां विषमः स्वभावः ।

तस्मिन् प्रशान्तपुरुषे गतविग्रहे वां

को वाऽऽत्मवत्कुहकयोः परिशङ्कनीयः ॥ ३२॥

 

न ह्यन्तरं भगवतीह समस्तकुक्षा-

वात्मानमात्मनि नभो नभसीव धीराः ।

पश्यन्ति यत्र युवयोः सुरलिङ्गिनोः किं

व्युत्पादितं ह्युदरभेदि भयं यतोऽस्य ॥ ३३॥

 

तद्वाममुष्य परमस्य विकुण्ठ भर्तुः

कर्तुं प्रकृष्टमिह धीमहि मन्दधीभ्याम् ।

लोकानितो व्रजतमन्तरभावदृष्ट्या

पापीयसस्त्रय इमे रिपवोऽस्य यत्र ॥ ३४॥

 

तेषामितीरितमुभाववधार्य घोरं

तं ब्रह्मदण्डमनिवारणमस्त्रपूगैः ।

सद्यो हरेरनुचरावुरुबिभ्यतस्तत्

पादग्रहावपततामतिकातरेण ॥ ३५॥

 

भूयादघोनि भगवद्भिरकारि दण्डो

यो नौ हरेत सुरहेलनमप्यशेषम् ।

मा वोऽनुतापकलया भगवत्स्मृतिघ्नो

मोहो भवेदिह तु नौ व्रजतोरधोऽधः ॥ ३६॥

 

एवं तदैव भगवानरविन्दनाभः

स्वानां विबुध्य सदतिक्रममार्यहृद्यः ।

तस्मिन्ययौ परमहंसमहामुनीनां

अन्वेषणीयचरणौ चलयन् सह श्रीः ॥ ३७॥

 

तं त्वागतं प्रतिहृतौपयिकं स्वपुम्भिः

तेऽचक्षताक्षविषयं स्वसमाधिभाग्यम् ।

हंसश्रियोर्व्यजनयोः शिववायुलोल-

च्छुभ्रातपत्रशशिकेसरशीकराम्बुम् ॥ ३८॥

 

कृत्स्नप्रसादसुमुखं स्पृहणीयधाम-

स्नेहावलोककलया हृदि संस्पृशन्तम् ।

श्यामे पृथावुरसि शोभितया श्रियास्व-

श्चूडामणिं सुभगयन्तमिवात्मधिष्ण्यम् ॥ ३९॥

 

पीतांशुके पृथु नितम्बिनि विस्फुरन्त्या

काञ्च्यालिभिर्विरुतया वनमालया च ।

वल्गुप्रकोष्ठवलयं विनतासुतांसे

विन्यस्तहस्तमितरेण धुनानमब्जम् ॥ ४०॥

 

विद्युत्क्षिपन् मकरकुण्डलमण्डनार्ह-

गण्डस्थलोन्नसमुखं मणिमत्किरीटम् ।

दोर्दण्डषण्डविवरे हरता परार्ध्य-

हारेण कन्धरगतेन च कौस्तुभेन ॥ ४१॥

 

अत्रोपसृष्टमिति चोत्स्मितमिन्दिरायाः

स्वानां धिया विरचितं बहु सौष्ठवाढ्यम् ।

मह्यं भवस्य भवतां च भजन्तमङ्गं

नेमुर्निरीक्ष्य न वितृप्तदृशो मुदा कैः ॥ ४२॥

 

तस्यारविन्दनयनस्य पदारविन्द-

किञ्जल्कमिश्रतुलसीमकरन्दवायुः ।

अन्तर्गतः स्वविवरेण चकार तेषां

सङ्क्षोभमक्षरजुषामपि चित्ततन्वोः ॥ ४३॥

 

ते वा अमुष्य वदनासितपद्मकोश-

मुद्वीक्ष्य सुन्दरतराधरकुन्दहासम् ।

लब्धाशिषः पुनरवेक्ष्य तदीयमङ्घ्रि-

द्वन्द्वं नखारुणमणिश्रयणं निदध्युः ॥ ४४॥

 

पुंसां गतिं मृगयतामिह योगमार्गैः

ध्यानास्पदं बहु मतं नयनाभिरामम् ।

पौंस्नं वपुर्दर्शयानमनन्यसिद्धै-

रौत्पत्तिकैः समगृणन् युतमष्टभोगैः ॥ ४५॥

 

कुमारा ऊचुः

योऽन्तर्हितो हृदि गतोऽपि दुरात्मनां त्वं

सोऽद्यैव नो नयनमूलमनन्त राद्धः ।

यर्ह्येव कर्णविवरेण गुहां गतो नः

पित्रानुवर्णितरहा भवदुद्भवेन ॥ ४६॥

 

तं त्वां विदाम भगवन् परमात्मतत्त्वं

सत्त्वेन सम्प्रति रतिं रचयन्तमेषाम् ।

तत्तेऽनुतापविदितैर्दृढभक्तियोगै-

रुद्ग्रन्थयो हृदि विदुर्मुनयो विरागाः ॥ ४७॥

 

नात्यन्तिकं विगणयन्त्यपि ते प्रसादं

किन्त्वन्यदर्पितभयं भ्रुव उन्नयैस्ते ।

येऽङ्ग त्वदङ्घ्रिशरणा भवतः कथायाः

कीर्तन्यतीर्थयशसः कुशला रसज्ञाः ॥ ४८॥

 

कामं भवः स्ववृजिनैर्निरयेषु नः स्ता-

च्चेतोऽलिवद्यदि नु ते पदयो रमेत ।

वाचश्च नस्तुलसिवद्यदि तेऽङ्घ्रिशोभाः

पूर्येत ते गुणगणैर्यदि कर्णरन्ध्रः ॥ ४९॥

 

प्रादुश्चकर्थ यदिदं पुरुहूत रूपं

तेनेश निर्वृतिमवापुरलं दृशो नः ।

तस्मा इदं भगवते नम इद्विधेम

योऽनात्मनां दुरुदयो भगवान् प्रतीतः ॥ ५०॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे जयविजययोः सनकादिशापो नाम

पञ्चदशोऽध्यायः ॥ १५॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ षोडशोऽध्यायः - १६ ॥

 

ब्रह्मोवाच

इति तद्गृणतां तेषां मुनीनां योगधर्मिणाम् ।

प्रतिनन्द्य जगादेदं विकुण्ठनिलयो विभुः ॥ १॥

 

श्रीभगवानुवाच

एतौ तौ पार्षदौ मह्यं जयो विजय एव च ।

कदर्थीकृत्य मां यद्वो बह्वक्रातामतिक्रमम् ॥ २॥

 

यस्त्वेतयोर्धृतो दण्डो भवद्भिर्मामनुव्रतैः ।

स एवानुमतोऽस्माभिर्मुनयो देवहेलनात् ॥ ३॥

 

तद्वः प्रसादयाम्यद्य ब्रह्म दैवं परं हि मे ।

तद्धीत्यात्मकृतं मन्ये यत्स्वपुम्भिरसत्कृताः ॥ ४॥

 

यन्नामानि च गृह्णाति लोको भृत्ये कृतागसि ।

सोऽसाधुवादस्तत्कीर्तिं हन्ति त्वचमिवामयः ॥ ५॥

 

यस्यामृतामलयशः श्रवणावगाहः

सद्यः पुनाति जगदाश्वपचाद्विकुण्ठः ।

सोऽहं भवद्भ्य उपलब्धसुतीर्थकीर्ति-

श्छिन्द्यां स्वबाहुमपि वः प्रतिकूलवृत्तिम् ॥ ६॥

 

यत्सेवया चरणपद्मपवित्ररेणुं

सद्यः क्षताखिलमलं प्रतिलब्धशीलम् ।

न श्रीर्विरक्तमपि मां विजहाति यस्याः

प्रेक्षालवार्थ इतरे नियमान् वहन्ति ॥ ७॥

 

नाहं तथाद्मि यजमानहविर्विताने

श्च्योतद्घृतप्लुतमदन् हुतभुङ्मुखेन ।

यद्ब्राह्मणस्य मुखतश्चरतोऽनुघासं

तुष्टस्य मय्यवहितैर्निजकर्मपाकैः ॥ ८॥

 

येषां बिभर्म्यहमखण्डविकुण्ठयोग-

मायाविभूतिरमलाङ्घ्रिरजःकिरीटैः ।

विप्रांस्तु को न विषहेत यदर्हणाम्भः

सद्यः पुनाति सह चन्द्रललाम लोकान् ॥ ९॥

 

ये मे तनूर्द्विजवरान् दुहतीर्मदीया

भूतान्यलब्धशरणानि च भेदबुद्ध्या ।

द्रक्ष्यन्त्यघक्षतदृशो ह्यहिमन्यवस्तान्

गृध्रा रुषा मम कुषन्त्यधिदण्डनेतुः ॥ १०॥

 

ये ब्राह्मणान् मयि धिया क्षिपतोऽर्चयन्तः

तुष्यद्धृदः स्मितसुधोक्षितपद्मवक्त्राः ।

वाण्यानुरागकलयाऽऽत्मजवद्गृणन्तः

सम्बोधयन्त्यहमिवाहमुपाहृतस्तैः ॥ ११॥

 

तन्मे स्वभर्तुरवसायमलक्षमाणौ

युष्मद्व्यतिक्रमगतिं प्रतिपद्य सद्यः ।

भूयो ममान्तिकमितां तदनुग्रहो मे

यत्कल्पतामचिरतो भृतयोर्विवासः ॥ १२॥

 

ब्रह्मोवाच

अथ तस्योशतीं देवीमृषिकुल्यां सरस्वतीम् ।

नास्वाद्य मन्युदष्टानां तेषामात्माप्यतृप्यत ॥ १३॥

 

सतीं व्यादाय श‍ृण्वन्तो लघ्वीं गुर्वर्थगह्वराम् ।

विगाह्यागाधगम्भीरां न विदुस्तच्चिकीर्षितम् ॥ १४॥

 

ते योगमाययाऽऽरब्धपारमेष्ठ्यमहोदयम् ।

प्रोचुः प्राञ्जलयो विप्राः प्रहृष्टाः क्षुभितत्वचः ॥ १५॥

 

ऋषय ऊचुः

न वयं भगवन् विद्मस्तव देव चिकीर्षितम् ।

कृतो मेऽनुग्रहश्चेति यदध्यक्षः प्रभाषसे ॥ १६॥

 

ब्रह्मण्यस्य परं दैवं ब्राह्मणाः किल ते प्रभो ।

विप्राणां देवदेवानां भगवानात्मदैवतम् ॥ १७॥

 

त्वत्तः सनातनो धर्मो रक्ष्यते तनुभिस्तव ।

धर्मस्य परमो गुह्यो निर्विकारो भवान्मतः ॥ १८॥

 

तरन्ति ह्यञ्जसा मृत्युं निवृत्ता यदनुग्रहात् ।

योगिनः स भवान् किं स्विदनुगृह्येत यत्परैः ॥ १९॥

 

यं वै विभूतिरुपयात्यनुवेलमन्यै-

रर्थार्थिभिः स्वशिरसा धृतपादरेणुः ।

धन्यार्पिताङ्घ्रितुलसी नवदामधाम्नो

लोकं मधुव्रतपतेरिव कामयाना ॥ २०॥

 

यस्तां विविक्तचरितैरनुवर्तमानां

नात्याद्रियत्परमभागवतप्रसङ्गः ।

स त्वं द्विजानुपथपुण्यरजःपुनीतः

श्रीवत्सलक्ष्म किमगा भगभाजनस्त्वम् ॥ २१॥

 

धर्मस्य ते भगवतस्त्रियुग त्रिभिः स्वैः

पद्भिश्चराचरमिदं द्विजदेवतार्थम् ।

नूनं भृतं तदभिघाति रजस्तमश्च

सत्त्वेन नो वरदया तनुवा निरस्य ॥ २२॥

 

न त्वं द्विजोत्तमकुलं यदि हात्मगोपं

गोप्ता वृषः स्वर्हणेन स सूनृतेन ।

तर्ह्येव नङ्क्ष्यति शिवस्तव देव पन्था

लोकोऽग्रहीष्यदृषभस्य हि तत्प्रमाणम् ॥ २३॥

 

तत्तेऽनभीष्टमिव सत्त्वनिधेर्विधित्सोः

क्षेमं जनाय निजशक्तिभिरुद्धृतारेः ।

नैतावता त्र्यधिपतेर्बत विश्वभर्तुः

तेजः क्षतं त्ववनतस्य स ते विनोदः ॥ २४॥

 

यं वानयोर्दममधीश भवान् विधत्ते

वृत्तिं नु वा तदनुमन्महि निर्व्यलीकम् ।

अस्मासु वा य उचितो ध्रियतां स दण्डो

येनागसौ वयमयुङ्क्ष्महि किल्बिषेण ॥ २५॥

 

श्रीभगवानुवाच

एतौ सुरेतरगतिं प्रतिपद्य सद्यः

संरम्भसम्भृतसमाध्यनुबद्धयोगौ ।

भूयः सकाशमुपयास्यत आशु यो वः

शापो मयैव निमितस्तदवैत विप्राः ॥ २६॥

 

ब्रह्मोवाच

अथ ते मुनयो दृष्ट्वा नयनानन्दभाजनम् ।

वैकुण्ठं तदधिष्ठानं विकुण्ठं च स्वयम्प्रभम् ॥ २७॥

 

भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च ।

प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम् ॥ २८॥

 

भगवाननुगावाह यातं मा भैष्टमस्तु शम् ।

ब्रह्मतेजः समर्थोऽपि हन्तुं नेच्छे मतं तु मे ॥ २९॥

 

एतत्पुरैव निर्दिष्टं रमया क्रुद्धया यदा ।

पुरापवारिता द्वारि विशन्ती मय्युपारते ॥ ३०॥

 

मयि संरम्भयोगेन निस्तीर्य ब्रह्महेलनम् ।

प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनः ॥ ३१॥

 

द्वाःस्थावादिश्य भगवान् विमानश्रेणिभूषणम् ।

सर्वातिशयया लक्ष्म्या जुष्टं स्वं धिष्ण्यमाविशत् ॥ ३२॥

 

तौ तु गीर्वाणऋषभौ दुस्तराद्धरिलोकतः ।

हतश्रियौ ब्रह्मशापादभूतां विगतस्मयौ ॥ ३३॥

 

तदा विकुण्ठधिषणात्तयोर्निपतमानयोः ।

हाहाकारो महानासीद्विमानाग्र्येषु पुत्रकाः ॥ ३४॥

 

तावेव ह्यधुना प्राप्तौ पार्षदप्रवरौ हरेः ।

दितेर्जठरनिर्विष्टं काश्यपं तेज उल्बणम् ॥ ३५॥

 

तयोरसुरयोरद्य तेजसा यमयोर्हि वः ।

आक्षिप्तं तेज एतर्हि भगवांस्तद्विधित्सति ॥ ३६॥

 

विश्वस्य यः स्थितिलयोद्भवहेतुराद्यो

योगेश्वरैरपि दुरत्यययोगमायः ।

क्षेमं विधास्यति स नो भगवांस्त्र्यधीशः

तत्रास्मदीयविमृशेन कियानिहार्थः ॥ ३७॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां तृतीयस्कन्धे षोडशोऽध्यायः ॥ १६॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ सप्तदशोऽध्यायः - १७ ॥

 

मैत्रेय उवाच

निशम्यात्मभुवा गीतं कारणं शङ्कयोज्झिताः ।

ततः सर्वे न्यवर्तन्त त्रिदिवाय दिवौकसः ॥ १॥

 

दितिस्तु भर्तुरादेशादपत्यपरिशङ्किनी ।

पूर्णे वर्षशते साध्वी पुत्रौ प्रसुषुवे यमौ ॥ २॥

 

उत्पाता बहवस्तत्र निपेतुर्जायमानयोः ।

दिवि भुव्यन्तरिक्षे च लोकस्योरुभयावहाः ॥ ३॥

 

सहाचला भुवश्चेलुर्दिशः सर्वाः प्रजज्वलुः ।

सोल्काश्चाशनयः पेतुः केतवश्चार्तिहेतवः ॥ ४॥

 

ववौ वायुः सुदुःस्पर्शः फूत्कारानीरयन् मुहुः ।

उन्मूलयन्नगपतीन् वात्यानीको रजोध्वजः ॥ ५॥

 

उद्धसत्तडिदम्भोदघटया नष्टभागणे ।

व्योम्नि प्रविष्टतमसा न स्म व्यादृश्यते पदम् ॥ ६॥

 

चुक्रोश विमना वार्धिरुदूर्मिः क्षुभितोदरः ।

सोदपानाश्च सरितश्चुक्षुभुः शुष्कपङ्कजाः ॥ ७॥

 

मुहुः परिधयोऽभूवन् सराह्वोः शशिसूर्ययोः ।

निर्घाता रथनिर्ह्रादा विवरेभ्यः प्रजज्ञिरे ॥ ८॥

 

अन्तर्ग्रामेषु मुखतो वमन्त्यो वह्निमुल्बणम् ।

सृगालोलूकटङ्कारैः प्रणेदुरशिवं शिवाः ॥ ९॥

 

सङ्गीतवद्रोदनवदुन्नमय्य शिरोधराम् ।

व्यमुञ्चन् विविधा वाचो ग्रामसिंहास्ततस्ततः ॥ १०॥

 

खराश्च कर्कशैः क्षत्तः खुरैर्घ्नन्तो धरातलम् ।

खार्काररभसा मत्ताः पर्यधावन् वरूथशः ॥ ११॥

 

रुदन्तो रासभत्रस्ता नीडादुदपतन् खगाः ।

घोषेऽरण्ये च पशवः शकृन्मूत्रमकुर्वत ॥ १२॥

 

गावोऽत्रसन्नसृग्दोहास्तोयदाः पूयवर्षिणः ।

व्यरुदन् देवलिङ्गानि द्रुमाः पेतुर्विनानिलम् ॥ १३॥

 

ग्रहान् पुण्यतमानन्ये भगणांश्चापि दीपिताः ।

अतिचेरुर्वक्रगत्या युयुधुश्च परस्परम् ॥ १४॥

 

दृष्ट्वान्यांश्च महोत्पातानतत्तत्त्वविदः प्रजाः ।

ब्रह्मपुत्रान् ऋते भीता मेनिरे विश्वसम्प्लवम् ॥ १५॥

 

तावादिदैत्यौ सहसा व्यज्यमानात्मपौरुषौ ।

ववृधातेऽश्मसारेण कायेनाद्रिपती इव ॥ १६॥

 

दिविस्पृशौ हेमकिरीटकोटिभिः

निरुद्धकाष्ठौ स्फुरदङ्गदा भुजौ ।

गां कम्पयन्तौ चरणैः पदे पदे

कट्या सुकाञ्च्यार्कमतीत्य तस्थतुः ॥ १७॥

 

प्रजापतिर्नाम तयोरकार्षीद्-

यः प्राक् स्वदेहाद्यमयोरजायत ।

तं वै हिरण्यकशिपुं विदुः प्रजा

यं तं हिरण्याक्षमसूत साग्रतः ॥ १८॥

 

चक्रे हिरण्यकशिपुर्दोर्भ्यां ब्रह्मवरेण च ।

वशे सपालान् लोकांस्त्रीनकुतोमृत्युरुद्धतः ॥ १९॥

 

हिरण्याक्षोऽनुजस्तस्य प्रियः प्रीतिकृदन्वहम् ।

गदापाणिर्दिवं यातो युयुत्सुर्मृगयन् रणम् ॥ २०॥

 

तं वीक्ष्य दुःसहजवं रणत्काञ्चननूपुरम् ।

वैजयन्त्या स्रजा जुष्टमंसन्यस्तमहागदम् ॥ २१॥

 

मनोवीर्यवरोत्सिक्तमसृण्यमकुतोभयम् ।

भीता निलिल्यिरे देवास्तार्क्ष्यत्रस्ता इवाहयः ॥ २२॥

 

स वै तिरोहितान् दृष्ट्वा महसा स्वेन दैत्यराट् ।

सेन्द्रान् देवगणान् क्षीबानपश्यन् व्यनदद्भृशम् ॥ २३॥

 

ततो निवृत्तः क्रीडिष्यन् गम्भीरं भीमनिःस्वनम् ।

विजगाहे महासत्त्वो वार्धिं मत्त इव द्विपः ॥ २४॥

 

तस्मिन् प्रविष्टे वरुणस्य सैनिका

यादोगणाः सन्नधियः ससाध्वसाः ।

अहन्यमाना अपि तस्य वर्चसा

प्रधर्षिता दूरतरं प्रदुद्रुवुः ॥ २५॥

 

स वर्षपूगानुदधौ महाबल-

श्चरन्महोर्मीञ्छ्वसनेरितान् मुहुः ।

मौर्व्याभिजघ्ने गदया विभावरी-

मासेदिवांस्तात पुरीं प्रचेतसः ॥ २६॥

 

तत्रोपलभ्यासुरलोकपालकं

यादोगणानामृषभं प्रचेतसम् ।

स्मयन् प्रलब्धुं प्रणिपत्य नीचव-

ज्जगादमे देह्यधिराज संयुगम् ॥ २७॥

 

त्वं लोकपालोऽधिपतिर्बृहच्छ्रवा

वीर्यापहो दुर्मदवीरमानिनाम् ।

विजित्य लोकेऽखिलदैत्यदानवान्

यद्राजसूयेन पुरायजत्प्रभो ॥ २८॥

 

स एवमुत्सिक्तमदेन विद्विषा

दृढं प्रलब्धो भगवानपाम्पतिः ।

रोषं समुत्थं शमयन् स्वया धिया

व्यवोचदङ्गोपशमं गता वयम् ॥ २९॥

 

पश्यामि नान्यं पुरुषात्पुरातनात्

यः संयुगे त्वां रणमार्गकोविदम् ।

आराधयिष्यत्यसुरर्षभेहि तं

मनस्विनो यं गृणते भवादृशाः ॥ ३०॥

 

तं वीरमारादभिपद्य विस्मयः

शयिष्यसे वीरशये श्वभिर्वृतः ।

यस्त्वद्विधानामसतां प्रशान्तये

रूपाणि धत्ते सदनुग्रहेच्छया ॥ ३१॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे हिरण्याक्षदिग्विजये सप्तदशोऽध्यायः ॥ १७॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ अष्टादशोऽध्यायः - १८ ॥

 

मैत्रेय उवाच

तदेवमाकर्ण्य जलेशभाषितं

महामनास्तद्विगणय्य दुर्मदः ।

हरेर्विदित्वा गतिमङ्ग नारदा-

द्रसातलं निर्विविशे त्वरान्वितः ॥ १॥

 

ददर्श तत्राभिजितं धराधरं

प्रोन्नीयमानावनिमग्रदंष्ट्रया ।

मुष्णन्तमक्ष्णा स्वरुचोऽरुणश्रिया

जहास चाहो वनगोचरो मृगः ॥ २॥

 

आहैनमेह्यज्ञ महीं विमुञ्च नो

रसौकसां विश्वसृजेयमर्पिता ।

न स्वस्ति यास्यस्यनया ममेक्षतः

सुराधमासादितसूकराकृते ॥ ३॥

 

त्वं नः सपत्नैरभवाय किं भृतो

यो मायया हन्त्यसुरान् परोक्षजित् ।

त्वां योगमायाबलमल्पपौरुषं

संस्थाप्य मूढ प्रमृजे सुहृच्छुचः ॥ ४॥

 

त्वयि संस्थिते गदया शीर्णशीर्ष-

ण्यस्मद्भुजच्युतया ये च तुभ्यम् ।

बलिं हरन्त्यृषयो ये च देवाः

स्वयं सर्वे न भविष्यन्त्यमूलाः ॥ ५॥

 

स तुद्यमानोऽरिदुरुक्ततोमरै-

र्दंष्ट्राग्रगां गामुपलक्ष्य भीताम् ।

तोदं मृषन् निरगादम्बुमध्या-

द्ग्राहाहतः स करेणुर्यथेभः ॥ ६॥

 

तं निःसरन्तं सलिलादनुद्रुतो

हिरण्यकेशो द्विरदं यथा झषः ।

करालदंष्ट्रोऽशनिनिस्वनोऽब्रवी-

द्गतह्रियां किं त्वसतां विगर्हितम् ॥ ७॥

 

स गामुदस्तात्सलिलस्य गोचरे

विन्यस्य तस्यामदधात्स्वसत्त्वम् ।

अभिष्टुतो विश्वसृजा प्रसूनै-

रापूर्यमाणो विबुधैः पश्यतोऽरेः ॥ ८॥

 

परानुषक्तं तपनीयोपकल्पं

महागदं काञ्चनचित्रदंशम् ।

मर्माण्यभीक्ष्णं प्रतुदन्तं दुरुक्तैः

प्रचण्डमन्युः प्रहसंस्तं बभाषे ॥ ९॥

 

श्रीभगवानुवाच

सत्यं वयं भो वनगोचरा मृगा

युष्मद्विधान् मृगये ग्रामसिंहान् ।

न मृत्युपाशैः प्रतिमुक्तस्य वीरा

विकत्थनं तव गृह्णन्त्यभद्र ॥ १०॥

 

एते वयं न्यासहरा रसौकसां

गतह्रियो गदया द्रावितास्ते ।

तिष्ठामहेऽथापि कथञ्चिदाजौ

स्थेयं क्व यामो बलिनोत्पाद्य वैरम् ॥ ११॥

 

त्वं पद्रथानां किल यूथपाधिपो

घटस्व नोऽस्वस्तय आश्वनूहः ।

संस्थाप्य चास्मान् प्रमृजाश्रु स्वकानां

यः स्वां प्रतिज्ञां नातिपिपर्त्यसभ्यः ॥ १२॥

 

मैत्रेय उवाच

सोऽधिक्षिप्तो भगवता प्रलब्धश्च रुषा भृशम् ।

आजहारोल्बणं क्रोधं क्रीड्यमानोऽहिराडिव ॥ १३॥

 

सृजन्नमर्षितः श्वासान् मन्युप्रचलितेन्द्रियः ।

आसाद्य तरसा दैत्यो गदयाभ्यहनद्धरिम् ॥ १४॥

 

भगवांस्तु गदावेगं विसृष्टं रिपुणोरसि ।

अवञ्चयत्तिरश्चीनो योगारूढ इवान्तकम् ॥ १५॥

 

पुनर्गदां स्वामादाय भ्रामयन्तमभीक्ष्णशः ।

अभ्यधावद्धरिः क्रुद्धः संरम्भाद्दष्टदच्छदम् ॥ १६॥

 

ततश्च गदयारातिं दक्षिणस्यां भ्रुवि प्रभुः ।

आजघ्ने स तु तां सौम्य गदया कोविदोऽहनत् ॥ १७॥

 

एवं गदाभ्यां गुर्वीभ्यां हर्यक्षो हरिरेव च ।

जिगीषया सुसंरब्धावन्योन्यमभिजघ्नतुः ॥ १८॥

 

तयोः स्पृधोस्तिग्मगदाहताङ्गयोः

क्षतास्रवघ्राणविवृद्धमन्य्वोः ।

विचित्रमार्गांश्चरतोर्जिगीषया

व्यभादिलायामिव शुष्मिणोर्मृधः ॥ १९॥

 

दैत्यस्य यज्ञावयवस्य माया-

गृहीतवाराहतनोर्महात्मनः ।

कौरव्य मह्यां द्विषतोर्विमर्दनं

दिदृक्षुरागादृषिभिर्वृतः स्वराट् ॥ २०॥

 

आसन्नशौण्डीरमपेतसाध्वसं

कृतप्रतीकारमहार्यविक्रमम् ।

विलक्ष्य दैत्यं भगवान् सहस्रणी-

र्जगाद नारायणमादिसूकरम् ॥ २१॥

 

ब्रह्मोवाच

एष ते देव देवानामङ्घ्रिमूलमुपेयुषाम् ।

विप्राणां सौरभेयीणां भूतानामप्यनागसाम् ॥ २२॥

 

आगस्कृद्भयकृद्दुष्कृदस्मद्राद्धवरोऽसुरः ।

अन्वेषन्नप्रतिरथो लोकानटति कण्टकः ॥ २३॥

 

मैनं मायाविनं दृप्तं निरङ्कुशमसत्तमम् ।

आक्रीड बालवद्देव यथाशीविषमुत्थितम् ॥ २४॥

 

न यावदेष वर्धेत स्वां वेलां प्राप्य दारुणः ।

स्वां देव मायामास्थाय तावज्जह्यघमच्युत ॥ २५॥

 

एषा घोरतमा सन्ध्या लोकच्छम्बट्करी प्रभो ।

उपसर्पति सर्वात्मन् सुराणां जयमावह ॥ २६॥

 

अधुनैषोऽभिजिन्नाम योगो मौहूर्तिको ह्यगात् ।

शिवाय नस्त्वं सुहृदामाशु निस्तर दुस्तरम् ॥ २७॥

 

दिष्ट्या त्वां विहितं मृत्युमयमासादितः स्वयम् ।

विक्रम्यैनं मृधे हत्वा लोकानाधेहि शर्मणि ॥ २८॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे हिरण्याक्षवधे अष्टादशोऽध्यायः ॥ १८॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकोनविंशोऽध्यायः - १९ ॥

 

मैत्रेय उवाच

अवधार्य विरिञ्चस्य निर्व्यलीकामृतं वचः ।

प्रहस्य प्रेमगर्भेण तदपाङ्गेन सोऽग्रहीत् ॥ १॥

 

ततः सपत्नं मुखतश्चरन्तमकुतोभयम् ।

जघानोत्पत्य गदया हनावसुरमक्षजः ॥ २॥

 

सा हता तेन गदया विहता भगवत्करात् ।

विघूर्णितापतद्रेजे तदद्भुतमिवाभवत् ॥ ३॥

 

स तदा लब्धतीर्थोऽपि न बबाधे निरायुधम् ।

मानयन् स मृधे धर्मं विष्वक्सेनं प्रकोपयन् ॥ ४॥

 

गदायामपविद्धायां हाहाकारे विनिर्गते ।

मानयामास तद्धर्मं सुनाभं चास्मरद्विभुः ॥ ५॥

 

तं व्यग्रचक्रं दितिपुत्राधमेन

स्वपार्षदमुख्येन विषज्जमानम् ।

चित्रा वाचोऽतद्विदां खेचराणां

तत्र स्मासन् स्वस्ति तेऽमुं जहीति ॥ ६॥

 

स तं निशाम्यात्तरथाङ्गमग्रतो

व्यवस्थितं पद्मपलाशलोचनम् ।

विलोक्य चामर्षपरिप्लुतेन्द्रियो

रुषा स्वदन्तच्छदमादशच्छ्वसन् ॥ ७॥

 

करालदंष्ट्रश्चक्षुर्भ्यां सञ्चक्षाणो दहन्निव ।

अभिप्लुत्य स्वगदया हतोऽसीत्याहनद्धरिम् ॥ ८॥

 

पदा सव्येन तां साधो भगवान् यज्ञसूकरः ।

लीलया मिषतः शत्रोः प्राहरद्वातरंहसम् ॥ ९॥

 

आह चायुधमाधत्स्व घटस्व त्वं जिगीषसि ।

इत्युक्तः स तदा भूयस्ताडयन् व्यनदद्भृशम् ॥ १०॥

 

तां स आपततीं वीक्ष्य भगवान् समवस्थितः ।

जग्राह लीलया प्राप्तां गरुत्मानिव पन्नगीम् ॥ ११॥

 

स्वपौरुषे प्रतिहते हतमानो महासुरः ।

नैच्छद्गदां दीयमानां हरिणा विगतप्रभः ॥ १२॥

 

जग्राह त्रिशिखं शूलं ज्वलज्ज्वलनलोलुपम् ।

यज्ञाय धृतरूपाय विप्रायाभिचरन् यथा ॥ १३॥

 

तदोजसा दैत्यमहाभटार्पितं

चकासदन्तःख उदीर्णदीधिति ।

-चक्रेण चिच्छेद निशातनेमिना

हरिर्यथा तार्क्ष्यपतत्रमुज्झितम् ॥ १४॥

 

वृक्णे स्वशूले बहुधारिणा हरेः

प्रत्येत्य विस्तीर्णमुरो विभूतिमत् ।

प्रवृद्धरोषः स कठोरमुष्टिना

नदन् प्रहृत्यान्तरधीयतासुरः ॥ १५॥

 

तेनेत्थमाहतः क्षत्तर्भगवानादिसूकरः ।

नाकम्पत मनाक् क्वापि स्रजा हत इव द्विपः ॥ १६॥

 

अथोरुधाऽसृजन्मायां योगमायेश्वरे हरौ ।

यां विलोक्य प्रजास्त्रस्ता मेनिरेऽस्योपसंयमम् ॥ १७॥

 

प्रववुर्वायवश्चण्डास्तमः पांसवमैरयन् ।

दिग्भ्यो निपेतुर्ग्रावाणः क्षेपणैः प्रहिता इव ॥ १८॥

 

द्यौर्नष्टभगणाभ्रौघैः सविद्युत्स्तनयित्नुभिः ।

वर्षद्भिः पूयकेशासृग्विण्मूत्रास्थीनि चासकृत् ॥ १९॥

 

गिरयः प्रत्यदृश्यन्त नानायुधमुचोऽनघ ।

दिग्वाससो यातुधान्यः शूलिन्यो मुक्तमूर्धजाः ॥ २०॥

 

बहुभिर्यक्षरक्षोभिः पत्त्यश्वरथकुञ्जरैः ।

आततायिभिरुत्सृष्टा हिंस्रा वाचोऽतिवैशसाः ॥ २१॥

 

प्रादुष्कृतानां मायानामासुरीणां विनाशयत् ।

सुदर्शनास्त्रं भगवान् प्रायुङ्क्त दयितं त्रिपात् ॥ २२॥

 

तदा दितेः समभवत्सहसा हृदि वेपथुः ।

स्मरन्त्या भर्तुरादेशं स्तनाच्चासृक् प्रसुस्रुवे ॥ २३॥

 

विनष्टासु स्वमायासु भूयश्चाव्रज्य केशवम् ।

रुषोपगूहमानोऽमुं ददृशेऽवस्थितं बहिः ॥ २४॥

 

तं मुष्टिभिर्विनिघ्नन्तं वज्रसारैरधोक्षजः ।

करेण कर्णमूलेऽहन् यथा त्वाष्ट्रं मरुत्पतिः ॥ २५॥

 

स आहतो विश्वजिता ह्यवज्ञया

परिभ्रमद्गात्र उदस्तलोचनः ।

विशीर्णबाह्वङ्घ्रिशिरोरुहोऽपत-

द्यथा नगेन्द्रो लुलितो नभस्वता ॥ २६॥

 

क्षितौ शयानं तमकुण्ठवर्चसं

करालदंष्ट्रं परिदष्टदच्छदम् ।

अजादयो वीक्ष्य शशंसुरागता

अहो इमं को नु लभेत संस्थितिम् ॥ २७॥

 

यं योगिनो योगसमाधिना रहो

ध्यायन्ति लिङ्गादसतो मुमुक्षया ।

तस्यैष दैत्यऋषभः पदाहतो

मुखं प्रपश्यंस्तनुमुत्ससर्ज ह ॥ २८॥

 

एतौ तौ पार्षदावस्य शापाद्यातावसद्गतिम् ।

पुनः कतिपयैः स्थानं प्रपत्स्येते ह जन्मभिः ॥ २९॥

 

देवा ऊचुः

नमो नमस्तेऽखिलयज्ञतन्तवे

स्थितौ गृहीतामलसत्त्वमूर्तये ।

दिष्ट्या हतोऽयं जगतामरुन्तुदः

त्वत्पादभक्त्या वयमीश निर्वृताः ॥ ३०॥

 

मैत्रेय उवाच

एवं हिरण्याक्षमसह्यविक्रमं

स सादयित्वा हरिरादिसूकरः ।

जगाम लोकं स्वमखण्डितोत्सवं

समीडितः पुष्करविष्टरादिभिः ॥ ३१॥

 

मया यथानूक्तमवादि ते हरेः

कृतावतारस्य सुमित्रचेष्टितम् ।

यथा हिरण्याक्ष उदारविक्रमो

महामृधे क्रीडनवन्निराकृतः ॥ ३२॥

 

सूत उवाच

इति कौषारवाख्यातामाश्रुत्य भगवत्कथाम् ।

क्षत्ताऽऽनन्दं परं लेभे महाभागवतो द्विज ॥ ३३॥

 

अन्येषां पुण्यश्लोकानामुद्दामयशसां सताम् ।

उपश्रुत्य भवेन्मोदः श्रीवत्साङ्कस्य किं पुनः ॥ ३४॥

 

यो गजेन्द्रं झषग्रस्तं ध्यायन्तं चरणाम्बुजम् ।

क्रोशन्तीनां करेणूनां कृच्छ्रतोऽमोचयद्द्रुतम् ॥ ३५॥

 

तं सुखाराध्यमृजुभिरनन्यशरणैर्नृभिः ।

कृतज्ञः को न सेवेत दुराराध्यमसाधुभिः ॥ ३६॥

 

यो वै हिरण्याक्षवधं महाद्भुतं

विक्रीडितं कारणसूकरात्मनः ।

श‍ृणोति गायत्यनुमोदतेऽञ्जसा

विमुच्यते ब्रह्मवधादपि द्विजाः ॥ ३७॥

 

एतन्महापुण्यमलं पवित्रं

धन्यं यशस्यं पदमायुराशिषाम् ।

प्राणेन्द्रियाणां युधि शौर्यवर्धनं

नारायणोऽन्ते गतिरङ्ग श‍ृण्वताम् ॥ ३८॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे हिरण्याक्षवधो नामैकोनविंशोऽध्यायः ॥ १९॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ विंशोऽध्यायः - २० ॥

 

शौनक उवाच

महीं प्रतिष्ठामध्यस्य सौते स्वायम्भुवो मनुः ।

कान्यन्वतिष्ठद्द्वाराणि मार्गायावरजन्मनाम् ॥ १॥

 

क्षत्ता महाभागवतः कृष्णस्यैकान्तिकः सुहृत् ।

यस्तत्याजाग्रजं कृष्णे सापत्यमघवानिति ॥ २॥

 

द्वैपायनादनवरो महित्वे तस्य देहजः ।

सर्वात्मना श्रितः कृष्णं तत्परांश्चाप्यनुव्रतः ॥ ३॥

 

किमन्वपृच्छन्मैत्रेयं विरजास्तीर्थसेवया ।

उपगम्य कुशावर्त आसीनं तत्त्ववित्तमम् ॥ ४॥

 

तयोः संवदतोः सूत प्रवृत्ता ह्यमलाः कथाः ।

आपो गाङ्गा इवाघघ्नीर्हरेः पादाम्बुजाश्रयाः ॥ ५॥

 

ता नः कीर्तय भद्रं ते कीर्तन्योदारकर्मणः ।

रसज्ञः को नु तृप्येत हरिलीलामृतं पिबन् ॥ ६॥

 

एवमुग्रश्रवाः पृष्टः ऋषिभिर्नैमिषायनैः ।

भगवत्यर्पिताध्यात्मस्तानाह श्रूयतामिति ॥ ७॥

 

सूत उवाच

हरेर्धृतक्रोडतनोः स्वमायया

निशम्य गोरुद्धरणं रसातलात् ।

लीलां हिरण्याक्षमवज्ञया हतं

सञ्जातहर्षो मुनिमाह भारतः ॥ ८॥

 

विदुर उवाच

प्रजापतिपतिः सृष्ट्वा प्रजासर्गे प्रजापतीन् ।

किमारभत मे ब्रह्मन् प्रब्रूह्यव्यक्तमार्गवित् ॥ ९॥

 

ये मरीच्यादयो विप्रा यस्तु स्वायम्भुवो मनुः ।

ते वै ब्रह्मण आदेशात्कथमेतदभावयन् ॥ १०॥

 

सद्वितीयाः किमसृजन् स्वतन्त्रा उत कर्मसु ।

आहोस्वित्संहताः सर्व इदं स्म समकल्पयन् ॥ ११॥

 

मैत्रेय उवाच

दैवेन दुर्वितर्क्येण परेणानिमिषेण च ।

जातक्षोभाद्भगवतो महानासीद्गुणत्रयात् ॥ १२॥

 

रजःप्रधानान् महतस्त्रिलिङ्गो दैवचोदितात् ।

जातः ससर्ज भूतादिर्वियदादीनि पञ्चशः ॥ १३॥

 

तानि चैकैकशः स्रष्टुमसमर्थानि भौतिकम् ।

संहत्य दैवयोगेन हैममण्डमवासृजन् ॥ १४॥

 

सोऽशयिष्टाब्धिसलिले आण्डकोशो निरात्मकः ।

साग्रं वै वर्षसाहस्रमन्ववात्सीत्तमीश्वरः ॥ १५॥

 

तस्य नाभेरभूत्पद्मं सहस्रार्कोरुदीधिति ।

सर्वजीवनिकायौको यत्र स्वयमभूत्स्वराट् ॥ १६॥

 

सोऽनुविष्टो भगवता यः शेते सलिलाशये ।

लोकसंस्थां यथापूर्वं निर्ममे संस्थया स्वया ॥ १७॥

 

ससर्जच्छायया विद्यां पञ्च पर्वाणमग्रतः ।

तामिस्रमन्धतामिस्रं तमो मोहो महातमः ॥ १८॥

 

विससर्जात्मनः कायं नाभिनन्दंस्तमोमयम् ।

जगृहुर्यक्षरक्षांसि रात्रिं क्षुत्तृट्समुद्भवाम् ॥ १९॥

 

क्षुत्तृड्भ्यामुपसृष्टास्ते तं जग्धुमभिदुद्रुवुः ।

मा रक्षतैनं जक्षध्वमित्यूचुः क्षुत्तृडर्दिताः ॥ २०॥

 

देवस्तानाह संविग्नो मा मां जक्षत रक्षत ।

अहो मे यक्षरक्षांसि प्रजा यूयं बभूविथ ॥ २१॥

 

देवताः प्रभया या या दीव्यन् प्रमुखतोऽसृजत् ।

ते अहार्षुर्देवयन्तो विसृष्टां तां प्रभामहः ॥ २२॥

 

देवोऽदेवाञ्जघनतः सृजति स्मातिलोलुपान् ।

त एनं लोलुपतया मैथुनायाभिपेदिरे ॥ २३॥

 

ततो हसन् स भगवानसुरैर्निरपत्रपैः ।

अन्वीयमानस्तरसा क्रुद्धो भीतः परापतत् ॥ २४॥

 

स उपव्रज्य वरदं प्रपन्नार्तिहरं हरिम् ।

अनुग्रहाय भक्तानामनुरूपात्मदर्शनम् ॥ २५॥

 

पाहि मां परमात्मंस्ते प्रेषणेनासृजं प्रजाः ।

ता इमा यभितुं पापा उपाक्रामन्ति मां प्रभो ॥ २६॥

 

त्वमेकः किल लोकानां क्लिष्टानां क्लेशनाशनः ।

त्वमेकः क्लेशदस्तेषामनासन्नपदां तव ॥ २७॥

 

सोऽवधार्यास्य कार्पण्यं विविक्ताध्यात्मदर्शनः ।

विमुञ्चात्मतनुं घोरामित्युक्तो विमुमोच ह ॥ २८॥

 

तां क्वणच्चरणाम्भोजां मदविह्वललोचनाम् ।

काञ्चीकलापविलसद्दुकूलच्छन्नरोधसम् ॥ २९॥

 

अन्योन्यश्लेषयोत्तुङ्गनिरन्तरपयोधराम् ।

सुनासां सुद्विजां स्निग्द्धहासलीलावलोकनाम् ॥ ३०॥

 

गूहन्तीं व्रीडयाऽऽत्मानं नीलालकवरूथिनीम् ।

उपलभ्यासुरा धर्म सर्वे सम्मुमुहुः स्त्रियम् ॥ ३१॥

 

अहो रूपमहो धैर्यमहो अस्या नवं वयः ।

मध्ये कामयमानानामकामेव विसर्पति ॥ ३२॥

 

वितर्कयन्तो बहुधा तां सन्ध्यां प्रमदाकृतिम् ।

अभिसम्भाव्य विश्रम्भात्पर्यपृच्छन् कुमेधसः ॥ ३३॥

 

कासि कस्यासि रम्भोरु को वार्थस्तेऽत्र भामिनि ।

रूपद्रविणपण्येन दुर्भगान्नो विबाधसे ॥ ३४॥

 

या वा काचित्त्वमबले दिष्ट्या सन्दर्शनं तव ।

उत्सुनोषीक्षमाणानां कन्दुकक्रीडया मनः ॥ ३५॥

 

नैकत्र ते जयति शालिनि पादपद्मं

घ्नन्त्या मुहुः करतलेन पतत्पतङ्गम् ।

मध्यं विषीदति बृहत्स्तनभारभीतं

शान्तेव दृष्टिरमला सुशिखासमूहः ॥ ३६॥

 

इति सायन्तनीं सन्ध्यामसुराः प्रमदायतीम् ।

प्रलोभयन्तीं जगृहुर्मत्वा मूढधियः स्त्रियम् ॥ ३७॥

 

प्रहस्य भावगम्भीरं जिघ्रन्त्यात्मानमात्मना ।

कान्त्या ससर्ज भगवान् गन्धर्वाप्सरसां गणान् ॥ ३८॥

 

विससर्ज तनुं तां वै ज्योत्स्नां कान्तिमतीं प्रियाम् ।

त एव चाददुः प्रीत्या विश्वावसुपुरोगमाः ॥ ३९॥

 

सृष्ट्वा भूतपिशाचांश्च भगवानात्मतन्द्रिणा ।

दिग्वाससो मुक्तकेशान् वीक्ष्य चामीलयद्दृशौ ॥ ४०॥

 

जगृहुस्तद्विसृष्टां तां जृम्भणाख्यां तनुं प्रभोः ।

निद्रामिन्द्रियविक्लेदो यया भूतेषु दृश्यते ।

येनोच्छिष्टान् धर्षयन्ति तमुन्मादं प्रचक्षते ॥ ४१॥

 

ऊर्जस्वन्तं मन्यमान आत्मानं भगवानजः ।

साध्यान् गणान् पितृगणान् परोक्षेणासृजत्प्रभुः ॥ ४२॥

 

त आत्मसर्गं तं कायं पितरः प्रतिपेदिरे ।

साध्येभ्यश्च पितृभ्यश्च कवयो यद्वितन्वते ॥ ४३॥

 

सिद्धान् विद्याधरांश्चैव तिरोधानेन सोऽसृजत् ।

तेभ्योऽददात्तमात्मानमन्तर्धानाख्यमद्भुतम् ॥ ४४॥

 

स किन्नरान् किम्पुरुषान् प्रत्यात्म्येनासृजत्प्रभुः ।

मानयन्नात्मनाऽऽत्मानमात्माभासं विलोकयन् ॥ ४५॥

 

ते तु तज्जगृहू रूपं त्यक्तं यत्परमेष्ठिना ।

मिथुनीभूय गायन्तस्तमेवोषसि कर्मभिः ॥ ४६॥

 

देहेन वै भोगवता शयानो बहुचिन्तया ।

सर्गेऽनुपचिते क्रोधादुत्ससर्ज ह तद्वपुः ॥ ४७॥

 

येऽहीयन्तामुतः केशा अहयस्तेऽङ्ग जज्ञिरे ।

सर्पाः प्रसर्पतः क्रूरा नागा भोगोरुकन्धराः ॥ ४८॥

 

स आत्मानं मन्यमानः कृतकृत्यमिवात्मभूः ।

तदा मनून् ससर्जान्ते मनसा लोकभावनान् ॥ ४९॥

 

तेभ्यः सोऽसृजत्स्वीयं पुरं पुरुषमात्मवान् ।

तान् दृष्ट्वा ये पुरा सृष्टाः प्रशशंसुः प्रजापतिम् ॥ ५०॥

 

अहो एतज्जगत्स्रष्टः सुकृतं बत ते कृतम् ।

प्रतिष्ठिताः क्रिया यस्मिन् साकमन्नमदामहे ॥ ५१॥

 

तपसा विद्यया युक्तो योगेन सुसमाधिना ।

ऋषीन् ऋषिर्हृषीकेशः ससर्जाभिमताः प्रजाः ॥ ५२॥

 

तेभ्यश्चैकैकशः स्वस्य देहस्यांशमदादजः ।

यत्तत्समाधियोगर्द्धितपोविद्याविरक्तिमत् ॥ ५३॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां तृतीयस्कन्धे विंशोऽध्यायः ॥ २०॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकविंशोऽध्यायः - २१ ॥

 

विदुर उवाच

स्वायम्भुवस्य च मनोर्वंशः परमसम्मतः ।

कथ्यतां भगवन् यत्र मैथुनेनैधिरे प्रजाः ॥ १॥

 

प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य वै ।

यथाधर्मं जुगुपतुः सप्तद्वीपवतीं महीम् ॥ २॥

 

तस्य वै दुहिता ब्रह्मन् देवहूतीति विश्रुता ।

पत्नी प्रजापतेरुक्ता कर्दमस्य त्वयानघ ॥ ३॥

 

तस्यां स वै महायोगी युक्तायां योगलक्षणैः ।

ससर्ज कतिधा वीर्यं तन्मे शुश्रूषवे वद ॥ ४॥

 

रुचिर्यो भगवान् ब्रह्मन् दक्षो वा ब्रह्मणः सुतः ।

यथा ससर्ज भूतानि लब्ध्वा भार्यां च मानवीम् ॥ ५॥

 

मैत्रेय उवाच

प्रजाः सृजेति भगवान् कर्दमो ब्रह्मणोदितः ।

सरस्वत्यां तपस्तेपे सहस्राणां समा दश ॥ ६॥

 

ततः समाधियुक्तेन क्रियायोगेन कर्दमः ।

सम्प्रपेदे हरिं भक्त्या प्रपन्नवरदाशुषम् ॥ ७॥

 

तावत्प्रसन्नो भगवान् पुष्कराक्षः कृते युगे ।

दर्शयामास तं क्षत्तः शाब्दं ब्रह्म दधद्वपुः ॥ ८॥

 

स तं विरजमर्काभं सितपद्मोत्पलस्रजम् ।

स्निग्द्धनीलालकव्रातवक्त्राब्जं विरजोऽम्बरम् ॥ ९॥

 

किरीटिनं कुण्डलिनं शङ्खचक्रगदाधरम् ।

श्वेतोत्पलक्रीडनकं मनःस्पर्शस्मितेक्षणम् ॥ १०॥

 

विन्यस्तचरणाम्भोजमंसदेशे गरुत्मतः ।

दृष्ट्वा खेऽवस्थितं वक्षःश्रियं कौस्तुभकन्धरम् ॥ ११॥

 

जातहर्षोऽपतन्मूर्ध्ना क्षितौ लब्धमनोरथः ।

गीर्भिस्त्वभ्यगृणात्प्रीतिस्वभावात्मा कृताञ्जलिः ॥ १२॥

 

ऋषिरुवाच

जुष्टं बताद्याखिलसत्त्वराशेः

सांसिद्ध्यमक्ष्णोस्तव दर्शनान्नः ।

यद्दर्शनं जन्मभिरीड्य सद्भि-

राशासते योगिनो रूढयोगाः ॥ १३॥

 

ये मायया ते हतमेधसस्त्व-

त्पादारविन्दं भवसिन्धुपोतम् ।

उपासते कामलवाय तेषां

रासीश कामान्निरयेऽपि ये स्युः ॥ १४॥

 

तथा स चाहं परिवोढुकामः

समानशीलां गृहमेधधेनुम् ।

उपेयिवान् मूलमशेषमूलं

दुराशयः कामदुघाङ्घ्रिपस्य ॥ १५॥

 

प्रजापतेस्ते वचसाधीश तन्त्या

लोकः किलायं कामहतोऽनुबद्धः ।

अहं च लोकानुगतो वहामि

बलिं च शुक्लानिमिषाय तुभ्यम् ॥ १६॥

 

लोकांश्च लोकानुगतान् पशूंश्च

हित्वा श्रितास्ते चरणातपत्रम् ।

परस्परं त्वद्गुणवादसीधु-

पीयूषनिर्यापितदेहधर्माः ॥ १७॥

 

न तेऽजराक्षभ्रमिरायुरेषां

त्रयोदशारं त्रिशतं षष्टिपर्व ।

षण्नेम्यनन्तच्छदि यत्त्रिणाभि-

करालस्रोतो जगदाच्छिद्य धावत् ॥ १८॥

 

एकः स्वयं सन् जगतः सिसृक्षया

द्वितीययाऽऽत्मन्नधियोगमायया ।

सृजस्यदः पासि पुनर्ग्रसिष्यसे

यथोर्णनाभिर्भगवन् स्वशक्तिभिः ॥ १९॥

 

नैतद्बताधीश पदं तवेप्सितं

यन्मायया नस्तनुषे भूतसूक्ष्मम् ।

अनुग्रहायास्त्वपि यर्हि मायया

लसत्तुलस्या तनुवा विलक्षितः ॥ २०॥

 

तं त्वानुभूत्योपरतक्रियार्थं

स्वमायया वर्तितलोकतन्त्रम् ।

नमाम्यभीक्ष्णं नमनीयपाद-

सरोजमल्पीयसि कामवर्षम् ॥ २१॥

 

ऋषिरुवाच

इत्यव्यलीकं प्रणुतोऽब्जनाभ-

स्तमाबभाषे वचसामृतेन ।

सुपर्णपक्षोपरि रोचमानः

प्रेमस्मितोद्वीक्षणविभ्रमद्भ्रूः ॥ २२॥

 

श्रीभगवानुवाच

विदित्वा तव चैत्यं मे पुरैव समयोजि तत् ।

यदर्थमात्मनियमैस्त्वयैवाहं समर्चितः ॥ २३॥

 

न वै जातु मृषैव स्यात्प्रजाध्यक्ष मदर्हणम् ।

भवद्विधेष्वतितरां मयि सङ्गृभितात्मनाम् ॥ २४॥

 

प्रजापतिसुतः सम्राण्मनुर्विख्यातमङ्गलः ।

ब्रह्मावर्तं योऽधिवसन् शास्ति सप्तार्णवां महीम् ॥ २५॥

 

स चेह विप्र राजर्षिर्महिष्या शतरूपया ।

आयास्यति दिदृक्षुस्त्वां परश्वो धर्मकोविदः ॥ २६॥

 

आत्मजामसितापाङ्गीं वयःशीलगुणान्विताम् ।

मृगयन्तीं पतिं दास्यत्यनुरूपाय ते प्रभो ॥ २७॥

 

समाहितं ते हृदयं यत्रेमान् परिवत्सरान् ।

सा त्वां ब्रह्मन् नृपवधूः काममाशु भजिष्यति ॥ २८॥

 

या त आत्मभृतं वीर्यं नवधा प्रसविष्यति ।

वीर्ये त्वदीये ऋषय आधास्यन्त्यञ्जसाऽऽत्मनः ॥ २९॥

 

त्वं च सम्यगनुष्ठाय निदेशं म उशत्तमः ।

मयि तीर्थीकृताशेषक्रियार्थो मां प्रपत्स्यसे ॥ ३०॥

 

कृत्वा दयां च जीवेषु दत्त्वा चाभयमात्मवान् ।

मय्यात्मानं सह जगद्द्रक्ष्यस्यात्मनि चापि माम् ॥ ३१॥

 

सहाहं स्वांशकलया त्वद्वीर्येण महामुने ।

तव क्षेत्रे देवहूत्यां प्रणेष्ये तत्त्वसंहिताम् ॥ ३२॥

 

मैत्रेय उवाच

एवं तमनुभाष्याथ भगवान् प्रत्यगक्षजः ।

जगाम बिन्दुसरसः सरस्वत्या परिश्रितात् ॥ ३३॥

 

निरीक्षतस्तस्य ययावशेष-

सिद्धेश्वराभिष्टुतसिद्धमार्गः ।

आकर्णयन् पत्ररथेन्द्रपक्षै-

रुच्चारितं स्तोममुदीर्णसाम ॥ ३४॥

 

अथ सम्प्रस्थिते शुक्ले कर्दमो भगवान् ऋषिः ।

आस्ते स्म बिन्दुसरसि तं कालं प्रतिपालयन् ॥ ३५॥

 

मनुः स्यन्दनमास्थाय शातकौम्भपरिच्छदम् ।

आरोप्य स्वां दुहितरं सभार्यः पर्यटन् महीम् ॥ ३६॥

 

तस्मिन् सुधन्वन्नहनि भगवान् यत्समादिशत् ।

उपायादाश्रमपदं मुनेः शान्तव्रतस्य तत् ॥ ३७॥

 

यस्मिन् भगवतो नेत्रान्न्यपतन्नश्रुबिन्दवः ।

कृपया सम्परीतस्य प्रपन्नेऽर्पितया भृशम् ॥ ३८॥

 

तद्वै बिन्दुसरो नाम सरस्वत्या परिप्लुतम् ।

पुण्यं शिवामृतजलं महर्षिगणसेवितम् ॥ ३९॥

 

पुण्यद्रुमलताजालैः कूजत्पुण्यमृगद्विजैः ।

सर्वर्तुफलपुष्पाढ्यं वनराजिश्रियान्वितम् ॥ ४०॥

 

मत्तद्विजगणैर्घुष्टं मत्तभ्रमरविभ्रमम् ।

मत्तबर्हिनटाटोपमाह्वयन् मत्तकोकिलम् ॥ ४१॥

 

कदम्बचम्पकाशोककरञ्जबकुलासनैः ।

कुन्दमन्दारकुटजैश्चूतपोतैरलङ्कृतम् ॥ ४२॥

 

कारण्डवैः प्लवैर्हंसैः कुररैर्जलकुक्कुटैः ।

सारसैश्चक्रवाकैश्च चकोरैर्वल्गु कूजितम् ॥ ४३॥

 

तथैव हरिणैः क्रोडैः श्वाविद्गवयकुञ्जरैः ।

गोपुच्छैर्हरिभिर्मर्कैर्नकुलैर्नाभिभिर्वृतम् ॥ ४४॥

 

प्रविश्य तत्तीर्थवरमादिराजः सहात्मजः ।

ददर्श मुनिमासीनं तस्मिन् हुतहुताशनम् ॥ ४५॥

 

विद्योतमानं वपुषा तपस्युग्रयुजा चिरम् ।

नातिक्षामं भगवतः स्निग्धापाङ्गावलोकनात् ।

तद्व्याहृतामृतकलापीयूषश्रवणेन च ॥ ४६॥

 

प्रांशुं पद्मपलाशाक्षं जटिलं चीरवाससम् ।

उपसंश्रित्य मलिनं यथार्हणमसंस्कृतम् ॥ ४७॥

 

अथोटजमुपायातं नृदेवं प्रणतं पुरः ।

सपर्यया पर्यगृह्णात्प्रतिनन्द्यानुरूपया ॥ ४८॥

 

गृहीतार्हणमासीनं संयतं प्रीणयन् मुनिः ।

स्मरन् भगवदादेशमित्याह श्लक्ष्णया गिरा ॥ ४९॥

 

नूनं चङ्क्रमणं देव सतां संरक्षणाय ते ।

वधाय चासतां यस्त्वं हरेः शक्तिर्हि पालिनी ॥ ५०॥

 

योऽर्केन्द्वग्नीन्द्रवायूनां यमधर्मप्रचेतसाम् ।

रूपाणि स्थान आधत्से तस्मै शुक्लाय ते नमः ॥ ५१॥

 

न यदा रथमास्थाय जैत्रं मणिगणार्पितम् ।

विस्फूर्जच्चण्डकोदण्डो रथेन त्रासयन्नघान् ॥ ५२॥

 

स्वसैन्यचरणक्षुण्णं वेपयन् मण्डलं भुवः ।

विकर्षन् बृहतीं सेनां पर्यटस्यंशुमानिव ॥ ५३॥

 

तदैव सेतवः सर्वे वर्णाश्रमनिबन्धनाः ।

भगवद्रचिता राजन् भिद्येरन् बत दस्युभिः ॥ ५४॥

 

अधर्मश्च समेधेत लोलुपैर्व्यङ्कुशैर्नृभिः ।

शयाने त्वयि लोकोऽयं दस्युग्रस्तो विनङ्क्ष्यति ॥ ५५॥

 

अथापि पृच्छे त्वां वीर यदर्थं त्वमिहागतः ।

तद्वयं निर्व्यलीकेन प्रतिपद्यामहे हृदा ॥ ५६॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां तृतीयस्कन्धे एकविंशोऽध्यायः ॥ २१॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ द्वाविंशोऽध्यायः - २२ ॥

 

मैत्रेय उवाच

एवमाविष्कृताशेषगुणकर्मोदयो मुनिम् ।

सव्रीड इव तं सम्राडुपारतमुवाच ह ॥ १॥

 

मनुरुवाच

ब्रह्मासृजत्स्वमुखतो युष्मानात्मपरीप्सया ।

छन्दोमयस्तपोविद्यायोगयुक्तानलम्पटान् ॥ २॥

 

तत्त्राणायासृजच्चास्मान् दोःसहस्रात्सहस्रपात् ।

हृदयं तस्य हि ब्रह्म क्षत्रमङ्गं प्रचक्षते ॥ ३॥

 

अतो ह्यन्योन्यमात्मानं ब्रह्म क्षत्रं च रक्षतः ।

रक्षति स्माव्ययो देवः स यः सदसदात्मकः ॥ ४॥

 

तव सन्दर्शनादेव च्छिन्ना मे सर्वसंशयाः ।

यत्स्वयं भगवान् प्रीत्या धर्ममाह रिरक्षिषोः ॥ ५॥

 

दिष्ट्या मे भगवान् दृष्टो दुर्दर्शो योऽकृतात्मनाम् ।

दिष्ट्या पादरजः स्पृष्टं शीर्ष्णा मे भवतः शिवम् ॥ ६॥

 

दिष्ट्या त्वयानुशिष्टोऽहं कृतश्चानुग्रहो महान् ।

अपावृतैः कर्णरन्ध्रैर्जुष्टा दिष्ट्योशतीर्गिरः ॥ ७॥

 

स भवान् दुहितृस्नेहपरिक्लिष्टात्मनो मम ।

श्रोतुमर्हसि दीनस्य श्रावितं कृपया मुने ॥ ८॥

 

प्रियव्रतोत्तानपदोः स्वसेयं दुहिता मम ।

अन्विच्छति पतिं युक्तं वयःशीलगुणादिभिः ॥ ९॥

 

यदा तु भवतः शीलश्रुतरूपवयोगुणान् ।

अश‍ृणोन्नारदादेषा त्वय्यासीत्कृतनिश्चया ॥ १०॥

 

तत्प्रतीच्छ द्विजाग्र्येमां श्रद्धयोपहृतां मया ।

सर्वात्मनानुरूपां ते गृहमेधिषु कर्मसु ॥ ११॥

 

उद्यतस्य हि कामस्य प्रतिवादो न शस्यते ।

अपि निर्मुक्तसङ्गस्य कामरक्तस्य किं पुनः ॥ १२॥

 

य उद्यतमनादृत्य कीनाशमभियाचते ।

क्षीयते तद्यशः स्फीतं मानश्चावज्ञया हतः ॥ १३॥

 

अहं त्वाश‍ृणवं विद्वन् विवाहार्थं समुद्यतम् ।

अतस्त्वमुपकुर्वाणः प्रत्तां प्रतिगृहाण मे ॥ १४॥

 

ऋषिरुवाच

बाढमुद्वोढुकामोऽहमप्रत्ता च तवात्मजा ।

आवयोरनुरूपोऽसावाद्यो वैवाहिको विधिः ॥ १५॥

 

कामः स भूयान्नरदेव तेऽस्याः

पुत्र्याः समाम्नायविधौ प्रतीतः ।

क एव ते तनयां नाद्रियेत

स्वयैव कान्त्या क्षिपतीमिव श्रियम् ॥ १६॥

 

यां हर्म्यपृष्ठे क्वणदङ्घ्रिशोभां

विक्रीडतीं कन्दुकविह्वलाक्षीम् ।

विश्वावसुर्न्यपतत्स्वाद्विमाना-

द्विलोक्य सम्मोहविमूढचेताः ॥ १७॥

 

तां प्रार्थयन्तीं ललनाललाम-

मसेवितश्रीचरणैरदृष्टाम् ।

वत्सां मनोरुच्चपदः स्वसारं

को नानुमन्येत बुधोऽभियाताम् ॥ १८॥

 

अतो भजिष्ये समयेन साध्वीं

यावत्तेजो बिभृयादात्मनो मे ।

अतो धर्मान् पारमहंस्यमुख्यान्

शुक्लप्रोक्तान् बहु मन्येऽविहिंस्रान् ॥ १९॥

 

यतोऽभवद्विश्वमिदं विचित्रं

संस्थास्यते यत्र च वावतिष्ठते ।

प्रजापतीनां पतिरेष मह्यं

परं प्रमाणं भगवाननन्तः ॥ २०॥

 

मैत्रेय उवाच

स उग्रधन्वन्नियदेवाबभाषे

आसीच्च तूष्णीमरविन्दनाभम् ।

धियोपगृह्णन् स्मितशोभितेन

मुखेन चेतो लुलुभे देवहूत्याः ॥ २१॥

 

सोऽनुज्ञात्वा व्यवसितं महिष्या दुहितुः स्फुटम् ।

तस्मै गुणगणाढ्याय ददौ तुल्यां प्रहर्षितः ॥ २२॥

 

शतरूपा महाराज्ञी पारिबर्हान् महाधनान् ।

दम्पत्योः पर्यदात्प्रीत्या भूषावासः परिच्छदान् ॥ २३॥

 

प्रत्तां दुहितरं सम्राट् सदृक्षाय गतव्यथः ।

उपगुह्य च बाहुभ्यामौत्कण्ठ्योन्मथिताशयः ॥ २४॥

 

अशक्नुवंस्तद्विरहं मुञ्चन् बाष्पकलां मुहुः ।

आसिञ्चदम्ब वत्सेति नेत्रोदैर्दुहितुः शिखाः ॥ २५॥

 

आमन्त्र्य तं मुनिवरमनुज्ञातः सहानुगः ।

प्रतस्थे रथमारुह्य सभार्यः स्वपुरं नृपः ॥ २६॥

 

उभयोः ऋषिकुल्यायाः सरस्वत्याः सुरोधसोः ।

ऋषीणामुपशान्तानां पश्यन्नाश्रमसम्पदः ॥ २७॥

 

तमायान्तमभिप्रेत्य ब्रह्मावर्तात्प्रजाः पतिम् ।

गीतसंस्तुतिवादित्रैः प्रत्युदीयुः प्रहर्षिताः ॥ २८॥

 

बर्हिष्मती नाम पुरी सर्वसम्पत्समन्विता ।

न्यपतन् यत्र रोमाणि यज्ञस्याङ्गं विधुन्वतः ॥ २९॥

 

कुशाः काशास्त एवासन् शश्वद्धरितवर्चसः ।

ऋषयो यैः पराभाव्य यज्ञघ्नान्यज्ञमीजिरे ॥ ३०॥

 

कुशकाशमयं बर्हिरास्तीर्य भगवान् मनुः ।

अयजद्यज्ञपुरुषं लब्धा स्थानं यतो भुवम् ॥ ३१॥

 

बर्हिष्मतीं नाम विभुर्यां निर्विश्य समावसत् ।

तस्यां प्रविष्टो भवनं तापत्रयविनाशनम् ॥ ३२॥

 

सभार्यः सप्रजः कामान् बुभुजेऽन्याविरोधतः ।

सङ्गीयमानसत्कीर्तिः सस्त्रीभिः सुरगायकैः ।

प्रत्यूषेष्वनुबद्धेन हृदा श‍ृण्वन् हरेः कथाः ॥ ३३॥

 

निष्णातं योगमायासु मुनिं स्वायम्भुवं मनुम् ।

यदा भ्रंशयितुं भोगा न शेकुर्भगवत्परम् ॥ ३४॥

 

अयातयामास्तस्यासन् यामाः स्वान्तरयापनाः ।

श‍ृण्वतो ध्यायतो विष्णोः कुर्वतो ब्रुवतः कथाः ॥ ३५॥

 

स एवं स्वान्तरं निन्ये युगानामेकसप्ततिम् ।

वासुदेवप्रसङ्गेन परिभूतगतित्रयः ॥ ३६॥

 

शारीरा मानसा दिव्या वैयासे ये च मानुषाः ।

भौतिकाश्च कथं क्लेशा बाधन्ते हरिसंश्रयम् ॥ ३७॥

 

यः पृष्टो मुनिभिः प्राह धर्मान्नानाविधान् शुभान् ।

नृणां वर्णाश्रमाणां च सर्वभूतहितः सदा ॥ ३८॥

 

एतत्त आदिराजस्य मनोश्चरितमद्भुतम् ।

वर्णितं वर्णनीयस्य तदपत्योदयं श‍ृणु ॥ ३९॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां तृतीयस्कन्धे द्वाविंशोऽध्यायः ॥ २२॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ त्रयोविंशोऽध्यायः - २३ ॥

 

मैत्रेय उवाच

पितृभ्यां प्रस्थिते साध्वी पतिमिङ्गितकोविदा ।

नित्यं पर्यचरत्प्रीत्या भवानीव भवं प्रभुम् ॥ १॥

 

विश्रम्भेणात्मशौचेन गौरवेण दमेन च ।

शुश्रूषया सौहृदेन वाचा मधुरया च भोः ॥ २॥

 

विसृज्य कामं दम्भं च द्वेषं लोभमघं मदम् ।

अप्रमत्तोद्यता नित्यं तेजीयांसमतोषयत् ॥ ३॥

 

स वै देवर्षिवर्यस्तां मानवीं समनुव्रताम् ।

दैवाद्गरीयसः पत्युराशासानां महाशिषः ॥ ४॥

 

कालेन भूयसा क्षामां कर्शितां व्रतचर्यया ।

प्रेमगद्गदया वाचा पीडितः कृपयाब्रवीत् ॥ ५॥

 

कर्दम उवाच

तुष्टोऽहमद्य तव मानवि मानदायाः

शुश्रूषया परमया परया च भक्त्या ।

यो देहिनामयमतीव सुहृत्स्वदेहो

नावेक्षितः समुचितः क्षपितुं मदर्थे ॥ ६॥

 

ये मे स्वधर्मनिरतस्य तपः समाधि-

विद्याऽऽत्मयोगविजिता भगवत्प्रसादाः ।

तानेव ते मदनुसेवनयावरुद्धान्

दृष्टिं प्रपश्य वितराम्यभयानशोकान् ॥ ७॥

 

अन्ये पुनर्भगवतो भ्रुव उद्विजृम्भ-

विभ्रंशितार्थरचनाः किमुरुक्रमस्य ।

सिद्धासि भुङ्क्ष्व विभवान् निजधर्मदोहान्

दिव्यान्नरैर्दुरधिगान्नृपविक्रियाभिः ॥ ८॥

 

एवं ब्रुवाणमबलाखिलयोगमाया-

विद्याविचक्षणमवेक्ष्य गताधिरासीत् ।

सम्प्रश्रयप्रणयविह्वलया गिरेषद्-

व्रीडावलोकविलसद्धसिताननाऽऽह ॥ ९॥

 

देवहूतिरुवाच

राद्धं बत द्विजवृषैतदमोघयोग-

मायाधिपे त्वयि विभो तदवैमि भर्तः ।

यस्तेऽभ्यधायि समयः सकृदङ्गसङ्गो

भूयाद्गरीयसि गुणः प्रसवः सतीनाम् ॥ १०॥

 

तत्रेतिकृत्यमुपशिक्ष यथोपदेशं

येनैष मे कर्शितोऽतिरिरंसयाऽऽत्मा ।

सिद्ध्येत ते कृतमनोभवधर्षिताया

दीनस्तदीश भवनं सदृशं विचक्ष्व ॥ ११॥

 

मैत्रेय उवाच

प्रियायाः प्रियमन्विच्छन् कर्दमो योगमास्थितः ।

विमानं कामगं क्षत्तस्तर्ह्येवाविरचीकरत् ॥ १२॥

 

सर्वकामदुघं दिव्यं सर्वरत्नसमन्वितम् ।

सर्वर्द्ध्युपचयोदर्कं मणिस्तम्भैरुपस्कृतम् ॥ १३॥

 

दिव्योपकरणोपेतं सर्वकालसुखावहम् ।

पट्टिकाभिः पताकाभिर्विचित्राभिरलङ्कृतम् ॥ १४॥

 

स्रग्भिर्विचित्रमाल्याभिर्मञ्जुशिञ्जत्षडङ्घ्रिभिः ।

दुकूलक्षौमकौशेयैर्नानावस्त्रैर्विराजितम् ॥ १५॥

 

उपर्युपरि विन्यस्तनिलयेषु पृथक्पृथक् ।

क्षिप्तैः कशिपुभिः कान्तं पर्यङ्कव्यजनासनैः ॥ १६॥

 

तत्र तत्र विनिक्षिप्तनानाशिल्पोपशोभितम् ।

महामरकतस्थाल्या जुष्टं विद्रुमवेदिभिः ॥ १७॥

 

द्वाःसु विद्रुमदेहल्या भातं वज्रकपाटवत् ।

शिखरेष्विन्द्रनीलेषु हेमकुम्भैरधिश्रितम् ॥ १८॥

 

चक्षुष्मत्पद्मरागाग्र्यैर्वज्रभित्तिषु निर्मितैः ।

जुष्टं विचित्रवैतानैर्महार्हैर्हेमतोरणैः ॥ १९॥

 

हंसपारावतव्रातैस्तत्र तत्र निकूजितम् ।

कृत्रिमान् मन्यमानैः स्वानधिरुह्याधिरुह्य च ॥ २०॥

 

विहारस्थानविश्रामसंवेशप्राङ्गणाजिरैः ।

यथोपजोषं रचितैर्विस्मापनमिवात्मनः ॥ २१॥

 

ईदृग्गृहं तत्पश्यन्तीं नातिप्रीतेन चेतसा ।

सर्वभूताशयाभिज्ञः प्रावोचत्कर्दमः स्वयम् ॥ २२॥

 

निमज्ज्यास्मिन् ह्रदे भीरु विमानमिदमारुह ।

इदं शुक्लकृतं तीर्थमाशिषां यापकं नृणाम् ॥ २३॥

 

सा तद्भर्तुः समादाय वचः कुवलयेक्षणा ।

सरजं बिभ्रती वासो वेणीभूतांश्च मूर्धजान् ॥ २४॥

 

अङ्गं च मलपङ्केन सञ्छन्नं शबलस्तनम् ।

आविवेश सरस्वत्याः सरः शिवजलाशयम् ॥ २५॥

 

सान्तःसरसि वेश्मस्थाः शतानि दश कन्यकाः ।

सर्वाः किशोरवयसो ददर्शोत्पलगन्धयः ॥ २६॥

 

तां दृष्ट्वा सहसोत्थाय प्रोचुः प्राञ्जलयः स्त्रियः ।

वयं कर्मकरीस्तुभ्यं शाधि नः करवाम किम् ॥ २७॥

 

स्नानेन तां महार्हेण स्नापयित्वा मनस्विनीम् ।

दुकूले निर्मले नूत्ने ददुरस्यै च मानदाः ॥ २८॥

 

भूषणानि परार्ध्यानि वरीयांसि द्युमन्ति च ।

अन्नं सर्वगुणोपेतं पानं चैवामृतासवम् ॥ २९॥

 

अथादर्शे स्वमात्मानं स्रग्विणं विरजाम्बरम् ।

विरजं कृतस्वस्त्ययनं कन्याभिर्बहुमानितम् ॥ ३०॥

 

स्नातं कृतशिरःस्नानं सर्वाभरणभूषितम् ।

निष्कग्रीवं वलयिनं कूजत्काञ्चननूपुरम् ॥ ३१॥

 

श्रोण्योरध्यस्तया काञ्च्या काञ्चन्या बहुरत्नया ।

हारेण च महार्हेण रुचकेन च भूषितम् ॥ ३२॥

 

सुदता सुभ्रुवा श्लक्ष्णस्निग्धापाङ्गेन चक्षुषा ।

पद्मकोशस्पृधा नीलैरलकैश्च लसन्मुखम् ॥ ३३॥

 

यदा सस्मार ऋषभमृषीणां दयितं पतिम् ।

तत्र चास्ते सह स्त्रीभिर्यत्रास्ते स प्रजापतिः ॥ ३४॥

 

भर्तुः पुरस्तादात्मानं स्त्रीसहस्रवृतं तदा ।

निशाम्य तद्योगगतिं संशयं प्रत्यपद्यत ॥ ३५॥

 

स तां कृतमलस्नानां विभ्राजन्तीमपूर्ववत् ।

आत्मनो बिभ्रतीं रूपं संवीतरुचिरस्तनीम् ॥ ३६॥

 

विद्याधरीसहस्रेण सेव्यमानां सुवाससम् ।

जातभावो विमानं तदारोहयदमित्रहन् ॥ ३७॥

 

तस्मिन्नलुप्तमहिमा प्रिययानुरक्तो

विद्याधरीभिरुपचीर्णवपुर्विमाने ।

बभ्राज उत्कचकुमुद्गणवानपीच्यः

ताराभिरावृत इवोडुपतिर्नभःस्थः ॥ ३८॥

 

तेनाष्टलोकपविहारकुलाचलेन्द्र-

द्रोणीष्वनङ्गसखमारुतसौभगासु ।

सिद्धैर्नुतो द्युधुनिपातशिवस्वनासु

रेमे चिरं धनदवल्ललना वरूथी ॥ ३९॥

 

वैश्रम्भके सुरसने नन्दने पुष्पभद्रके ।

मानसे चैत्ररथ्ये च स रेमे रामया रतः ॥ ४०॥

 

भ्राजिष्णुना विमानेन कामगेन महीयसा ।

वैमानिकानत्यशेत चरंल्लोकान् यथानिलः ॥ ४१॥

 

किं दुरापादनं तेषां पुंसामुद्दामचेतसाम् ।

यैराश्रितस्तीर्थपदश्चरणो व्यसनात्ययः ॥ ४२॥

 

प्रेक्षयित्वा भुवो गोलं पत्न्यै यावान् स्वसंस्थया ।

बह्वाश्चर्यं महायोगी स्वाश्रमाय न्यवर्तत ॥ ४३॥

 

विभज्य नवधाऽऽत्मानं मानवीं सुरतोत्सुकाम् ।

रामां निरमयन् रेमे वर्षपूगान् मुहूर्तवत् ॥ ४४॥

 

तस्मिन् विमान उत्कृष्टां शय्यां रतिकरीं श्रिता ।

न चाबुध्यत तं कालं पत्यापीच्येन सङ्गता ॥ ४५॥

 

एवं योगानुभावेन दम्पत्यो रममाणयोः ।

शतं व्यतीयुः शरदः कामलालसयोर्मनाक् ॥ ४६॥

 

तस्यामाधत्त रेतस्तां भावयन्नात्मनाऽऽत्मवित् ।

नोधा विधाय रूपं स्वं सर्वसङ्कल्पविद्विभुः ॥ ४७॥

 

अतः सा सुषुवे सद्यो देवहूतिः स्त्रियः प्रजाः ।

सर्वास्ताश्चारुसर्वाङ्ग्यो लोहितोत्पलगन्धयः ॥ ४८॥

 

पतिं सा प्रव्रजिष्यन्तं तदाऽऽलक्ष्योशती सती ।

स्मयमाना विक्लवेन हृदयेन विदूयता ॥ ४९॥

 

लिखन्त्यधोमुखी भूमिं पदा नखमणिश्रिया ।

उवाच ललितां वाचं निरुध्याश्रुकलां शनैः ॥ ५०॥

 

देवहूतिरुवाच

सर्वं तद्भगवान् मह्यमुपोवाह प्रतिश्रुतम् ।

अथापि मे प्रपन्नाया अभयं दातुमर्हसि ॥ ५१॥

 

ब्रह्मन् दुहितृभिस्तुभ्यं विमृग्याः पतयः समाः ।

कश्चित्स्यान्मे विशोकाय त्वयि प्रव्रजिते वनम् ॥ ५२॥

 

एतावतालं कालेन व्यतिक्रान्तेन मे प्रभो ।

इन्द्रियार्थप्रसङ्गेन परित्यक्तपरात्मनः ॥ ५३॥

 

इन्द्रियार्थेषु सज्जन्त्या प्रसङ्गस्त्वयि मे कृतः ।

अजानन्त्या परं भावं तथाप्यस्त्वभयाय मे ॥ ५४॥

 

सङ्गो यः संसृतेर्हेतुरसत्सु विहितोऽधिया ।

स एव साधुषु कृतो निःसङ्गत्वाय कल्पते ॥ ५५॥

 

नेह यत्कर्म धर्माय न विरागाय कल्पते ।

न तीर्थपदसेवायै जीवन्नपि मृतो हि सः ॥ ५६॥

 

साहं भगवतो नूनं वञ्चिता मायया दृढम् ।

यत्त्वां विमुक्तिदं प्राप्य न मुमुक्षेय बन्धनात् ॥ ५७॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे कापिलेयोपाख्याने त्रयोविंशोऽध्यायः ॥ २३॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ चतुर्विंशोऽध्यायः - २४ ॥

 

मैत्रेय उवाच

निर्वेदवादिनीमेवं मनोर्दुहितरं मुनिः ।

दयालुः शालिनीमाह शुक्लाभिव्याहृतं स्मरन् ॥ १॥

 

ऋषिरुवाच

मा खिदो राजपुत्रीत्थमात्मानं प्रत्यनिन्दिते ।

भगवांस्तेऽक्षरो गर्भमदूरात्सम्प्रपत्स्यते ॥ २॥

 

धृतव्रतासि भद्रं ते दमेन नियमेन च ।

तपोद्रविणदानैश्च श्रद्धया चेश्वरं भज ॥ ३॥

 

स त्वयाऽऽराधितः शुक्लो वितन्वन् मामकं यशः ।

छेत्ता ते हृदयग्रन्थिमौदर्यो ब्रह्मभावनः ॥ ४॥

 

मैत्रेय उवाच

देवहूत्यपि सन्देशं गौरवेण प्रजापतेः ।

सम्यक् श्रद्धाय पुरुषं कूटस्थमभजद्गुरुम् ॥ ५॥

 

तस्यां बहुतिथे काले भगवान् मधुसूदनः ।

कार्दमं वीर्यमापन्नो जज्ञेऽग्निरिव दारुणि ॥ ६॥

 

अवादयंस्तदा व्योम्नि वादित्राणि घनाघनाः ।

गायन्ति तं स्म गन्धर्वा नृत्यन्त्यप्सरसो मुदा ॥ ७॥

 

पेतुः सुमनसो दिव्याः खेचरैरपवर्जिताः ।

प्रसेदुश्च दिशः सर्वा अम्भांसि च मनांसि च ॥ ८॥

 

तत्कर्दमाश्रमपदं सरस्वत्या परिश्रितम् ।

स्वयम्भूः साकमृषिभिर्मरीच्यादिभिरभ्ययात् ॥ ९॥

 

भगवन्तं परं ब्रह्म सत्त्वेनांशेन शत्रुहन् ।

तत्त्वसङ्ख्यानविज्ञप्त्यै जातं विद्वानजः स्वराट् ॥ १०॥

 

सभाजयन् विशुद्धेन चेतसा तच्चिकीर्षितम् ।

प्रहृष्यमाणैरसुभिः कर्दमं चेदमभ्यधात् ॥ ११॥

 

ब्रह्मोवाच

त्वया मेऽपचितिस्तात कल्पिता निर्व्यलीकतः ।

यन्मे सञ्जगृहे वाक्यं भवान् मानद मानयन् ॥ १२॥

 

एतावत्येव शुश्रूषा कार्या पितरि पुत्रकैः ।

बाढमित्यनुमन्येत गौरवेण गुरोर्वचः ॥ १३॥

 

इमा दुहितरः सभ्य तव वत्स सुमध्यमाः ।

सर्गमेतं प्रभावैः स्वैर्बृहयिष्यन्त्यनेकधा ॥ १४॥

 

अतस्त्वमृषिमुख्येभ्यो यथाशीलं यथारुचि ।

आत्मजाः परिदेह्यद्य विस्तृणीहि यशो भुवि ॥ १५॥

 

वेदाहमाद्यं पुरुषमवतीर्णं स्वमायया ।

भूतानां शेवधिं देहं बिभ्राणं कपिलं मुने ॥ १६॥

 

ज्ञानविज्ञानयोगेन कर्मणामुद्धरन् जटाः ।

हिरण्यकेशः पद्माक्षः पद्ममुद्रापदाम्बुजः ॥ १७॥

 

एष मानवि ते गर्भं प्रविष्टः कैटभार्दनः ।

अविद्यासंशयग्रन्थिं छित्त्वा गां विचरिष्यति ॥ १८॥

 

अयं सिद्धगणाधीशः साङ्ख्याचार्यैः सुसम्मतः ।

लोके कपिल इत्याख्यां गन्ता ते कीर्तिवर्धनः ॥ १९॥

 

मैत्रेय उवाच

तावाश्वास्य जगत्स्रष्टा कुमारैः सह नारदः ।

हंसो हंसेन यानेन त्रिधाम परमं ययौ ॥ २०॥

 

गते शतधृतौ क्षत्तः कर्दमस्तेन चोदितः ।

यथोदितं स्वदुहितॄः प्रादाद्विश्वसृजां ततः ॥ २१॥

 

मरीचये कलां प्रादादनसूयामथात्रये ।

श्रद्धामङ्गिरसेऽयच्छत्पुलस्त्याय हविर्भुवम् ॥ २२॥

 

पुलहाय गतिं युक्तां क्रतवे च क्रियां सतीम् ।

ख्यातिं च भृगवेऽयच्छद्वसिष्ठायाप्यरुन्धतीम् ॥ २३॥

 

अथर्वणेऽददाच्छान्तिं यया यज्ञो वितन्यते ।

विप्रर्षभान् कृतोद्वाहान् सदारान् समलालयत् ॥ २४॥

 

ततस्त ऋषयः क्षत्तः कृतदारा निमन्त्र्य तम् ।

प्रातिष्ठन् नन्दिमापन्नाः स्वं स्वमाश्रममण्डलम् ॥ २५॥

 

स चावतीर्णं त्रियुगमाज्ञाय विबुधर्षभम् ।

विविक्त उपसङ्गम्य प्रणम्य समभाषत ॥ २६॥

 

अहो पापच्यमानानां निरये स्वैरमङ्गलैः ।

कालेन भूयसा नूनं प्रसीदन्तीह देवताः ॥ २७॥

 

बहुजन्मविपक्वेन सम्यग्योगसमाधिना ।

द्रष्टुं यतन्ते यतयः शून्यागारेषु यत्पदम् ॥ २८॥

 

स एव भगवानद्य हेलनं नगणय्य नः ।

गृहेषु जातो ग्राम्याणां यः स्वानां पक्षपोषणः ॥ २९॥

 

स्वीयं वाक्यं ऋतं कर्तुमवतीर्णोऽसि मे गृहे ।

चिकीर्षुर्भगवान् ज्ञानं भक्तानां मानवर्धनः ॥ ३०॥

 

तान्येव तेऽभिरूपाणि रूपाणि भगवंस्तव ।

यानि यानि च रोचन्ते स्वजनानामरूपिणः ॥ ३१॥

 

त्वां सूरिभिस्तत्त्वबुभुत्सयाद्धा

सदाभिवादार्हणपादपीठम् ।

ऐश्वर्यवैराग्ययशोऽवबोध-

वीर्यश्रिया पूर्तमहं प्रपद्ये ॥ ३२॥

 

परं प्रधानं पुरुषं महान्तं

कालं कविं त्रिवृतं लोकपालम् ।

आत्मानुभूत्यानुगतप्रपञ्चं

स्वच्छन्दशक्तिं कपिलं प्रपद्ये ॥ ३३॥

 

आ स्माभिपृच्छेऽद्य पतिं प्रजानां

त्वयावतीर्णार्ण उताप्तकामः ।

परिव्रजत्पदवीमास्थितोऽहं

चरिष्ये त्वां हृदि युञ्जन् विशोकः ॥ ३४॥

 

श्रीभगवानुवाच

मया प्रोक्तं हि लोकस्य प्रमाणं सत्यलौकिके ।

अथाजनि मया तुभ्यं यदवोचमृतं मुने ॥ ३५॥

 

एतन्मे जन्म लोकेऽस्मिन् मुमुक्षूणां दुराशयात् ।

प्रसङ्ख्यानाय तत्त्वानां सम्मतायात्मदर्शने ॥ ३६॥

 

एष आत्मपथोऽव्यक्तो नष्टः कालेन भूयसा ।

तं प्रवर्तयितुं देहमिमं विद्धि मया भृतम् ॥ ३७॥

 

गच्छ कामं मया पृष्टो मयि सन्न्यस्तकर्मणा ।

जित्वा सुदुर्जयं मृत्युममृतत्वाय मां भज ॥ ३८॥

 

मामात्मानं स्वयञ्ज्योतिः सर्वभूतगुहाशयम् ।

आत्मन्येवात्मना वीक्ष्य विशोकोऽभयमृच्छसि ॥ ३९॥

 

मात्र आध्यात्मिकीं विद्यां शमनीं सर्वकर्मणाम् ।

वितरिष्ये यया चासौ भयं चातितरिष्यति ॥ ४०॥

 

मैत्रेय उवाच

एवं समुदितस्तेन कपिलेन प्रजापतिः ।

दक्षिणीकृत्य तं प्रीतो वनमेव जगाम ह ॥ ४१॥

 

व्रतं स आस्थितो मौनमात्मैकशरणो मुनिः ।

निःसङ्गो व्यचरत्क्षोणीमनग्निरनिकेतनः ॥ ४२॥

 

मनो ब्रह्मणि युञ्जानो यत्तत्सदसतः परम् ।

गुणावभासे विगुण एकभक्त्यानुभाविते ॥ ४३॥

 

निरहङ्कृतिर्निर्ममश्च निर्द्वन्द्वः समदृक् स्वदृक् ।

प्रत्यक्प्रशान्तधीर्धीरः प्रशान्तोर्मिरिवोदधिः ॥ ४४॥

 

वासुदेवे भगवति सर्वज्ञे प्रत्यगात्मनि ।

परेण भक्तिभावेन लब्धात्मा मुक्तबन्धनः ॥ ४५॥

 

आत्मानं सर्वभूतेषु भगवन्तमवस्थितम् ।

अपश्यत्सर्वभूतानि भगवत्यपि चात्मनि ॥ ४६॥

 

इच्छाद्वेषविहीनेन सर्वत्र समचेतसा ।

भगवद्भक्तियुक्तेन प्राप्ता भागवती गतिः ॥ ४७॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे कापिलेये चतुर्विंशोऽध्यायः ॥ २४॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ पञ्चविंशोऽध्यायः - २५ ॥

 

शौनक उवाच

कपिलस्तत्त्वसङ्ख्याता भगवानात्ममायया ।

जातः स्वयमजः साक्षादात्मप्रज्ञप्तये नृणाम् ॥ १॥

 

न ह्यस्य वर्ष्मणः पुंसां वरिम्णः सर्वयोगिनाम् ।

विश्रुतौ श्रुतदेवस्य भूरि तृप्यन्ति मेऽसवः ॥ २॥

 

यद्यद्विधत्ते भगवान् स्वच्छन्दात्माऽऽत्ममायया ।

तानि मे श्रद्दधानस्य कीर्तन्यान्यनुकीर्तय ॥ ३॥

 

सूत उवाच

द्वैपायनसखस्त्वेवं मैत्रेयो भगवांस्तथा ।

प्राहेदं विदुरं प्रीत आन्वीक्षिक्यां प्रचोदितः ॥ ४॥

 

मैत्रेय उवाच

पितरि प्रस्थितेऽरण्यं मातुः प्रियचिकीर्षया ।

तस्मिन् बिन्दुसरेऽवात्सीद्भगवान् कपिलः किल ॥ ५॥

 

तमासीनमकर्माणं तत्त्वमार्गाग्रदर्शनम् ।

स्वसुतं देवहूत्याह धातुः संस्मरती वचः ॥ ६॥

 

देवहूतिरुवाच

निर्विण्णा नितरां भूमन्नसदिन्द्रियतर्षणात् ।

येन सम्भाव्यमानेन प्रपन्नान्धं तमः प्रभो ॥ ७॥

 

तस्य त्वं तमसोऽन्धस्य दुष्पारस्याद्य पारगम् ।

सच्चक्षुर्जन्मनामन्ते लब्धं मे त्वदनुग्रहात् ॥ ८॥

 

य आद्यो भगवान् पुंसामीश्वरो वै भवान् किल ।

लोकस्य तमसान्धस्य चक्षुः सूर्य इवोदितः ॥ ९॥

 

अथ मे देव सम्मोहमपाक्रष्टुं त्वमर्हसि ।

योऽवग्रहोऽहम्ममेतीत्येतस्मिन् योजितस्त्वया ॥ १०॥

 

तं त्वा गताहं शरणं शरण्यं

स्वभृत्यसंसारतरोः कुठारम् ।

जिज्ञासयाहं प्रकृतेः पूरुषस्य

नमामि सद्धर्मविदां वरिष्ठम् ॥ ११॥

 

मैत्रेय उवाच

इति स्वमातुर्निरवद्यमीप्सितं

निशम्य पुंसामपवर्गवर्धनम् ।

धियाभिनन्द्यात्मवतां सतां गति-

र्बभाष ईषत्स्मितशोभिताननः ॥ १२॥

 

श्रीभगवानुवाच

योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे ।

अत्यन्तोपरतिर्यत्र दुःखस्य च सुखस्य च ॥ १३॥

 

तमिमं ते प्रवक्ष्यामि यमवोचं पुरानघे ।

ऋषीणां श्रोतुकामानां योगं सर्वाङ्गनैपुणम् ॥ १४॥

 

चेतः खल्वस्य बन्धाय मुक्तये चात्मनो मतम् ।

गुणेषु सक्तं बन्धाय रतं वा पुंसि मुक्तये ॥ १५॥

 

अहम्ममाभिमानोत्थैः कामलोभादिभिर्मलैः ।

वीतं यदा मनः शुद्धमदुःखमसुखं समम् ॥ १६॥

 

तदा पुरुष आत्मानं केवलं प्रकृतेः परम् ।

निरन्तरं स्वयञ्ज्योतिरणिमानमखण्डितम् ॥ १७॥

 

ज्ञानवैराग्ययुक्तेन भक्तियुक्तेन चात्मना ।

परिपश्यत्युदासीनं प्रकृतिं च हतौजसम् ॥ १८॥

 

न युज्यमानया भक्त्या भगवत्यखिलात्मनि ।

सदृशोऽस्ति शिवः पन्था योगिनां ब्रह्मसिद्धये ॥ १९॥

 

प्रसङ्गमजरं पाशमात्मनः कवयो विदुः ।

स एव साधुषु कृतो मोक्षद्वारमपावृतम् ॥ २०॥

 

तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम् ।

अजातशत्रवः शान्ताः साधवः साधुभूषणाः ॥ २१॥

 

मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् ।

मत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवाः ॥ २२॥

 

मदाश्रयाः कथामृष्टाः श‍ृण्वन्ति कथयन्ति च ।

तपन्ति विविधास्तापा नैतान्मद्गतचेतसः ॥ २३॥

 

त एते साधवः साध्वि सर्वसङ्गविवर्जिताः ।

सङ्गस्तेष्वथ ते प्रार्थ्यः सङ्गदोषहरा हि ते ॥ २४॥

 

सतां प्रसङ्गान्मम वीर्यसंविदो

भवन्ति हृत्कर्णरसायनाः कथाः ।

तज्जोषणादाश्वपवर्गवर्त्मनि

श्रद्धा रतिर्भक्तिरनुक्रमिष्यति ॥ २५॥

 

भक्त्या पुमान् जातविराग ऐन्द्रिया-

द्दृष्टश्रुतान् मद्रचनानुचिन्तया ।

चित्तस्य यत्तो ग्रहणे योगयुक्तो

यतिष्यते ऋजुभिर्योगमार्गैः ॥ २६॥

 

असेवयायं प्रकृतेर्गुणानां

ज्ञानेन वैराग्यविजृम्भितेन ।

योगेन मय्यर्पितया च भक्त्या

मां प्रत्यगात्मानमिहावरुन्धे ॥ २७॥

 

देवहूतिरुवाच

काचित्त्वय्युचिता भक्तिः कीदृशी मम गोचरा ।

यया पदं ते निर्वाणमञ्जसान्वाश्नवा अहम् ॥ २८॥

 

यो योगो भगवद्बाणो निर्वाणात्मंस्त्वयोदितः ।

कीदृशः कति चाङ्गानि यतस्तत्त्वावबोधनम् ॥ २९॥

 

तदेतन्मे विजानीहि यथाहं मन्दधीर्हरे ।

सुखं बुद्ध्येय दुर्बोधं योषा भवदनुग्रहात् ॥ ३०॥

 

मैत्रेय उवाच

विदित्वार्थं कपिलो मातुरित्थं

जातस्नेहो यत्र तन्वाभिजातः ।

तत्त्वाम्नायं यत्प्रवदन्ति साङ्ख्यं

प्रोवाच वै भक्तिवितानयोगम् ॥ ३१॥

 

श्रीभगवानुवाच

देवानां गुणलिङ्गानामानुश्रविककर्मणाम् ।

सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या ॥ ३२॥

 

अनिमित्ता भागवती भक्तिः सिद्धेर्गरीयसी ।

जरयत्याशु या कोशं निगीर्णमनलो यथा ॥ ३३॥

 

नैकात्मतां मे स्पृहयन्ति केचि-

न्मत्पादसेवाभिरता मदीहाः ।

येऽन्योन्यतो भागवताः प्रसज्य

सभाजयन्ते मम पौरुषाणि ॥ ३४॥

 

पश्यन्ति ते मे रुचिराण्यम्ब सन्तः

प्रसन्नवक्त्रारुणलोचनानि ।

रूपाणि दिव्यानि वरप्रदानि

साकं वाचं स्पृहणीयां वदन्ति ॥ ३५॥

 

तैर्दर्शनीयावयवैरुदार-

विलासहासेक्षितवामसूक्तैः ।

हृतात्मनो हृतप्राणांश्च भक्ति-

रनिच्छतो मे गतिमण्वीं प्रयुङ्क्ते ॥ ३६॥

 

अथो विभूतिं मम मायाविनस्ता-

मैश्वर्यमष्टाङ्गमनुप्रवृत्तम् ।

श्रियं भागवतीं वा स्पृहयन्ति भद्रां

परस्य मे तेऽश्नुवते तु लोके ॥ ३७॥

 

न कर्हिचिन्मत्पराः शान्तरूपे

नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः ।

येषामहं प्रिय आत्मा सुतश्च

सखा गुरुः सुहृदो दैवमिष्टम् ॥ ३८॥

 

इमं लोकं तथैवामुमात्मानमुभयायिनम् ।

आत्मानमनु ये चेह ये रायः पशवो गृहाः ॥ ३९॥

 

विसृज्य सर्वानन्यांश्च मामेवं विश्वतोमुखम् ।

भजन्त्यनन्यया भक्त्या तान् मृत्योरतिपारये ॥ ४०॥

 

नान्यत्र मद्भगवतः प्रधानपुरुषेश्वरात् ।

आत्मनः सर्वभूतानां भयं तीव्रं निवर्तते ॥ ४१॥

 

मद्भयाद्वाति वातोयं सूर्यस्तपति मद्भयात् ।

वर्षतीन्द्रो दहत्यग्निर्मृत्युश्चरति मद्भयात् ॥ ४२॥

 

ज्ञानवैराग्ययुक्तेन भक्तियोगेन योगिनः ।

क्षेमाय पादमूलं मे प्रविशन्त्यकुतोभयम् ॥ ४३॥

 

एतावानेव लोकेऽस्मिन् पुंसां निःश्रेयसोदयः ।

तीव्रेण भक्तियोगेन मनो मय्यर्पितं स्थिरम् ॥ ४४॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे कापिलेयोपाख्याने पञ्चविंशोऽध्यायः ॥ २५॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ षड्विंशोऽध्यायः २६ ॥

 

श्रीभगवानुवाच

अथ ते सम्प्रवक्ष्यामि तत्त्वानां लक्षणं पृथक् ।

यद्विदित्वा विमुच्येत पुरुषः प्राकृतैर्गुणैः ॥ १॥

 

ज्ञानं निःश्रेयसार्थाय पुरुषस्यात्मदर्शनम् ।

यदाहुर्वर्णये तत्ते हृदयग्रन्थिभेदनम् ॥ २॥

 

अनादिरात्मा पुरुषो निर्गुणः प्रकृतेः परः ।

प्रत्यग्धामा स्वयञ्ज्योतिर्विश्वं येन समन्वितम् ॥ ३॥

 

स एष प्रकृतिं सूक्ष्मां दैवीं गुणमयीं विभुः ।

यदृच्छयैवोपगतामभ्यपद्यत लीलया ॥ ४॥

 

गुणैर्विचित्राः सृजतीं सरूपाः प्रकृतिं प्रजाः ।

विलोक्य मुमुहे सद्यः स इह ज्ञानगूहया ॥ ५॥

 

एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान् ।

कर्मसु क्रियमाणेषु गुणैरात्मनि मन्यते ॥ ६॥

 

तदस्य संसृतिर्बन्धः पारतन्त्र्यं च तत्कृतम् ।

भवत्यकर्तुरीशस्य साक्षिणो निर्वृतात्मनः ॥ ७॥

 

कार्यकारणकर्तृत्वे कारणं प्रकृतिं विदुः ।

भोक्तृत्वे सुखदुःखानां पुरुषं प्रकृतेः परम् ॥ ८॥

 

देवहूतिरुवाच

प्रकृतेः पुरुषस्यापि लक्षणं पुरुषोत्तम ।

ब्रूहि कारणयोरस्य सदसच्च यदात्मकम् ॥ ९॥

 

श्रीभगवानुवाच

यत्तत्त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् ।

प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् ॥ १०॥

 

पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा ।

एतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः ॥ ११॥

 

महाभूतानि पञ्चैव भूरापोऽग्निर्मरुन्नभः ।

तन्मात्राणि च तावन्ति गन्धादीनि मतानि मे ॥ १२॥

 

इन्द्रियाणि दश श्रोत्रं त्वग् दृग्रसननासिकाः ।

वाक्करौ चरणौ मेढ्रं पायुर्दशम उच्यते ॥ १३॥

 

मनो बुद्धिरहङ्कारश्चित्तमित्यन्तरात्मकम् ।

चतुर्धा लक्ष्यते भेदो वृत्त्या लक्षणरूपया ॥ १४॥

 

एतावानेव सङ्ख्यातो ब्रह्मणः सगुणस्य ह ।

सन्निवेशो मया प्रोक्तो यः कालः पञ्चविंशकः ॥ १५॥

 

प्रभावं पौरुषं प्राहुः कालमेके यतो भयम् ।

अहङ्कारविमूढस्य कर्तुः प्रकृतिमीयुषः ॥ १६॥

 

प्रकृतेर्गुणसाम्यस्य निर्विशेषस्य मानवि ।

चेष्टा यतः स भगवान् काल इत्युपलक्षितः ॥ १७॥

 

अन्तः पुरुषरूपेण कालरूपेण यो बहिः ।

समन्वेत्येष सत्त्वानां भगवानात्ममायया ॥ १८॥

 

दैवात्क्षुभितधर्मिण्यां स्वस्यां योनौ परः पुमान्

आधत्त वीर्यं सासूत महत्तत्त्वं हिरण्मयम् ॥ १९॥

 

विश्वमात्मगतं व्यञ्जन् कूटस्थो जगदङ्कुरः ।

स्वतेजसापिबत्तीव्रमात्मप्रस्वापनं तमः ॥ २०॥

 

यत्तत्सत्त्वगुणं स्वच्छं शान्तं भगवतः पदम् ।

यदाहुर्वासुदेवाख्यं चित्तं तन्महदात्मकम् ॥ २१॥

 

स्वच्छत्वमविकारित्वं शान्तत्वमिति चेतसः ।

वृत्तिभिर्लक्षणं प्रोक्तं यथापां प्रकृतिः परा ॥ २२॥

 

महत्तत्त्वाद्विकुर्वाणाद्भगवद्वीर्यसम्भवात् ।

क्रियाशक्तिरहङ्कारस्त्रिविधः समपद्यत ॥ २३॥

 

वैकारिकस्तैजसश्च तामसश्च यतो भवः ।

मनसश्चेन्द्रियाणां च भूतानां महतामपि ॥ २४॥

 

सहस्रशिरसं साक्षाद्यमनन्तं प्रचक्षते ।

सङ्कर्षणाख्यं पुरुषं भूतेन्द्रियमनोमयम् ॥ २५॥

 

कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम् ।

शान्तघोरविमूढत्वमिति वा स्यादहङ्कृतेः ॥ २६॥

 

वैकारिकाद्विकुर्वाणान्मनस्तत्त्वमजायत ।

यत्सङ्कल्पविकल्पाभ्यां वर्तते कामसम्भवः ॥ २७॥

 

यद्विदुर्ह्यनिरुद्धाख्यं हृषीकाणामधीश्वरम् ।

शारदेन्दीवरश्यामं संराध्यं योगिभिः शनैः ॥ २८॥

 

तैजसात्तु विकुर्वाणाद्बुद्धितत्त्वमभूत्सति ।

द्रव्यस्फुरणविज्ञानमिन्द्रियाणामनुग्रहः ॥ २९॥

 

संशयोऽथ विपर्यासो निश्चयः स्मृतिरेव च ।

स्वाप इत्युच्यते बुद्धेर्लक्षणं वृत्तितः पृथक् ॥ ३०॥

 

तैजसानीन्द्रियाण्येव क्रियाज्ञानविभागशः ।

प्राणस्य हि क्रियाशक्तिर्बुद्धेर्विज्ञानशक्तिता ॥ ३१॥

 

तामसाच्च विकुर्वाणाद्भगवद्वीर्यचोदितात् ।

शब्दमात्रमभूत्तस्मान्नभः श्रोत्रं तु शब्दगम् ॥ ३२॥

 

अर्थाश्रयत्वं शब्दस्य द्रष्टुर्लिङ्गत्वमेव च ।

तन्मात्रत्वं च नभसो लक्षणं कवयो विदुः ॥ ३३॥

 

भूतानां छिद्रदातृत्वं बहिरन्तरमेव च ।

प्राणेन्द्रियात्मधिष्ण्यत्वं नभसो वृत्तिलक्षणम् ॥ ३४॥

 

नभसः शब्दतन्मात्रात्कालगत्या विकुर्वतः ।

स्पर्शोऽभवत्ततो वायुस्त्वक्स्पर्शस्य च सङ्ग्रहः ॥ ३५॥

 

मृदुत्वं कठिनत्वं च शैत्यमुष्णत्वमेव च ।

एतत्स्पर्शस्य स्पर्शत्वं तन्मात्रत्वं नभस्वतः ॥ ३६॥

 

चालनं व्यूहनं प्राप्तिर्नेतृत्वं द्रव्यशब्दयोः ।

सर्वेन्द्रियाणामात्मत्वं वायोः कर्माभिलक्षणम् ॥ ३७॥

 

वायोश्च स्पर्शतन्मात्राद्रूपं दैवेरितादभूत् ।

समुत्थितं ततस्तेजश्चक्षू रूपोपलम्भनम् ॥ ३८॥

 

द्रव्याकृतित्वं गुणता व्यक्तिसंस्थात्वमेव च ।

तेजस्त्वं तेजसः साध्वि रूपमात्रस्य वृत्तयः ॥ ३९॥

 

द्योतनं पचनं पानमदनं हिममर्दनम् ।

तेजसो वृत्तयस्त्वेताः शोषणं क्षुत्तृडेव च ॥ ४०॥

 

रूपमात्राद्विकुर्वाणात्तेजसो दैवचोदितात् ।

रसमात्रमभूत्तस्मादम्भो जिह्वा रसग्रहः ॥ ४१॥

 

कषायो मधुरस्तिक्तः कट्वम्ल इति नैकधा ।

भौतिकानां विकारेण रस एको विभिद्यते ॥ ४२॥

 

क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनोन्दनम् ।

तापापनोदो भूयस्त्वमम्भसो वृत्तयस्त्विमाः ॥ ४३॥

 

रसमात्राद्विकुर्वाणादम्भसो दैवचोदितात् ।

गन्धमात्रमभूत्तस्मात्पृथ्वी घ्राणस्तु गन्धगः ॥ ४४॥

 

करम्भपूतिसौरभ्यशान्तोग्राम्लादिभिः पृथक् ।

द्रव्यावयववैषम्याद्गन्ध एको विभिद्यते ॥ ४५॥

 

भावनं ब्रह्मणः स्थानं धारणं सद्विशेषणम् ।

सर्वसत्त्वगुणोद्भेदः पृथिवीवृत्तिलक्षणम् ॥ ४६॥

 

नभोगुणविशेषोऽर्थो यस्य तच्छ्रोत्रमुच्यते ।

वायोर्गुणविशेषोऽर्थो यस्य तत्स्पर्शनं विदुः ॥ ४७॥

 

तेजोगुणविशेषोऽर्थो यस्य तच्चक्षुरुच्यते ।

अम्भोगुणविशेषोऽर्थो यस्य तद्रसनं विदुः ।

भूमेर्गुणविशेषोऽर्थो यस्य स घ्राण उच्यते ॥ ४८॥

 

परस्य दृश्यते धर्मो ह्यपरस्मिन् समन्वयात् ।

अतो विशेषो भावानां भूमावेवोपलक्ष्यते ॥ ४९॥

 

एतान्यसंहत्य यदा महदादीनि सप्त वै ।

कालकर्मगुणोपेतो जगदादिरुपाविशत् ॥ ५०॥

 

ततस्तेनानुविद्धेभ्यो युक्तेभ्योऽण्डमचेतनम् ।

उत्थितं पुरुषो यस्मादुदतिष्ठदसौ विराट् ॥ ५१॥

 

एतदण्डं विशेषाख्यं क्रमवृद्धैर्दशोत्तरैः ।

तोयादिभिः परिवृतं प्रधानेनावृतैर्बहिः ।

यत्र लोकवितानोऽयं रूपं भगवतो हरेः ॥ ५२॥

 

हिरण्मयादण्डकोशादुत्थाय सलिलेशयात् ।

तमाविश्य महादेवो बहुधा निर्बिभेद खम् ॥ ५३॥

 

निरभिद्यतास्य प्रथमं मुखं वाणी ततोऽभवत् ।

वाण्या वह्निरथो नासे प्राणोऽतो घ्राण एतयोः ॥ ५४॥

 

घ्राणाद्वायुरभिद्येतामक्षिणी चक्षुरेतयोः ।

तस्मात्सूर्यो व्यभिद्येतां कर्णौ श्रोत्रं ततो दिशः ॥ ५५॥

 

निर्बिभेद विराजस्त्वग्रोमश्मश्र्वादयस्ततः ।

तत ओषधयश्चासन् शिश्नं निर्बिभिदे ततः ॥ ५६॥

 

रेतस्तस्मादाप आसन् निरभिद्यत वै गुदम् ।

गुदादपानोऽपानाच्च मृत्युर्लोकभयङ्करः ॥ ५७॥

 

हस्तौ च निरभिद्येतां बलं ताभ्यां ततः स्वराट् ।

पादौ च निरभिद्येतां गतिस्ताभ्यां ततो हरिः ॥ ५८॥

 

नाड्योऽस्य निरभिद्यन्त ताभ्यो लोहितमाभृतम् ।

नद्यस्ततः समभवन्नुदरं निरभिद्यत ॥ ५९॥

 

क्षुत्पिपासे ततः स्यातां समुद्रस्त्वेतयोरभूत् ।

अथास्य हृदयं भिन्नं हृदयान्मन उत्थितम् ॥ ६०॥

 

मनसश्चन्द्रमा जातो बुद्धिर्बुद्धेर्गिरां पतिः ।

अहङ्कारस्ततो रुद्रश्चित्तं चैत्यस्ततोऽभवत् ॥ ६१॥

 

एते ह्यभ्युत्थिता देवा नैवास्योत्थापनेऽशकन् ।

पुनराविविशुः खानि तमुत्थापयितुं क्रमात् ॥ ६२॥

 

वह्निर्वाचा मुखं भेजे नोदतिष्ठत्तदा विराट् ।

घ्राणेन नासिके वायुर्नोदतिष्ठत्तदा विराट् ॥ ६३॥

 

अक्षिणी चक्षुषाऽऽदित्यो नोदतिष्ठत्तदा विराट् ।

श्रोत्रेण कर्णौ च दिशो नोदतिष्ठत्तदा विराट् ॥ ६४॥

 

त्वचं रोमभिरोषध्यो नोदतिष्ठत्तदा विराट् ।

रेतसा शिश्नमापस्तु नोदतिष्ठत्तदा विराट् ॥ ६५॥

 

गुदं मृत्युरपानेन नोदतिष्ठत्तदा विराट् ।

हस्ताविन्द्रो बलेनैव नोदतिष्ठत्तदा विराट् ॥ ६६॥

 

विष्णुर्गत्यैव चरणौ नोदतिष्ठत्तदा विराट् ।

नाडीर्नद्यो लोहितेन नोदतिष्ठत्तदा विराट् ॥ ६७॥

 

क्षुत्तृड्भ्यामुदरं सिन्धुर्नोदतिष्ठत्तदा विराट् ।

हृदयं मनसा चन्द्रो नोदतिष्ठत्तदा विराट् ॥ ६८॥

 

बुद्ध्या ब्रह्मापि हृदयं नोदतिष्ठत्तदा विराट् ।

रुद्रोऽभिमत्या हृदयं नोदतिष्ठत्तदा विराट् ॥ ६९॥

 

चित्तेन हृदयं चैत्यः क्षेत्रज्ञः प्राविशद्यदा ।

विराट् तदैव पुरुषः सलिलादुदतिष्ठत ॥ ७०॥

 

यथा प्रसुप्तं पुरुषं प्राणेन्द्रियमनोधियः ।

प्रभवन्ति विना येन नोत्थापयितुमोजसा ॥ ७१॥

 

तमस्मिन् प्रत्यगात्मानं धिया योगप्रवृत्तया ।

भक्त्या विरक्त्या ज्ञानेन विविच्यात्मनि चिन्तयेत् ॥ ७२॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे कापिलेये तत्त्वसमाम्नाये षड्विंशोऽध्यायः ॥ २६॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ सप्तविंशोऽध्यायः - २७ ॥

 

श्रीभगवानुवाच

प्रकृतिस्थोऽपि पुरुषो नाज्यते प्राकृतैर्गुणैः ।

अविकारादकर्तृत्वान्निर्गुणत्वाज्जलार्कवत् ॥ १॥

 

स एष यर्हि प्रकृतेर्गुणेष्वभिविषज्जते ।

अहङ्क्रियाविमूढात्मा कर्तास्मीत्यभिमन्यते ॥ २॥

 

तेन संसारपदवीमवशोऽभ्येत्यनिर्वृतः ।

प्रासङ्गिकैः कर्मदोषैः सदसन्मिश्रयोनिषु ॥ ३॥

 

अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते ।

ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ ४॥

 

अत एव शनैश्चित्तं प्रसक्तमसतां पथि ।

भक्तियोगेन तीव्रेण विरक्त्या च नयेद्वशम् ॥ ५॥

 

यमादिभिर्योगपथैरभ्यसन् श्रद्धयान्वितः ।

मयि भावेन सत्येन मत्कथाश्रवणेन च ॥ ६॥

 

सर्वभूतसमत्वेन निर्वैरेणाप्रसङ्गतः ।

ब्रह्मचर्येण मौनेन स्वधर्मेण बलीयसा ॥ ७॥

 

यदृच्छयोपलब्धेन सन्तुष्टो मितभुङ्मुनिः ।

विविक्तशरणः शान्तो मैत्रः करुण आत्मवान् ॥ ८॥

 

सानुबन्धे च देहेऽस्मिन्नकुर्वन्नसदाग्रहम् ।

ज्ञानेन दृष्टतत्त्वेन प्रकृतेः पुरुषस्य च ॥ ९॥

 

निवृत्तबुद्ध्यवस्थानो दूरीभूतान्यदर्शनः ।

उपलभ्यात्मनाऽऽत्मानं चक्षुषेवार्कमात्मदृक् ॥ १०॥

 

मुक्तलिङ्गं सदाभासमसति प्रतिपद्यते ।

सतो बन्धुमसच्चक्षुः सर्वानुस्यूतमद्वयम् ॥ ११॥

 

यथा जलस्थ आभासः स्थलस्थेनावदृश्यते ।

स्वाभासेन तथा सूर्यो जलस्थेन दिविस्थितः ॥ १२॥

 

एवं त्रिवृदहङ्कारो भूतेन्द्रियमनोमयैः ।

स्वाभासैर्लक्षितोऽनेन सदाभासेन सत्यदृक् ॥ १३॥

 

भूतसूक्ष्मेन्द्रियमनोबुद्ध्यादिष्विह निद्रया ।

लीनेष्वसति यस्तत्र विनिद्रो निरहङ्क्रियः ॥ १४॥

 

मन्यमानस्तदाऽऽत्मानमनष्टो नष्टवन्मृषा ।

नष्टेऽहङ्करणे द्रष्टा नष्टवित्त इवातुरः ॥ १५॥

 

एवं प्रत्यवमृश्यासावात्मानं प्रतिपद्यते ।

साहङ्कारस्य द्रव्यस्य योऽवस्थानमनुग्रहः ॥ १६॥

 

देवहूतिरुवाच

पुरुषं प्रकृतिर्ब्रह्मन् न विमुञ्चति कर्हिचित् ।

अन्योन्यापाश्रयत्वाच्च नित्यत्वादनयोः प्रभो ॥ १७॥

 

यथा गन्धस्य भूमेश्च न भावो व्यतिरेकतः ।

अपां रसस्य च यथा तथा बुद्धेः परस्य च ॥ १८॥

 

अकर्तुः कर्मबन्धोऽयं पुरुषस्य यदाश्रयः ।

गुणेषु सत्सु प्रकृतेः कैवल्यं तेष्वतः कथम् ॥ १९॥

 

क्वचित्तत्त्वावमर्शेन निवृत्तं भयमुल्बणम् ।

अनिवृत्तनिमित्तत्वात्पुनः प्रत्यवतिष्ठते ॥ २०॥

 

श्रीभगवानुवाच

अनिमित्तनिमित्तेन स्वधर्मेणामलात्मना ।

तीव्रया मयि भक्त्या च श्रुतसम्भृतया चिरम् ॥ २१॥

 

ज्ञानेन दृष्टतत्त्वेन वैराग्येण बलीयसा ।

तपोयुक्तेन योगेन तीव्रेणात्मसमाधिना ॥ २२॥

 

प्रकृतिः पुरुषस्येह दह्यमाना त्वहर्निशम् ।

तिरोभवित्री शनकैरग्नेर्योनिरिवारणिः ॥ २३॥

 

भुक्तभोगा परित्यक्ता दृष्टदोषा च नित्यशः ।

नेश्वरस्याशुभं धत्ते स्वे महिम्नि स्थितस्य च ॥ २४॥

 

यथा ह्यप्रतिबुद्धस्य प्रस्वापो बह्वनर्थभृत् ।

स एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ २५॥

 

एवं विदिततत्त्वस्य प्रकृतिर्मयि मानसम् ।

युञ्जतो नापकुरुत आत्मारामस्य कर्हिचित् ॥ २६॥

 

यदैवमध्यात्मरतः कालेन बहुजन्मना ।

सर्वत्र जातवैराग्य आब्रह्मभुवनान्मुनिः ॥ २७॥

 

मद्भक्तः प्रतिबुद्धार्थो मत्प्रसादेन भूयसा ।

निःश्रेयसं स्वसंस्थानं कैवल्याख्यं मदाश्रयम् ॥ २८॥

 

प्राप्नोतीहाञ्जसा धीरः स्वदृशाच्छिन्नसंशयः ।

यद्गत्वा न निवर्तेत योगी लिङ्गाद्विनिर्गमे ॥ २९॥

 

यदा न योगोपचितासु चेतो

मायासु सिद्धस्य विषज्जतेऽङ्ग ।

अनन्यहेतुष्वथ मे गतिः स्या-

दात्यन्तिकी यत्र न मृत्युहासः ॥ ३०॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे कापिलेयोपाख्याने सप्तविंशोऽध्यायः ॥ २७॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ अष्टाविंशोऽध्यायः २८ ॥

 

श्रीभगवानुवाच

योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे ।

मनो येनैव विधिना प्रसन्नं याति सत्पथम् ॥ १॥

 

स्वधर्माचरणं शक्त्या विधर्माच्च निवर्तनम् ।

दैवाल्लब्धेन सन्तोष आत्मविच्चरणार्चनम् ॥ २॥

 

ग्राम्यधर्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा ।

मितमेध्यादनं शश्वद्विविक्तक्षेमसेवनम् ॥ ३॥

 

अहिंसा सत्यमस्तेयं यावदर्थपरिग्रहः ।

ब्रह्मचर्यं तपः शौचं स्वाध्यायः पुरुषार्चनम् ॥ ४॥

 

मौनं सदासनजयः स्थैर्यं प्राणजयः शनैः ।

प्रत्याहारश्चेन्द्रियाणां विषयान्मनसा हृदि ॥ ५॥

 

स्वधिष्ण्यानामेकदेशे मनसा प्राणधारणम् ।

वैकुण्ठलीलाभिध्यानं समाधानं तथाऽऽत्मनः ॥ ६॥

 

एतैरन्यैश्च पथिभिर्मनो दुष्टमसत्पथम् ।

बुद्ध्या युञ्जीत शनकैर्जितप्राणो ह्यतन्द्रितः ॥ ७॥

 

शुचौ देशे प्रतिष्ठाप्य विजितासन आसनम् ।

तस्मिन् स्वस्ति समासीन ऋजुकायः समभ्यसेत् ॥ ८॥

 

प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकैः ।

प्रतिकूलेन वा चित्तं यथा स्थिरमचञ्चलम् ॥ ९॥

 

मनोऽचिरात्स्याद्विरजं जितश्वासस्य योगिनः ।

वाय्वग्निभ्यां यथा लोहं ध्मातं त्यजति वै मलम् ॥ १०॥

 

प्राणायामैर्दहेद्दोषान् धारणाभिश्च किल्बिषान् ।

प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान् ॥ ११॥

 

यदा मनः स्वं विरजं योगेन सुसमाहितम् ।

काष्ठां भगवतो ध्यायेत्स्वनासाग्रावलोकनः ॥ १२॥

 

प्रसन्नवदनाम्भोजं पद्मगर्भारुणेक्षणम् ।

नीलोत्पलदलश्यामं शङ्खचक्रगदाधरम् ॥ १३॥

 

लसत्पङ्कजकिञ्जल्कपीतकौशेयवाससम् ।

श्रीवत्सवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम् ॥ १४॥

 

मत्तद्विरेफकलया परीतं वनमालया ।

परार्ध्यहारवलयकिरीटाङ्गदनूपुरम् ॥ १५॥

 

काञ्चीगुणोल्लसच्छ्रोणिं हृदयाम्भोजविष्टरम् ।

दर्शनीयतमं शान्तं मनोनयनवर्धनम् ॥ १६॥

 

अपीच्यदर्शनं शश्वत्सर्वलोकनमस्कृतम् ।

सन्तं वयसि कैशोरे भृत्यानुग्रहकातरम् ॥ १७॥

 

कीर्तन्यतीर्थयशसं पुण्यश्लोकयशस्करम् ।

ध्यायेद्देवं समग्राङ्गं यावन्न च्यवते मनः ॥ १८॥

 

स्थितं व्रजन्तमासीनं शयानं वा गुहाशयम् ।

प्रेक्षणीयेहितं ध्यायेच्छुद्धभावेन चेतसा ॥ १९॥

 

तस्मिन् लब्धपदं चित्तं सर्वावयवसंस्थितम् ।

विलक्ष्यैकत्र संयुज्यादङ्गे भगवतो मुनिः ॥ २०॥

 

सञ्चिन्तयेद्भगवतश्चरणारविन्दं

वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यम् ।

उत्तुङ्गरक्तविलसन्नखचक्रवाल-

ज्योत्स्नाभिराहतमहद्धृदयान्धकारम् ॥ २१॥

 

यच्छौचनिःसृतसरित्प्रवरोदकेन

तीर्थेन मूर्ध्न्यधिकृतेन शिवः शिवोऽभूत् ।

ध्यातुर्मनःशमलशैलनिसृष्टवज्रं

ध्यायेच्चिरं भगवतश्चरणारविन्दम् ॥ २२॥

 

जानुद्वयं जलजलोचनया जनन्या

लक्ष्म्याखिलस्य सुरवन्दितया विधातुः ।

ऊर्वोर्निधाय करपल्लवरोचिषा यत्

संलालितं हृदि विभोरभवस्य कुर्यात् ॥ २३॥

 

ऊरू सुपर्णभुजयोरधिशोभमाना-

वोजोनिधी अतसिकाकुसुमावभासौ ।

व्यालम्बि पीतवरवाससि वर्तमान-

काञ्चीकलापपरिरम्भिनितम्बबिम्बम् ॥ २४॥

 

नाभिह्रदं भुवनकोशगुहोदरस्थं

यत्रात्मयोनिधिषणाखिललोकपद्मम् ।

व्यूढं हरिण्मणिवृषस्तनयोरमुष्य

ध्यायेद्द्वयं विशदहारमयूखगौरम् ॥ २५॥

 

वक्षोऽधिवासमृषभस्य महाविभूतेः

पुंसां मनोनयननिर्वृतिमादधानम् ।

कण्ठं च कौस्तुभमणेरधिभूषणार्थं

कुर्यान्मनस्यखिललोकनमस्कृतस्य ॥ २६॥

 

बाहूंश्च मन्दरगिरेः परिवर्तनेन

निर्णिक्तबाहुवलयानधिलोकपालान् ।

सञ्चिन्तयेद्दशशतारमसह्यतेजः

शङ्खं च तत्करसरोरुहराजहंसम् ॥ २७॥

 

कौमोदकीं भगवतो दयितां स्मरेत

दिग्धामरातिभटशोणितकर्दमेन ।

मालां मधुव्रतवरूथगिरोपघुष्टां

चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे ॥ २८॥

 

भृत्यानुकम्पितधियेह गृहीतमूर्तेः

सञ्चिन्तयेद्भगवतो वदनारविन्दम् ।

यद्विस्फुरन्मकरकुण्डलवल्गितेन

विद्योतितामलकपोलमुदारनासम् ॥ २९॥

 

यच्छ्रीनिकेतमलिभिः परिसेव्यमानं

भूत्या स्वया कुटिलकुन्तलवृन्दजुष्टम् ।

मीनद्वयाश्रयमधिक्षिपदब्जनेत्रं

ध्यायेन्मनोमयमतन्द्रित उल्लसद्भ्रु ॥ ३०॥

 

तस्यावलोकमधिकं कृपयातिघोर-

तापत्रयोपशमनाय निसृष्टमक्ष्णोः ।

स्निग्द्धस्मितानुगुणितं विपुलप्रसादं

ध्यायेच्चिरं विपुलभावनया गुहायाम् ॥ ३१॥

 

हासं हरेरवनताखिललोकतीव्र-

शोकाश्रुसागरविशोषणमत्युदारम् ।

सम्मोहनाय रचितं निजमाययास्य

भ्रूमण्डलं मुनिकृते मकरध्वजस्य ॥ ३२॥

 

ध्यानायनं प्रहसितं बहुलाधरोष्ठ-

भासारुणायिततनुद्विजकुन्दपङ्क्ति ।

ध्यायेत्स्वदेहकुहरेऽवसितस्य विष्णोः

भक्त्याऽऽर्द्रयार्पितमना न पृथग्दिदृक्षेत् ॥ ३३॥

 

एवं हरौ भगवति प्रतिलब्धभावो

भक्त्या द्रवद्धृदय उत्पुलकः प्रमोदात् ।

औत्कण्ठ्यबाष्पकलया मुहुरर्द्यमान-

स्तच्चापि चित्तबडिशं शनकैर्वियुङ्क्ते ॥ ३४॥

 

मुक्ताश्रयं यर्हि निर्विषयं विरक्तं

निर्वाणमृच्छति मनः सहसा यथार्चिः ।

आत्मानमत्र पुरुषोऽव्यवधानमेक-

मन्वीक्षते प्रतिनिवृत्तगुणप्रवाहः ॥ ३५॥

 

सोऽप्येतया चरमया मनसो निवृत्त्या

तस्मिन्महिम्न्यवसितः सुखदुःखबाह्ये ।

हेतुत्वमप्यसति कर्तरि दुःखयोर्यत्

स्वात्मन् विधत्त उपलब्धपरात्मकाष्ठः ॥ ३६॥

 

देहं च तं न चरमः स्थितमुत्थितं वा

सिद्धो विपश्यति यतोऽध्यगमत्स्वरूपम् ।

दैवादुपेतमथ दैववशादपेतं

वासो यथा परिकृतं मदिरामदान्धः ॥ ३७॥

 

देहोऽपि दैववशगः खलु कर्म यावत्

स्वारम्भकं प्रतिसमीक्षत एव सासुः ।

तं स प्रपञ्चमधिरूढसमाधियोगः

स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः ॥ ३८॥

 

यथा पुत्राच्च वित्ताच्च पृथङ्मर्त्यः प्रतीयते ।

अप्यात्मत्वेनाभिमताद्देहादेः पुरुषस्तथा ॥ ३९॥

 

यथोल्मुकाद्विस्फुलिङ्गाद्धूमाद्वापि स्वसम्भवात् ।

अप्यात्मत्वेनाभिमताद्यथाग्निः पृथगुल्मुकात् ॥ ४०॥

 

भूतेन्द्रियान्तःकरणात्प्रधानाज्जीवसंज्ञितात् ।

आत्मा तथा पृथग् द्रष्टा भगवान् ब्रह्मसंज्ञितः ॥ ४१॥

 

सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।

ईक्षेतानन्यभावेन भूतेष्विव तदात्मताम् ॥ ४२॥

 

स्वयोनिषु यथा ज्योतिरेकं नाना प्रतीयते ।

योनीनां गुणवैषम्यात्तथाऽऽत्मा प्रकृतौ स्थितः ॥ ४३॥

 

तस्मादिमां स्वां प्रकृतिं दैवीं सदसदात्मिकाम् ।

दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते ॥ ४४॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे कापिलेये साधनानुष्ठानं नामाष्टाविंशोऽध्यायः ॥ २८॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकोनत्रिंशोऽध्यायः - २९ ॥

 

देवहूतिरुवाच

लक्षणं महदादीनां प्रकृतेः पुरुषस्य च ।

स्वरूपं लक्ष्यतेऽमीषां येन तत्पारमार्थिकम् ॥ १॥

 

यथा साङ्ख्येषु कथितं यन्मूलं तत्प्रचक्षते ।

भक्तियोगस्य मे मार्गं ब्रूहि विस्तरशः प्रभो ॥ २॥

 

विरागो येन पुरुषो भगवन् सर्वतो भवेत् ।

आचक्ष्व जीवलोकस्य विविधा मम संसृतीः ॥ ३॥

 

कालस्येश्वररूपस्य परेषां च परस्य ते ।

स्वरूपं बत कुर्वन्ति यद्धेतोः कुशलं जनाः ॥ ४॥

 

लोकस्य मिथ्याभिमतेरचक्षुष-

श्चिरं प्रसुप्तस्य तमस्यनाश्रये ।

श्रान्तस्य कर्मस्वनुविद्धया धिया

त्वमाविरासीः किल योगभास्करः ॥ ५॥

 

मैत्रेय उवाच

इति मातुर्वचः श्लक्ष्णं प्रतिनन्द्य महामुनिः ।

आबभाषे कुरुश्रेष्ठ प्रीतस्तां करुणार्दितः ॥ ६॥

 

श्रीभगवानुवाच

भक्तियोगो बहुविधो मार्गैर्भामिनि भाव्यते ।

स्वभावगुणमार्गेण पुंसां भावो विभिद्यते ॥ ७॥

 

अभिसन्धाय यो हिंसां दम्भं मात्सर्यमेव वा ।

संरम्भी भिन्नदृग्भावं मयि कुर्यात्स तामसः ॥ ८॥

 

विषयानभिसन्धाय यश ऐश्वर्यमेव वा ।

अर्चादावर्चयेद्यो मां पृथग्भावः स राजसः ॥ ९॥

 

कर्मनिर्हारमुद्दिश्य परस्मिन् वा तदर्पणम् ।

यजेद्यष्टव्यमिति वा पृथग्भावः स सात्त्विकः ॥ १०॥

 

मद्गुणश्रुतिमात्रेण मयि सर्वगुहाशये ।

मनोगतिरविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ ॥ ११॥

 

लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम् ।

अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे ॥ १२॥

 

सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमप्युत ।

दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः ॥ १३॥

 

स एव भक्तियोगाख्य आत्यन्तिक उदाहृतः ।

येनातिव्रज्य त्रिगुणं मद्भावायोपपद्यते ॥ १४॥

 

निषेवितेनानिमित्तेन स्वधर्मेण महीयसा ।

क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यशः ॥ १५॥

 

मद्धिष्ण्यदर्शनस्पर्शपूजास्तुत्यभिवन्दनैः ।

भूतेषु मद्भावनया सत्त्वेनासङ्गमेन च ॥ १६॥

 

महतां बहुमानेन दीनानामनुकम्पया ।

मैत्र्या चैवात्मतुल्येषु यमेन नियमेन च ॥ १७॥

 

आध्यात्मिकानुश्रवणान्नामसङ्कीर्तनाच्च मे ।

आर्जवेनार्यसङ्गेन निरहङ्क्रियया तथा ॥ १८॥

 

मद्धर्मणो गुणैरेतैः परिसंशुद्ध आशयः ।

पुरुषस्याञ्जसाभ्येति श्रुतमात्रगुणं हि माम् ॥ १९॥

 

यथा वातरथो घ्राणमावृङ्क्ते गन्ध आशयात् ।

एवं योगरतं चेत आत्मानमविकारि यत् ॥ २०॥

 

अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा ।

तमवज्ञाय मां मर्त्यः कुरुतेऽर्चाविडम्बनम् ॥ २१॥

 

यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम् ।

हित्वार्चां भजते मौढ्याद्भस्मन्येव जुहोति सः ॥ २२॥

 

द्विषतः परकाये मां मानिनो भिन्नदर्शिनः ।

भूतेषु बद्धवैरस्य न मनःशान्तिमृच्छति ॥ २३॥

 

अहमुच्चावचैर्द्रव्यैः क्रिययोत्पन्नयानघे ।

नैव तुष्येऽर्चितोऽर्चायां भूतग्रामावमानिनः ॥ २४॥

 

अर्चादावर्चयेत्तावदीश्वरं मां स्वकर्मकृत् ।

यावन्न वेद स्वहृदि सर्वभूतेष्ववस्थितम् ॥ २५॥

 

आत्मनश्च परस्यापि यः करोत्यन्तरोदरम् ।

तस्य भिन्नदृशो मृत्युर्विदधे भयमुल्बणम् ॥ २६॥

 

अथ मां सर्वभूतेषु भूतात्मानं कृतालयम् ।

अर्हयेद्दानमानाभ्यां मैत्र्याभिन्नेन चक्षुषा ॥ २७॥

 

जीवाः श्रेष्ठा ह्यजीवानां ततः प्राणभृतः शुभे ।

ततः सचित्ताः प्रवरास्ततश्चेन्द्रियवृत्तयः ॥ २८॥

 

तत्रापि स्पर्शवेदिभ्यः प्रवरा रसवेदिनः ।

तेभ्यो गन्धविदः श्रेष्ठास्ततः शब्दविदो वराः ॥ २९॥

 

रूपभेदविदस्तत्र ततश्चोभयतो दतः ।

तेषां बहुपदाः श्रेष्ठाश्चतुष्पादस्ततो द्विपात् ॥ ३०॥

 

ततो वर्णाश्च चत्वारस्तेषां ब्राह्मण उत्तमः ।

ब्राह्मणेष्वपि वेदज्ञो ह्यर्थज्ञोऽभ्यधिकस्ततः ॥ ३१॥

 

अर्थज्ञात्संशयच्छेत्ता ततः श्रेयान् स्वकर्मकृत् ।

मुक्तसङ्गस्ततो भूयानदोग्धा धर्ममात्मनः ॥ ३२॥

 

तस्मान्मय्यर्पिताशेषक्रियार्थात्मा निरन्तरः ।

मय्यर्पितात्मनः पुंसो मयि सन्न्यस्तकर्मणः ।

न पश्यामि परं भूतमकर्तुः समदर्शनात् ॥ ३३॥

 

मनसैतानि भूतानि प्रणमेद्बहुमानयन् ।

ईश्वरो जीवकलया प्रविष्टो भगवानिति ॥ ३४॥

 

भक्तियोगश्च योगश्च मया मानव्युदीरितः ।

ययोरेकतरेणैव पुरुषः पुरुषं व्रजेत् ॥ ३५॥

 

एतद्भगवतो रूपं ब्रह्मणः परमात्मनः ।

परं प्रधानं पुरुषं दैवं कर्मविचेष्टितम् ॥ ३६॥

 

रूपभेदास्पदं दिव्यं काल इत्यभिधीयते ।

भूतानां महदादीनां यतो भिन्नदृशां भयम् ॥ ३७॥

 

योऽन्तःप्रविश्य भूतानि भूतैरत्त्यखिलाश्रयः ।

स विष्ण्वाख्योऽधियज्ञोऽसौ कालः कलयतां प्रभुः ॥ ३८॥

 

न चास्य कश्चिद्दयितो न द्वेष्यो न च बान्धवः ।

आविशत्यप्रमत्तोऽसौ प्रमत्तं जनमन्तकृत् ॥ ३९॥

 

यद्भयाद्वाति वातोऽयं सूर्यस्तपति यद्भयात् ।

यद्भयाद्वर्षते देवो भगणो भाति यद्भयात् ॥ ४०॥

 

यद्वनस्पतयो भीता लताश्चौषधिभिः सह ।

स्वे स्वे कालेऽभिगृह्णन्ति पुष्पाणि च फलानि च ॥ ४१॥

 

स्रवन्ति सरितो भीता नोत्सर्पत्युदधिर्यतः ।

अग्निरिन्धे सगिरिभिर्भूर्न मज्जति यद्भयात् ॥ ४२॥

 

नभो ददाति श्वसतां पदं यन्नियमाददः ।

लोकं स्वदेहं तनुते महान्सप्तभिरावृतम् ॥ ४३॥

 

गुणाभिमानिनो देवाः सर्गादिष्वस्य यद्भयात् ।

वर्तन्तेऽनुयुगं येषां वश एतच्चराचरम् ॥ ४४॥

 

सोऽनन्तोऽन्तकरः कालोऽनादिरादिकृदव्ययः ।

जनं जनेन जनयन् मारयन् मृत्युनान्तकम् ॥ ४५॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे कापिलेयोपाख्याने एकोनत्रिंशोऽध्यायः ॥ २९॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ त्रिंशोऽध्यायः - ३० ॥

 

कपिल उवाच

तस्यैतस्य जनो नूनं नायं वेदोरुविक्रमम् ।

काल्यमानोऽपि बलिनो वायोरिव घनावलिः ॥ १॥

 

यं यमर्थमुपादत्ते दुःखेन सुखहेतवे ।

तं तं धुनोति भगवान् पुमान् शोचति यत्कृते ॥ २॥

 

यदध्रुवस्य देहस्य सानुबन्धस्य दुर्मतिः ।

ध्रुवाणि मन्यते मोहाद्गृहक्षेत्रवसूनि च ॥ ३॥

 

जन्तुर्वै भव एतस्मिन् यां यां योनिमनुव्रजेत् ।

तस्यां तस्यां स लभते निर्वृतिं न विरज्यते ॥ ४॥

 

नरकस्थोऽपि देहं वै न पुमांस्त्यक्तुमिच्छति ।

नारक्यां निर्वृतौ सत्यां देवमायाविमोहितः ॥ ५॥

 

आत्मजायासुतागारपशुद्रविणबन्धुषु ।

निरूढमूलहृदय आत्मानं बहु मन्यते ॥ ६॥

 

सन्दह्यमानसर्वाङ्ग एषामुद्वहनाधिना ।

करोत्यविरतं मूढो दुरितानि दुराशयः ॥ ७॥

 

आक्षिप्तात्मेन्द्रियः स्त्रीणामसतीनां च मायया ।

रहो रचितयाऽऽलापैः शिशूनां कलभाषिणाम् ॥ ८॥

 

गृहेषु कूटधर्मेषु दुःखतन्त्रेष्वतन्द्रितः ।

कुर्वन् दुःखप्रतीकारं सुखवन्मन्यते गृही ॥ ९॥

 

अर्थैरापादितैर्गुर्व्या हिंसयेतस्ततश्च तान् ।

पुष्णाति येषां पोषेण शेषभुग्यात्यधः स्वयम् ॥ १०॥

 

वार्तायां लुप्यमानायामारब्धायां पुनः पुनः ।

लोभाभिभूतो निःसत्त्वः परार्थे कुरुते स्पृहाम् ॥ ११॥

 

कुटुम्बभरणाकल्पो मन्दभाग्यो वृथोद्यमः ।

श्रिया विहीनः कृपणो ध्यायन् श्वसिति मूढधीः ॥ १२॥

 

एवं स्वभरणाकल्पं तत्कलत्रादयस्तथा ।

नाद्रियन्ते यथापूर्वं कीनाशा इव गोजरम् ॥ १३॥

 

तत्राप्यजातनिर्वेदो भ्रियमाणः स्वयम्भृतैः ।

जरयोपात्तवैरूप्यो मरणाभिमुखो गृहे ॥ १४॥

 

आस्तेऽवमत्योपन्यस्तं गृहपाल इवाहरन् ।

आमयाव्यप्रदीप्ताग्निरल्पाहारोऽल्पचेष्टितः ॥ १५॥

 

वायुनोत्क्रमतोत्तारः कफसंरुद्धनाडिकः ।

कासश्वासकृतायासः कण्ठे घुरघुरायते ॥ १६॥

 

शयानः परिशोचद्भिः परिवीतः स्वबन्धुभिः ।

वाच्यमानोऽपि न ब्रूते कालपाशवशं गतः ॥ १७॥

 

एवं कुटुम्बभरणे व्यापृतात्माजितेन्द्रियः ।

म्रियते रुदतां स्वानामुरुवेदनयास्तधीः ॥ १८॥

 

यमदूतौ तदा प्राप्तौ भीमौ सरभसेक्षणौ ।

स दृष्ट्वा त्रस्तहृदयः शकृन्मूत्रं विमुञ्चति ॥ १९॥

 

यातनादेह आवृत्य पाशैर्बद्ध्वा गले बलात् ।

नयतो दीर्घमध्वानं दण्ड्यं राजभटा यथा ॥ २०॥

 

तयोर्निर्भिन्नहृदयस्तर्जनैर्जातवेपथुः ।

पथि श्वभिर्भक्ष्यमाण आर्तोऽघं स्वमनुस्मरन् ॥ २१॥

 

क्षुत्तृट् परीतोऽर्कदवानलानिलैः

सन्तप्यमानः पथि तप्तवालुके ।

कृच्छ्रेण पृष्ठे कशया च ताडितः

चलत्यशक्तोऽपि निराश्रमोदके ॥ २२॥

 

तत्र तत्र पतन् श्रान्तो मूर्च्छितः पुनरुत्थितः ।

पथा पापीयसा नीतस्तरसा यमसादनम् ॥ २३॥

 

योजनानां सहस्राणि नवतिं नव चाध्वनः ।

त्रिभिर्मुहूर्तैर्द्वाभ्यां वा नीतः प्राप्नोति यातनाः ॥ २४॥

 

आदीपनं स्वगात्राणां वेष्टयित्वोल्मुकादिभिः ।

आत्ममांसादनं क्वापि स्वकृत्तं परतोऽपि वा ॥ २५॥

 

जीवतश्चान्त्राभ्युद्धारः श्वगृध्रैर्यमसादने ।

सर्पवृश्चिकदंशाद्यैर्दशद्भिश्चात्मवैशसम् ॥ २६॥

 

कृन्तनं चावयवशो गजादिभ्यो भिदापनम् ।

पातनं गिरिश‍ृङ्गेभ्यो रोधनं चाम्बुगर्तयोः ॥ २७॥

 

यास्तामिस्रान्धतामिस्रा रौरवाद्याश्च यातनाः ।

भुङ्क्ते नरो वा नारी वा मिथः सङ्गेन निर्मिताः ॥ २८॥

 

अत्रैव नरकः स्वर्ग इति मातः प्रचक्षते ।

या यातना वै नारक्यस्ता इहाप्युपलक्षिताः ॥ २९॥

 

एवं कुटुम्बं बिभ्राण उदरम्भर एव वा ।

विसृज्येहोभयं प्रेत्य भुङ्क्ते तत्फलमीदृशम् ॥ ३०॥

 

एकः प्रपद्यते ध्वान्तं हित्वेदं स्वकलेवरम् ।

कुशलेतरपाथेयो भूतद्रोहेण यद्भृतम् ॥ ३१॥

 

दैवेनासादितं तस्य शमलं निरये पुमान् ।

भुङ्क्ते कुटुम्बपोषस्य हृतवित्त इवातुरः ॥ ३२॥

 

केवलेन ह्यधर्मेण कुटुम्बभरणोत्सुकः ।

याति जीवोऽन्धतामिस्रं चरमं तमसः पदम् ॥ ३३॥

 

अधस्तान्नरलोकस्य यावतीर्यातनादयः ।

क्रमशः समनुक्रम्य पुनरत्राव्रजेच्छुचिः ॥ ३४॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे कापिलेयोपाख्याने कर्मविपाको नम

त्रिंशोऽध्यायः ॥ ३०॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ एकत्रिंशोऽध्यायः - ३१ ॥

 

श्रीभगवानुवाच

कर्मणा दैवनेत्रेण जन्तुर्देहोपपत्तये ।

स्त्रियाः प्रविष्ट उदरं पुंसो रेतः कणाश्रयः ॥ १॥

 

कललं त्वेकरात्रेण पञ्चरात्रेण बुद्बुदम् ।

दशाहेन तु कर्कन्धूः पेश्यण्डं वा ततः परम् ॥ २॥

 

मासेन तु शिरो द्वाभ्यां बाह्वङ्घ्र्याद्यङ्गविग्रहः ।

नखलोमास्थिचर्माणि लिङ्गच्छिद्रोद्भवस्त्रिभिः ॥ ३॥

 

चतुर्भिर्धातवः सप्त पञ्चभिः क्षुत्तृडुद्भवः ।

षड्भिर्जरायुणा वीतः कुक्षौ भ्राम्यति दक्षिणे ॥ ४॥

 

मातुर्जग्धान्नपानाद्यैरेधद्धातुरसम्मते ।

शेते विण्मूत्रयोर्गर्ते स जन्तुर्जन्तुसम्भवे ॥ ५॥

 

कृमिभिः क्षतसर्वाङ्गः सौकुमार्यात्प्रतिक्षणम् ।

मूर्च्छामाप्नोत्युरुक्लेशस्तत्रत्यैः क्षुधितैर्मुहुः ॥ ६॥

 

कटुतीक्ष्णोष्णलवणरूक्षाम्लादिभिरुल्बणैः ।

मातृभुक्तैरुपस्पृष्टः सर्वाङ्गोत्थितवेदनः ॥ ७॥

 

उल्बेन संवृतस्तस्मिन्नन्त्रैश्च बहिरावृतः ।

आस्ते कृत्वा शिरः कुक्षौ भुग्नपृष्ठशिरोधरः ॥ ८॥

 

अकल्पः स्वाङ्गचेष्टायां शकुन्त इव पञ्जरे ।

तत्र लब्धस्मृतिर्दैवात्कर्मजन्मशतोद्भवम् ।

स्मरन् दीर्घमनुच्छ्वासं शर्म किं नाम विन्दते ॥ ९॥

 

आरभ्य सप्तमान्मासाल्लब्धबोधोऽपि वेपितः ।

नैकत्रास्ते सूतिवातैर्विष्ठाभूरिव सोदरः ॥ १०॥

 

नाथमान ऋषिर्भीतः सप्तवध्रिः कृताञ्जलिः ।

स्तुवीत तं विक्लवया वाचा येनोदरेऽर्पितः ॥ ११॥

 

जन्तुरुवाच

तस्योपसन्नमवितुं जगदिच्छयात्त-

नानातनोर्भुवि चलच्चरणारविन्दम् ।

सोऽहं व्रजामि शरणं ह्यकुतोभयं मे

येनेदृशी गतिरदर्श्यसतोऽनुरूपा ॥ १२॥

 

यस्त्वत्र बद्ध इव कर्मभिरावृतात्मा

भूतेन्द्रियाशयमयीमवलम्ब्य मायाम् ।

आस्ते विशुद्धमविकारमखण्डबोध-

मातप्यमानहृदयेऽवसितं नमामि ॥ १३॥

 

यः पञ्चभूतरचिते रहितः शरीरे

छन्नो यथेन्द्रियगुणार्थचिदात्मकोऽहम् ।

तेनाविकुण्ठमहिमानमृषिं तमेनं

वन्दे परं प्रकृतिपूरुषयोः पुमांसम् ॥ १४॥

 

यन्माययोरुगुणकर्मनिबन्धनेऽस्मिन्

सांसारिके पथि चरंस्तदभिश्रमेण ।

नष्टस्मृतिः पुनरयं प्रवृणीत लोकं

युक्त्या कया महदनुग्रहमन्तरेण ॥ १५॥

 

ज्ञानं यदेतददधात्कतमः स देवः

त्रैकालिकं स्थिरचरेष्वनुवर्तितांशः ।

तं जीवकर्मपदवीमनुवर्तमाना-

स्तापत्रयोपशमनाय वयं भजेम ॥ १६॥

 

देह्यन्यदेहविवरे जठराग्निनासृग्-

विण्मूत्रकूपपतितो भृशतप्तदेहः ।

इच्छन्नितो विवसितुं गणयन् स्वमासान्

निर्वास्यते कृपणधीर्भगवन् कदा नु ॥ १७॥

 

येनेदृशीं गतिमसौ दशमास्य ईश

सङ्ग्राहितः पुरुदयेन भवादृशेन ।

स्वेनैव तुष्यतु कृतेन स दीननाथः

को नाम तत्प्रति विनाञ्जलिमस्य कुर्यात् ॥ १८॥

 

पश्यत्ययं धिषणया ननु सप्तवध्रिः

शारीरके दमशरीर्यपरः स्वदेहे ।

यत्सृष्टयाऽऽसं तमहं पुरुषं पुराणं

पश्ये बहिर्हृदि च चैत्यमिव प्रतीतम् ॥ १९॥

 

सोऽहं वसन्नपि विभो बहुदुःखवासं

गर्भान्न निर्जिगमिषे बहिरन्धकूपे ।

यत्रोपयातमुपसर्पति देवमाया

मिथ्यामतिर्यदनु संसृतिचक्रमेतत् ॥ २०॥

 

तस्मादहं विगतविक्लव उद्धरिष्य

आत्मानमाशु तमसः सुहृदात्मनैव ।

भूयो यथा व्यसनमेतदनेकरन्ध्रं

मा मे भविष्यदुपसादितविष्णुपादः ॥ २१॥

 

कपिल उवाच

एवं कृतमतिर्गर्भे दशमास्यः स्तुवन् ऋषिः ।

सद्यः क्षिपत्यवाचीनं प्रसूत्यै सूतिमारुतः ॥ २२॥

 

तेनावसृष्टः सहसा कृत्वावाक्शिर आतुरः ।

विनिष्क्रामति कृच्छ्रेण निरुच्छ्वासो हतस्मृतिः ॥ २३॥

 

पतितो भुव्यसृङ्मूत्रे विष्ठाभूरिव चेष्टते ।

रोरूयति गते ज्ञाने विपरीतां गतिं गतः ॥ २४॥

 

परच्छन्दं न विदुषा पुष्यमाणो जनेन सः ।

अनभिप्रेतमापन्नः प्रत्याख्यातुमनीश्वरः ॥ २५॥

 

शायितोऽशुचिपर्यङ्के जन्तुः स्वेदजदूषिते ।

नेशः कण्डूयनेऽङ्गानामासनोत्थानचेष्टने ॥ २६॥

 

तुदन्त्यामत्वचं दंशा मशका मत्कुणादयः ।

रुदन्तं विगतज्ञानं कृमयः कृमिकं यथा ॥ २७॥

 

इत्येवं शैशवं भुक्त्वा दुःखं पौगण्डमेव च ।

अलब्धाभीप्सितोऽज्ञानादिद्धमन्युः शुचार्पितः ॥ २८॥

 

सह देहेन मानेन वर्धमानेन मन्युना ।

करोति विग्रहं कामी कामिष्वन्ताय चात्मनः ॥ २९॥

 

भूतैः पञ्चभिरारब्धे देहे देह्यबुधोऽसकृत् ।

अहं ममेत्यसद्ग्राहः करोति कुमतिर्मतिम् ॥ ३०॥

 

तदर्थं कुरुते कर्म यद्बद्धो याति संसृतिम् ।

योऽनुयाति ददत्क्लेशमविद्याकर्मबन्धनः ॥ ३१॥

 

यद्यसद्भिः पथि पुनः शिश्नोदरकृतोद्यमैः ।

आस्थितो रमते जन्तुस्तमो विशति पूर्ववत् ॥ ३२॥

 

सत्यं शौचं दया मौनं बुद्धिः श्रीर्ह्रीर्यशः क्षमा ।

शमो दमो भगश्चेति यत्सङ्गाद्याति सङ्क्षयम् ॥ ३३॥

 

तेष्वशान्तेषु मूढेषु खण्डितात्मस्वसाधुषु ।

सङ्गं न कुर्याच्छोच्येषु योषित्क्रीडामृगेषु च ॥ ३४॥

 

न तथास्य भवेन्मोहो बन्धश्चान्यप्रसङ्गतः ।

योषित्सङ्गाद्यथा पुंसो यथा तत्सङ्गिसङ्गतः ॥ ३५॥

 

प्रजापतिः स्वां दुहितरं दृष्ट्वा तद्रूपधर्षितः ।

रोहिद्भूतां सोऽन्वधावदृक्षरूपी हतत्रपः ॥ ३६॥

 

तत्सृष्टसृष्टसृष्टेषु को न्वखण्डितधीः पुमान् ।

ऋषिं नारायणमृते योषिन्मय्येह मायया ॥ ३७॥

 

बलं मे पश्य मायायाः स्त्रीमय्या जयिनो दिशाम् ।

या करोति पदाक्रान्तान् भ्रूविजृम्भेण केवलम् ॥ ३८॥

 

सङ्गं न कुर्यात्प्रमदासु जातु

योगस्य पारं परमारुरुक्षुः ।

मत्सेवया प्रतिलब्धात्मलाभो

वदन्ति या निरयद्वारमस्य ॥ ३९॥

 

योपयाति शनैर्माया योषिद्देवविनिर्मिता ।

तामीक्षेतात्मनो मृत्युं तृणैः कूपमिवावृतम् ॥ ४०॥

 

यां मन्यते पतिं मोहान्मन्मायामृषभायतीम् ।

स्त्रीत्वं स्त्रीसङ्गतः प्राप्तो वित्तापत्यगृहप्रदम् ॥ ४१॥

 

तामात्मनो विजानीयात्पत्यपत्यगृहात्मकम् ।

दैवोपसादितं मृत्युं मृगयोर्गायनं यथा ॥ ४२॥

 

देहेन जीवभूतेन लोकाल्लोकमनुव्रजन् ।

भुञ्जान एव कर्माणि करोत्यविरतं पुमान् ॥ ४३॥

 

जीवो ह्यस्यानुगो देहो भूतेन्द्रियमनोमयः ।

तन्निरोधोऽस्य मरणमाविर्भावस्तु सम्भवः ॥ ४४॥

 

द्रव्योपलब्धिस्थानस्य द्रव्येक्षायोग्यता यदा ।

तत्पञ्चत्वमहम्मानादुत्पत्तिर्द्रव्यदर्शनम् ॥ ४५॥

 

यथाक्ष्णोर्द्रव्यावयवदर्शनायोग्यता यदा ।

तदैव चक्षुषो द्रष्टुर्द्रष्टृत्वायोग्यतानयोः ॥ ४६॥

 

तस्मान्न कार्यः सन्त्रासो न कार्पण्यं न सम्भ्रमः ।

बुद्ध्वा जीवगतिं धीरो मुक्तसङ्गश्चरेदिह ॥ ४७॥

 

सम्यग्दर्शनया बुद्ध्या योगवैराग्ययुक्तया ।

मायाविरचिते लोके चरेन्न्यस्य कलेवरम् ॥ ४८॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे कापिलेयोपाख्याने जीवगतिर्नाम

एकत्रिंशोऽध्यायः ॥ ३१॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

   द्वात्रिंशोऽध्यायः - ३२ ॥

 

कपिल उवाच

अथ यो गृहमेधीयान् धर्मानेवावसन् गृहे ।

काममर्थं च धर्मान् स्वान् दोग्धि भूयः पिपर्ति तान् ॥ १॥

 

स चापि भगवद्धर्मात्काममूढः पराङ्मुखः ।

यजते क्रतुभिर्देवान् पितॄंश्च श्रद्धयान्वितः ॥ २॥

 

तच्छ्रद्धयाऽऽक्रान्तमतिः पितृदेवव्रतः पुमान् ।

गत्वा चान्द्रमसं लोकं सोमपाः पुनरेष्यति ॥ ३॥

 

यदा चाहीन्द्रशय्यायां शेतेऽनन्तासनो हरिः ।

तदा लोका लयं यान्ति त एते गृहमेधिनाम् ॥ ४॥

 

ये स्वधर्मान् न दुह्यन्ति धीराः कामार्थहेतवे ।

निःसङ्गा न्यस्तकर्माणः प्रशान्ताः शुद्धचेतसः ॥ ५॥

 

निवृत्तिधर्मनिरता निर्ममा निरहङ्कृताः ।

स्वधर्माख्येन सत्त्वेन परिशुद्धेन चेतसा ॥ ६॥

 

सूर्यद्वारेण ते यान्ति पुरुषं विश्वतोमुखम् ।

परावरेशं प्रकृतिमस्योत्पत्त्यन्तभावनम् ॥ ७॥

 

द्विपरार्धावसाने यः प्रलयो ब्रह्मणस्तु ते ।

तावदध्यासते लोकं परस्य परचिन्तकाः ॥ ८॥

 

क्ष्माम्भोऽनलाऽनिलवियन्मन इन्द्रियार्थ-

भूतादिभिः परिवृतं प्रतिसञ्जिहीर्षुः ।

अव्याकृतं विशति यर्हि गुणत्रयात्मा

कालं पराख्यमनुभूय परः स्वयम्भूः ॥ ९॥

 

एवं परेत्य भगवन्तमनुप्रविष्टा

ये योगिनो जितमरुन्मनसो विरागाः ।

तेनैव साकममृतं पुरुषं पुराणं

ब्रह्म प्रधानमुपयान्त्यगताभिमानाः ॥ १०॥

 

अथ तं सर्वभूतानां हृत्पद्मेषु कृतालयम् ।

श्रुतानुभावं शरणं व्रज भावेन भामिनि ॥ ११॥

 

आद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिः ।

योगेश्वरैः कुमाराद्यैः सिद्धैर्योगप्रवर्तकैः ॥ १२॥

 

भेददृष्ट्याभिमानेन निःसङ्गेनापि कर्मणा ।

कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम् ॥ १३॥

 

स संसृत्य पुनः काले कालेनेश्वरमूर्तिना ।

जाते गुणव्यतिकरे यथापूर्वं प्रजायते ॥ १४॥

 

ऐश्वर्यं पारमेष्ठ्यं च तेऽपि धर्मविनिर्मितम् ।

निषेव्य पुनरायान्ति गुणव्यतिकरे सति ॥ १५॥

 

ये त्विहासक्तमनसः कर्मसु श्रद्धयान्विताः ।

कुर्वन्त्यप्रतिषिद्धानि नित्यान्यपि च कृत्स्नशः ॥ १६॥

 

रजसा कुण्ठमनसः कामात्मानोऽजितेन्द्रियाः ।

पितॄन् यजन्त्यनुदिनं गृहेष्वभिरताशयाः ॥ १७॥

 

त्रैवर्गिकास्ते पुरुषा विमुखा हरिमेधसः ।

कथायां कथनीयोरुविक्रमस्य मधुद्विषः ॥ १८॥

 

नूनं दैवेन विहता ये चाच्युतकथासुधाम् ।

हित्वा श‍ृण्वन्त्यसद्गाथाः पुरीषमिव विड्भुजः ॥ १९॥

 

दक्षिणेन पथार्यम्णः पितृलोकं व्रजन्ति ते ।

प्रजामनु प्रजायन्ते श्मशानान्तक्रियाकृतः ॥ २०॥

 

ततस्ते क्षीणसुकृताः पुनर्लोकमिमं सति ।

पतन्ति विवशा देवैः सद्यो विभ्रंशितोदयाः ॥ २१॥

 

तस्मात्त्वं सर्वभावेन भजस्व परमेष्ठिनम् ।

तद्गुणाश्रयया भक्त्या भजनीयपदाबुजम् ॥ २२॥

 

वासुदेवे भगवति भक्तियोगः प्रयोजितः ।

जनयत्याशु वैराग्यं ज्ञानं यद्ब्रह्मदर्शनम् ॥ २३॥

 

यदास्य चित्तमर्थेषु समेष्विन्द्रियवृत्तिभिः ।

न विगृह्णाति वैषम्यं प्रियमप्रियमित्युत ॥ २४॥

 

स तदैवात्मनाऽऽत्मानं निःसङ्गं समदर्शनम् ।

हेयोपादेयरहितमारूढं पदमीक्षते ॥ २५॥

 

ज्ञानमात्रं परं ब्रह्म परमात्मेश्वरः पुमान् ।

दृश्यादिभिः पृथग्भावैर्भगवानेक ईयते ॥ २६॥

 

एतावानेव योगेन समग्रेणेह योगिनः ।

युज्यतेऽभिमतो ह्यर्थो यदसङ्गस्तु कृत्स्नशः ॥ २७॥

 

ज्ञानमेकं पराचीनैरिन्द्रियैर्ब्रह्म निर्गुणम् ।

अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्मिणा ॥ २८॥

 

यथा महानहं रूपस्त्रिवृत्पञ्चविधः स्वराट् ।

एकादशविधस्तस्य वपुरण्डं जगद्यतः ॥ २९॥

 

एतद्वै श्रद्धया भक्त्या योगाभ्यासेन नित्यशः ।

समाहितात्मा निःसङ्गो विरक्त्या परिपश्यति ॥ ३०॥

 

इत्येतत्कथितं गुर्वि ज्ञानं तद्ब्रह्मदर्शनम् ।

येनावबुद्ध्यते तत्त्वं प्रकृतेः पुरुषस्य च ॥ ३१॥

 

ज्ञानयोगश्च मन्निष्ठो नैर्गुण्यो भक्तिलक्षणः ।

द्वयोरप्येक एवार्थो भगवच्छब्दलक्षणः ॥ ३२॥

 

यथेन्द्रियैः पृथग्द्वारैरर्थो बहुगुणाश्रयः ।

एको नानेयते तद्वद्भगवान् शास्त्रवर्त्मभिः ॥ ३३॥

 

क्रियया क्रतुभिर्दानैस्तपःस्वाध्यायमर्शनैः ।

आत्मेन्द्रियजयेनापि सन्न्यासेन च कर्मणाम् ॥ ३४॥

 

योगेन विविधाङ्गेन भक्तियोगेन चैव हि ।

धर्मेणोभयचिह्नेन यः प्रवृत्तिनिवृत्तिमान् ॥ ३५॥

 

आत्मतत्त्वावबोधेन वैराग्येण दृढेन च ।

ईयते भगवानेभिः सगुणो निर्गुणः स्वदृक् ॥ ३६॥

 

प्रावोचं भक्तियोगस्य स्वरूपं ते चतुर्विधम् ।

कालस्य चाव्यक्तगतेर्योऽन्तर्धावति जन्तुषु ॥ ३७॥

 

जीवस्य संसृतीर्बह्वीरविद्याकर्मनिर्मिताः ।

यास्वङ्ग प्रविशन्नात्मा न वेद गतिमात्मनः ॥ ३८॥

 

नैतत्खलायोपदिशेन्नाविनीताय कर्हिचित् ।

न स्तब्धाय न भिन्नाय नैव धर्मध्वजाय च ॥ ३९॥

 

न लोलुपायोपदिशेन्न गृहारूढचेतसे ।

नाभक्ताय च मे जातु न मद्भक्तद्विषामपि ॥ ४०॥

 

श्रद्दधानाय भक्ताय विनीतायानसूयवे ।

भूतेषु कृतमैत्राय शुश्रूषाभिरताय च ॥ ४१॥

 

बहिर्जातविरागाय शान्तचित्ताय दीयताम् ।

निर्मत्सराय शुचये यस्याहं प्रेयसां प्रियः ॥ ४२॥

 

य इदं श‍ृणुयादम्ब श्रद्धया पुरुषः सकृत् ।

यो वाभिधत्ते मच्चित्तः स ह्येति पदवीं च मे ॥ ४३॥

 

इति श्रीमद्भागवते महापुराणे पारमहंस्यांसंहितायां

तृतीयस्कन्धे कापिलेये द्वात्रिंशोऽध्यायः ॥ ३२॥

 


 

॥ ॐ नमो भगवते वासुदेवाय ॥

 

॥ त्रयस्त्रिंशोऽध्यायः - ३३ ॥

 

मैत्रेय उवाच

एवं निशम्य कपिलस्य वचो जनित्री

सा कर्दमस्य दयिता किल देवहूतिः ।

विस्रस्तमोहपटला तमभिप्रणम्य

तुष्टाव तत्त्वविषयाङ्कितसिद्धिभूमिम् ॥ १॥

 

देवहूतिरुवाच

अथाप्यजोऽन्तःसलिले शयानं

भूतेन्द्रियार्थात्ममयं वपुस्ते ।

गुणप्रवाहं सदशेषबीजं

दध्यौ स्वयं यज्जठराब्जजातः ॥ २॥

 

स एव विश्वस्य भवान् विधत्ते

गुणप्रवाहेण विभक्तवीर्यः ।

सर्गाद्यनीहोऽवितथाभिसन्धि-

रात्मेश्वरोऽतर्क्यसहस्रशक्तिः ॥ ३॥

 

स त्वं भृतो मे जठरेण नाथ

कथं नु यस्योदर एतदासीत् ।

विश्वं युगान्ते वटपत्र एकः

शेते स्म मायाशिशुरङ्घ्रिपानः ॥ ४॥

 

त्वं देहतन्त्रः प्रशमाय पाप्मनां

निदेशभाजां च विभो विभूतये ।

यथावतारास्तव सूकरादय-

स्तथायमप्यात्मपथोपलब्धये ॥ ५॥

 

यन्नामधेयश्रवणानुकीर्तना-

द्यत्प्रह्वणाद्यत्स्मरणादपि क्वचित् ।

श्वादोऽपि सद्यः सवनाय कल्पते

कुतः पुनस्ते भगवन् नु दर्शनात् ॥ ६॥

 

अहो बत श्वपचोऽतो गरीयान्

यज्जिह्वाग्रे वर्तते नाम तुभ्यम् ।

तेपुस्तपस्ते जुहुवुः सस्नुरार्या

ब्रह्मानूचुर्नाम गृणन्ति ये ते ॥ ७॥

 

तं त्वामहं ब्रह्म परं पुमांसं

प्रत्यक्स्रोतस्यात्मनि संविभाव्यम् ।

स्वतेजसा ध्वस्तगुणप्रवाहं

वन्दे विष्णुं कपिलं वेदगर्भम् ॥ ८॥

 

मैत्रेय उवाच

ईडितो भगवानेवं कपिलाख्यः परः पुमान् ।

वाचा विक्लवयेत्याह मातरं मातृवत्सलः ॥ ९॥

 

कपिल उवाच

मार्गेणानेन मातस्ते सुसेव्येनोदितेन मे ।

आस्थितेन परां काष्ठामचिरादवरोत्स्यसि ॥ १०॥

 

श्रद्धत्स्वैतन्मतं मह्यं जुष्टं यद्ब्रह्मवादिभिः ।

येन मामभवं याया मृत्युमृच्छन्त्यतद्विदः ॥ ११॥

 

मैत्रेय उवाच

इति प्रदर्श्य भगवान् सतीं तामात्मनो गतिम् ।

स्वमात्रा ब्रह्मवादिन्या कपिलोऽनुमतो ययौ ॥ १२॥

 

सा चापि तनयोक्तेन योगादेशेन योगयुक् ।

तस्मिन्नाश्रम आपीडे सरस्वत्याः समाहिता ॥ १३॥

 

अभीक्ष्णावगाहकपिशान् जटिलान् कुटिलालकान् ।

आत्मानं चोग्रतपसा बिभ्रती चीरिणं कृशम् ॥ १४॥

 

प्रजापतेः कर्दमस्य तपोयोगविजृम्भितम् ।

स्वगार्हस्थ्यमनौपम्यं प्रार्थ्यं वैमानिकैरपि ॥ १५॥

 

पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः ।

आसनानि च हैमानि सुस्पर्शास्तरणानि च ॥ १६॥

 

स्वच्छस्फटिककुड्येषु महामारकतेषु च ।

रत्नप्रदीपा आभान्ति ललनारत्नसंयुताः ॥ १७॥

 

गृहोद्यानं कुसुमितै रम्यं बह्वमरद्रुमैः ।

कूजद्विहङ्गमिथुनं गायन् मत्तमधुव्रतम् ॥ १८॥

 

यत्र प्रविष्टमात्मानं विबुधानुचरा जगुः ।

वाप्यामुत्पलगन्धिन्यां कर्दमेनोपलालितम् ॥ १९॥

 

हित्वा तदीप्सिततममप्याखण्डलयोषिताम् ।

किञ्चिच्चकार वदनं पुत्रविश्लेषणातुरा ॥ २०॥

 

वनं प्रव्रजिते पत्यावपत्यविरहातुरा ।

ज्ञाततत्त्वाप्यभून्नष्टे वत्से गौरिव वत्सला ॥ २१॥

 

तमेव ध्यायती देवमपत्यं कपिलं हरिम् ।

बभूवाचिरतो वत्स निःस्पृहा तादृशे गृहे ॥ २२॥

 

ध्यायती भगवद्रूपं यदाह ध्यानगोचरम् ।

सुतः प्रसन्नवदनं समस्तव्यस्तचिन्तया ॥ २३॥

 

भक्तिप्रवाहयोगेन वैराग्येण बलीयसा ।

युक्तानुष्ठानजातेन ज्ञानेन ब्रह्महेतुना ॥ २४॥

 

विशुद्धेन तदाऽऽत्मानमात्मना विश्वतोमुखम् ।

स्वानुभूत्या तिरोभूतमायागुणविशेषणम् ॥ २५॥

 

ब्रह्मण्यवस्थितमतिर्भगवत्यात्मसंश्रये ।

निवृत्तजीवापत्तित्वात्क्षीणक्लेशाप्तनिर्वृतिः ॥ २६॥

 

नित्यारूढसमाधित्वात्परावृत्तगुणभ्रमा ।

न सस्मार तदाऽऽत्मानं स्वप्ने दृष्टमिवोत्थितः ॥ २७॥

 

तद्देहः परतः पोषोऽप्यकृशश्चाध्यसम्भवात् ।

बभौ मलैरवच्छन्नः सधूम इव पावकः ॥ २८॥

 

स्वाङ्गं तपोयोगमयं मुक्तकेशं गताम्बरम् ।

दैवगुप्तं न बुबुधे वासुदेवप्रविष्टधीः ॥ २९॥

 

एवं सा कपिलोक्तेन मार्गेणाचिरतः परम् ।

आत्मानं ब्रह्मनिर्वाणं भगवन्तमवाप ह ॥ ३०॥

 

तद्वीरासीत्पुण्यतमं क्षेत्रं त्रैलोक्यविश्रुतम् ।

नाम्ना सिद्धपदं यत्र सा संसिद्धिमुपेयुषी ॥ ३१॥

 

तस्यास्तद्योगविधुतमार्त्यं मर्त्यमभूत्सरित् ।

स्रोतसां प्रवरा सौम्य सिद्धिदा सिद्धसेविता ॥ ३२॥

 

कपिलोऽपि महायोगी भगवान् पितुराश्रमात् ।

मातरं समनुज्ञाप्य प्रागुदीचीं दिशं ययौ ॥ ३३॥

 

सिद्धचारणगन्धर्वैर्मुनिभिश्चाप्सरोगणैः ।

स्तूयमानः समुद्रेण दत्तार्हणनिकेतनः ॥ ३४॥

 

आस्ते योगं समास्थाय साङ्ख्याचार्यैरभिष्टुतः ।

त्रयाणामपि लोकानामुपशान्त्यै समाहितः ॥ ३५॥

 

एतन्निगदितं तात यत्पृष्टोऽहं तवानघ ।

कपिलस्य च संवादो देवहूत्याश्च पावनः ॥ ३६॥

 

य इदमनुश‍ृणोति योऽभिधत्ते

कपिलमुनेर्मतमात्मयोगगुह्यम् ।

भगवति कृतधीः सुपर्णकेता-

वुपलभते भगवत्पदारविन्दम् ॥ ३७॥

 

इति श्रीमद्भागवते महापुराणे वैयासक्यामष्टादशसाहस्र्यां

पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने

त्रयस्त्रिंशत्तमोऽध्यायः ॥ ३३॥

 

॥ इति तृतीयस्कन्धः समाप्तः ॥

 

॥ ॐ तत्सत् ॥

 

 

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.